मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
एषां निदानादीनां मध्ये समानासमानजातीयव्यावर्तकं कारणरूपनिदानस्य लक्षणमाह– निमित्तेत्यादिना पर्यायैरित्यन्तेन| एतैः शब्दैर्योऽर्थोऽभिधीयते तन्निदानं; यथा– “बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्|” (न्या. द. प्र. आ. सू. १५) इति| ननु, किं मिलितैरेकैकशो वा? नाद्यः, एकार्थाभिधायिनां शब्दानां मिलितानामप्रयोगात्; द्वितीयश्चेत्तदा सव्यभिचारः; निमित्तस्य शकुनादौ, हेतोः प्रयोजके कर्तरि, आयतनस्य स्थाने, प्रत्ययस्य लडादौ, उत्थानस्य उद्गमनोत्सर्गयोश्च दर्शनात्| नैवं, शकुनादीनां निमित्तादिभिः सर्वैरनभिधानात्| अत एवाह– पर्यायैरिति| नहि तेषां ते पर्यायाः, यतः क्रमेणैकार्थवाचकाः शब्दाः परस्परं पर्याया उच्यन्ते| तस्मान्निमित्तादिशब्दैः पर्यायैरभिधीयमानत्वं निदानत्वम्| एतच्च पर्यायकथनं शास्त्रे व्यवहारार्थम्| इदं तु सङ्क्षेपतो लक्षणम्– “सेतिकर्तव्यताको रोगोत्पादकहेतुर्निदानम्|” इति| यन्मते दोषेतिकर्तव्यतारूपा सम्प्राप्तिरिष्यते तन्मते सम्प्राप्तिव्युदासार्थं ‘सेतिकर्तव्यताक’ इति पदं, तस्या दोषेतिकर्तव्यतारूपाया इतिकर्तव्यतान्तराभावात्| यन्मते व्याधिजन्म सम्प्राप्तिः, तन्मते ‘व्याध्युत्पत्तिहेतुर्निदानम्’ इति लक्षणम्| उभयत्रापि ‘उत्पत्ति’ एतत्पदं ज्ञप्तिहेतुपूर्वरूपादिव्यवच्छेदार्थम्| स च हेतुरनेकधा; तत्र प्रथमश्चतुर्विधः, यदाह उपकल्पनीयाध्याये हरिचन्द्रः– “सन्निकृष्टविप्रकृष्टव्यभिचारिप्राधानिकभेदाच्चतुर्धा|” इति| सन्निकृष्टो यथा– नक्तन्दिनर्तुभुक्तांशा दोषप्रकोपस्य हेतवः, न ते चयादिकमपेक्षन्ते| विप्रकृष्टो यथा– “हेमन्ते निचितः श्लेष्मा वसन्ते कफरोगकृत्|” (सु. उ. तं. अ. ६४); किंवा सन्निकृष्टो ज्वरस्य रूक्षादिसेवा, विप्रकृष्टो रुद्रकोपः| व्यभिचारी यथा– यो दुर्बलत्वाद्व्याध्यधिकरणासमर्थः| यदाह चरकः– “( निदानादिविशेषा) अबलीयांसोऽथवाऽनुबन्ध्नन्ति, न तदा विकाराभिनिर्वृतिः|” इति (च. नि. अ. ४)| प्राधानिको यथा– विषादिः; त्रिविधो वा, असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामभेदात्| तत्र, असात्म्येन्द्रियार्थसंयोगोऽयोगातियोगमिथ्यायोगयुक्ता रूपरसादयः, प्रज्ञापराधो मिथ्याज्ञानादिः, परिणामोऽयोगादियुक्ता ऋतुस्वभावजाः शीतादयः| “अधर्मस्य च रोगहेतोरत्रैवान्तर्भावः” इति भट्टारहरिचन्द्रः, तस्यापि कालान्तरपरिणतस्य दुःखकर्तृत्वात्| चक्रस्तु प्रज्ञापराधे तस्यान्तर्भावमाह; मिथ्याज्ञानकृतब्रह्मवधादिजन्मनोऽधर्मस्य प्रज्ञापराध एव मूलं; बलाबलं त्वत्र न निरूप्यते, रोगकारणत्वेनाधर्मस्य सर्वथा सिद्धत्वादिति| दोषव्याध्युभयहेतुभेदाच्च स त्रिविधः| दोषहेतवो यथा– चयप्रकोपप्रशमनिमित्ता यथर्तूत्पन्ना मधुरादयः| व्याधिहेतवो यथा– मृद्भक्षणं पाण्डुरोगस्य कारणम्| यद्यपि मृदपि दोषं प्रकोपयत्येव; यदुक्तं चरके– “कषाया मारुतं, पित्तमूषरा, मधुरा कफम्|” इति (च. चि. अ. १६) तथाऽपि तज्जैर्दोषैः पाण्डुरोग एवारभ्यते न त्वन्यो विकार इति व्याधिहेतुता भवति| उभयहेतुर्यथा वातरक्ते– “हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च” (सु. नि. अ. १) इत्यादि| तत्र यद्यपि दोषप्रकोपपूर्वकमेव व्याधिजननं, तथाऽपि दोषवद्व्याधावपि तस्य कारणत्वमिति बोधयति| तेन तत्र न व्याधिहरमात्रं भेषजं प्रयोज्यं, किन्तूभयप्रत्यनीकम्| न च वाच्यं कारणभूतदोषनिवृत्त्यैव कार्यभूतस्य व्याधेर्निवृत्तिरिति; यतः प्रतिनियतशक्तिकानि भेषजद्रव्याणि भवन्ति; कथमन्यथा श्लैष्मिकतिमिरे श्लेष्महरमेव वमनं न प्रयुज्यते| यदुक्तं सुश्रुते– “न वामयेत्तैमिरिकं न गुल्मिनं न चापि पाण्डूदररोगपीडितम्|” (सु. चि. अ. ३३) इति| स एवोत्पादकव्यञ्जकभेदाच्च द्विधा| तत्रोत्पादको यथा– हेमन्तजो मधुररसः कफस्य| व्यञ्जको यथा– तस्यैव कफस्य व्यञ्जको वसन्ते सूर्यसन्तापः इति भट्टारहरिचन्द्रः| तत्र व्यञ्जकः प्रेरक इत्यर्थः| बाह्याभ्यन्तरभेदाच्च द्विधा| तत्र बाह्या आहाराचारकालादयः| एतदभिप्रायेण तीसटाचार्यः– “व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षयाज्जागराद्वेगानां च विधारणादतिशुचः शैत्यादतित्रासतः| रूक्षक्षोभकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्नेऽपराह्णेऽपि च|| कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातपस्त्रीसम्पर्कतिलातसीदधि-सुराशुक्तारनालादिभिः| भुक्ते जीर्यति भोजने च शरदि ग्रीष्मे सति प्राणिनां मध्याह्ने च तथाऽर्धरात्रिसमये पित्तं प्रकोपं व्रजेत्|| गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रापूपसर्पिष्प्रपूरैः| तुहिनपतनकाले श्लेष्मणः सम्प्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते||” (च. क. अ. २९-३१) इति| आभ्यन्तरा यथा– दोषा दूष्याश्च| तत्र दोषोऽपि प्रकुपितः प्राकृतादिभेदादनेकधा| प्राकृतो यथा– वसन्ते श्लेष्मा, शरदि पित्तं, प्रावृषि वायुः| वैकृतस्तु यथा– वसन्ते पित्तं वायुर्वा, वर्षासु कफः पित्तं वा, शरदि कफो वायुर्वा| अस्य प्रयोजनं सुखसाध्यत्वादि| यदुक्तं चरके– “प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|” (च. चि. अ. ३) इत्यादि| अनुबन्ध्यानुबन्धभेदाच्च द्विधा| अनुबन्ध्यः प्रधानम्, अनुबन्धोऽप्रधानम्| यदाह चरकः– “स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानोपशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः|” (च. वि. अ. ६) इति| अस्य प्रयोजनं संसर्गजे व्याधावनुबन्ध्यो विशेषेण चिकित्स्योऽनुबन्धाविरोधेन| तदुक्तं चरके– “तत्रोपद्रवस्य प्रायः प्रधानप्रशमात् प्रशमः|” (च. चि. अ. २१) इति| उपद्रवोऽनुबन्धः| प्रकृतिविकृतितो यथा– वातप्रकृतेर्वातरोगः कष्टसाध्यो भवति, कफपित्तप्रकृतेस्तु सुखसाध्यः| यदाह सुखसाध्यलक्षणे चरकः– “न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्” (च. सू. अ. १०) इति| आशयापकर्षतो यथा– यदा स्वमानस्थितमेव दोषं स्वाशयादाकृष्य वायुः स्थानान्तरं गमयति तदा स्वमानस्थोऽपि स विकारं जनयति| यदाह चरकः– “प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति|| तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः| गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||” इति (च. सू. अ. १७)| अस्य प्रयोजनं वातस्यैव तत्र विगुणस्य स्वस्थानानयनं कार्यं, नतु पित्तस्य ह्रासनं; “ये त्वेनां पित्तस्य स्थानाकृष्टिं न विदन्ति, ते दाहोपलम्भेन पित्तवृद्धिं मन्यमानाः पित्तं ह्रासयन्तः पित्तक्षयलक्षणं रोगान्तरमेवोत्पादयन्त आतुरमतिपातयन्ति|” इति भट्टारहरिचन्द्रः| अन्ये त्वाहुः– भ्राजकादिभेदेन सर्वदेहस्थिते पित्ते यदा स्वाशयाकृष्टं पित्तमवयवान्तरमनिलेन प्रापितं तदा तदवयवान्तरस्थं पित्तमागन्तुपित्तसम्बन्धेनाधिकमेव जातं, ततश्च पित्तवृद्धिलक्षणैवेयं दुष्टिर्न दुष्ट्यन्तरम्, अन्यथा दाह एव न स्यात् नहि स्वमानस्थो दोषो विकारं जनयतीति| भट्टारहरिचन्द्रस्य त्वयमभिप्रायः– यद्यप्येवं तथाऽपि चिकित्साभेदार्थं वृद्धिक्षयव्यतिरिक्तस्थानान्तरगतिरूपो दुष्टिविशेषोऽवश्यमेवेष्टव्यः, अन्यथा वृद्धं पित्तमिति मत्वा विरेचनं पित्तह्रासनं वा कार्यं, नच तत्तत्र योग्यं, किं तु स्वस्थानानयनम्| यच्चोक्तं चरकेण– “क्षयः स्थानं च वृद्धिश्च विज्ञेया त्रिविधा गतिः|” (च. सू. अ. १७) इत्यादि, तत् प्रायिकमिति| गतितो यथा– गतिर्दोषाणां क्षीणवृद्धत्वादयः| यदुक्तं चरके “क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः| ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधा परा|| त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु|” (च. सू. अ. १७) इति|| अत्र स्थानमिति समत्वम्| तत्र क्षयादिलक्षणं यथा– “दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति स्वं लिङ्गं, समाः स्वं कर्म कुर्वते||” (च. सू. अ. १७)– इति| स्वं लिङ्गमिति कुपितस्य वायो रौक्ष्यादयो धर्माः, कर्माणि च स्रंसशूलादीनि| यदाह चरकपाठसंवादी सुदान्तसेनः– “आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः, कण्ठध्वंसावसादौ श्रमकविलपनं स्रंसशूलप्रभेदाः| पारुष्यं कर्णनादो विषमपरिणतिभ्रंशदृष्टिप्रमोहा, विस्पन्दोद्घट्टनानि ग्लपनमशयनं ताडनं पीडनं च|| नामोन्नामौ विषादो भ्रमपरिपतनं जृम्भणं रोमहर्षो, विक्षेपाक्षेपशोषग्रहणशुषिरताच्छेदनं वेष्टनं च| वर्णः श्यावोऽरुणो वा तृडपि च महती स्वापविश्लेषसङ्गा, विद्यात् कर्माण्यमूनि प्रकुपितमरुतः स्यात् कषायो रसश्च|| विस्फोटाम्लकधूमकाः प्रलपनं स्वेदस्रुतिर्मूर्छनं, दौर्गन्ध्यं दरणं मदो विसरणं पाकोऽरतिस्तृड्भ्रमौ| ऊष्माऽतृप्तितमः प्रवेशदहनं कट्वम्लतिक्ता रसा, वर्णः पाण्डुविवर्जितः क्वथितता कर्माणि पित्तस्य वै|| तृप्तिस्तन्द्रा गुरुता स्तैमित्यं कठिनता मलाधिक्यम्| स्नेहापक्त्युपलेपाः शैत्यं कण्डूः प्रसेकश्च|| चरकर्तृत्वं शोथो निद्राधिक्यं रसौ पटुस्वादू| वर्णः श्वेतोऽलसता कर्माणि कफस्य जानीयात्|| द्विदोषलिङ्गः संसर्गः सन्निपातस्त्रिलिङ्गकः|” इति| लिङ्गज्ञानप्रयोजनं च चिकित्साभेदार्थम्| यदाह सुश्रुतः– “क्षीणा वर्धयितव्याः, वृद्धा ह्रासयितव्याः, समाः पालयितव्याः” (सु. चि. अ. ३३)– इति| ऊर्ध्वादिगतिर्यथा– ऊर्ध्वगं रक्तपित्तमित्यादि| अस्य प्रयोजनं रक्तपित्तस्योर्ध्वगस्य विरेचनम्, अधोगस्य वमनम्| यथोक्तं चरके– “ प्रतिमार्गं च हरणं रक्तपित्ते विधीयते|” (च. नि. अ. २) इति| यस्तु गतिभेदानभिज्ञः सः “विरेकः पित्तहराणां” (च. सू. अ. २५) इति वचनादधोगे रक्तपित्ते विरेकं प्रयुञ्जान आतुरस्यानर्थमेवोत्पादयति; ज्वरादिषु तिर्यग्दोषगतिषु यथोक्तं चिकित्सितमिति| वृद्धा दोषाः कदाचित् कोष्ठं, कदाचिच्छाखाः, कदाचिन्मर्मास्थिसन्धीनाश्रित्य रुजन्ति; मर्मास्थिसन्धिषु गतिः कृच्छ्रसाध्यत्वोपादकत्वादेकत्वेन निर्दिष्टा| कोष्ठ आमाशयादिः, शाखा रक्तादयो धातवस्त्वक्चेति, चरककृतैवेयं सञ्ज्ञा| कोष्ठाद्यभिधानप्रयोजनं चिकित्साभेदार्थम्| यथोक्तं चरके– “आमाशयगते वाते कफे पक्वाशयाश्रिते| रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||” (च. सू. अ. १४); तथा– “सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः|” (सु. उ. तं. अ. ३९) इत्यादि; तथा– “नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु च|” (च. चि. अ. २५) इति| एते च दोषाः सामत्वनिरामत्वाभ्यामपि ज्ञातव्याः| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते|| आमेन तेन संयुक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः|| स्रोतोरोधबलभ्रंशगौरवानिलमूढताः| आलस्यापक्तिनिष्ठीवमलभेदारुचिक्लमाः|| लिङ्गं मलानां सामानां निरामाणां विपर्ययः|” (वा. सू. अ. १३)| “वायुः सामो विबन्धाग्निसादतन्द्रान्त्रकूजनैः|| वेदनाशोथनिस्तोदैः क्रमशोऽङ्गानि पीडयेत्| विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम्| स्नेहाद्यैर्वृद्धिमाप्नोति सूर्यमेघोदये निशि| निरामो विशदो रूक्षो निर्विबन्धोऽल्पवेदनः|| विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः| दुर्गन्धं हरितं श्यावं पित्तमम्लं स्थिरं गुरु|| अम्लिकाकण्ठहृद्दाहकरं सामं विनिर्दिशेत्| आताम्रं पित्तमत्युष्णं रसे कटुकमस्थिरम्|| पक्वं विगन्धं विज्ञेयं रुचिपक्तृबलप्रदम्| आविलस्तन्तुलः स्त्यानः कण्ठदेशेऽवतिष्ठते| सामो बलासो दुर्गन्धः क्षुदुद्गारविघातकृत्|| फेनवान् पिण्डितः पाण्डुर्निःसारोऽगन्ध एव च| पक्वः स एव विज्ञेयश्छेदवान् वक्त्रशुद्धिकृत्||” इति| अस्य प्रयोजनं सामे पाचनं, निरामे शमनमिति| एते च दोषाः परस्परसम्बद्धास्तरतमादिभेदेन द्विषष्टिधा भवन्ति| तदुदाहरणानि विस्तरत्वापत्तेरत्र न लिख्यन्ते, सौश्रुतदोषभेदविकल्पाध्याये (सु. उ. तं. अ. ६६) द्रष्टव्यानि| उक्तहेतुदोषभेदयोः सङ्ग्रहश्लोकौ– “चत्वारो व्यभिचारिदूरनिकटप्राधानिकत्वात्, पुनस्तेऽसात्म्येन्द्रियकार्थयुक्परिणतिप्रज्ञापराधात्त्रिधा| रुग्दोषोभयकारणादपि तथा, द्वौ व्यञ्जकोत्पादकौ, बाह्याभ्यन्तरभेदतोऽपि कथिता हेतोः प्रभेदा अमी|| दोषस्य च प्राकृतवैकृताभ्यां, भेदोऽनुबन्ध्यादपि चानुबन्धात्| तथा प्रकृत्यप्रकृतित्वयोगात्तथाऽऽशयाकर्षवशाद्गतेश्च||” इति निदानम्|५|–