Skip to content

३४. गुह्यरोगप्रतिषेधाध्ययः

Adhikarana गुह्यरोगप्रतिषेधाध्यायः --------- उपदंशे नवे मेढ्रमध्ये सिराव्यधादि (२) · Śloka

अथैतच्चिकित्सां ब्रूते अथातो गुह्यरोगप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२| मेढ्रमध्ये सिरां विध्येदुपंदशे नवोत्थिते| शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः||१|| तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते| |२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- उपदंशेऽचिरोद्भूते लिङ्गस्य मध्ये सिरां मोक्षयेत्| शिशिरां च चिकित्सां लेपसेकादिभिः कुर्यात्| विशेषेण विरेचनेन शुद्धिं विदधीत| पक्वे पाटिते च तिलकल्काज्यमधुभिर्लेपः|

Adhikarana उपदंशे जम्ब्वादिक्वाथेन क्षालनम्, उपदंशे जम्ब्वादितैलेन रोपणम् (२-४) · Śloka

| जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्||२|| शल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः| त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले||३|| स क्वाथः क्षालनं, तेन पक्वं तैलं च रोपणम्| |४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- जम्ब्वाद्यङ्कुरान् शल्लक्यादीनां त्वचः क्षीरिवृक्षाणां च त्वचस्त्रिफलां च जले पचेत्| स क्वाथः क्षालनं हितम्| तेन च क्वाथेन तैलं पक्वं रोपणं स्यात्|

Adhikarana उपदंशे तुत्थादिलेपो व्रणहरः (४-५) · Śloka

| तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः||४|| हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः| लेपः क्षौद्रयुतैः सक्ष्मैरुपदंशव्रणापहः||५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- तुत्थादिभिर्माक्षिकद्रुतैः सूक्ष्मीकृतैर्लेप उपदंशव्रणहरः|

Adhikarana उपदंशे त्रिफलामषीलेपोरोपणम् (६) · Śloka

कपाले त्रिफला दग्धा सघृता रोपणं परम्| |६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कर्परे त्रिफला दग्धा घृतान्विता परं रोपणम्|

Adhikarana उपदंशे प्रतिदोषं शोफवत् चिकित्सितम् (६) · Śloka

| सामान्यं साधनमिदं प्रतिदोषं तु शोफवत्||६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- सामान्यमेतत् साधनम्| स०- प्रतिदोषं तु शोफतुल्यं चिकित्सितं ज्ञेयम्|

Adhikarana उपदंशे पाकं यथान याति तथाऽतियत्नः कार्यः (७) · Śloka

न च याति यथा पाकं प्रयतेत तथा भृशम्| पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यथा च पाकं न याति तथाऽतियत्नः कार्यः| यतः पक्वैः स्नाय्वादिभिः प्रायेण मेढ्रो नश्यति|

Adhikarana अर्शःसु छिन्नदग्धेषु उपदंशवत् क्रिया (८) · Śloka

अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत्| |८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अर्शसां छिन्नानां दग्धानां चोपदंशतुल्या क्रिया कार्या|

Adhikarana सर्षपिकासु लेख़नं कषायैरवचूर्णनादि (८-९) · Śloka

| सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत्||८|| तैरेवाभ्यञ्जनं तैलं साधयेत् व्रणरोपणम्| |९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- सर्षपिकाः शस्त्रेण लिखिताः कषायद्रव्यैर्जम्ब्वादिभिः पूर्वोक्तैः सूक्ष्मचूर्णैरवचूर्णयेत्| तैरेव कषायैस्तैलं पचेत्| तदभ्यञ्जनं व्रणरोपणं स्यात्|

Adhikarana अवमन्थेऽपीयं क्रिया (९) · Śloka

| क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः||९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एतच्चिकित्सितमवमन्थेऽपि कार्यम्| तथैत(थोभ)-योः-सर्षपावमन्थयोः, अस्रं स्राव्यम्|

Adhikarana कुम्भीकायां रक्तमोक्षणं तिनुकादिभिर्लेपस्तैलं च (१०) · Śloka १०

कुम्भीकायां हरेद्रक्तं पक्वायां शोधिते व्रणे| तिन्दुकत्रिफलारोध्रैलेपस्तैलं च रोपणम्||१०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुम्भीकायां लोहितं मोक्षयेत्| पक्वायां तु व्रणे शोधिते सति तिन्दुकादिभिर्लेपः| तिन्दुकादिभिरेव सिद्धं तैलं रोपणं स्यात्|

Adhikarana अलज्यामयमेव क्रियाक्रमः (११) · Śloka ११

अलज्यां स्रुतरक्तायामयमेव क्रियाक्रमः| |११|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अलज्यां स्रुतशोणितायामेष एवोपक्रमः|

Adhikarana उत्तमायां छेदनं कषायकल्कचूर्णैरूपक्रमश्च (११-१२) · Śloka १२

| उत्तमाख्यां तु पिटिकां सञ्च्छिद्य बडिशोद्धृताम्||११|| कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत्| |१२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उत्तमाख्यां पिटिकां बडिशोद्धृतां सम्यक् छेदयित्वा कषायाणां कल्कैश्चूर्णैः क्षौद्रयुक्तैरुपक्रमेत्|

Adhikarana पुष्करिकासंव्यूढयोस्त्वक्पाके स्पर्शहान्यां च पित्तविसर्पोक्तः क्रमः (१२-१३) · Śloka १३

| क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर्हितः||१२|| त्वक्पाके स्पर्शहान्यां च सेचयेद्| |१३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पुष्करिकायां संव्यूढे च पित्तविसर्पविहितं चिकित्सितं हितम्| सं-त्वक्पाकस्पर्शहान्योः सेचनम्|

Adhikarana मृदिते बलातैलेन सेचनं मधुरैरुपनाहनं च (१३) · Śloka १३

मृदितं पुनः| बलातैलेन कोष्णेन मधुरश्चोपनाहयेत्||१३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- मृदितं नाम लिङ्गरोगं वक्ष्यमाणेन (श्लो.४२) बला तैलेन सेचयेत्| तथा मधुरैर्द्रव्यैः कल्कितैः सुखोष्णैर्घृतस्निग्धैरुपनाहश्च कार्यः|

Adhikarana अष्ठीलिकायां रक्ते हृते श्लेष्मग्रन्थिवदुपक्रमः (१४) · Śloka १४

अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अष्ठीलिकां रक्ते हृते कफग्रन्थिमिवोपक्रमेत्|

Adhikarana निवृत्ते धृताभ्यञ्जनादि (१४-१६) · Śloka १६

| निवृत्तं सर्पिषाऽभ्यज्य स्वेदयित्वोपनाहयेत्||१४|| त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः| स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत्||१५|| मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम्| मणौ पुनःपुनः स्निग्धं भोजनं चात्र शस्यते||१६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निवृत्तसंज्ञं लिङ्गरोगं घृतेनाभ्यज्य स्वेदयित्वा चोपनाहयेत् त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः| ततो भूयः स्वेदयित्वा स्निग्धं चर्म मणिं समानयेत्| किं कृत्वा ? मणिं शनैः प्रपीड्य| प्रविष्टे मणौ चोपनाहं पुनःपुनः कुर्यात्| भोजनं चात्र स्निग्धं हितम्|

Adhikarana अवपाट्यामप्ययमेव क्रमः (१७) · Śloka १७

अयमेव प्रयोज्यः स्यादवपाट्यामपि क्रमः| |१७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अयमेव क्रमोऽवपाटिकायां योज्यः स्यात्|

Adhikarana निरुद्धमणौ नाड्या स्नेहसिञ्चनादि,निरुद्धमणौ एवमसिद्धौ शस्त्रेण पाटनादि (१७-१९) · Śloka १९

| नाडीमुभयतोद्वारां निरुद्धे जतुना सृताम्||१७|| स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत्स्नेहैश्चलापहैः| त्र्यहात्त्र्यहात्स्थूलतरां न्यस्य नाडीं विवर्धयेत्||१८|| स्रोतोद्वारमसिद्धौ तु विद्वान् शस्त्रेण पाटयेत्| सेवनीं वर्जयन् युञ्ज्यात् सद्यःक्षतविधिं ततः||१९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- निरुद्धे-निरुद्धाख्ये निरुद्धमणौ, नाडीं द्विद्वारां जतुना सृतां लिप्ताः स्नेहाक्तां लिङ्गे न्यस्य लिङ्गं बलातैलादिभिः स्नेहैः सिञ्चेत्| त्र्यहात्त्र्यहात् स्थूलतरां नाडीं क्षिप्त्वा स्रोतोद्वारं वृद्धिं नयेत्| एवमप्यसिद्धौ धीमान् वैद्यः सेवनीं परिहरन् शस्त्रेण पाटयेत्| ततः-पाटनादनन्तरं, सद्यःक्षतविधानं युञ्यात्|

Adhikarana ग्रथिते स्वेदनमुपनाहश्च (२०) · Śloka २०

ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत्| |२०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ग्रन्थितसंज्ञं नाड्या स्वेदितं स्निग्धोष्णैरुपनाहयेत्|

Adhikarana शतपोनके लेखनं कषायैर्लेपश्च (२०) · Śloka २०

| लिम्पेत्कषायैः सक्षौद्रैर्लिख़ित्वा शतपोनकम्||२०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- शतपोनकं लिङ्गरोगं लिख़ित्वा कषायद्रव्यचूर्णैः समाक्षिकैर्लिम्पेत्|

Adhikarana रक्तार्बुदे रक्तविद्रधिवत् (२१) · Śloka २१

रक्तविद्रधिवत्कार्या चिकित्सा शोणितार्बुदे| |२१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शोणितार्बुदे रक्तविद्रधिवच्चिकित्सा कर्तव्या|

Adhikarana सर्वेषु यथावस्थं व्रणोपचारः (२१) · Śloka २१

| व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत्||२१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वेषु लिङ्गरोगेषु यथावस्थं-अवस्थावशात्, व्रणोपचारान्-अन्तःशुद्धिकषायलेपघृततैलरसक्रियाचूर्णांश्छोधनरोपणान्, प्रयोजयेत्|

Adhikarana योनिव्यापच्चिकित्सा ------- योनिव्यापत्सु भूयिष्ठं वातजित् कर्म, तत्र हेतुश्च,वातजासु विशेषतः स्नेहनादि (२२-२३) · Śloka २३

योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित्| स्नेहनस्वेदबस्त्यादि वातजासु विशेषतः||२२|| न हि वातादृते योनिर्वनितानां प्रदुष्यति| अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्||२३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- योनिव्यापत्सु विषये प्रायेण पवनविजयि चिकित्सितं युक्तम्| स्नेहनादि वातोत्थासु व्यापत्तिषु विशेषेण शस्यते| सं-यतो वातमन्तरेण योषितो योनिर्न दुष्यति| तस्मात्तं मारुतं, जित्वा परस्य दोषस्यौषधं कुर्यात्|

Adhikarana वातजासु बलातैलादिपानम्, दुःस्थितादियोनेः समत्वादिकरणम्, तत्र हेतुश्च (२४-२६) · Śloka २६

पाययेत(त्तां) बलातैलं मिश्रकं सुकुमारकम्| स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम्||२४|| पाणिना नमयेज्जिह्यां संवृतां व्यधयेत् पुनः| प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्||२५|| स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता| |२६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- तां-स्त्रियं, बलातैलं (चि. अ.२१/७३), मिश्रकाख्यं(चि. अ.१४/८९), वा, सुकुमारकाह्वयं (चि. अ.१३/४१), पाययेत्| तथा योनिं स्निग्धां स्विन्नां च दुःस्थितां समां स्थापयेत्| जिह्यां-कुटिलां योनिं, हस्तेन नमयेत्| संवृतां तु व्यधयेत्-प्रसारयेदित्यर्थः| निःसृतां च प्रवेशयेत्| विवृतां तु सतीं परिवर्तयेत्| यतः स्थानाद् भ्रष्टा योनिः स्त्रियः शल्यरूपा भवेत्|

Adhikarana वातजासु स्त्रीषु मृदूनि वमनादिकर्माणि, स्त्रीषु शुद्धासु बस्त्यादि कर्म (२६-२७) · Śloka २७

| कर्मभिर्वमनाद्यैश्च मृदुभिर्योजयेत्स्त्रियम्||२६|| सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते| बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्||२७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वमनादीनि च कर्माणि मृदूनि-अखराणि, स्त्री(स्त्रिया) कारयितव्या(नि)| सर्वतः-अध उपरिष्टाच्च, विशुद्धाया नार्याः परिशिष्टं कर्म-बस्त्यादिकं, क्रियते|

Adhikarana वातजासु काश्मर्यादिघृतं परं गर्भदम् (२८-२९) · Śloka २९

काश्मर्यत्रिफलाद्राक्षाकासमर्दनिशाद्वयैः| गुडूचीसैर्यकाभीरुशुकनासापुनर्नवैः||२८|| परूषकैश्च विपचेत्प्रस्थमक्षसमैर्घृतात्| योनिवातविकारघ्नं तत्पीतं गर्भदं परम्||२९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- काश्मर्यादिभिः कल्कितैः कार्षिकैर्घृतात्प्रस्थं पचेत्| तत्-घृतं, पीतं योनिवातविकारहरं सुष्ठु गर्भदं च|

Adhikarana वातजासु वचादिचूर्णं योनिपार्श्वार्त्यादिनाशकम् (३०-३१) · Śloka ३१

वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम्| अजमोदायवक्षारशर्कराचित्रकान्वितम्||३०|| पिष्ट्वा प्रसन्नयाऽऽलोड्य खादेत्तद्घृतभर्जितम्| योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये||३१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वचादिकं पिष्ट्वा प्रसन्नयाऽऽलोड्य घृतभर्जितं खादेत् योनिपार्श्वार्त्यादिशान्तये|

Adhikarana वातजासु वृषकादिचूर्णं तथैव (३२) · Śloka ३२

वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्| पिबेन्मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके||३२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वृषकादीनि मद्यैः सलवणैः पिबेत्| तथा पिप्पली स्थूलजीरके वा मद्यैः सलवणैः पिबेत्|

Adhikarana वातजासु रास्नादिशृतं पयः शूलहरम् (३३) · Śloka ३३

रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः| |३३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- रास्नादिभिः शृतं पयः शूलघ्नम्|

Adhikarana वातजासु गुडूच्यादिक्वाथैः सेचनम् (३३) · Śloka ३३

| गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम्||३३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- गुडूच्यादिभिः क्वाथैः परिषेचनं सुखोष्णं हितम्, प्रकृतत्वाद्योनेः|

Adhikarana वातजासु नतादिसाधिततैलपिचुः शूलघ्नः (३४) · Śloka ३४

नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः| तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- नतादिभिस्तैलात् पक्वात् पिचुर्योनौ धृतो रुजाघ्नः|

Adhikarana पित्तलासु शीताः योनिसेकादयः (३५) · Śloka ३५

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः| शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च||३५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- पित्तलानां च योनीनां शीतादिकाः क्रियाः सेकाद्याः कार्याः| स्नेहनार्थं घृतानि च देयानि|

Adhikarana पित्तलासु शतावर्यादिलेहः (३६-४०) · Śloka ४०

शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्| रसेन क्षीरतुल्येन पाचयेत घृताढकम्||३६|| जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः| पिष्टैः प्रियालैश्चाक्षांशौर्द्विबलामधुकान्वितैः||३७|| सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्| शर्कराया दशपलं क्षिपेल्लिह्यात्पिचुं ततः||३८|| योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्| क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्||३९|| कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्| अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्||४०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- शतावरीमूलतुलाचतुष्टयात् क्षुण्णपीडिताद् रसेन दुग्धसमेन सर्पिष आढकं पचेज्जीवनीयादिभिः कर्षांशैः कल्कीकृतैः| पक्वे शीते च माक्षिकपलाष्टकं, कणाष्टपलं, सितापलानि च दश, क्षिपेत्| तस्माच्च कर्षमात्रं लिह्यात् योन्यादिदोषघ्नं वृष्यादिगुणं च|

Adhikarana पित्तलासु एवमेव पयः सर्पिः (४१) · Śloka ४१

एवमेव पयः सर्पिर्जीवनीयोपसाधितम्| गर्भदं पित्तजानां च रोगाणां परमं हितम्||४१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अनेनैव क्रमेण क्षीरं सर्पिर्वा जीवनीयैः पक्वं गर्भप्रदं पित्तजानां च रोगाणां परं हितम्|

Adhikarana पित्त बलादिघृततैलं गर्भदम् (४२-४४) · Śloka ४४

बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत्| क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः||४२|| जीवन्तीक्षीरकाकोलीस्थिरावीरर्धिजीवकैः| पयस्याश्रावणीमुद्गपीलुमाषाख्यपर्णिभिः||४३|| वातपित्तामयान् हत्वा पानाद् गर्भं दधाति तत्| |४४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बलाया द्रोणद्वयस्य कषाये घृततैलयोराढकं पचेत्| क्षीरे चतुराढके कृष्णादिभिः कल्कितैः सामान्यपरिभाषयोक्तप्रमाणैः| तत्-घृतं, पानेन वातपित्तरोगान् हत्वा गर्भं धत्ते| मुद्गादीनां पर्ण्या प्रत्येकं सम्बन्धः,- मुद्गपर्णी पीलुपर्णी माषपर्णीति|

Adhikarana रक्तयोन्यां यथादोषं रक्तस्थापनमौषधम् (४४-४५) · Śloka ४५

| रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च||४४|| यथादोषोदयं युञ्ज्याद् रक्तस्थापनमौषधम्| |४५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- रक्तयोन्यां लोहितं वर्णैर्लक्षयित्वाऽनुबन्धं च यथादोषोदयं, रक्तस्थापनं भेषजं प्रयुञ्जीत|

Adhikarana रक्तयोन्यां पुष्यानुगं चूर्णम्, श्लैष्मिक्यां सर्वं रुक्षोष्णमौषधम् (४५-५०) · Śloka ५०

| पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम्||४५|| अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्| बाह्लीकबिल्वातिविषारोध्रतोयदगैरिकम्||४६|| शुण्ठीमधूकमाचीकरक्तचन्दनकटूफलम्| कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम्||४७|| पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तन्दुलाम्भसा| पिबेदर्शःस्वतीसारे रक्तं यश्चोपवेश्यते||४८|| दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्| योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्||४९|| चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्| योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम्||५०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- पाठादिकं पुष्ये गृहीत्वा सञ्चूर्ण्य क्षौद्रान्वितं तन्दुलाम्भसा पिबेत् अर्शोविषयादिषु| ये च दोषा जन्तुकृता बालानां, तांश्च योनिदोषादीन् हन्ति| पुष्यानुगसंज्ञमेतच्चूर्णं हितमात्रेयपूजितं च| स०- योन्यां बलासेना दुष्टायां सर्वमेव रूक्षोष्णं हितम्|

Adhikarana शूनोन्नतास्तब्धापिच्छिलास्राविणीविप्लुतोपप्लुताद्यासु योनिषु धातक्यादितैलेनाभ्यङ्गादिकम् (५१-५४) · Śloka ५४

धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः| जम्ब्वाम्रसारकासीसरोध्रकट्फलतिन्दुकैः||५१|| सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः| अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्||५२|| तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्| तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा||५३|| विप्लुतोपप्लुता योनिः सिद्ध्येतत्स्फोटशूलिनी| |५४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- धातक्यादिभिः कार्षिकैश्छागमूत्रे द्विगुणे, क्षीरे च द्विगुणे, तैलप्रस्थं पचेत्| तत्तैलमभ्यङ्गादिषु योज्यम्| अनेन तैलेन शूनादिगुणा योनिः सिध्यति|

Adhikarana शूनोन्नतास्तब्धापिच्छिलास्राविणीविप्लुतोपप्लुताद्यासु योनिषु यवान्नादिशीलनम् (५४-५५) · Śloka ५५

| यवान्नमभयारिष्टं सीधु तैलं च शीलयेत्||५४|| पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्| |५५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- तथा यवान्नादिकं शीलयेत्| पिप्पल्यादिप्रयोगांश्च क्षौद्रान्वितानभ्यसेत्|

Adhikarana पैच्छिल्ये कासीसादिचूर्णो वैशद्यकारकः (५५-५६) · Śloka ५६

| कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातुकी||५५|| पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः| |५६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- कासीसादिकश्चूर्णो माक्षिकान्वितः पैच्छिल्ये विशदत्वकृत्|

Adhikarana पैच्छिल्ये दुर्गन्धे पलाशादिचूर्णः, आरग्वधादिक्वाथेन सेचनम् (५६-५७) · Śloka ५७

| पलाशधातकीजम्बूसमङ्गामोचसर्जजः||५६|| दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते| आरग्वधादिवर्गस्य कषायः परिषेचनम्||५७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- पलाशादिजश्चूर्णो दुर्गन्धादिषु स्तम्भनमिष्यते| आरग्वधादिवर्गक्वाथो (हृ.सू. अ. १५/१७) दुर्गन्धादौ परिषेकः|

Adhikarana स्तब्धासु कर्कशासु मार्दवकरं वेसवारादि धारणम् (५८) · Śloka ५८

स्तम्ब्धानां कर्कशानां च कार्यं मार्दवकारकम्| धारणं वेसवारस्य कृसरापायसस्य च||५८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-स्तम्ब्धानां खरस्पर्शानां च योनीनां मृदुत्वकरं वेसवारादिधारणं विधेयम्| वेसवारः-कुट्टितस्विन्नसंस्कृतमांसविशेषः| कृसरा च पायसं च कृसरापायसम्|

Adhikarana दुर्गन्धासु योनिषु सर्वगन्धानां कषायादि (५९) · Śloka ५९

दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा| चूर्णे वा सर्वगन्धानां पूतिगन्धा(न्ध्य)पकर्षणः||५९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-दुर्गन्धानां योनीनां सर्वगन्धद्रव्याणां कषायः-क्वाथो, हितः| तत्पक्वं तैलं तत्कल्क एव वा| अथवा सर्वगन्धानां चूर्णः पूतिगन्धा(न्ध्य) पहः|

Adhikarana श्लेष्मलासु कटुप्राया बस्तयः, पित्ते समधुकक्षीराः बस्तयः, वाते तैलाम्लयुताः बस्तयः (६०) · Śloka ६०

श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः| पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः||६०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- श्लेष्मलानां योनीनां कटुप्राया गोमूत्रयुताश्च बस्तयो हिताः| पित्ते मधुयष्टीक्षीरयुक्ता बस्तयः| वाते तैलाम्लयुता बस्तयो हिताः|

Adhikarana सन्निपातजायां साधारणं कर्म (६१) · Śloka ६१

सन्निपातसमुत्थायाः कर्म साधारणं हितम्| |६१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सन्निपातोत्थायाः साधारणं कर्म हितम्|

Adhikarana एवं योनिषु शुद्धासु गर्भधारणम् (६१-६२) · Śloka ६२

| एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः||६१|| अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति| |६२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- एवं-अनेन प्रकारेण, योनिषु विशुद्धासु सतीषु स्त्रियो गर्भं लभन्ते| प्राकृते बीजेऽदुष्टे सति तथा जीवस्योपक्रमणे क्षेपे सति|

Adhikarana पुरुषस्यापि दुष्टं शुक्रं परीक्ष्योपक्रमः (६२-६३) · Śloka ६३

| पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्||६२|| परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्| |६३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- नरस्य पञ्चभिः कर्मभिः शुद्धस्य, इन्द्रियं,शुक्रं, दोषाणां वर्णैर्दुष्टं परीक्ष्य तद्घ्नैः-दोषघ्नैः, उपक्रमेत्|

Adhikarana फलसर्पिः योनिशुक्रदोषेषु शस्तमायुष्यादिकरं च (६३-३४) · Śloka ३४

| मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः||६३|| द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम्| पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः||६४|| पिष्ट्वाऽक्षांशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम्| योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते||६५|| आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्| फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्||६६|| म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्| एतत्परं च बालानां ग्रहघ्नं देहवर्धनम्||६७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने गुह्यरोगप्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-मञ्जिष्टादिभिः कार्षिकैः पिष्टैर्घृतप्रस्थं क्षीरचतुर्गुणं पचेत्| तद्धृतं सर्वेषु योनिशुक्रप्रदोषेषु शस्यते| आयुष्यादि गुणं परं पुंसवनं म्रियमाणगर्भाणां गर्भिणीनां च हितम्| फलसर्पिरिति नाम्ना प्रसिद्धम्| कुतः ? यस्मात् पुष्पे-आर्तवसमये, पीतं फलाय जायते| तथा परं बालानां ग्रहघ्नं शरीरवृद्धिकरं चेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने गुह्यरोग प्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः समाप्तः|| ३४|| इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्|