Adhikarana १ (१-२) · Śloka २
अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Show commentary
अथेत्यादि| कवलशब्देनात्र चिकित्सितसादृश्याद्गण्डूषप्रतिसारणे उपलक्ष्येते||१-२||
Adhikarana १ (१-२) · Śloka २
अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि| कवलशब्देनात्र चिकित्सितसादृश्याद्गण्डूषप्रतिसारणे उपलक्ष्येते||१-२||
Adhikarana २ (३) · Śloka ३
धूमः पञ्चविधो भवति; तद्यथा- प्रायोगिकः, स्नैहिको, वैरेचनिकः, कासघ्नो, वामनीयश्चेति ||३||
🔊 Audio coming soon
तेष्वाद्यस्य धूमस्य विषयभेदप्रतिपादनाय पाञ्चविध्यामाह- धूम इत्यादि| कासघ्नवामनीययोरत्रैवान्तर्भावात्त्रिविध इत्यन्ये| तत्र प्रयोगः स्वस्थस्य सततोपयोगस्तत्र साधुः प्रायोगिकः; स च श्लेष्माणमुत्क्लेशयति, उत्क्लिष्टं चापकर्षति, शमयति वातं, स्नेहनविरेचनाभ्यां तुल्यत्वात्| कासहरत्वात् कासघ्नः; स पुनरुरःकण्ठरोगहरोऽप्यावस्थिक एव| अभिष्यण्णशिरसि शिरो विरेचयतीति विरेचनः, विरेचन एव वैरेचनः; वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षयति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च| रूक्षस्य स्नेहाय प्रभवतीति स्नैहिकः; स च वातं शमयति, स्नेहनादुपलेपनाच्च| वामयतीति वामनीयः, स पुनरुत्कृष्टकफाभिपन्नकण्ठोरसः||३||
Adhikarana ३ (४) · Śloka ४
तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके , स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रैः स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने, बृहतीकण्टकारिकात्रिकटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने, स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ||४||
🔊 Audio coming soon
तस्य पञ्चविधस्यापि दहनबाह्याश्रयधूमवर्तिसाधनद्रव्याणि निर्दिशन्नाह- तत्रैलादिनेत्यादि| एलादिवर्गे कुष्ठतगरौ वर्ज्यौ| तथा च निमिः- “धूमो हि वक्रकुष्ठाभ्यां विलालयति शक्तितः| मस्तिष्कं तद्धि विष्यण्णं नाशाय प्रतिपद्यते”- इति| तस्मात् कुष्ठतगरवर्जितेनैलादिना लेपयेत्| शरकाण्डः शरेषिका| अङ्गुलिपरिणाहं कनिष्ठिकाङ्गुलिसमस्थौल्यं; अन्तयोद्र्व्यङ्गुलं विहाय वर्तिः| शरकाण्डस्य सुखापकर्षणार्थं क्षौमेणाष्टाङ्गुलवेष्टनम्| यदेतदष्टाङ्गुलं वर्तिप्रमाणमुक्तं प्रायोगिके तदष्टचत्वारिंशदङ्गुले नेत्रे ज्ञातव्यं, सर्वधूमनेत्रेभ्यः षड्भागप्रमाणा वर्तिः कार्येति तन्त्रान्तरप्रतिपादनात्| तथा च विदेहः- “अङ्गुष्ठपरिणाहेन मध्ये स्थूलाऽन्तयोस्तनुः| धूमनेत्रस्य षड्भागं वर्तिमानं प्रचक्षते”- इति (शरकाण्डस्य मानं बोध्यम्)| स्नेहफलसारमधूच्छिष्टेत्यादि| स्नेहफलानां तिलादिशिग्रुबिभीतकादिफलानां, सारः तदन्तर्गतो मज्जा| तथा नेत्रचतुर्भागेन शरेषिका ग्राह्या, एवं स्नैहिकादिषु चतुर्ष्वपि धूमेषु यथास्वं नेत्रमानात् षष्ठभागेन वर्तिप्रमाणमुक्तं भवति| प्रभृतिग्रहणेन द्राक्षासल्लकीखपुरादिकम्| शिरोविरेचनद्रव्याणि विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुपिप्पलीसिद्धार्थकसुरसार्जकप्रभृतीनि| कासहरैश्चेति कासहराणि गुणोपवर्णने शास्त्रे तत्प्रतिषेधे च प्रोक्तानि| स्नायुचर्मेत्यादि| वामनीयद्रव्याणि मदनफलादीनि संशोधनसंशमनीयोक्तानि||४||
Adhikarana ४ (५) · Śloka ५
तत्र बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति | धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके, द्वात्रिंशत् स्नेहने, चतुर्विंशतिर्वैरेचने, षोडशाङ्गुलं कासघ्ने वामनीये च | एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः | व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ||५||
🔊 Audio coming soon
अत्रैव धूमनेत्रद्रव्याणि सङ्क्षेपार्थमतिदेशेनातिदिशन्नाह- तत्र बस्तिनेत्रद्रव्यैरित्यादि| बस्तिनेत्रद्रव्यैः सुवर्णरूप्यत्रपुसीसताम्रकांस्यादिभिः| अत ऊर्ध्वं नेत्रस्य दीर्घत्वच्छिद्राणां प्रमाणमाह- धूमनेत्रमित्यादि| कनिष्ठिकापरिणाहमिति कनिष्ठिकासमस्थूलम्| अग्रे मुखनासिकाप्रणयनस्थाने, मूले वर्तिसंवरणस्थाने, अङ्गुष्ठपरिणाहम् अङ्गुष्ठसमस्थूलम्| धूमवर्तिप्रवेशस्रोत इति यावता स्रोतसा धूमवर्तिप्रवेशो भवति तावन्मात्रस्रोतस्कम्| मूलच्छिद्रमानं चतुर्ष्वपि प्रतिपाद्य पृथग्दैर्ध्यमानमाह- अङ्गुलान्यष्टचत्वारिंशदित्यादि| दशाङ्गुलं वा वामनीयमिति केचित् पठन्ति, तच्च गयदासेन विदेहमतानुसारिणाऽसम्यगिति प्रतिपादितम्| ऋजुत्रिकोषाफलितपर्वत्रयविरचितत्वं नेत्रस्य तन्त्रान्तरादवगन्तव्यम्| व्रणनेत्रमष्टाङ्गुलमित्यादि| कलायपरिमण्डलं गुटिकामुखम्||५||
Adhikarana ५ (६-९) · Śloka ९
अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तदीप्ताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ||६|| मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत् | मुखपीतं मुखेनैव वमेत् पीतं च नासया ||७|| मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् | तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ||८|| विशेषतस्तु प्रायोगिकं घ्राणेनाददीत, स्नैहिकं मुखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ ||९||
🔊 Audio coming soon
अथानन्तरं धूमपानविधानमाह- अथ सुखोपविष्ट इत्यादि| सुखोपविष्ट ऋज्वधोदृष्टिरिति कायनियमः| सुमना इति क्रोधाद्यपगमान्मनोनियमः| अतन्द्रितः अनलसः| स्नेहाक्तदीप्ताग्रामिति पूर्वं स्नेहाक्तां पश्चाद्दीप्ताग्राम्| मुखेनेत्यादि उभयमार्गपानार्हो मुखेन पूर्वं पिबेत् पश्चान्नासिकयेति| तदुभयपीतं पञ्चप्रकारमप्युरःप्राप्तं मुखेन वमनीयं न कथमपि नासिकयेति दर्शयन्नाह- मुखपीतमित्यादि| मुखेन पीतं मुखेनैव वमेत्, नासिकयाऽपि पीतं मुखेनैव वमेत्| प्रतिलोमेन व्यापदमाह- प्रतिलोमेनेत्यादि| तथा च चक्षुष्येणः- “निर्वमेत्तु मुखेनैव नासया न कथञ्चन| विलोमतो गतो धूमः कुर्याद्दर्शनविभ्रमम्”- इति| विशेषतस्तु प्रायोगिकमित्यादि| शिरोगतधमनीनां लक्षणविशेषमाश्रित्य प्रायोगिकं घ्राणेनाददीत, सामान्यतः पुनरुरःशिरोरोगसम्भवानामुभयमार्गेणापि, तन्त्रान्तरदर्शनात्; तथाच विदेहः- “प्रयोगपाने पूर्वं वा नासया धूममाचरेत्”- इति| पूर्वं वा नासया धूममाचरेदित्यनेन क्वचिन्मुखेनापि प्राक् पेय इत्यवगम्यते| उभयमार्गपानहेतुश्चक्षुष्येणदर्शितो यथा- “उरःकण्ठादिरोगेषु मुखेनैव पिबेन्नरः| शिरःकर्णाक्षिनासास्थे नासातो धूममाचरेत्”- इति| स्नैहिकं मुखनासाभ्यामिति कण्ठोरःसमाश्रिते वाते मुखेन, शिरःसमाश्रिते वाते नासया, उभयमार्गेण पानार्हो मुखेन पूर्वं पिबेत्पश्चान्नासिकयेति| वैरेचनिकमिति उत्क्लिष्टकफाभिव्याप्तकण्ठोरसो नासया, अनुत्क्लिष्टकफः पुनर्वैरेचनिकमपि प्राग्वक्त्रेण; तथा च वाग्भटः- “प्राक् पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते| उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठगे”-| मुखेनैवेति इतरौ कासघ्नवामनीयौ मुखेनैव पेयौ, कासस्य वामनीयस्य च रोगस्योरःकण्ठगत्वात्||६-९||
Adhikarana ६ (१०) · Śloka १०
तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्; एवं स्नेहनं वैरेचनिकं च कुर्यादिति | इतरयोर्व्यपेतधूमाङ्गारे स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छिद्रेणान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवेत, प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः; एष धूमपानोपायविधिः ||१०||
🔊 Audio coming soon
तत्र प्रायोगिके वर्तिमित्यादि| स्थिरे अचले| समाहिते शोभनकारितया स्थापिते| मूलच्छिद्रेणोति मूले छिद्रं यस्य तेन मूलच्छिद्रेणान्येन शरावेण| वर्तिं धूमवर्तिं चूर्णं वा||१०||
Adhikarana ७ (११) · Śloka ११
तत्र शोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्दिशिरोऽभिघातोद्गारापतर्पित- तिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्क- मधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ||११||
🔊 Audio coming soon
इदानीं धूमानर्होपदेशः- तत्र शोकश्रमभयेत्यादि| तत्र शोकादिभिरूर्ध्ववातान्तैः सहार्तशब्दः प्रत्येकमभिसम्बध्यते||११||
Adhikarana ८ (१२) · Śloka १२
अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम् | घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् ||१२||
🔊 Audio coming soon
अकालपीतस्य व्यापदुद्भवं दर्शयन्नाह- अकालपीत इत्यादि||१२||
Adhikarana ९ (१३) · Śloka १३
आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः | तद्यथा- क्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्तेष्विति | तत्र विभागो- मूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः, स्नानच्छर्दनदिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति ||१३||
🔊 Audio coming soon
कः पुनर्धूमस्य पानकाल इत्याह- आद्यस्तु त्रयो धूमा इत्यादि| रुषितं क्रोधः||१३||
Adhikarana १० (१४) · Śloka १४
तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च; वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च; प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात् पूर्वाभ्यामिति ||१४||
🔊 Audio coming soon
तेषां प्रत्येकं कार्यमाह- तत्र स्नैहिको वातमित्यादि| कुतः पुनरयं कफोत्क्लेशापकर्षणवातशमनानि करोतीत्याह- साधारणत्वादिति; साधारणत्वात् पूर्वाभ्यां स्नेहनविरेचनाभ्यां तुल्यत्वादित्यर्थः||१४||
Adhikarana ११ (१५-१६) · Śloka १६
भवति चात्र- नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः | दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ||१५|| तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथुक्रथतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति ||१६||
🔊 Audio coming soon
धूमोपयोगफलमाह- भवति चात्रेत्यादि| क्रथः अकस्मादुच्छ्वासावरोधः||१५-१६||
Adhikarana १२ (१७) · Śloka १७
तस्य योगायोगातियोगा विज्ञातव्याः | तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो जनयति ||१७||
🔊 Audio coming soon
तत्रेत्यादि| दृष्टिनासयो रोगदौर्बल्याभ्यां सम्बन्धः| अतियोगो जनयतीत्यस्याग्रे ‘तत्र सर्पिःपाननावनाञ्जनतर्पणानि विदध्यात्’ इति केचित् पठन्ति||१७||
Adhikarana १३ (१८) · Śloka १८
प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति, स्नैहिकं यावदश्रुपवृत्तिः, वैरेचनिकमादोषदर्शनात्, तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रासान्तरेषु कासघ्न इति ||१८||
🔊 Audio coming soon
प्रायोगिकादीनां पानमर्यादामाह- प्रायोगिकमित्यादि| मुखनासिकाभ्यामिति दोषस्थानमवेक्ष्योचितमार्गेणाददीत| त्रींस्त्रीनुच्छ्वासान् कतिसङ्ख्याकानाददीतेत्याह- पर्यायांस्त्रींश्चतुरो वेति|- पर्यायः परिपाटी, उच्छ्वासत्रयेणैकः पर्यायः, तान् पर्यायान् त्रींश्चतुरो वा दोषपुरुषबलमवेक्ष्य; एतदुक्तं भवति- त्रिभिःआदानविसर्गैस्त्रीन् वारांश्चतुरो वा धूमः पातव्यः| वाशब्दोऽत्र व्यवस्थायाम्| तेन तन्त्रान्तरव्यवस्थितोऽर्थोऽत्रज्ञातव्यः| तथाच धूमपानमात्राविधाने निमिः- “धूमपाने तु विज्ञेय उच्छ्वासस्त्रिगुणः कलाः| तिस्रः कलाश्चात्र मात्रा प्रमाणं स्यात्त्रिमात्रिकम्||पिबेत् स्वस्थविधौ मात्रां दुर्बलस्तु कलां पिबेत्| अभिष्यण्णे प्रमाणं स्यात् प्रमाणं च पिबेद्रुजि”- इति| स्नैहिकमित्यादि| यावदश्रुप्रवृत्तिरिति बलवति पुरुषे, दुर्बले च प्रायोगिकवत्| तथाच भोजः- “प्रमाणं स्नेहिके धूमे कृशो मात्रां पिबेन्नरः| बलवांस्तु पिबेत्तावद्यावदश्रुर्न गच्छति”- इति| वैरेचनिकमादोषदर्शनादिति दोषस्य कफाख्यस्य विकृतस्य दर्शनं यावत्| अत एव तन्त्रान्तरे शोधनस्यैकस्मिन् दिने त्रिश्चतुर्वा पानं प्रतिपादितम्| तथा च तन्त्रान्तरं- “सकृत् पिबेत् स्नेहनीयं प्रयोगे सकृदेव च| द्विर्वा विरेचनीयं तु त्रिश्चतुर्वा पिबेन्नरः”- इति| विशिष्टधूमपाने पूर्वं करणीयमाह- तिलतण्डुलेत्यादि| वमनकाल एवाकण्ठं तिलादियवागूपीतेन वामनीयो धूमः पातव्यो यावत् ‘पित्ते कफस्यानु सुखं प्रवृत्ते’ इत्यादिवाक्योक्तं सम्यग्वान्तलक्षणमिति| ग्रासान्तरेष्विति कवलयोः कवलानां वाऽन्तरे, अन्तरं मध्यमित्यर्थः| ‘ग्रासान्ते’ इत्यन्ये पठन्ति, तथा ‘भोजनस्योत्तरे’ इत्यपरे पठन्ति| कासघ्नश्च वैरेचनिकवत् त्रिश्चतुर्वा यावद्विकृतकफहरणम्| तथा च चरकः- “मुखेन वैरेचनवत् कासवान् धूममापिबेत्”||१८||
Adhikarana १४ (१९-२०) · Śloka २०
व्रणधूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत्, धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति ||१९|| विधिरेष समासेन धूमस्याभिहितो मया | नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ||२०||
🔊 Audio coming soon
अतो व्रणधूपनविधानं- व्रणधूममित्यादि| समासेन सङ्क्षेपेणेत्यर्थः||१९-२०||
Adhikarana १५ (२१) · Śloka २१
औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् | तद्द्विविधं शिरोविरेचनं, स्नेहनं च | तद्द्विविधमपि पञ्चधा | तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शो, अवपीडः, प्रधमनं च | तेषु नस्यं प्रधानं शिरोविरेचनं च; नस्यविकल्पः प्रतिमर्शः, शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च; ततो नस्यशब्दः पञ्चधा नियमितः ||२१||
🔊 Audio coming soon
नासिकाभ्यामिति द्विवचनं पुटयुग्मापेक्षया| तद्द्विविधमित्यादि| नस्यमत्र ‘तत्र यः स्नेहनार्थं शून्यशिर सां’ इत्यादिवक्ष्यमाणवाक्यप्रतिपादितं ज्ञेयम्| शिरोविरेचनद्रव्यैर्यो दीयते स शिरोविरेचनः| प्रतिमर्शस्त्विहैवाग्रे वक्ष्यते| शृतशीतस्वरसादीनां पिचुनाऽवपीडनात् अवपीडः| चूर्णस्य मुखेन नाड्या वा प्रध्मापनात् प्रधमनम्| चकारः पुनरत्र शिरोविरेचनस्यापि विकल्पः प्रतिमर्श इत्यनुक्तं समुच्चिनोति; तथा च दृढबलः- “प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्”- इति| ततो नस्येत्यादि| ततस्तेभ्यो विरेचनभेदेभ्यः, नस्यशब्दः नस्यमित्यभिधानं, पञ्चधा पञ्चप्रकारं, नियमितो नियमेन प्रतिपादितः प्राप्त इत्यर्थः||२१||
Adhikarana १६ (२२) · Śloka २२
तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः | तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघात- नासारोगास्यशोषावबाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ||२२||
🔊 Audio coming soon
तत्र नस्यविधौ| स्नेहः सर्पिस्तैलवसामज्जाख्यः, स च यथास्वगुणैर्वातपित्तकफहरद्रव्यैः सिद्धः; तत्र तैलं नस्ये वातकफहरं, पित्तरक्तहरं तु क्षीरसर्पिरिति ज्ञेयम्| तत्तु देयमित्यादि| तत् स्नैहिकं नस्यं वातपित्तहरैर्द्रव्यैः सिद्धेन स्नेहेन देयम्| तस्य कालावधिस्तन्त्रान्तराज्ज्ञेयः| तथाच भोजः- “एकान्तरं द्व्यन्तरं वा नस्यं दद्याद्विचक्षणः| सप्ताहं तु परं देयं विश्रान्तस्य पुनः पुनः||पक्षं विंशतिरात्रं वा यावद्वा साधु मन्यते”- इति| अपरस्त्वाह- “त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः| परं नवाहमूर्ध्वं तु नवाहात् सात्म्यतां व्रजेत्||न तन्नस्यगुणं कुर्यात् सात्म्यत्वाद्दोषकृन्न च| तस्मान्नस्यप्रयोगस्तु स्नैहिको न हितः सदा”- इति||२२||
Adhikarana १७ (२३) · Śloka २३
शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपीनसार्धावभेदक- कृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेनेति ||२३||
🔊 Audio coming soon
अय शिरोविरेचनविषयावसरः- शिरोविरेचनमित्यादि| शिरोविरेचनानि पिप्पलीविडङ्गशिग्रुसिद्धार्थकापामार्गक्षवकफणिज्जकप्रभृतीनि| तत्र शिरोविरेचनद्रव्यैः कृतं च नस्यमवपीडाभिधानं, तत्सिद्धस्नेहेन कृतं शिरोविरेकं; गयी तु शिरोविरेचनद्रव्यसिद्धेन स्नेहेनैव पठति||२३||
Adhikarana १८ (२४) · Śloka २४
तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, मध्याह्ने पित्तरोगिणां, अपराह्णे वातरोगिणाम् ||२४||
🔊 Audio coming soon
तयोर्द्वयोः स्नैहिकवैरेचनिकयोः कालावधारणमुद्दिशन्नाह- तत्रैतद्द्विविधमित्यादि| तद्द्विविधमपि नस्यं पूर्वाह्णमध्याह्नापराह्णेषु कफपित्तवातरोगिणां देयमिति| स्वास्थ्यवृत्तिकनस्यकालावधारणं तन्त्रान्तराज्ज्ञेयम्| तथा च वृद्धवाग्भटः,- “स्वस्थवृत्ते तु शीते मध्याह्ने, शरद्वसन्तयोः पूर्वाह्णे, ग्रीष्मेऽपराह्णे, वर्षास्वादित्यदर्शने, पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव”- इति||२४||
Adhikarana १९ (२५-२७) · Śloka २७
अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्नमृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तं रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नोति ||२५|| स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् | न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा ||२६|| एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते | ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ||२७||
🔊 Audio coming soon
अथानन्तरं तद्दानविधानं- अथ पुरुषायेत्यादि| स्नेहमिति स्नेहस्योपलक्षणत्वात् कल्कक्वाथादिकमप्यनेनैव प्रकारेण देयम्| दत्तमात्रे च यत् कर्तव्यं तत्तन्त्रान्तराज्ज्ञेयं; तथा च वृद्धवाग्भटः- “दत्तमात्रे नस्ये कर्णललाटकेशभूमिगण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेत्, शनैः शनैश्चोच्छिङ्घ्यात्”- इति||२५-२७||
Adhikarana २० (२८) · Śloka २८
तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा, द्वितीया शुक्तिः, तृतीया पाणिशुक्तिः, इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः ||२८||
🔊 Audio coming soon
स्नेहस्य चाल्पमध्यमोत्तमप्रमाणान्याह- तस्येत्यादि| तस्येति स्नेहस्य| अष्टाविति प्रत्येकं नासापुटयोः, एवं षोडश बिन्दवः| अङ्गुष्ठसमीपवर्तिन्यङ्गुलिः प्रदेशिनी, तत्पर्वद्वयच्युता बिन्दवः| प्रथमा मात्रा हीनेत्यर्थः| मध्यमा मात्रा शुक्तिर्द्वात्रिंशद्बिन्दवः| उत्तमा पाणिशुक्तिश्चतुःषष्टिबिन्दवः| गयी तु भोजदर्शनात् स्वस्थस्यैव प्रायोगिके नस्ये प्रत्येकं नासापुटयोरष्टौ बिन्दवः, स्नेहनार्थे तद्द्विगुणाः शुक्तिप्रमाणा इति प्रतिपादयति| तथा च भोजः- “प्रायोगिकं स्नैहिकं च द्विविधं नस्यमुच्यते| प्रायोगिके बिन्दवोऽष्टौ स्नैहिके शुक्तिरिष्यते||दोषोच्छ्रायं समासाद्य दद्याद्द्वित्रिचतुर्गुणम्”- इति||२८||
Adhikarana २१ (२९-३०) · Śloka ३०
स्नेहनस्यं नोपगिलेत्कथञ्चिदपि बुद्धिमान् ||२९|| शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा | कफोत्क्लेशभयाच्चैनं निष्ठीवेदविधारयन् ||३०||
🔊 Audio coming soon
नोपगिलेन्न पिबेत्| तथा हि विदेहः,- निष्ठीवेन्न पिबेन्नस्यं व्यापदः पिबतस्त्विमाः| भवन्ति कासश्छर्दिश्च कुत्साऽन्ने वमथुस्तथा”- इति| क्वचिन्नस्यपानमप्युक्तं विदेहनैव,- “क्षीणं मांसं बलं यस्य वातार्तिश्चोर्ध्वजत्रुजा| सुदीप्ताग्निः स्नेहसात्म्यः स नस्यं नासया पिबेत्||धातूंश्च तर्पयेद्देहे पीतं नस्यं तु नस्ततः”- इति| शृङ्गाटकमित्यादि|- नासाकर्णस्रोतोक्षिजिह्वातर्पणीनां सिराणां सन्निपातः शृङ्गाटकः| निष्ठीवेदिति वदनप्राप्तं मुञ्चेत्, वामदक्षिणयोरिति वाक्यशेषः| तथाच वृद्धवाग्भटः- “अनभ्यवहरंश्च वामदक्षिणपार्श्वयोर्निष्ठीवेत्, एकपार्श्वष्ठीवने न सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते”- इति||२९-३०||
Adhikarana २२ (३१) · Śloka ३१
दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत, भोजयेच्चैनमभिष्यन्दि, ततोऽस्याचारिकमादिशेत्; रजोधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत् ||३१||
🔊 Audio coming soon
पश्चात्कर्माह- दत्ते च पुनरपि संस्वेद्येत्यादि| धूममासेवेतेति वाक्शतानन्तरं; तथाच भोजः- “वाक्शतादूर्ध्वमुत्थाय धूमं प्रायोगिकं पिबेत्”- इति| अभिष्यन्दि उपलेपकारि| आचारिकमिति आचारप्राप्तं युक्तमित्यर्थः| दिवास्वप्नादिकमयुक्तांश्च रजोधूमादीन् परिहरेत्||३१||
Adhikarana २३ (३२-३५) · Śloka ३५
तस्य योगातियोगायोगानामिदं विज्ञानं भवति ||३२|| लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् | विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ||३३|| कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः | लक्षणं मूर्ध्न्यतिस्निग्धे रूक्षं तत्रावचारयेत् ||३४|| अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता | रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ||३५||
🔊 Audio coming soon
गयी त्वयोगलक्षणं न पठति, प्रतिपादितस्य प्रायोगिकनस्यस्य स्वस्थविषयस्यायोगे वातवैगुण्यं न सम्भवति; यच्चायोगे वातवैगुण्यं तदवस्थाविषये||३२-३५||
Adhikarana २४ (३६) · Śloka ३६
चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम् | शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ||३६||
🔊 Audio coming soon
स्नेहननस्यविशेषमुद्दिशञ्छिरोविरेचननस्यस्य मात्रामुपदिशन्नाह- चत्वारो बिन्दव इत्यादि| प्रत्येकमेव नासापुटयोर्हीनमध्योत्तमेष्वेषु दोषपुरुषबलेषु चतुःषडष्टबिन्दवः स्नैहिकस्य शिरोविरेचनस्य| तथा च विदेहः, “चतुरश्चतुरो बिन्दूनेकैकस्मिन् समाचरेत्| एषा लघ्वी मता मात्रा तथा शीघ्रं विरेचयेत्||अथ्यर्धां द्विगुणां वाऽपि त्रिगुणां वा चतुर्गुणाम्| यथाव्याधि विदित्वा तु मात्रां समवचारयेत्”- इति||३६||
Adhikarana २५ (३७-४३) · Śloka ४३
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः | शुद्ध(द्धि)हीनातिसञ्ज्ञानि विशेषाच्छास्त्रचिन्तकैः ||३७|| लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः | चित्तोन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ||३८|| कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः | मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ||३९|| मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः | शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ||४०|| हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत् | सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ||४१|| (एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः | एकविंशतिरात्रं वा यावद्वा साधु मन्यते ||४२|| मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः | द्विकालं चापि दातव्यं नस्यं तस्य विजानता ) ||४३||
🔊 Audio coming soon
नस्ये इत्यादि| शास्त्रचिन्तकैः विदेहादिभिः| मस्तुलुङ्गः शिरोऽन्तर्घृताकारः| सर्पिर्नस्यं निषेचयेदिति पित्तप्रकृतौ, वातप्रकृतौ तु पक्वतैलमेव||३७-४३||
Adhikarana २६ (४४-४५) · Śloka ४५
अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसञ्ज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च, शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विदध्यात् ||४४|| कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् | शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथा हितः ||४५||
🔊 Audio coming soon
यद्यप्यवपीडादौ प्रतिमर्शः पूर्वमुद्देशसूत्रे प्रतिपादितः, तथाऽपि सर्वदोषोपयोज्यतया परिहार्यरहितत्वेन पश्चान्निर्देशं करिष्यतीति असर्वदोषोपयोज्यं सपरिहारं चावपीडमाह- अवपीड इत्यादि| अभिष्यन्नो मेदःकफाभिव्याप्तशिरः| पिप्पलीविडङ्गादिशिरोविरेचनद्रव्याणामेकतमं प्राप्य, पिष्ट्वा कल्कं, चकारादेतेषां क्वाथेनाक्तं पिचुनक्तकमवपीड्य शिरोविरेचनवद्यथाक्रमं चतुःषडष्टबिन्दुप्रमाणं हीनादिमात्रास्ववपीडं दद्यात्| तस्य च तन्त्रान्तरे विषार्तादीनां सञ्ज्ञाप्रबोधनत्वेन रक्तपित्तादीनां स्तम्भनत्वेन द्वैविध्यम्| तथा च विदेहः- “विषाभिघातसन्न्यासमूर्च्छामोहापतन्त्रके| मदापस्मारकामार्तिचिन्ताक्रोधभयादिषु| मानसेषु च रोगेषु मूढव्याकुलचेतसाम्| सञ्ज्ञाप्रबोधहेत्वर्थमवपीडं प्रयोजयेत्||शिरोविरेचनस्नेहमुष्काख्यं(?) तद्विरेचनम्| क्षौद्रादिकल्कपिष्टं च स्तम्भनं त्ववपीडनम्”- इति||४४-४५||
Adhikarana २७ (४६) · Śloka ४६
चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ||४६||
🔊 Audio coming soon
प्रधमनप्रयोगविषयावधारणं- चेतोविकारकृमिविषाभिपन्नानामित्यादि| अत्राह विदेहः- “नाडी षडङ्गुलायामा द्विमुखी च तया धमेत्| त्रिश्चूर्णं मुच्चुटीमात्रमेष प्रधमने विधिः||शुक्तिप्रमाणं जिघ्रेद्वा बद्धं सूक्ष्मेण वाससा”- इति| तर्जन्यङ्गुष्ठाग्रमात्रग्राह्यं चूर्णं मुच्चुटीमात्रम्| गयी तु प्रतिमर्शानन्तरमवपीडप्रधमने प्राह||४६||
Adhikarana २८ (४७) · Śloka ४७
नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवोऽजीर्णी दत्तबस्तिः क्रुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चेति; अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ||४७||
🔊 Audio coming soon
अतः परं नस्यानर्होपदेशः- नस्येनेत्यादि| अनार्तवे चेत्यादि चकारादार्तवेऽप्यभ्रे||४७||
Adhikarana २९ (४८) · Śloka ४८
तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ||४८||
🔊 Audio coming soon
इदानीं नस्यव्यापदः कारणसहिताः प्रतिपादयति- तत्र हीनातिमात्रातिशीतोष्णेत्यादि| दोषनिमित्ता इति दोषोत्क्लेशनिमित्ताः, क्षयजाश्चेति दोषक्षयजाः||४८||
Adhikarana ३० (४९) · Śloka ४९
भवतश्चात्र- नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः | दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ||४९||
🔊 Audio coming soon
उक्तमेवार्थं पद्येन स्पष्टीकुर्वन्नाह- भवतश्चात्रेत्यादि| यथाक्रममिति स्नैहिकनस्ये दोषोत्क्लेशजाः, शिरोविरेचने क्षयजाव्यापदो भवन्तीति||४९||
Adhikarana ३१ (५०) · Śloka ५०
दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः | अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ||५०||
🔊 Audio coming soon
दोषोत्क्लेशनिमित्ता इत्यादि| शमनशोधनैरिति तत्राल्पे शमनं, प्रभूते शोधनम्||५०||
Adhikarana ३२ (५१-५३) · Śloka ५३
प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः; तद्यथा- तल्पोत्थितेन, प्रक्षालितदन्तेन, गृहान्निर्गच्छता, व्यायामव्यवायाध्वपरिश्रान्तेन, मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन, सायं चेति ||५१|| तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपहन्ति मनःप्रसादं च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति, कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति, भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति, दिवास्वप्नोत्थितेनासेवितो निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति, सायं चासेवितः सुखनिद्राप्रबोधं चेति ||५२|| ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते | नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ||५३||
🔊 Audio coming soon
प्रतिमर्शप्रमाणमाह- ईषदित्यादि| वृद्धवाग्भटे चान्यथा प्रतिमर्शप्रमाणम्| तथा च- “प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते| बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते||निहितो यत्र वा स्नेहो न साक्षादुपलभ्यते”- इति| शिरोविरेचनस्नेहवत् प्रतिमर्शस्नेहोऽपि नाभ्यवहरणीयः| तथाहि विदेहः- “उच्छिङ्घेन्न पिबेत् स्नेहं निष्ठीवेन्मुखमागतम्”- इति| नस्यादिषु नरावस्थिककालस्तन्त्रान्तरादनुसर्तव्यः; तथा च कृष्णात्रेयः- “सप्तवर्षमुपादाय नस्यकर्म चतुर्विधम्| प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्यते| धूमोऽथ द्वादशे वर्षे कवलः पञ्चमे मतः| दोषव्याधिबलावस्थां वीक्ष्य चैतान् प्रयोजयेत्”- इति||५१-५३||
Adhikarana ३३ (५४-५५) · Śloka ५५
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः | इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ||५४|| हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् | वलीपलितखालित्यव्यङ्गानां चाप्यसम्भवम् ||५५||
🔊 Audio coming soon
इदानीं सामान्येन नस्यफलमाह- नस्येन रोगा इत्यादि||५४-५५||
Adhikarana ३४ (५६-५७) · Śloka ५७
तैलं कफे सवाते स्यात् केवले पवने वसाम् | दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ||५६|| चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः | श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ||५७||
🔊 Audio coming soon
अतः स्नेहान् दोषप्रत्यनीकत्वेन विभजति- तैलमित्यादि||५६-५७||
Adhikarana ३५ (५८-६०) · Śloka ६०
अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् | चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ||५८|| स्निग्धोष्णैः स्नैहिको वाते, स्वादुशीतैः प्रसादनः | पित्ते, कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ||५९|| कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे | चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्तितः ||६०||
🔊 Audio coming soon
ततो नस्यमभिधाय शिरोरोगमुखरोगावजयकारणं कवलग्रहमुद्दिशन्नाह- अत ऊर्ध्वमित्यादि| दोषभेदेन त्रिषु स्नैहिकादीनभिधाय रोपणो व्रण इत्यनेन शोणितं चतुर्थमभिहितम्||५८-६०||
Adhikarana ३६ (६१) · Śloka ६१
तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत् ||६१||
🔊 Audio coming soon
मुखस्यात्र कफस्थानत्वात् कफहरं संशोधनमेव कवलं त्रिकटुकादिद्रव्यैर्दर्शयन्नाह- तत्रेत्यादि||६१||
Adhikarana ३७ (६२) · Śloka ६२
सुखं सञ्चार्यते या तु मात्रा स (सा) कवलः स्मृतः | असञ्चार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ||६२||
🔊 Audio coming soon
अथ कवलगण्डूषयोः प्रतिस्वं भेदमाह- सुखमित्यादि||६२||
Adhikarana ३८ (६३) · Śloka ६३
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चान्यो ग्रहीतव्य इति ||६३||
🔊 Audio coming soon
कियन्तं कालं व्याप्य धारणीयस्तदाह- तावच्च धारयितव्य इत्यादि| दोषोऽत्र कफः| नासास्रोतः नासारन्ध्रम्||६३||
Adhikarana ३९ (६४) · Śloka ६४
एवं स्नेहपयःक्षौद्ररसमूत्राम्लसम्भृताः | कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ||६४||
🔊 Audio coming soon
शोधनकवलस्य विधानं स्नेहादिष्वपि निर्दिशन्नाह- एवमित्यादि| सम्भृताः सम्यक्कृताः| दोषत इति दोषव्याधिप्रत्यनीकभावेन| दोषग्रहणेन व्याधिः परिगृह्यते, कार्ये कारणोपचारात्||६४||
Adhikarana ४० (६५-६६) · Śloka ६७
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् | इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ||६५|| हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च | अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ||६६|| शोधनीये विशेषेण भवन्त्येव न संशयः |६७|
🔊 Audio coming soon
इदानीं योगादिलक्षणमुद्दिशन्नाह- व्याधेरित्यादि| अत्र स्थानित्वेन शोधनीय एव प्रधानः, तेन व्याधेरपचय इत्यादिकं शुद्धिलक्षणं विशेषेण शोधनीयस्य, सामान्येन पुनः स्नैहिकादीनामपि; मुखपाकादि तु शोधनीयस्यैव, शेषाणां तु द्रव्यगुणादूह्यम्||६५-६६||-
Adhikarana ४१ (६७-६८) · Śloka ६८
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ||६७|| सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः | कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ||६८||
🔊 Audio coming soon
आगन्तुकस्य क्षारादिदाहस्य कवलमुद्दिशन्नाह- तिला नीलोत्पलमित्यादि| एतैर्व्यस्तैः समस्तैश्च क्षारादिदाहे कवलः||६७-६८||
Adhikarana ४२ (६९) · Śloka ७०
विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् | कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ||६९|| अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम् |७०|
🔊 Audio coming soon
लुप्तादिग्रहणगृहीतस्य प्रतिसारणस्य समासेन विधानमुद्दिशन्नाह- विभज्येत्यादि| रसक्रिया फाणिताकृतिः| भेषजं रसवीर्यगुणविपाकैर्वातादिदोषान् तदारब्धरोगांश्च प्रविभज्य, यथास्वं यद्यत्र प्रतिसारणं हितं तत्कृत्वैव मुखरोगिणां कुर्वीत कल्कादिभेदेन चतुर्विधं प्रतिसारणम्| अङ्गुल्यग्रप्रणीतत्वेन कोलास्थिमात्रत्वं प्रतिसारणस्य सूचयति| तथा च शालाक्ये- “कोलास्थिमात्रेण पिण्डेन यथादोषं यथाव्याधि पञ्च सप्त वा वारान् हीनमध्यमोत्तमेषु व्याधिषु च प्रतिसारणं कुर्वीत| न चैनमतिघर्षयेत्| अतिघर्षणादोषचोषदाहक्लेदश्वयथुतृष्णाभक्तच्छन्दवाक्सङ्गा भवन्ति, असम्यक्प्रतिसारणात् पैच्छिल्यगुरुत्वानन्नाभिलाषप्रमोहविकारानुपशयाः, सम्यक्प्रतिसारणाद्वैशद्यं लाघवं क्षवथुरप्रसेकोऽन्नाभिलाषश्च”- इति||६९||-
Adhikarana ४३ (७०-७१) · Śloka ७१
तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ||७०|| तानेव शमयेद् व्याधीन् कवलो यानपोहति | दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ||७१||
🔊 Audio coming soon
तस्मिन् योगमित्यादि| योगादन्यः अयोगः, स पुनरिह हीनयोगोऽतियोगश्च| अयोगं चेति चकारेण योगायोगातियोगचिकित्सितं समुच्चीयते| दोषघ्नमिति येन दोषेण वातादिना मुखरोग आरब्धः| (अत्र च कृष्णात्रेयः,- “सप्तवर्षमुपादाय नस्यकर्म चतुर्विधम्| प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्यते| धूमो द्वादशवर्षस्य कवलः पञ्चमे ततः| दोषव्याधिबलावस्थां वीक्ष्य चैतान् प्रयोजयेत्”- इति)||७०-७१||
Adhikarana पुष्पिका · Śloka ४०
इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रहचिकित्सितं नाम चत्वारिंशोऽध्यायः ||४०|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां चतुर्थं चिकित्सास्थानं समाप्तम्|
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां समस्तनिबन्धार्थज्ञापिकायां सुश्रुतटीकायां चत्वारिंशोऽध्यायः||४०||