Skip to content

. मदात्ययादिनिदानम्

Adhikarana अथ मदात्ययनिदानं नाम षष्ठोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथातो मदात्ययनिदानंनामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातकफोहेतुसामान्याद्धातुशोषणसामान्याच्च राजयक्ष्मानन्तरं मदात्ययादिनिर्णयाध्यायारम्भः| मदेनात्ययो मदात्ययः| मदहेतुको व्याधिरित्यर्थः| मदो नाम चित्तधातुविकारः| स च मदकार्य्यम्| मद्यं च यथाकारणतां तत्र प्रतिपद्यते तथा तीक्ष्ण इत्यादिना दर्शयति|| १||

Adhikarana मद्यौजसोर्गुणाः (२) · Śloka

तीक्ष्णोष्णरूक्षासूक्ष्ममाम्लं व्यवाय्याशुकरं लघु| विकाशि विशदं मद्यमोजसोऽस्माद्विपर्ययः||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तीक्ष्णादिगुणदशकसंयुक्तं मद्यम्| तेनास्मान् मद्यात्तीक्ष्णादिगुणविपरीतमन्दादिगुणदशकसंयुक्तस्यौजसौ विपर्य्यय एव||२||

Adhikarana मद्यतुल्यत्वेऽपि विषस्य मारकत्वे हेतुः (३) · Śloka

तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः| जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तीक्ष्णादयो गुणा विषेऽप्युक्ताः| तत्रस्थाश्च ते जीवितान्ताय जायन्ते| तत्र तेषामुत्कर्षवृत्तिहेतुः| अनेनैतत्कथयति-विषं मद्यं सममेवौजसो विपरीतमिति|| ३||

Adhikarana प्रथममदः (४) · Śloka

तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्| दशभिर्दशसंक्षोभ्य चेतो नयति विक्रियाम्| आद्ये मद्ये||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अत एव मद्यं तीक्ष्णादिगुणमोजसोः मन्दादिगुणम्; अतो विपर्य्ययान्मद्यं सेवितं तीक्ष्णादिभीः सर्वैर्दशभिर्गुणैरोजसो मन्दादीन् दशापि गुणान् विक्षोभ्य चेतोविक्रियां नयति| अयमाद्यो मदः|| ४||

Adhikarana द्वितीयमदः (५) · Śloka

द्वितीये तु प्रमादायतने स्थितः| दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ततो मद्यस्याऽतिपानेन द्वितीयो मदो भवति| यस्मिन् प्रमादायतने प्रमादकरणभूते स्थितः पुरुषो दुर्विकल्पहतः सन् मूढस्तदेव सुखमित्यवबुध्यते|| ५||

Adhikarana तृतीयमदः (६) · Śloka

मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः| निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ततोऽपि तृतीयो मदो भवति| यस्य द्वितीयेन तथाविधः सन्धिर्भवति| यं सन्धिं रजस्तमोभ्यां युक्तः सन् पुरुषो निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः| निरङ्कुशः स्वतन्त्रवृत्तिः व्यालो दुष्टगजः|| ६||

Adhikarana तृतीयमदनिन्दा (७) · Śloka

इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम्| एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम्||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अवद्यानां दोषाणामियं भूमिः| यो मध्यमोत्तमयोः सन्दिग्धः| देशिकः उपदेष्टा|| ७||

Adhikarana सम्पूर्णस्य तृतीयमदस्य लक्षणम् (८) · Śloka

निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः| मरणादपि पापात्मा गतः पापतरां दशाम्||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यदा तु तृतीयं मदं सम्पूर्णं प्राप्नोति तदा सः पापान्मरणादपि पापतरां दशामवस्थां गतो निश्चेष्टः सन् शववच्छेते| एतदेवाऽन्तरोक्तं मदत्रयलक्षणम्|| ८||

Adhikarana मद्यासक्तावस्था (९) · Śloka

धर्माधर्मं सुखं दुःखमर्थानर्थं हिताहितम्| यदाऽस्क्तो न जानाति कथं तच्छीलयेद्बुधः||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च मद्यं बुधः शीलयितुं नार्हति| यस्मिन्नाऽसक्ते धर्माधर्मादिकं दृष्टफलं न जानाति| तन्मद्यं कथं बुधः शीलयेत्||९||

Adhikarana मद्यपाने दोषाः (१०) · Śloka १०

मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः| सोन्मादमदमूर्च्छायाः साऽपस्मारापतानकाः||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मद्ये नित्यं मोहादयः संश्रिताः तत्कारणत्वात् अपतानको वातव्याधौ वक्ष्यते|| १०||

Adhikarana मद्यस्याऽसाधुत्वम् (११) · Śloka ११

यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्| अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा| मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अथवा किं मोहादिभिरुक्तैर्यत्रैकः स्मृतिविभ्रंशस्तत्र यदसाधु तत्सर्वं स्थितमेव| तच्च मद्यमयुक्त्यायुक्तं सुतरामसाधु| तथा चान्नमयुक्तियुक्तं व्याधये भवति| अथवा मरणाय भवति| एतन्न कदाचिददृष्टक्षत्यै| मद्यं पुनरयुक्तियुक्तं त्रिवर्गादिनाशनेऽपि पर्य्याप्तं भवति| धीर्वस्तुग्रहणशक्तिः| धैर्य्यं मनसः स्थिरत्वम्| आदिग्रहणेनान्येषां श्लाघ्यानां गुणानां ग्रहणम्|| ११||

Adhikarana बल्यादयो मद्येन नातिमाद्यन्ति (१२) · Śloka १२

नाऽतिमाद्यन्ति बलिनः कृताहारा महाशनाः| स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः| मेदः कफ़ाधिका मन्दवातपित्ताः दृढाग्नयः||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च मद्यं न सर्वत्र दोषावहत्वेन सम्भवति| यतो बल्यादयो बहुनापि मद्येन नाऽतिमाद्यन्ति| तदन्वयाः मद्यकुलोत्पन्नाः||१२||

Adhikarana दुर्बलाः अम्लमद्यादिना चादिमाद्यन्ति (१३) · Śloka १३

विपर्ययेऽतिमाद्यन्ति विस्त्रब्धाः कुपिताश्च ये| मद्येन चाम्लरूक्षेण साऽजीर्णे बहुनाति च||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्स्वरूपविपर्य्यये चाऽतिमाद्यन्ति| तथा विस्त्रब्धाः सुविश्वस्ताः तथा कुपिताश्च ये अम्लरूक्षेण च मद्येन सर्व एवातिमाद्यन्ति| इति सम्बन्धः| तथा साऽजीर्णे पीतेनापि| बहुना च पीतेन||१३||

Adhikarana मदात्ययप्रभेदाः (१४) · Śloka १४

वातात्पित्तात्कफात्सर्वैश्चत्वारः स्युर्मदात्ययाः| सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातादिभिः सन्निपातेन च चत्वारो मदात्ययाः स्युः| सर्वेषामपि त्रिदोषजत्वे भूयसा व्यपदेशः|| १४||

Adhikarana मदात्ययसामान्यलक्षणम् (१५) · Śloka १५

सामान्यं लक्षणं तेषां प्रमेहा हृदयव्यथा| विड्भेदः सततं तृष्णा सौम्याग्नेया ज्वरोऽरुचिः| शिरः पार्श्वास्थिक्कम्पो मर्मभेदस्त्रिकग्रहः| ज्वरो विबन्धस्तिमिरं कासश्वासप्रजागराः| स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः| प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेषां मदात्ययानां प्रमेहादिसाधारणं लिङ्गम्| सौम्याग्नेया ज्वरो यो मिश्रलक्षण इत्युक्तः|| १५||

Adhikarana वातिकमदात्ययलक्षणानि (१६) · Śloka १६

विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात्| स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एषु लिङ्गेषु सत्स्वपि वातिके जागरादिकं सातिशयं भवति||१६||

Adhikarana पैत्तिकमदात्ययलक्षणानि (१७) · Śloka १७

पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः| देहो हरितहारिद्रो रक्तनेत्रकपालता||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्ताद्दादिकम्|| १७||

Adhikarana श्लैष्मिकमदात्ययलक्षणानि (१८) · Śloka १८

श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरम्||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

श्लेष्मणा छर्द्यादिकम्|| १८||

Adhikarana सान्निपातिकमदात्ययलक्षणानि (१९) · Śloka १९

सर्वजे सर्वलिङ्गत्वं||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सन्निपातिके मदात्यये सर्वं लिङ्गत्वम्| इति मदात्ययः||१९||

Adhikarana ध्वंसकविक्षयौ ध्वंसकविक्षयसम्भवहेतुः (२०) · Śloka २०

ंउक्त्वा मद्यं पिबेषु यः| सहसाऽनुचितं चान्यत्तस्य ध्वंसकविक्षयौ| भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं मद्यकारणौ ध्वंसकविक्षयौ निर्णीयेते| यो नरो मद्यपः सन् मद्यं बहुकालं त्यक्त्वा सहसाऽन्यदनुचितं मद्यं पिबेत् तस्य वाताद्धेतोर्ध्वंसकविक्षयौ नाम्ना कष्टौ व्याधी भवेताम्||२०||

Adhikarana ध्वंसकलक्षणम् (२१) · Śloka २१

ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता| शब्दाऽसहत्त्वं तन्द्रा च ||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

दुर्बलस्य तु विशेषेण तौ स्याताम्| ध्वंसके श्लेष्मनिष्ठीवादि लक्षणम्||२१||

Adhikarana विक्षयलक्षणम् (२२) · Śloka २२

विक्षयेऽङ्गशिरोऽतिरुक्| हृत्कण्ठरोधः सम्मोहः कासस्तृष्णावमिज्वरः||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विक्षयेऽङ्गरुगादि|| २२||

Adhikarana त्यक्तमद्यस्य लाभाः (२३) · Śloka २३

निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्| विकारैः स्पृश्यते जातु न स शारीरमानसैः||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मद्यमुपसंहरति-निवृत्त इत्यादिना| सुबोधम्|| २३||

Adhikarana मदमूर्च्छासंन्यासानां निदानादि (२४) · Śloka २४

रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः| रसासृक्चेतनावाहिस्त्रोतोरोधसमुद्भवाः| मदमूर्च्छायसंन्यासा यथोत्तरबलोत्तराः||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं मद्यवच्चित्तोपघातसामान्यादत्रैव मदादयो निर्णीयन्ते| रजोमोहाद्यभ्यासपरस्य पुरुषस्य दोषै रसादिवाहिषु स्त्रोतस्सु रुद्धेषु मोहादयो व्याधिविशेषा उत्पद्यन्ते| ते च यथोत्तरं बलाधिकाः| मदामूर्च्छायस्ततः संन्यास इति|| २४||

Adhikarana मदनिदानम्, मदप्रभेदाः (२५) · Śloka २५

मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च वातादिभिः सन्निपातेन रक्तमद्यविषैश्चेति सप्त भेदाः||२५||

Adhikarana वातमदलक्षणम् (२६) · Śloka २६

सक्ताऽनल्पद्रुताभाषश्चलस्खलितचेष्टितः| रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सक्ताभाषत्वादियुक्तः पुरुषो वातोद्बवे मदे भवेत्|| २६||

Adhikarana पित्तमदलक्षणम् (२७) · Śloka २७

पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तेन क्रोधनत्वादियुक्तः|| २७||

Adhikarana कफमदलक्षणम् (२८) · Śloka २८

स्वल्पासम्बद्धवाक्पाण्डुः कफाद्धयानपरोऽलसः||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कफाद्धयानपरत्वादियुक्तः|| २८||

Adhikarana सान्निपातिकमदलक्षणम् (२९) · Śloka २९

सर्वात्मा सन्निपातेन||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सन्निपातेनाऽनन्तरोक्तं सर्वलिङ्गम्|| २९||

Adhikarana रक्तजमदलक्षणम् (३०) · Śloka ३०

रक्तात्स्तब्धाङ्गदृष्टिता| पित्तलिङ्गञ्च ||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तात् मदे स्तब्धाङ्गदृष्टिता पित्तलिङ्गञ्च भवति|| ३०||

Adhikarana मद्यजमदलक्षणम् (३१) · Śloka ३१

मद्येन विकॄतेहास्वराङ्गता||३१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मद्येन मदे विकृतेहत्वादिलिङ्गम्|| ३१||

Adhikarana विषजमदलक्षणम् (३२) · Śloka ३२

विषात्कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकश्च सः||३२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषान्मदे कम्पोऽतिनिद्रा च भवति| स एव सर्व-मदेभ्योऽधिको दुस्साध्यतावहः|| ३२||

Adhikarana रक्तजादिमदेषु लक्षणैः दोषसङ्गतिर्ज्ञेया (३३) · Śloka ३३

लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु||३३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च शोणितादिमदेषु वातादीन् लक्षणोत्कर्षात् लक्षयेत्| अनेनैतदुक्तम्-रक्तमद्यविषमदाः यद्यपि त्रिदोषजास्तथाऽप्युत्कृष्टेन वातादीनामन्यतमस्याऽधिक्यं व्यवस्येत्| इत्युक्ता मदाः||३३||

Adhikarana मूर्च्छायनिदानम्, वातमूर्च्छालक्षणम् (३४) · Śloka ३४

अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः| शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपर्भ्रमः| कार्श्यं च श्यावारुणा छाया मूर्च्छाये मारुतात्मके||३४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मूर्च्छाया उच्यन्ते| मारुतात्मके मूर्च्छाये पुरुषोऽरुणं नीलं कृष्णं वा आकाशं पश्यंस्तमः प्रविशेत्| शीघ्रं च प्रतिबुध्येत्| हृत्पीडादिकं चात्र भवति तमः प्रवेशः अचैतन्यम्|| ३४||

Adhikarana पित्तमूर्च्छालक्षणम् (३५) · Śloka ३५

पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः| विबुध्येत च सस्वेदो दाहतृट्तापपीडितः| भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः||३५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तं पीतं वेत्यादिपिकृन्मूर्च्छायाः लक्षणम्|| ३५||

Adhikarana कफमूर्च्छालक्षणम् (३६) · Śloka ३६

कफेन मेघसङ्गाशं पश्यन्नाकाशमाविशेत्| तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान्| गुरुभिस्तिमितैरङ्गैराद्रचर्मावनद्धवत्||३६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मेघेत्यादिकं कफमूर्च्छालक्षणम्||३६||

Adhikarana सान्निपातिकमूर्च्छायलक्षणम् (३७) · Śloka ३७

सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवाऽपरः| पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः||३७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रिभिर्दोषैर्मूर्च्छायः सर्वाकृतिः सर्वरूपो भवति| महारम्भत्वेऽपर इवाऽपस्मारः| अयं तु मूर्च्छायो बीभत्सचेष्टितैर्मूत्रपुरीषोत्सर्गादिभिर्विना निश्चेष्टं पौरुषमाशु पातयति|| ३७||

Adhikarana मदमूर्च्छाययोः संन्यासात् भेदः (३८) · Śloka ३८

दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्| स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्विना||३८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अपस्माराद् विना मदमूर्च्छाययोः पुनरवबोधे दोषेष्वित्यादिनाहेतुरुच्यते| देहिनां कृतवेगेषु सत्सु दोषेषु मदमूर्च्छायाः स्वयमेवौषधनिरपेक्षमेवोपशाम्यन्त्याऽऽवेगकालम्| संन्यासः पुनरौषधैर्विना न शाम्यति|| ३८||

Adhikarana संन्यासनिदानादि संन्यासस्तदसाध्यत्वञ्च (३९) · Śloka ३९

वाग्देहमनसां चेष्टामाऽऽक्षिप्यातिबला मलाः| संन्यासं सन्निपतिताः प्राणायतनसंश्रयाः| कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः| म्रियेत शीघ्रं-शीघ्रं चेच्चिकित्सा न प्रयुज्यते||३९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

संन्यासः क उच्यत इत्याऽऽह-वागित्यादि| अतिबला स्वकारणविशेषवशाद्वातादयो दुष्टाः वाग्देहमनसां चेष्टामाऽऽक्षिप्त गृहीत्वा परस्परं सन्निवर्तिताः प्राणायतनसंश्रिताश्च संन्यासं कुर्वन्ति| प्राणायतनं हृदयादि| तेन च संन्यासेन पुरुषः काष्ठभूतो मृतोपमश्च भवति| तत्र यदि शीघ्रं चिकित्सा न प्रयुज्यते ततो म्रियेतैव|| ३९||

Adhikarana संन्यासे आशु चिकित्सा योज्या (४०) · Śloka ४०

अगाधे ग्राहबहुले सलिलौघ इवातटे| संन्यासे विनिमज्जन्तं नरमाशु निवर्त्तयेत्||४०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तथा भिषक संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्| अगाधे गम्भीरे ग्राहबहुले अतटे च सलिलौघे निमज्जन्तं नरं यथाबान्धवा निवर्तयन्ति|| ४०||

Adhikarana युक्तिवियुक्तमद्यदेषाः (४१) · Śloka ४१

मदमानरोषतोप्रभृतिभिरभिर्निजैः परिष्वङ्गः| युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन||४१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मदमानेत्यादिना मदात्ययनिदानत्वान्मद्येनैवोपसंहरन्नाह| तोषो हर्षः| प्रभृतिशब्देन कामक्रोधादयः|युक्तायुक्तं च सममिति कृत्याकृत्याविवेको न भवति|| ४१||

Adhikarana युक्तियुक्तमद्यगुणाः (४२-६) · Śloka

बलकालदेशसात्म्यप्रकृतिसहायामवयवांसि| प्रविभज्य तदनुरूप यदि पिबति ततः पिबत्यमृतम्||४२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने मदात्ययनिदानं नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एवं विधिहीनस्य दोषमुक्त्वा बलकालेत्यादिना विधियुक्तस्य पुनर्गुणमाह| बलादीनि पृथङ्निरूप्य बलाद्यनुरूपमेव यदि मद्यं पिबति ततोऽमृतमेव पिबति|| ४२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रव्याख्यायां शशिलेखायां निदानस्थाने षष्ठोऽध्यायः