Adhikarana नासारोगप्रतिषेधाध्यायः||२०|| सर्वेषु प्रतिश्यायेषु स्नेहस्वेदादिसेवनम् (२-५) · Śloka ५
अधुना नासाचिकित्साभणनावसर इत्याह अथातो नासारोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
) सर्वेषु पीनसेष्वादौ निवातागारगो भजेत्|
स्नेहनस्वेदवमनधूमगण्डूषधारणम्||१||
वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम्|
लघ्वम्ललवणं स्निग्धमुष्णं भोजनमद्रवम्||२||
धन्वमांसगुडक्षीरचणकत्रिकटूत्कटम्|
यवगोधूमभूयिष्ठं दधिदाडिमसारिकम्||३||
बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः|
कवोष्णं दशमूलाम्बु जीर्णां वा वारुणीं पिबेत्||४||
जिघ्रेच्चोरकतर्कारीवचाजाज्युपकुञ्चिकाः|
|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीनसेष्वखिलेष्वपि निवातवेश्मस्थितः सन् स्नेहनस्वेदनवमनधूमान् गण्डूषधारणं च सेवेत्| तथा वस्त्रं गुरूष्णस्वभावं कौशेयाविकादिभिर्मूर्ध्नः परिवेष्टनं सुघनं भजेत्| तथा भोजनं लघ्वादिगुणं भजेत्| दाडिमं श्रेष्ठं-दाडिमसारम्| दधिदाडिमसाधितमिति केचित् पठन्ति| बालमूलकोत्थो यूषः कुलत्थजश्च यूषः पूजितः| दशमूलाम्बु कोष्णं प्रसन्नां वा जीर्णां-पुराणां, पिबेत्| स०-चोरकादीन् जिघ्रेत्|
Adhikarana सर्वेषु प्रतिश्यायेषु व्योषादिवटकः (५-७) · Śloka ७
|
व्योषतालीसचविकातिन्तिडीकाम्लवेतसम्||५||
साग्न्यजाजि द्विपलिकं त्वगेलापत्रपादिकम्|
जीर्णाद्गुडात्तुलार्धेन पक्वेन वटकीकृतम्||६||
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्योषादिकं पृथक् द्विपलदध्नं, त्वगादिकं द्विकार्षिकं, पुराणगुडेन पञ्चाशत्पलप्रमाणेन पक्वेन वटकीकृतमेतत् पीनसादिहृत् परं रुच्यादिकृत्|
Adhikarana सर्वेषु प्रतिश्यायेषु शताह्वादिधूमः सर्वेषु प्रतिश्यायेषु सघृतसक्तुधूमः (७-८) · Śloka ८
|
शताह्वात्वग्ऽऽबला मूलं स्योनाकैरण्डबिल्वजम्||७||
सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम्|
अथवा सघृतान् सक्तून् कृत्वा मल्लकसम्पुटे||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शताह्वादिकं वसादियुतं धूमं पिबेत्| मल्लकसम्पुटे वा सक्तून् ससर्पिष्कान् कृत्वा धूमं पिबेत्|
Adhikarana सर्वेषु प्रतिश्यायेषु स्नानादिवर्जनम् (९) · Śloka ९
त्यजेत्स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नानादीनि त्यजेत्|
Adhikarana वातजे प्रतिश्याये वातघ्नादिसाधितघृतानि वातजे प्रतिश्याये अर्दितोक्तं स्वेदनस्यादिकम् (९-१०) · Śloka १०
इति सामान्येन चिकित्सामभिधाय विशेषेणाह |
पिबेद्वातप्रतिश्याये सर्पिर्वातघ्नसाधितम्||९||
पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा|
स्वेदनस्यादिकां कुर्यात् चिकित्सामर्दितोदिताम्||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातप्रतिश्याये वातघ्नैः-रास्नादिभिः, साधितं घृतं पिबेत्| सैन्धवादिभिः पञ्चभिर्लवणैर्वा सिद्धं, 'विदारिपञ्चाङ्गुल' (हृ. सू. अ. १५|९) इत्यादिना वा सिद्धं घृतं पिबेत्| तथा, अर्दितोक्तां चिकित्सां स्वेदादिकां कुर्यात्|
Adhikarana पित्तजे रक्तजे च स्वेदनस्यादिकम् मधुरसाधितं घृतं शीतपरिषेकादि च पित्तजे रक्तजे च धवत्वादितैलेन नावनम् (११-१२) · Śloka १२
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्|
परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान्||११||
धवत्वक्ऽऽत्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः|
क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत्||१२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तोत्थे रक्तजे च प्रतिश्याये मधुरद्रव्यैः शृतं सर्पिः पातव्यम्| परिषेकादीन् शीतवीर्यैः शीतलान् कुर्यात्| धवत्वगादिभिस्तैलं क्षीरे दशगुणे हरिद्रान्वितैर्नावनं पचेत्|
Adhikarana कफजे धवत्वादितैलेन लङ्घनलेपनादि कफजे धवत्वादितैलेन पटुव्योषादिना नावनम् सर्वजे धवत्वादितैलेन कटुतीक्ष्णैर्घृतैर्नस्यादीनि (१३-१४) · Śloka १४
कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः|
सक्षारं वा घृतं पीत्वा वमेत्, पिष्टैस्तु नावनम्||१३||
बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः|
कटुतीक्ष्णैर्घृतैर्नस्यैः कवलैः सर्वजं जयेत्||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफजे लङ्घनं हितम्| तथा शिरसो गौरसर्षपैर्लेपः| घृतं सयवक्षारं पीत्वा वमेत्| छागमूत्रेण च पिष्टैः सैन्धवादिभिर्नस्यं हितम्| घृतैः कटुतीक्ष्णैर्नस्यैः कवलैश्च सान्निपातिकं प्रतिश्यायं जयेत्|
Adhikarana दुष्टप्र्तिश्याये यक्ष्मकृमिक्रमः दुष्टप्र्तिश्याये व्योषादिवर्तिधूमः (१५-१७) · Śloka १७
यक्ष्मकृमिक्रमं कुर्वन् यापयेद्दुष्टपीनसम्|
व्योषोरुबूककृमिजिद्दारुमाद्रीगदेङ्गुदम्||१५||
वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः|
अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च||१६||
अश्वविड्ऽऽरसमूत्राभ्यां हस्तिमूत्रेण चैकतः|
क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुष्टपीनसं यापयेत्, यक्ष्महरं कृमिहरं च चिकित्सितं कुर्वन्| व्योषादिशिग्रुफलान्तानि तुरगविड्ऽऽरसमूत्राभ्यां हस्तिमूत्रेण चैकतः पिष्टानि क्षौमगर्भां कृतां वर्तिं नासया मुखेन च पिबेत्|
Adhikarana भृशक्षवथौ पुटके च तीक्ष्णैः प्रधमनम् भृशक्षवथौ पुटके च शुण्ठ्यादिसाधिततैलेन नस्यम् (१८-१९) · Śloka १९
क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम्|
शुण्ठीकुष्ठकणावेल्लद्राक्षाकल्ककषायवत्||१८||
साधितं तैलमाज्यं वा नस्यं क्षवपुटप्रणुत्|
|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षवथौ पुटकाख्ये च रोगे तीक्ष्णैः प्रधमनं हितम्| शुण्ठ्यादिकल्कक्वाथवत् तैलं घृतं वा साधितं नस्यं क्षवं पुटं च हन्ति|
Adhikarana नासाशोषे बलातैलादि नासानाहेऽप्ययं विधिः घ्राणपाके दीप्तौ च पित्तघ्नम् नासास्रावे तीक्ष्णं नस्यादि (१९-२०) · Śloka २०
|
नासाशोषे बलातैलं पानादौ भोजनं रसैः||१९||
स्निग्धो धूमस्तथा स्वेदो नासानाहेऽप्ययं विधिः|
पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासाशोषे बलातैलं पाननस्यादौ हितम्| भोजनं मांसरसैर्हितम्| तथा स्निग्धो धूमः स्वेदश्च हितः| स०-नासानाहेऽप्येष एव विधिः-चिकित्सेत्यर्थः| स०-नासापाके दीप्तौ च पित्तघ्नं चिकित्सितम्| संस्रुतौ-स्रावे, तीक्ष्णं नस्यादि हितम्|
Adhikarana पूतिनासेऽपीनसे च कफपीनसवत् पूतिनासेऽपीनसे च लाक्षादिभिर्नस्यम् पूतिनासेऽपीनसे च कृतवमने शिग्र्वादितैलेन नस्यम् (२१-२३) · Śloka २३
कफपीनसवत्पूतिनासापीनसयोः क्रिया|
लाक्षाकरञ्जमरिचवेल्लहिङ्गुकणागुडैः||२१||
अविमूत्रद्रुतैर्नस्यं कारयेद्वमने कृते|
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः||२२||
सवेल्लसुरसैस्तैलं नावनं परमं हितम्|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूतिनासापीनसयोः कफपीनसवदुपक्रमः| लाक्षादिभिरुरभ्रमूत्रद्रुतैः कृते वमने नस्यं कारयेत्| शिग्र्वादीनां बीजैर्व्योषादियुतैस्तैलं पक्वं पूतिनासापीनसयोर्नस्यं हितम्|
Adhikarana पूयरक्ते नवे रक्तपीनसवत् पूयरक्ते अतिप्रवृद्धे नाडीवत् (२३-२४) · Śloka २४
|
पूयरक्ते नवे कुर्याद् रक्तपीनसवत् क्रमम्||२३||
अतिप्रवृद्धे नाडीवत्|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूयरक्ते नवोत्थे रक्तपीनस इव चिकित्सितं कुर्यात्| अतिप्रवृद्धे चास्मिन्नाडीव्रणवदुपक्रमः|
Adhikarana अर्शोर्बुदेषु दग्धेषु निकुम्भादिवर्तिः अर्शोर्बुदेषु शिग्र्वादिनस्यम् (२०) · Śloka २०
दग्धेष्वर्शोर्बुदेषु च|
निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः||२४||
कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्|
शिग्र्वादि नावनं चात्र पूतिनासोदितं भजेत्||२५||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधो नाम विंशोऽध्यायः||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्शोर्बुदेषु च दग्धेषु निकुम्भादिभिः कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्| शिग्र्वादिकं च नस्यं पूतिनासोक्तं भजेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधो नाम विंशोऽध्यायः समाप्तः|| २०||