Adhikarana १ (१-२) · Śloka २
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
शुद्धशुक्रार्तवसम्भवत्वाद्गर्भस्य शुक्रशोणितशुद्ध्यनन्तरं गर्भावक्रमणं युज्यत इत्याह- अथेत्यादि| अत्र हि शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्मूर्च्छितं गर्भ इत्युच्यते, तस्यावक्रान्तिरुपगमनमवतरणमिति यावद् गर्भावक्रान्तिः, साऽस्मिन्नस्तीति पूर्ववच्छप्रत्ययलुकौ||१-२||
Adhikarana २ (३) · Śloka ३
सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण, परस्परोपकारात् (परस्परानुग्रहात्,) परस्परानुप्रवेशाच्च ||३||
Show commentary
गर्भस्य शुक्रार्तवमूलत्वाच्छुक्रार्तवयोः स्वरूपमाह- सौम्यमित्यादि| सौम्यं सोमगुणभूयिष्ठम्| आग्नेयमग्निगुणभूयिष्ठम्| ननु, सर्वं पाञ्चभौतिकं तत् कथं भूतद्वयेनारम्भ इत्याह- इतरेषामित्यादि| इतरेषां पृथिवीवाय्वाकाशानाम्, अणुना विशेषेण सूक्ष्मप्रकारेण, सान्निध्यमाश्रितत्वमस्ति| कुत इत्याह- परस्परोपकारादित्यादि| भूजलानलानिलाकाशानां धारणसंहननपरिणामव्यूहावकाशदानैः परस्परमुपकारस्तस्मात्; यथा- पार्थिवद्रव्ये पृथिव्याख्यं भूतं बलवदेकं शेषाणि सलिलादीनि चत्वारि दुर्बलान्याश्रयदानेनानुगृह्णाति, द्रव्यान्तरे तु सलिलादिभिरपि चतुर्भिर्बलवद्भिर्दुर्बलं पृथिवीभूतमनुगृह्यते, एवंविधात् परस्परानुग्रहाच्च| परस्परानुप्रवेशश्च ‘अन्योन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत्’ (शा.१) इत्यनेन प्रागेव प्रतिपादितस्तस्मात्||३||
Adhikarana ३ (४) · Śloka ४
तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति, ततस्तेजोनिलसन्निपाताच्छुक्रं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन, ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते ||४||
Show commentary
इदानीं शुक्रार्तवयोः स्वरूपमभिधाय गर्भावतरणक्रियामाह- तत्रेत्यादि| तत्रेति वाक्योपक्रमे| संयोगे विशिष्टस्पर्शेच्छासमारब्धप्रयोगे| तेजः स्त्रीपुरुषेन्द्रियद्वयसङ्घर्षज ऊष्मा; तं वायुरुदीरयति उत्कटं करोति| ततस्तदनन्तरं तेजोऽनिलसन्निपाताच्छुक्रं च्युतमिति सुरतलक्षणव्यायामजोष्मविद्रुतमनिलाच्च्युतमित्यर्थः| योनिमभिप्रतिपद्यत इति योनिमभितः सर्वतः प्रतिपद्यते, तेन योनेस्तृतीयावर्तावस्थितगर्भशय्यां प्रतिपद्यत इत्यर्थः| तत्र प्रागुक्तप्रकारविसर्पितेनार्तवेन च संसृज्यते| तस्य शुक्रार्तवस्य पञ्चात्मकस्य षष्ठचेतनाधातुसंयोगेनैव गर्भत्वमिति तत्संयोगं दर्शयन्नाह- तत इत्यादि| ततस्तस्मादग्नीषोमसंयोगात्| अन्वक्षं तत्क्षणमेव न क्षणान्तरे| क्षेत्रज्ञः पञ्चमहाभूतशरीरक्षेत्रवित् कर्मपुरुषः, गर्भाशयं गर्भशय्याम् , अनुप्रतिपद्यते प्राप्नोति| केन सह? भूतात्मना भौतिकशरीरेण सूक्ष्मेण लिङ्गशरीरेणेत्यर्थः| कीदृशः? संसृज्यमानः| कैः? सत्त्वरजस्तमोभिः प्राकृतैर्गुणैः| पुनः किंविशिष्टः? देवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणः, भावः सत्त्वं मन इत्यर्थः; तेन देवादीनां सप्तानां सप्तभिः सात्त्विकैर्भावैः, असुरादीनां षण्णां षड्भी राजसैर्भावैः, अपरैश्च पश्वादिजैस्त्रिभिस्तामसैर्भावैः| सत्त्वस्य च मनःपर्यायस्य प्रेरकत्वं तन्त्रान्तरे प्रतिपादितम्| तदुक्तं चरके- “अस्ति खलु सत्त्वमौपपादुकं यज्जीवस्पृक् शरीरेणाभिसम्बध्नाति” (च.शा.३) इति| ननु, कः क्षेत्रज्ञो य एवंविधः सन् गर्भाशयमनुप्रतिपद्यत इत्याह- यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते ‘महर्षिभिः’ इति शेषः| ‘यः कः’ इति सर्वनामपदद्वयं तस्य दुर्बोधत्वज्ञापनार्थम्| असाविति सर्वनामपदं तस्य सर्वगतत्वं सद्गुरूपदिष्टत्वं च ज्ञापयति| इत्येवमादिभिः कैर्नामभिरित्याह- वेदयितेत्यादि| वेदयिता मनसो ज्ञापयिता| इन्द्रियाणां च पञ्चानामयमेव ज्ञापक इति दर्शयन्नाह- स्प्रष्टेत्यादि| स्प्रष्टा स्पर्शनेन्द्रियस्य स्पर्शबोधहेतुत्वात्| एवं घ्रातेत्यादिष्वपि योज्यम्| अस्य कर्मपुरुषस्यानाधारां स्थितिं निराकुर्वन्नाह- पुरुष इति; पुरि भौतिके शरीरे वसतीति पुरुषः| तस्य सुकृतिफलभोक्तृत्वं दर्शयन्नाह- स्रष्टेत्यादि; स्रष्टा चेतनायोगेन, तस्यैव कर्तृत्वात्| तदुक्तं चरके,- “चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते” (च.शा.१)- इति| गन्ता संसरणशीलः| तथा साक्षी ज्ञत्वात्| धाता शरीरादिसंयोगधारणहेतुत्वात्| वक्ता वदत्ययमेव, एतेन कर्मेन्द्रियाणामपि वचनादानविहरणोत्सर्गानन्देष्वप्ययमेव हेतुः| यदि वेदयितेत्यादि स्वरूपोपेतः परमर्षिभिरभिधीयते तत् कथं क्लेशकारिणि गर्भाशये तिष्ठतीत्याशङ्क्याह- दैवसंयोगादिति; दैवस्य प्राक्तनजन्मकर्मणो धर्माधर्माभिधानस्य सम्बन्धात्| अक्षयोऽव्ययोऽचिन्त्योऽपि गर्भाशयमनुप्रविश्यावतिष्ठते गर्भाशये कर्मवशाद्गर्भभावेनावस्थितिं करोति||४||
Adhikarana ४ (५) · Śloka ५
तत्र शुक्रबाहुल्यात् पुमान्, आर्तवबाहुल्यात् स्त्री, साम्यादुभयोर्नपुंसकमिति ||५||
Show commentary
कथमविशिष्टकारणाद्विशिष्टकार्योत्पाद इत्याह- तत्रेत्यादि| ननु, ‘शुक्रबाहुल्यात् पुमान्’ इति कस्मादुक्तं? यत आर्तवस्यैव बाहुल्यम्; उक्तं हि- ‘आर्तवं हि चतुरञ्जलिप्रमाणं, शुक्रं तु प्रसृतिमात्रम्’- इति, नैवं, यावन्मात्रमार्तवं गर्भाशयावस्थितं मलरहितं गर्भजननं तावदेव ग्राह्यम्; अथवा स्वप्रमाणापेक्षया शुक्रशोणितयोर्बाहुल्यमल्पत्वं चाभिप्रेतम्| शुक्रं तु कदाचिदत्यन्तहर्षवशाद्बहु स्रवति कदाचिद्वैमनस्यादल्पमिति| अन्ये त्वाचार्या एवं ब्रुवन्ति- शुक्रार्तवयोर्न्यूनाधिकसमत्वं वीर्येण भवति| यद्येवं तर्हि प्रागुक्तं पुत्रीयकरणं निरर्थकं? नैतदस्ति, किन्तु श्रेयसा कर्मणा विना नैव रूपादिसङ्गमिनो भवन्ति पुत्राः; उक्तं हि,- “एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः| भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः” (शा.२) इति; तस्मात् पुत्रीयकरणं सार्थकमेव||५||
Adhikarana ५ (६) · Śloka ६
ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः; अदृष्टार्तवाऽप्यस्तीत्येके भाषन्ते ||६||
Show commentary
स्त्रीपुंसयोः संयोगो यस्मिन् कालेऽपत्यफलप्रदो भवति तं कालविशेषमाह- ऋतुरित्यादि| दृष्टमार्तवं यस्मिन् काले स दृष्टार्तवः कालः ऋतुः, स च द्वादशरात्रं भवति| द्वादशरात्रमिति षोडशदिनेषु मध्ये आद्यं दिनत्रयमन्तिमं च षोडशं योनिसङ्कोचदिनं न गणनीयम्| एकीयमतमाह- अदृष्टेत्यादि||६||
Adhikarana ६ (७-८) · Śloka ८
भवन्ति चात्र- पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् |
नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम् ||७||
स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचाम् |
हर्षौत्सुक्यपरां चापि विद्यादृतुमतीमिति ||८||
Show commentary
अदृष्टार्तवाया ऋतुमत्या लक्षणमाह- पीनेत्यादि| प्रक्लिन्ना प्रकर्षेण आर्द्रतामापन्ना आत्मादयो यस्याः; आत्मा देहः; देहत्वेऽप्यत्यन्तक्लेदज्ञापनाय मुखस्य पुनरुक्तिः; द्विजशब्देन द्विजसमीपवर्तिनो दन्तवेष्टका अभिप्रेताः, द्विजानां प्रक्लेदासम्भवात्| हर्षौत्सुक्यं रतौ सातिशयोऽभिलाषः||७-८||
Adhikarana ७ (९) · Śloka ९
नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा |
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ||९||
Show commentary
योनिसङ्कोचेन बीजस्य गर्भाशयाप्राप्तिं दर्शयन्नाह- नियतमित्यादि| योनिर्गर्भाशयः, संव्रियते सङ्कोचं याति| अत एव बीजं न प्रतीच्छति ||९||
Adhikarana ८ (१०) · Śloka १०
मासेनोपचितं काले धमनीभ्यां तदार्तवम् |
ईषत्कृष्णं विवर्णं च वायुर्योनिमुखं नयेत् ||१०||
Show commentary
मासेनेत्यादि| काले द्वादशवर्षादौ षष्टेश्चार्वाक्, अन्ये पञ्चाशद्वर्षाणि यावत्||१०||
Adhikarana ९ (११) · Śloka ११
तद्वर्षाद्द्वादशात् काले वर्तमानमसृक् पुनः |
जरापक्वशरीराणां याति पञ्चाशतः क्षयम् ||११||
Show commentary
तमेव कालं निर्दिशन्नाह- तदित्यादि| तदार्तवं द्वादशवर्षादूर्ध्वं वर्धमानशरीरधातूनां योषितां काले मासि मासि प्रवर्तमानं, तासामेव पञ्चाशत ऊर्ध्वं जरापचीयमानशरीरधातूनां क्षयं याति, ‘शनैः’ इति शेषः||११||
Adhikarana १० (१२) · Śloka १२
युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला |
पुष्पकाले शुचिस्तस्मादपत्यार्थो स्त्रियं व्रजेत् ||१२||
Show commentary
तस्मिन्नृतुकालेऽपि समविषमदिवसयोः पुंस्त्रियोर्जन्म दर्शयन्नाह- युग्मेष्वित्यादि| युग्मेष्विति समेषु दिवसेषु| अन्यथेति विषमेषु दिवसेषु| शुचिः कायशुचिः| ननु, प्रागुक्तं शुक्रबाहुल्यात् पुमानार्तवबाहुल्यात् स्त्रीति किमयं विकल्प उत समुच्चय इति? समुच्चयोऽयं, तदुक्तं विदेह- “युग्मेषु तु दिनेष्वासां भवत्यल्पतरं रजः| संयोगं तत्र या गच्छेत् सा पुमांसं प्रसूयते|| अयुग्मेषु दिनेष्वासां भवेद्बहुतरं रजः| संयोगं तत्र या गच्छेत् सा तु कन्यां प्रसूयते”- इति| तथा भोजेऽपि- “अयुग्मे स्त्री पुमान् युग्मे सन्ध्ययोस्तु नपुंसकम्| शुक्राधिकत्वात् पुरुषः प्रमदा रजसोऽधिकात्|| शुक्रशोणितयोः साम्यात्तृतीया प्रकृतिर्भवेत्”- इति||१२||
Adhikarana ११ (१३) · Śloka १३
तत्र सद्योगृहीतगर्भाया लिङ्गानि- श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः ||१३||
Show commentary
परिहार्यपरिहारार्थं सद्योगृहीतगर्भलक्षणं निर्दिशन्नाह- तत्र सद्योगृहीतेत्यादि| श्रमः खेदः| ग्लानिः क्लमः| सक्थिसदनमूरुग्लानिः| अवबन्धोऽप्रवृत्तिः| स्फुरणं कम्पनम्||१३||
Adhikarana १२ (१४-१५) · Śloka १५
स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा |
अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः ||१४||
अकामतश्छर्दयति गन्धादुद्विजते शुभात् |
प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते ||१५||
Show commentary
उत्तरकालीनं गृहीतगर्भाया लक्षणमाह- स्तनयोरित्यादि| प्रसेकः थूत्करणम्||१४-१५||
Adhikarana १३ (१६-१७) · Śloka १७
तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रिजागरणं शोकं यानारोहणं भयमुत्कुटुकासनं चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत ||१६||
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते |
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ||१७||
Show commentary
तदेत्यादि| अकालशब्द एतज्ज्ञापयति- कालेऽष्टमे मासि गर्भिण्या अपि स्नेहादिक्रियान्तर्गते आस्थापनानुवासने देये||१६-१७||
Adhikarana १४ (१८) · Śloka १८
तत्र प्रथमे मासि कललं जायते; द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते, यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति; तृतीये हस्तपादशिरसां पञ्चपिण्डका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति; चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात् |
तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति, द्विहृदयां च नारीं दौहृदिनीमाचक्षते |
दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्, लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ||१८||
Show commentary
तत्रेत्यादि| कललं सिङ्घाणप्रख्यम्| द्वितीय इत्यादि| शीतः श्लेष्मा, ऊष्मा पित्तं, कफानिलयोरप्युष्मसम्भवात् परिणामहेतुत्वम्| तदुक्तं चरके,- “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः” (च.चि.१५)- इति| घनः कठिनः| यदीत्यादि| पिण्डो वर्तुलाकृतिः, पेशी दीर्घाकृतिः, अर्बुदं वर्तुलफलार्धमिति| गयी तु भोजदर्शनात् पिण्डादीनामन्यथाऽऽकारं पठति| यथा- “चतुरस्रा भवेत् पेशी, वृत्तः पिण्डो घनः स्मृतः| शाल्मलीमुकुलाकारमर्बुदं परिचक्षते”- इति| तृतीये इत्यादि| शाखाश्चतस्रो मूर्धोरःपृष्ठोदराण्यङ्गानि चिबुकनासौष्ठश्रवणाङ्गुलिपार्ष्णिप्रभृतीनि प्रत्यङ्गानि| चतुर्थे इत्यादि| तत्स्थानत्वात् हृदयस्थानत्वात्| इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः| द्विहृदयामिति द्वितीयं हृदयं यस्याः सा द्विहृदया, ताम्| दौहृदेत्यादि| कुणिं विकृतहस्तम्| तत्र कुब्जादिष्ववयवसमुदायेन्द्रियाधिष्ठानजो दोषो दौहृदविमाननजनितो यथाशास्त्रमूह्यः||१८||
Adhikarana १५ (१९-२१) · Śloka २१
भवन्ति चात्र- इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ||१९||
सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम् |
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ||२०||
येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना |
प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ||२१||
Show commentary
गद्योक्तमेवार्थं पद्यैराह- भवन्तीत्यादि| भोक्तुमित्यस्योपलक्षणत्वाद्द्रष्टुं श्रोतुमित्यादिकमपि बोद्धव्यम्| सा प्राप्तेत्यादि| अलब्धदौर्हृदा अप्राप्ताभिलषितपदार्था, गर्भे गर्भविषये, भयं लभेत; आत्मनि वा आत्मविषये वा भयं लभेत प्राप्नुयात्| येष्वित्यादि येषु येष्विन्द्रियार्थेषु शब्दादिषु, दौर्हृदे श्रद्धायां, विमानना खण्डितत्वं, तस्मिंस्तस्मिंस्तदिन्द्रिये तस्य तस्येन्द्रियार्थस्य ग्राहके इन्द्रिये, सुतस्यार्तिः पीडा प्रजायते||१९-२१||
Adhikarana १६ (२२-२८) · Śloka २८
राजसन्दर्शने यस्या दौर्हृदं जायते स्त्रियाः |
अर्थवन्तं महाभागं कुमारं सा प्रसूयते ||२२||
दुकूलपट्टकौशेयभूषणादिषु दौहृदात् |
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ||२३||
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते |
देवताप्रतिमायां तु प्रसूते पार्षदोपमम् |
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ||२४||
गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम् |
गवां मांसे तु बलिनं सर्वक्लेशसहं तथा ||२५||
माहिषे दौर्हृदाच्छूरं रक्ताक्षं लोमसंयुतम् |
वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ||२६||
मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् |
सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात् ||२७||
अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम् |
शरीराचारशीलैः सा समानं जनयिष्यति ||२८||
Show commentary
इदानीं दौर्हृदविशेषैर्गुणविशेषाक्रान्तानामपत्यानामुत्पत्तिं सूचयन्नाह- राजसन्दर्शने इत्यादि| महाभागं महापुण्यवन्तम्| दुकूलेत्यादि| दुकूलपट्टः पट्टवस्त्रं, कौशेयं त्रसरतन्तुजातम् | भूषणानि मुक्ताहारप्रभृतीनि| ललितं शृङ्गारचेष्टायुक्तम्| ‘दुकूले पट्टकौशेये भूषणादिषु’ इति केचित् पठन्ति; तत्र दुकूलं सूक्ष्मं वस्त्रं, पट्टं पट्टवस्त्रम्| आश्रमे इत्यादि| यस्या आश्रमे तपस्विनामधिष्ठाने श्रद्धा भवेत् सा एवम्भूतं जनयेदिति पिण्डार्थः| संयतात्मानं संयतेन्द्रियम्| देवताप्रतिमायामित्यादि| पार्षदोपममिति पार्षदेषु सभापुरुषेषूपमा यस्य स तथा तम्| दर्शने इत्यादि| व्याला व्याघ्रादयो हिंस्राः पशवः| गोधेत्यादि| सुषुप्सुं स्वप्तुमिच्छुम्| धारणात्मकं हृदयगृहीतवस्तूनाममोचकम्| वराहमांसादिति ‘अभिलषितात्’ इति शेषः| मार्गादित्यादि मार्गात् मृगमांसात्| विक्रान्तमुद्योगिनं, जङ्घालं वेगवन्तम्| सृमरादित्यादि सृमरो महाशूकरः, अन्ये महाश्वाकारश्चमरानूकः| ‘नित्यभीतं च तैत्तिरात्’ इत्यत्र ‘नित्यं शीलं च तैत्तिरात्’ इत्यपरे, शीलं शीलवन्तम्| अनुक्तदौर्हृदसङ्ग्रहार्थं श्लोकमाह- अतोऽनुक्तेष्वित्यादि| यादृशेषु दौर्हृदं श्रद्धां समभिध्याति चेतसि करोति, तेन समानमित्यर्थः||२२-२८||
Adhikarana १७ (२९) · Śloka २९
कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत् |
यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि ||२९||
Show commentary
कर्मणेत्यादि| दैवयोगाद्दौर्हृदं हृदि तथा जनयेत्, यथा पुनर्जन्तोः कर्मणा चोदितं प्रेरितं भवितव्यं भवेत्||२९||
Adhikarana १८ (३०) · Śloka ३०
पञ्चमे मनः प्रतिबुद्धतरं भवति, षष्ठे बुद्धिः, सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः; अष्टमेऽस्थिरीभवत्योजः , तत्र जातश्चेन्न जीवेन्निरोजस्त्वान्नैरृतभागत्वाच्च , ततो बलिं मांसौदनमस्मै दापयेत्; नवमदशमैकादशद्वादशानामन्यतमस्मिञ्जायते, अतोऽन्यथा विकारी भवति ||३०||
Show commentary
पञ्चमे इत्यादि| प्रतिबुद्धतरं जागर्तीत्यर्थः| अष्टमे इत्यादि| ओजोऽशेषधातुधाम हृदि स्थितम्| नैऋतभागत्वात् रक्षसामंशत्वात्, “नैऋताय भागश्च बालेषु रुद्रेण दत्त” इति कुमारतन्त्रे प्रतिपादितम्| ततस्तस्मात् कारणादष्टमे मास्यस्मै नैऋताय बलिं दापयेत्||३०||
Adhikarana १९ (३१-३२) · Śloka ३२
मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडीप्रतिबद्धा, साऽस्य मातुराहाररसवीर्यमभिवहति |
तेनोपस्नेहेनास्याभिवृद्धिर्भवति |
असञ्जाताङ्गप्रत्यङ्गप्रविभागमानिषेकात् प्रभृति सर्वशरीरावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति ||३१||
गर्भस्य खलु सम्भवतः पूर्वं शिरः सम्भवतीत्याह शौनकः, शिरोमूलत्वात् प्रधानेन्द्रियाणां ; हृदयमिति कृतवीर्यो, बुद्धेर्मनसश्च स्थानत्वात्; नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः; पाणिपादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टाया गर्भस्य; मध्यशरीरमिति सुभूतिर्गौतमः, तन्निबद्धत्वात् सर्वगात्रसम्भवस्य |
तत्तु न सम्यक्, सर्वाण्यङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिः, गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च; तद्यथा- चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात्; तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति; एतेनैव वंशाङ्कुरोऽपि व्याख्यातः |
एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्यादनुपलब्धिः, तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ||३२||
Show commentary
निराहारस्यापि गर्भस्य वर्तने हेतुं निर्दिशन्नाह- मातुरित्यादि| मातुर्गर्भिण्या रसवहायां नाड्यां गर्भनाभिनाडी या प्रतिबद्धा साऽस्य गर्भस्य मातृभुक्तमाहाररसवीर्यमभिवहति प्रापयतीत्यर्थः| नन्वङ्गप्रत्यङ्गप्रव्यक्तीभावे गर्भनाभिनाडी मातुराहाररसवीर्यमभिवहति, अङ्गप्रत्यङ्गप्रव्यक्तीभावात्तु पूर्वं कथं गर्भपुष्टिः स्यादित्याह- असञ्जाताङ्गप्रत्यङ्गविभागमित्यादि| आनिषेकात् प्रभृतीति आ समन्ततो भावेन निषेचनमानिषेको योनौ शुक्रस्य निषेचनं, तत्प्रभृति गर्भाधानं मर्यादीकृत्येत्यर्थः; धमनीनामुपस्नेहो जीवयति; यथा- पूर्णसरःसलिलोपस्नेहस्तीरजाततरुकदम्बकं जीवयति तद्वत् प्राणधारणं करोति| तथाच भोजः- “गर्भो रुणद्धि स्रोतांसि रसरक्तवहानि वै| रक्ताज्जरायुर्भवति नाडी चैव रसात्मिका|| सा नाडी गर्भमाप्नोति तया गर्भस्य वर्तनम्| यद्यदश्नाति माताऽस्य भोजनं हि चतुर्विधम्|| तस्मादन्नाद्रसीभूतं वीर्यं त्रेधा प्रवर्तते| भागः शरीरं पुष्णाति स्तन्यं भागेन वर्धते|| गर्भः पुष्यति भागेन वर्धते च यथाक्रमम्| गर्भं कुल्येव केदारं नाडी प्रीणाति तर्पिता-” इति||३१-३२||
Adhikarana २० (३३) · Śloka ३३
तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः |
गर्भस्य केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि, मांसशोणितमेदोमज्जहृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि, शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि, इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि, सत्त्वजान्युत्तरत्र वक्ष्यामः, वीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि ||३३||
Show commentary
तत्रेत्यादि| लक्ष्यन्ते इति लक्षणानि, कर्मणि ल्युट्प्रत्ययः, तेन लक्षणीयानि ज्ञातव्यानीत्यर्थः| तान्येव ज्ञातव्यानि पितृप्रभृतिभ्यः कारणेभ्यः प्रत्येकं निर्दिशन्नाह- गर्भस्येत्यादि| आत्मजानीति आत्मसन्निधानजातानि , न त्वात्मनो जातानि, आत्मनो निर्विकारस्य विकारजनकत्वाभावात् प्रकृतिभावानुपपत्तेः; स्वाभाविकप्रकृतिभावे च मोक्षानुपपत्तिः, तस्य हि तत्स्वभावत्वे भावस्यापरित्याज्यत्वादिति| आदिशब्दान्नानायोनिजन्मादिकं च| सत्त्वेत्यादि| उत्तरत्र गर्भव्याकरणे||३३||
Adhikarana २१ (३४) · Śloka ३४
तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणकुक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्च पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः पार्श्वद्वयमवनतं पुरस्तान्निर्गतमुदरं प्रागभिहितं च लक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ||३४||
Show commentary
गर्भस्याप्रत्यक्षस्यापि स्तन्यदर्शनादिलक्षणेन स्त्रीपुन्नपुंसकलक्षणानि निर्दिशन्नाह- तत्रेत्यादि| प्रसन्नमुखवर्णा चेत्यत्र चकारादूर्ध्वरोमराजित्वादीनि ग्राह्याणि| प्रागभिहितं च लक्षणमिति स्त्रीलक्षणं पुरुषलक्षणं च प्रतिपादितं तद्द्वयमपि च भवति| यस्या इत्यादि| द्रोणीभूतं द्रोणीसदृशं, द्रोणी जलक्षेपणी| अन्यत्राप्युक्तं- “रोमराजी भवेन्निम्ना यस्याः सा सूयते यमौ”- इति||३४||
Adhikarana २२ (३५) · Śloka ३५
भवन्ति चात्र- देवताब्राह्मणपराः शौचाचारहिते रताः |
महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ||३५||
Show commentary
कायवाक्चित्तगुणवद्गर्भप्रसवज्ञानं दर्शयन्नाह- देवतेत्यादि||३५||
Adhikarana २३ (३६) · Śloka ३६
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते |
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः |
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ||३६||
Show commentary
‘स्वभावमीश्वरं’ (शा.१) इत्यादिश्लोकेन या स्वभावादङ्गप्रत्यङ्गनिर्वृत्तिः सूचिता तां प्रतिपाद्य तन्निर्वृत्तौ प्राक्तनश्लोकाभिहितगुणागुणोपपत्तिं धर्माधर्महेतुतया निर्दिशन्नाह- अङ्गप्रत्यङ्गेत्यादि||३६||
Adhikarana पुष्पिका · Śloka ३
इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ||३||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने तृतीयोऽध्यायः||३||