Adhikarana १ (१-३) · Śloka ३
अथातः शरीरसङ्ख्याशारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
शरीरसङ्ख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ||३||
Show commentary
पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसङ्ख्याभेदेन प्रतिपादयितुं शरीरसङ्ख्याध्यायोऽभिधीयते| अवयवसङ्ख्याभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् साधनं चिकित्सोपयुक्तं कथयिष्यत्यध्यायान्ते ‘शरीरसङ्ख्यां यो वेद’ इत्यादिना| अवयवशः शरीरं प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना| पृच्छाप्रयोजनमाह- सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोरिति|- सङ्ख्यानस्य प्रमाणमियत्ता सङ्ख्यानप्रमाणं, तच्च ‘षट् त्वचः’ इत्यादिग्रन्थवाच्यं; किंवा सङ्ख्यानं च प्रमाणं च सङ्ख्यानप्रमाणं; तत्र ‘षट् त्वचः’ इत्यादि सङ्ख्यानं, ‘दशोदकाञ्जलयः’ इत्यादि शरीरावयवप्रमाणं; किंवा ‘सङ्ख्या-नाम-प्रमाणज्ञानहेतोः’ इति पाठः, तत्र सङ्ख्यानस्य प्रमाणस्य च दत्तमेवोदाहरणं, नामज्ञानं तु ‘एका गोजिह्विका’ इत्यादिग्रन्थेन भवतीति व्याख्यानयन्ति||१-३||
Adhikarana २ (४) · Śloka ४
तमुवाच भगवानात्रेयः- शृणु मत्तोऽग्निवेश! सर्वशरीरमाचक्षाणस्य यथा प्रश्नमेकमना यथावत्|
शरीरे षट् त्वचः; तद्यथा- उदकधरा त्वग्बाह्या, द्वितीया त्वसृग्धरा, तृतीया सिध्मकिलाससम्भवाधिष्ठाना, चतुर्थी दद्रूकुष्ठसम्भवाधिष्ठाना, पञ्चमी त्वलजीविद्रधिसम्भवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति यां चाप्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च; इति षट् त्वचः|
एताः षडङ्गं शरीरमवतत्य तिष्ठन्ति||४||
Show commentary
आचक्षाणस्येत्यत्र ‘मतं’ इति शेषः; तेन सर्वं शरीरमाचक्षाणस्य मे मतं शृण्विति योजना| ततश्च ‘नटस्य शृणोति’ इति- वदनुपयोगे षष्ठी| किं च ‘मे वचनं शृणु’ इत्यनेन मतान्तरमप्यस्ति शरीरावयवसङ्ख्यान इति सूचयति| ततश्च सुश्रुते- “सप्त त्वचः, त्रीण्यस्थिशतानि” (सु. शा. ५) इत्यादिना यदिह प्रतिपादितसङ्ख्याविरुद्धमुच्यते, तच्छल्यशास्त्रोपयुक्तत्वादिति दर्शयति| यदुक्तं सुश्रुते- “त्रीणि सषष्टीनि शतान्यस्थ्नां वेदविदो भाषन्ते, शल्यतन्त्रे तु त्रीण्येव शतानि” (सु. शा. ५) इति| अनेन वचनेन योऽन्योऽपि त्वगादिसङ्ख्याभेदश्चरकसुश्रुतयोः स स्वतन्त्रोपयुक्तसङ्ख्योपादानादुन्नेयः | सिध्मकिलाससम्भवाधिष्ठानेति सिध्मकिलासौ यतो दोषात् सम्भवतस्तस्य दोषस्याधिष्ठानभूता; एवमुत्तरत्रापि व्याख्येयम्| ताम्यतीत्यस्य विवरणम्- ‘अन्ध इव तमः प्रविशति’ इति; किंवा ताम्यतीति तमोयुक्त इव चेष्टते| अरूंषीति व्रणानि| पर्वस्विति अवयवसन्धिषु||४||
Adhikarana ३ (५) · Śloka ५
तत्रायं शरीरस्याङ्गविभागः; तद्यथा- द्वौ बाहू, द्वे सक्थिनी, शिरोग्रीवम्, अन्तराधिः, इति षडङ्गमङ्गम्||५||
Show commentary
षडङ्गतामुक्तां शरीरस्य विभजते- तत्रायमित्यादि| शिरश्च ग्रीवा च शिरोग्रीवम्; एतच्चैक्यविवक्षया ज्ञेयम्| अन्तराधिः मध्यम्||५||
Adhikarana ४ (६) · Śloka ६
त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेन |
तद्यथा- द्वात्रिंशद्दन्ताः, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखाः, षष्टिः पाणिपादाङ्गुल्यस्थीनि, विंशतिः पाणिपादशलाकाः, चत्वारि पाणिपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योरस्थिनी, चत्वारः पादयोर्गुल्फाः, द्वौ मणिकौ हस्तयोः, चत्वार्यरत्न्योरस्थीनि, चत्वारि जङ्घयोः, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ, द्वौ बाहुनलकौ, द्वावंसौ, द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि, पञ्चदश ग्रीवायां, चतुर्दशोरसि, द्वयोः पार्श्वयोश्चतुर्विंशतिः पर्शुकाः, तावन्ति स्थालकानि, तावन्ति चैव स्थालकार्बुदानि, एकं हन्वस्थि, द्वे हनुमूलबन्धने, एकास्थि नासिकागण्डकूटललाटं, द्वौ शङ्खौ, चत्वारि शिरःकपालानीति; एवं त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेनेति||६||
Show commentary
सषष्टीनीति षष्ट्याऽधिकानि| दन्तानामुलूखला यत्राश्रिता दन्ताः| यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एव प्रक्षिप्ताः, तथाऽपीहास्थितारूपयोगस्यापि विद्यमानत्वादस्थिगणनायां पठिताः| प्रत्यङ्गुलि पर्वत्रयं, तेन विंशत्यङ्गुलिगतमस्थ्नां विंशतित्रयं भवति| वृद्धाङ्गुष्ठे यद्धस्तपादप्रविष्टं तत्तृतीयं पर्व ज्ञेयम्| वृद्धाङ्गुष्ठशलाकाऽपि स्वल्पप्रमाणा ज्ञेया| अङ्गुलीनां शलाका यत्र संलग्नास्तच्छलाकाधिष्ठानम्| जानु जङ्घोर्वोः सन्धिः| अक्षकौ अर्वाक् जत्रुसन्धेः कीलकौ| तालुके ताल्वस्थिनी| भगास्थि अभिमुखं कटीसन्धानकारकं तिर्यगस्थि| स्थालकानीति पर्शुकानां मूलस्थानलग्नानि | स्थालकार्बुदानि तु पर्शुकामूलान्यर्बुदाकाराण्यस्थीनि | नासिकागण्डकूटललाटानामेकमूलत्वादेकमेवास्थि गणनीयं, ये तु पृथग्गणनां कुर्वन्ति तेषां नासागण्डकूटललाटानां त्रयाणां त्रीण्येवास्थीनीति न सङ्ख्यापूरणम्||६||
Adhikarana ५ (७-८) · Śloka ८
पञ्चेन्द्रियाधिष्ठानानि; तद्यथा- त्वग्, जिह्वा, नासिका, अक्षिणी, कर्णौ च|
पञ्च बुद्धीन्द्रियाणि; तद्यथा- स्पर्शनं, रसनं, घ्राणं, दर्शनं, श्रोत्रमिति|
पञ्च कर्मेन्द्रियाणि; तद्यथा- हस्तौ, पादौ, पायुः, उपस्थः, जिह्वा चेति||७||
हृदयं चेतनाधिष्ठानमेकम्||८||
Show commentary
अक्षिणी कर्णौ च पृथक्त्वेऽपि एकैकेन्द्रियाधिष्ठानत्वेनैकत्वेनैव ग्राह्ये| एवं हस्तौ पादौ च एकतया ग्राह्यौ||७-८||
Adhikarana ६ (९) · Śloka ९
दश प्राणायतनानि; तद्यथा- मूर्धा, कण्ठः, हृदयं, नाभिः, गुदं, बस्तिः, ओजः, शुक्रं, शोणितं, मांसमिति|
तेषु षट् पूर्वाणि मर्मसङ्ख्यातानि||९||
Show commentary
इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिर्मांसं च गृहीतं, तेन नाभिमांसयोरपि प्राणायतनत्वं तथा शङ्खयोश्च पाठद्वयदर्शनाद्बोद्धव्यम्| यदुक्तं दशप्राणायतनीये- “दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः, शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्” (सू.अ.२९) इति||९||
Adhikarana ७ (१०) · Śloka १०
पञ्चदश कोष्ठाङ्गानि; तद्यथा- नाभिश्च, हृदयं च, क्लोम च, यकृच्च, प्लीहा च, वृक्कौ च, बस्तिश्च, पुरीषाधारश्च, आमाशयश्च, पक्वाशयश्च, उत्तरगुदं च, अधरगुदं च, क्षुद्रान्त्रं च, स्थूलान्त्रं च, वपावहनं चेति||१०||
Show commentary
क्लोम पिपासास्थानम्| बस्तिः मूत्राशयः| उत्तरगुदः यत्र पुरीषमवतिष्ठते, येन तु पुरीषं निष्क्रामति तदधरगुदम्| वपावहनं मेदःस्थानं ‘तैलवर्तिका’ इति ख्यातम्||१०||
Adhikarana ८ (११) · Śloka ११
षट्पञ्चाशत् प्रत्यङ्गानि षट्स्वङ्गेषूपनिबद्धानि, यान्यपरिसङ्ख्यातानि पूर्वमङ्गेषु परिसङ्ख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्यानि भवन्ति|
तद्यथा- द्वे जङ्घापिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफः, द्वे उखे, द्वौ वङ्क्षणौ, द्वौ कुकुन्दरौ, एकं बस्तिशीर्षम्, एकमुदरं, द्वौ स्तनौ, द्वौ श्लेष्मभुवौ , द्वे बाहुपिण्डिके, चिबुकमेकं, द्वावोष्ठौ, द्वे सृक्कण्यौ, द्वौ दन्तवेष्टकौ, एकं तालु, एका गलशुण्डिका, द्वे उपजिह्विके, एका गोजिह्विका, द्वौ गण्डौ, द्वे कर्णशष्कुलिके, द्वौ कर्णपुत्रकौ, द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिकनीनिके, द्वे भ्रुवौ, एकाऽवटुः, चत्वारि पाणिपादहृदयानि||११||
Show commentary
षट्पञ्चाशत् प्रत्यङ्गानीति ‘तद्यथा- द्वे जङ्घापिण्डिके’ इत्यादिग्रन्थवक्ष्यमाणानि| यानीत्यादि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि, पूर्वमङ्गेषु हस्तादिषु षट्सु, परिसङ्ख्यायमानेष्वपरिसङ्ख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना| पर्यायाश्च जङ्घापिण्डिकादयः शब्दा एव| एतेन हस्तादिषडङ्गकथनेनैव तदाश्रिता अपि जङ्घापिण्डिकादय उक्ता एव, सम्प्रति त्ववयवविशेषव्यवहारार्थं जङ्घापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः| ‘पूर्वमङ्गेषु’ इत्यस्य स्थाने ‘पूर्वमन्येषु’ इति वा पाठः; तत्राप्यन्यशब्देन हस्तादीनि षडङ्गानि ग्राह्याणि| उखे इति कक्षशिरोपार्श्वयोर्निम्नभागौ| कुकुन्दरौ स्फिचोरुपरि उन्नतभागौ| बस्तिशिरो नाभेरधः| श्लेष्मभुवौ कण्ठस्य पार्श्वयोर्व्यवस्थितौ कठिनौ भागौ| सृक्कण्यौ वदनान्ते| द्वे उपजिह्विके इति जिह्वाया अधोगता जिह्वा तथा उपरिगता ग्राह्या| एका गोजिह्विकेति गौर्वाक्, तस्याः कारणभूता जिह्वा गोजिह्वा; तेन वचनकारणभूता प्रधानजिह्वैव गृह्यते| कर्णशष्कुलिके कर्णगतावर्तकौ| कर्णपुत्रकौ तु बाह्यकर्णावेव| अक्षिकूटके अक्षिगोलके| द्वे अक्षिकनीनिके इत्यत्र कनीनिकाशब्देन नासायाः सममक्षिसन्धिरभिधीयते| अवटुः घाटा| चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः| एतावतैव षट्पञ्चाशत् प्रत्यङ्गानि पूर्यन्ते||११||
Adhikarana ९ (१२-१३) · Śloka १३
नव महन्ति छिद्राणि- सप्त शिरसि, द्वे चाधः||१२||
एतावद्दृश्यं शक्यमपि निर्देष्टुम्||१३||
Show commentary
नव महान्ति छिद्राणीति ग्रन्थं व्याकरोति- सप्त शिरसि द्वे चाध इति| एतावद्दृश्यमिति एतावत्त्वगादि दृश्यं प्रायः प्रत्यक्षोपलब्धिविषयमित्यर्थः||१२-१३||
Adhikarana १० (१४) · Śloka १४
अनिर्देश्यमतः परं तर्क्यमेव|
तद्यथा- नव स्नायुशतानि, सप्त सिराशतानि, द्वे धमनीशते, चत्वारि पेशीशतानि, सप्तोत्तरं मर्मशतं, द्वे सन्धिशते, एकोनत्रिंशत्सहस्राणि नव च शतानि षट्पञ्चाशत्कानि सिराधमनीनामणुशः प्रविभज्यमानानां मुखाग्रपरिमाणं, तावन्ति चैव केशश्मश्रुलोमानीति|
एतद्यथावत्सङ्ख्यातं त्वक्प्रभृति दृश्यं, तर्क्यमतः परम्|
एतदुभयमपि न विकल्पते, प्रकृतिभावाच्छरीरस्य||१४||
Show commentary
अतः परं तर्क्यमेवेति अतस्त्वगादेः परं यत् स्नाय्वादि तत् प्रायस्तर्क्यमेव अनुमानगम्यमेवेत्यर्थः| यद्यपि स्नाय्वाद्यपि प्रत्यक्षं भवति, तथाऽपीह वक्ष्यमाणसङ्ख्यायुक्तं सर्वं स्नाय्वादि न प्रत्यक्षेण सुकरग्रहमिति तर्क्यमित्युक्तम्| स्नाय्वादिभेदानेवाह- नव स्नायुशतानीत्यादि| अणुशः प्रविभज्यमानानामिति अणुप्रभेदेन भिद्यमानानाम्| मुखाग्रपरिमाणमिति मुखरूपस्याग्रस्य परिमाणम्| अत्र यान्येव सप्त सिराशतानि धमनीशतद्वयं चोक्तं तदेव सूक्ष्मप्रतानाग्रभेदगणनया एकोनत्रिंशत्सहस्राणि नव च शतानि षट्पञ्चाशत्कानि भवन्ति, स्थूलगणनतया तु पूर्वसङ्ख्या सिराधमन्यन्तर्भवतीति न विरोधः| तावन्ति चैव केशश्मश्रुलोमानीति एकोनत्रिंशत्सहस्राणि नवशतानि षट्पञ्चाशत्कानि केशश्मश्रुलोम्नां भवन्तीत्यर्थः| एतच्च केशादिसङ्ख्यानं स्थूलसिरामुखगतकेशादिविभागेन ज्ञेयं, सूक्ष्मतमविभागेन तु केशादीनां बहुत्वमपि शास्त्रान्तरोक्तं भवतीति ज्ञेयम्| एतत् त्वक्प्रभृति दृश्यं तर्क्यं च स्नाय्वादि यथावत् सङ्ख्यातमिति योजना| सम्प्रति यथोक्तं त्वगादीनां मानं प्रकृतिस्थे शरीरे न व्यभिचरतीति दर्शयन्नाह- एतदुभयमित्यादि| उभयमिति दृश्यं तर्क्यं च| प्रकृतिभावादिति अविकृतत्वाच्छरीरस्य| यत्र तु शरीरं विकृतं भवति तत्र यथोक्तं त्वगादिमानमपि विकृतं भवतीति भावः| किंवा, एतद्यथावत्सङ्ख्यातमिति छेदः| एकीयमतमाह- ‘त्वक्प्रभृति दृश्यं तर्क्यमेव चैके’ इति पाठः| अर्थस्तु- त्वक्प्रभृति यदुक्तं दृश्यं तदपि तर्क्यमेवेत्येके आचार्या ब्रुवते, तदुभयमिति तदेकीयमतमस्मन्मतं च, न विकल्पते इति यथोक्तावयवसङ्ख्या(व्य)तिरेकेण न व्यवस्थाप्यते; प्रकृतिभावाच्छरीरस्येति पूर्ववद् व्याख्येयम्| एतेन यत्त्वगादि तर्क्यमेव वा भवतु, दृश्यं तर्क्यभेदभिन्नं वा भवतु, तथाऽपि यथोक्तं सङ्ख्यां नातिक्रामतीति वाक्यार्थः||१४||
Adhikarana ११ (१५) · Śloka १५
यत्त्वञ्जलिसङ्ख्येयं तदुपदेक्ष्यामः; तत् परं प्रमाणमभिज्ञेयं, तच्च वृद्धिह्रासयोगि, तर्क्यमेव|
तद्यथा- दशोदकस्याञ्जलयः शरीरे स्वेनाञ्जलिप्रमाणेन, यत्तु प्रच्यवमानं पुरीषमनुबध्नात्यतियोगेन तथा मूत्रं रुधिरमन्यांश्च शरीरधातून्, यत्तु सर्वशरीरचरं बाह्या त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणाऽनुबद्धं लोमकूपेभ्यो निष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं; नवाञ्जलयः पूर्वस्याहारपरिणामधातोः, यं ‘रस’ इत्याचक्षते; अष्टौ शोणितस्य, सप्त पुरीषस्य, षट् श्लेष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य, त्रयो वसायाः, द्वौ मेदसः, एको मज्जायाः, मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं, तावदेव श्लैष्मिकस्यौजस इति|
एतच्छरीरतत्त्वमुक्तम्||१५||
Show commentary
ननु यथा प्रकृतिस्थे शरीरे यथोक्तं मानं त्वगादि न व्यभिचरति, तथा किं प्रकृतिस्थे शरीरे तदुदकाद्यपि यथोक्तं मानं न व्यभिचरतीत्याह- यत्त्वञ्जलीत्यादि| यत्तु उदकादि अञ्जलिसङ्ख्येयमग्रे वक्ष्यमाणं, तदुदकादेः परमुत्कृष्टं प्रमाणम्| तेन प्रकृतिस्थेऽपि शरीरे उदकादि वृद्धिह्रासयोगि भवतीति तर्क्यमेव| एतेन, यदुदकादेरिह प्रमाणमभिधातव्यं तत् प्रकृष्टस्योदकादेः प्रमाणं; तेनोक्तप्रमाणात् किञ्चिन्न्यूनमपि तथाऽधिकमपि यदुदकादिमानं तदपि प्रकृतमानमेव| दशोदकाञ्जय इत्यादावभिधायापि तदुदकं दशाञ्जलिप्रमाणमिति पुनर्यत् करोति, तेन मध्यग्रन्थकृतलसीकास्वेदादिसञ्ज्ञया उदकस्यानन्यतां दर्शयति| पूर्वस्येति प्रथमस्य| वसा मांसस्नेहः| मस्तिष्कः शिरोगतस्नेहः| श्लैष्मिकस्यौजस इत्यनेन यदोजोऽष्टबिन्दुकं तद्व्यतिरिक्तस्यौजस ओजोवहधमनीवाह्यस्य विशुद्धश्लेष्मसमानगुणस्यार्धाञ्जलिप्रमाणतां दर्शयति| ओजो हि परावरभेदेन द्विविधमर्थेदशमहामूलीये दर्शितमेव||१५||
Adhikarana १२ (१६) · Śloka १६
तत्र यद्विशेषतः स्थूलं स्थिरं मूर्तिमद्गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्चःकेशश्मश्रुलोमकण्डरादि तत् पार्थिवं गन्धो घ्राणं च; यद्द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च; यत् पित्तमूष्मा च यो या च भाः शरीरे तत् सर्वमाग्नेयं रूपं दर्शनं च; यदुच्छ्वासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्रेरणधारणादि तद्वायवीयं स्पर्शः स्पर्शनं च; यद्विविक्तं यदुच्यते महान्ति चाणूनि स्रोतांसि तदान्तरीक्षं शब्दः श्रोत्रं च; यत् प्रयोक्तृ तत् प्रधानं बुद्धिर्मनश्च|
इति शरीरावयवसङ्ख्या यथास्थूलभेदेनावयवानां निर्दिष्टा||१६||
Show commentary
शरीरावयवसङ्ख्यां प्रमाणतोऽभिधाय पार्थिवादिभेदेनावयवानभिधातुमाह- तत्रेत्यादि| सरं किञ्चिद्गतिमत्| मन्दं मन्दक्रियम्| विविक्तमिति विभक्तम्| यदुच्यत इति वचनमित्यर्थः| शब्दग्रहणेनेह वचनव्यतिरिक्तः शब्दः शारीरो गृह्यते, वचनस्य यदुच्यत इतिपदेनैव गृहीतत्वात्| प्रयोक्तृ इति यच्छरीरादिप्रेरकं चेतनम्| यथास्थूलभेदेनेति वचनात् सूक्ष्मावयवभेदेन परमाणुरूपेणासङ्ख्येयतां वक्ष्यमाणां सूचयति| अतिबहुत्वादित्यनेनातिबहुत्वमपि गङ्गावालुकानामिवासङ्ख्यातहेतुर्भवतीति दर्शयति||१६||
Adhikarana १३ (१७) · Śloka १७
शरीरावयवास्तु परमाणुभेदेनापरिसङ्ख्येया भवन्ति, अतिबहुत्वादतिसौक्ष्म्यादतीन्द्रियत्वाच्च|
तेषां संयोगविभागे परमाणूनां कारणं वायुः कर्मस्वभावश्च||१७||
Show commentary
अतिसौक्ष्म्यादिति अतिसूक्ष्मबुद्धिबोध्यत्वात्| अतीन्द्रियत्वं च परमाणूनां स्वभावसिद्धमेवास्मदादीन् प्रति| यत्तु सूक्ष्ममतीन्द्रियं वा तत् परिसङ्ख्यातुं नितरामेव दुःशकं भवतीति युक्तं हेतुत्रयमपरिसङ्ख्याने| अथैते विषयकलिताः परमाणवः कथं शरीरारम्भे संयुज्यन्ते, शरीरविनाशे च वियुज्यन्त इत्याह- तेषामित्यादि| ननु यदि वायुः कारणं परमाणूनां संयोगविभागे, तत् किमिति सर्वदा तौ न करोतीत्याह- कर्मस्वभावश्चेति| न केवलो वायुः किन्तु कर्मस्वभावपरिगृहीत एव| तेन यदा संयोजकस्वभावेन कर्मणा परिगृहीतो वायुर्भवति तदा परमाणूनां संयोगं कुर्वञ्छरीरमारभते; यदा तु वियोजनस्वभावेन कर्मणा वायुः परिगृहीतो भवति तदा विभागं परमाणूनां विनाशरूपं जनयतीत्यर्थः||१७||
Adhikarana १४ (१८) · Śloka १८
तदेतच्छरीरं सङ्ख्यातमनेकावयवं दृष्टमेकत्वेन सङ्गः, पृथक्त्वेनापवर्गः|
तत्र प्रधानमसक्तं सर्वसत्तानिवृत्तौ निवर्तते इति||१८||
Show commentary
इदानीं शरीरसङ्ख्यानफलमाह- तदेतदित्यादि| परमार्थतोऽनेकावयवमपि त(स)च्छरीरं सङ्ख्याने मोहादेकत्वेन दृष्टं सङ्ग उच्यते सङ्गहेतुर्भवतीत्यर्थः| एकत्वेन हि शरीरं पश्यन् तदुपकाराय प्रवर्तमानो रागद्वेषाभ्यां सक्तो भवति| अपवर्ग इति अपवर्गहेतुरित्यर्थः| शरीरं हि पृथगवयवभेदेन भाव्यमानं न ममतास्पदं भवति, ममताभावाच्च न तदुपकारकापकारकेषु रागद्वेषौ भवतः, तदभावाच्च प्रवृत्त्युपरमे सति धर्माधर्माभावादपवर्गो भवतीत्यर्थः| शरीरपृथक्त्वसङ्ख्याने यथा मोक्षो भवति तदाह- तत्रेत्यादि| प्रधानम् आत्मा| तत्रेति शरीरपृथक्त्वभावनायाम्| असक्तमिति यथोक्तक्रमेण रागद्वेषरहितम्| सर्वसत्तानिवृत्ताविति सर्वत्रोपकारके वाऽपकारके च भावे आस्थानिवृत्तौ सत्याम्| निवर्तत इति संसारो निवर्तते||१८||
Adhikarana १५ (१९-२०) · Śloka २०
तत्र श्लोकौ- शरीरसङ्ख्यां यो वेद सर्वावयवशो भिषक्|
तदज्ञाननिमित्तेन स मोहेन न युज्यते||१९||
अमूढो मोहमूलैश्च न दोषैरभिभूयते|
निर्दोषो निःस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः||२०||
Show commentary
इममेव गद्योक्तमर्थं श्लोकेनाह- शरीरेत्यादि| तदज्ञाननिमित्तेनेति शरीरैकतारूपमिथ्याज्ञानजन्येन| मोहेनेति ‘अहं स्थिरशरीरी एको, ममेदमुपकारकं, ममेदमुपकारकम्’ इत्यादिरूपेण मोहेन| मोहमूलैरिति मोहकारणकैः| दोषैरिति रागद्वेषैः; निर्दोषत्वेन निःस्पृहो भवति, रागद्वेषमूला हीच्छा तदभावान्न भवति, निःस्पृहश्च सन् सर्वक्रियोपरमाच्छान्तो भवति, शान्तश्च सन् प्रशाम्यति संसरणे विश्राम्यति; ततश्च नास्य पुनर्भवो जन्मरूपो भवतीति||१९-२०||
Adhikarana पुष्पिका · Śloka ७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसङ्ख्याशारीरं नाम सप्तमोऽध्यायः||७||
Show commentary
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने शरीरसङ्ख्याशारीरं नाम सप्तमोऽध्यायः||७||