Adhikarana विस्फोटनिदानं, सम्प्राप्तिश्च (१-२) · Śloka २
अथ विस्फोटनिदानम् |
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च |
तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु ||१||
त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च |
घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान् ||२||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रायेण दोषदूष्यचिकित्सासाम्याद्विस्फोटनिदानमाह– कट्वित्यादि| अजीर्णाध्यशनातपैश्चेति अजीर्णाशनमपक्वद्रव्यस्याशनम्, अध्यशनमजीर्णे भोजनम्; अथवा अजीर्णं स्वरूपतो हेतुरध्यशनं च| ऋतुदोषेणेति शीतोष्णादीनामतियोगेन| विपर्ययेणेति ऋतुविपर्ययश्च ऋतुस्वभावस्यान्यथाभावः| एभिर्हेतुभिर्यथासम्भवं प्रत्येकं दोषत्रयप्रकोपो बोद्धव्यः| ज्वरपुरःसरानित्यनेन ज्वरस्य पूर्वरूपतां दर्शयति||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
प्रायेण दोषदूष्यचिकित्सितत्वतुल्यत्वादतोऽनन्तरं विस्फोटनिदानारम्भः, तस्य निदानमाह– कट्वित्यादि| अजीर्णाशनमपक्वद्रव्याशनम्| अध्यशनमजीर्णभोजनम्| अथर्तुदोषेण विपर्ययेणेति शीतोष्णादेरतियोगेन ऋतुदोषः, ऋतुविपर्ययः ऋतुस्वभावस्यान्यथाभावात्; एभिर्हेतुभिः यथासम्भवं प्रत्येकं दोषत्रयप्रकोपो बोद्धव्यः| विस्फोटकसम्प्राप्तिमाह– त्वचमित्यादि| ज्वरपुरःसरानित्यनेन ज्वरस्य पूर्वरूपतां दर्शयति||१-२||
Adhikarana विस्फोटसामान्यलिङ्गं, वातज-पित्तज-कफज-द्वन्द्वजविस्फोटलक्षणं च (३-७) · Śloka ८
अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः |
क्वचित् सर्वत्र वा देहे विस्फोटा इति ते स्मृताः ||३||
(सु. नि. अ. १३) |
शिरोरुक् शूलभूयिष्ठं ज्वरस्तृट् पर्वभेदनम् |
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ||४||
ज्वरदाहरुजास्रावपाकतृष्णाभिरन्वितम् |
पीतलोहितवर्णं च पित्तविस्फोटलक्षणम् ||५||
छर्द्यरोचकजाड्यानि कण्डूकाठिन्यपाण्डुताः |
अवेदनश्चिरात्पाकी स विस्फोटः कफात्मकः ||६||
वातपित्तकृतो यस्तु कुरुते तीव्रवेदनाम् |
कण्डूस्तैमित्यगुरुभिर्जानीयात् कफवातिकम् ||७||
कण्डूर्दाहो ज्वरश्छर्दिरेतैस्तु कफपैत्तिकः |८|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विस्फोटस्वरूपमाह– अग्निदग्धनिभा इत्यादि| रक्तपित्तजा इति सर्वत्रैव विस्फोटे रक्तपित्तयोरव्यभिचारित्वं, यथा शूले वातस्य; वातानुबन्धोऽप्यत्र बोद्धव्यः| यदाह भोजः– “यदा रक्तं च पित्तं च वातेनानुगतं त्वचि| अग्निदग्धनिभान् स्फोटान् कुरुतः सर्वदेहगान्|| सज्वरान् सपरीदाहान् विद्याद्विस्फोटकांस्तु तान्||” इति||३-७||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विस्फोटकसामान्यलिङ्गमाह– अग्नीत्यादि| सज्वरा इति ज्वरस्तेषां पूर्वरूपत्वेन ज्ञेयः| रक्तपित्तजा इति सर्वविस्फोटेषु रक्तपित्तयोरव्यभिचारित्वं सूचितं शूलेषु वातस्येव| यदुक्तं भोजे– “यदा रक्तं च पित्तं च वातेनानुगतं त्वचि| अग्निदग्धनिभान् स्फोटान्कुरुतः सर्वदेहगान्|| सज्वरान्सपरीदाहान् विद्याद्विस्फोटकांस्तु तान्|” इति| क्वचिदिति क्वचिच्छरीरदेशे| वातिकविस्फोटमाह– शिर इत्यादि| शूलं शरीरस्य तोदरूपं, पर्वभेदनं सन्धिस्फुटनम्| पैत्तिकमाह– ज्वरेत्यादि| सुगमम्| श्लैष्मिकमाह– छर्दीत्यादि| वातपैत्तिकमाह– वातेत्यादि सुगमम्| कफजप्रसङ्गात् कफपैत्तिकमाह– कण्डूरित्यादि| एतैर्लक्षणैः कफपैत्तिको ज्ञेयः| कफवातिकमाह– कण्ड्विति| स्तैमित्यमिति निश्चलत्वम्||३-७||
Adhikarana त्रिदोषजविस्फोटलक्षणम् (८-९) · Śloka ९
मध्ये निम्नोन्नतोऽन्ते च कठिनोऽल्पप्रपाकवान् ||८||
दाहरागतृषामोहच्छर्दिमूर्छारुजाज्वराः |
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यः स्यात्त्रिदोषजः ||९||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सान्निपातिकलक्षणमाह– मध्य इत्यादि| मध्ये निम्नोन्नतोऽन्ते चेति मध्ये निम्नोऽन्ते चोन्नत इत्यर्थः| निम्नोन्नत इति प्रयोगोऽसिद्धस्यानित्यत्वेन| एवं सम्पूर्णलक्षणो यस्त्रिदोषजः सोऽसाध्यः||८-९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिदोषजमाह– मध्य इति| मध्ये निम्नः, अन्ते चोन्नत इत्यर्थः| अल्पप्रपाकत इति अल्पपाकवानित्यर्थः| मोह इन्द्रियाणाम्| एवं सम्पूर्णलक्षणो यस्त्रिदोषजः सोऽसाध्यः||८-९||
Adhikarana रक्तजविस्फोटलक्षणं, साध्यासाध्यविचारश्च (१०-११) · Śloka ११
रक्ता रक्तसमुत्थाना गुञ्जाविद्रुमसन्निभाः |
वेदितव्यास्तु रक्तेन पैत्तिकेन च हेतुना ||१०||
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि |
एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः |
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः ||११||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रक्तजलक्षणमाह– रक्ता इत्यादि| रक्तसमुत्थाना इति लक्ष्यपदं, वेदितव्यास्तु रक्तेनेति लक्षणपदम्, अश्मरीहेतुः तत्पूर्वमिति यथा; अयमर्थः– रक्तसमुत्थानाश्च विस्फोटा भवन्ति ते च कथं विज्ञेया इत्यत उक्तम्– वेदितव्यास्तु रक्तेनति; अथवा रक्तसमुत्थाना इति रक्तं समुत्थापयन्तीति निरुच्य रक्तच्छर्दनमभिमतमाचार्यस्य, वेदितव्यास्तु रक्तेनेति पदस्य कारणद्योतकस्याव्यवस्थानात्| घोरोऽत्यन्तदुःखदः| भूर्युपद्रव इति अत्र विसर्पोक्त एवोपद्रवो ज्ञेयः||१०-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तजमाह– रक्ता इत्यादि| रक्ता रक्तवर्णाः, रक्तसमुत्थाना इति रक्तसमुत्थानाश्च विस्फोटा भवन्तीत्यर्थः| ते च पित्तहेतुभिः कुपित्तेन रक्तेन वेदितव्याः, रक्तेनेति लक्षणपदं, यथाऽश्मरीहेतु तत्पूर्वमिति| घोर इति अत्यन्तदुःखप्रदः| भूर्युपद्रव इति बहूपद्रवः, अत्र विसर्पोक्ता एवोपद्रवा ज्ञेयाः||१०-११||
Adhikarana पुष्पिका · Śloka ५३
इति श्रीमाधवकरविरचिते माधवनिदाने विस्फोटनिदानं समाप्तम् ||५३||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विस्फोटनिदानं समाप्तम्||५३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां विस्फोटनिदानम्||५३||