Skip to content

१०. रसभेदीयाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूर्वस्मिन्नध्याये (श्लो. १२)- "रसान् भेदैरुत्तरत्रोपदेक्ष्यते" इत्युक्तम्, अतस्तान् रसभेदान् वक्तुं रसभेदीयाध्यायं ब्रूते-

Adhikarana रसभेदीयाध्यायः (२) · Śloka

अथातो रसभेदीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रसानां भेदो रसभेदः, तस्मै हितो रसभेदीयः, तमध्यायं व्याख्यास्यामः-कथयिष्यामः| "रसनार्थो रसः" इति मुनिः (च. सू. अ. १|६३)| तथा, अब्योनिः, अपामेव रसवत्त्वात्| तथा च मुनिः (च. सू. अ. २५|१३)- "आपो हि रसवत्यः" इति| अपां चात्र्यक्तरसत्वात् प्रतिव्यक्त्यन्यादृशोऽन्यादृशो रसानां महाभूतवैलक्षण्यज आस्वाद आस्वाद्यते| तथा च, मधुररसाधिष्ठतानां क्षीरद्राक्षेक्षुशर्करादीनां प्रतिव्यक्त्यन्यादृशोऽन्यादृशो मधुररसास्वाद उपलभ्यते, न त्वेकरूपः| एवमम्लानामारनालकोलाम्लीकादीनामपि प्रतिद्रव्यमनेकरूप आस्वादविशेष उपलभ्यते, न त्वेक एव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-रसभेदीयमध्यायं व्याख्यातुं प्रतिजानीते अथेति| यतः पूवऽध्याये (श्लो.१२)-"रसो भेदैरुत्तरत्रोपदेक्ष्यते" इत्युक्तम्| अत एवायं रसभेदीयः|

Adhikarana षड्रसानामुत्पत्तिः (१) · Śloka

पूर्वं च प्रत्यपादि 'षडेव रसाः' इति| तानेव लक्षयति- क्ष्माम्भोग्निक्ष्माम्बुतेजः खवाय्वग्न्यनिलगोनिलैः| द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः||१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पृथिव्यादिभिर्महाभूतैर्द्वयोल्बणैः-ह्याधिकैः, क्रमात्-परिपाट्या, यथासङ्ख्यमित्यर्थः, मधुरादीनां षण्णां रसानामुद्भवो-अभिनिवृत्तिर्भवति| द्वयमुल्बणं येषु भूतेषु तानि द्वयोल्बणानि, तैः द्वयोल्बणैः| द्वयोल्बणशब्दोपादानाच्च द्रव्यवद्रसस्यापि पाञ्चभौतिकत्वमिति प्रतिपादयति| कतमत् पुनर्भूतद्वयं कतमस्मिन् रसेऽधिकमारम्भकं स्यादिति यथासङ्ख्येन दर्शयन्नाह-क्ष्माम्भ इत्यादि| भूमिजलाभ्यामधिकाभ्यां मधुरः, क्ष्माग्निभ्यामम्लः, अम्ब्वग्निभ्यां लवणः, खवायुभ्यां तिक्तकः. अग्निवायुभ्यां कटुकः, क्ष्मानिलाभ्यां कषायः| ननु, यथा भूमितोयाधिक्यान्मधुरः, एवमम्बुवाय्वाधिक्यादन्यो भूम्याकाशाधिक्यादन्य इत्येवमादिविकल्पैरसङ्ख्येयरसप्रसङ्गः प्राप्नोति| अत्रोच्यते| स्वभावाददोषः| एषां भूम्याकाशादीनामीदृशः स्वभावो यत्केनचिदेव भूताधिक्येन व्यवस्थितानि भूम्यादीनि रसान्तरोत्पादनसमर्थानि भवन्ति, न सर्वेणेति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तत्र रसानामुत्पत्तिमाह-क्ष्माम्भोग्नीति| पृथिव्युदकाभ्यामुल्बणाभ्यां मधुररसस्योत्पत्तिः, तेजःपृथिवीभ्यामम्लस्य, उदकतेजोभ्यां लवणस्य, वाय्वाकाशाभ्यां तिक्तस्य, तेजोवायुभ्यां कटुकस्य, वायुपृथिवीभ्यां कषायस्य|

Adhikarana मधुररसलक्षणम् (२-३) · Śloka

ननु, स्वलक्षणं विनाऽनुक्तो रसविशेषः कथं ज्ञायताम् ? इति तल्लक्षणार्थमाह तेषां विद्याद्रसं स्वादु यो वक्त्रमनुलिम्पति| आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः||२|| प्रियः पिपीलिकादीनाम्| |३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषां-रसानां मध्ये, य आस्वाद्यमानो वक्त्रमनुलिम्पति-मुखोपदेहं जनयति, तथा देहस्य ह्लादनः-आश्वासकः, तथाऽक्षाणां-इन्द्रियाणां, प्रसादनः-प्रसन्नत्वकृत्, तथा पिपीलिकादीनां प्रियः, तं मधुरं जानीयात्| पिपीलिकादीनां प्रिय एतेनैतद्दर्शयति,-प्रमेहादिषु मूत्रत्वगादौ पिपीलिकोपसर्पणात् माधुर्यानुमानं कृत्वा मधुमेहत्वादि ज्ञायते| आस्वाद्यमान इत्युत्तरत्रापि योज्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अथ रसलक्षणम्| तत्र मधुरं लक्षयतितेषामिति| उपलिम्पति-पिच्छिलादिगुणसाहचर्यात्| देहस्य ह्लादनः-प्रियतमत्वात्सर्वशरीराप्यायनः| अक्षप्रसादनः इन्द्रियवैमल्यकरः| आदिशब्दान्मक्षिकादयः|

Adhikarana अम्लरसलक्षणम् (३) · Śloka

अम्लः क्षालयते मुखम्| हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः||३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अम्लो रस आसाद्यमानो मुखं क्षालयते-स्रावयति| तथा, रोमदन्तानां हर्षणः-"हृषु अलीके" अलीककारी, उद्वेजक इत्यर्थः| तथा, अक्षिभ्रुवनिकोचनः, अक्षिणी च भ्रुवौचाक्षिभ्रुवम्, अचतुरादिसूत्रे निपातितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अम्लं लक्षयति-अम्ल इति| क्षालयतेप्रक्षालयते| रोमहर्षणः-रोमाञ्चकृत्| दन्तहर्षणो-दन्तकार्याक्षमत्वकृत्| अक्षिभ्रुवनिकोचनः-अक्ष्णोर्भ्रुवोश्च सङ्कोचकः|

Adhikarana लवणरसलक्षणम् (४) · Śloka

लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्| |४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लवणो रसो मुखं स्यन्दयति| तथा, कपोलयोर्गले च दाहं करोति| अन्नस्य रोचन इतीहातिप्रसिद्धत्वान्नोक्तम्| सङ्ग्रहे तु स्पष्टार्थमुक्तम्| यथा (सू. अ. १८)- "कण्ठकपोलं विदहति, अन्नं प्ररोचयति|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लवणं लक्षयति-लवण इति|

Adhikarana तिक्तरसलक्षणम् (४) · Śloka

| तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तिक्तो मुखं विशदयति-अपैच्छिल्ययुक्तं करोति| रसनेन्द्रियं च प्रतिहन्ति-अन्यरसग्रहणशक्तिं नाशयतीत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तिक्तं लक्षयति-तिक्त इति| विशदयतिअपैच्छिल्यं करोति| रसनां प्रतिहन्ति-जिह्वां कुण्ठति|

Adhikarana कटुरसलक्षणम् (५) · Śloka

उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः| स्रावयत्यक्षिनासास्य कपोलौ दहतीव च||५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कटुरास्वाद्यमानो जिह्वाग्रमुद्वेजयति-सोद्वेगं करोति| चिमिचिमां कुर्वन्-दहनज्वालासंस्पर्शादिवाक्ष्यादि स्रावयति| गण्डौ च दहतीव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कटुकं लक्षयति-उद्वेजयतीति| अग्रग्रहणं सम्बन्धमात्र एवोद्वेजकत्वात्| चिमिचिमां-सर्षपलिप्त इव दुःखानुभवम्|

Adhikarana कषायरसलक्षणम् (६) · Śloka

कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्| |६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कषायो जिह्वां जडयति-रसादिक्रियायां मन्दीकरोति| तथा, कण्ठस्य स्रोतांसि-शिराविशेषाः, तेषां विबन्धं करोति| श्वासादीनामयथाप्रवृत्तिमिव कुरुत इत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कषायं लक्षयति-कषायो जडयेदिति| जडयेत्-स्तम्भयेत्| कण्ठसम्बन्धिनां स्रोतसां विबन्धं-अवरोधं करोति|

Adhikarana मधुरसस्य कर्माणि (६-९) · Śloka

| रसानामिति रूपाणिकर्माणिमधुरो रसः||६|| आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्| बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम्||७|| प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः| आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः||८|| कुरुतेऽप्युपयोगेन स मेदःश्लेष्मजान् गदान्| स्थौल्याग्निसादसन्न्यासमेहगण्डार्बुदादिकान्||९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इति-परिसमाप्तौ| रसानां मधुरदीनां रूपाणि-लक्षणानि समाप्तानि| सम्प्रति तेषां कर्म यथास्वं प्रदर्शयन्नाह- स०-कर्माणीति| वक्ष्यमाणानीति वाक्यशेषः| अथ को रसः किं कर्म करोति ? इत्याह- स०-मधुरो रसो धातूनां बलं प्रबलं कुरुते-प्रकृष्टतया शक्त्या युक्तं बलं जनयेत्, निजं बलं यत् तत्प्रकृष्टं जनयतीत्यर्थः| कुतः ? आजन्मसात्म्यात्,-जन्मप्रभृति देहस्य सात्म्यादित्यर्थः| बालभाव एव हि क्षीरादिना पुरुषस्य वृत्तिः| तथा, बालादीनां प्रशस्तो-हितः| ओजसोऽधिकवर्धनत्वात् प्रशस्तः| "ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्|" इत्योजोलक्षणं (हृ. सू. अ. ११|३७) वक्ष्यति| तथा, बृंहणः कण्ठ्यश्च| स्तन्यं-क्षीरम्, सन्धानं-श्लेषः, ते करोतीति स्तन्यसन्धानकृत् गुरुश्च| तथा, आयुष्यादिगुणः| ननु, आयुष्यजीवनयोरेकार्थत्वादेकतरोपादानमेव युक्तम्| मैवम्| एतयोर्भिन्नार्थत्वात्| तथा हि,-आयुष्यः स उच्यते योऽपरिमितायुषो हितः, अधिकायुषो हेतुत्वात्| तथा च मुनिः-(च. सू अ. १|२५)- "तेनायुरमितं लेभे" इति| यस्त्वायुषो नियतरूपस्य तामेव मर्यादामनुबध्नाति, स जीवयतीति जीवन उच्यते| तदनयोः स्पष्ट एव भेदः| तथा, जीवनमोजस्यमित्यभिन्नार्थौ, किन्त्वेतयोरपीह यदुपादानं तदोजसो द्विविधाया अपि वृद्धेः कारकोऽयमिति प्रतिपादयितुम्| तथा च,-मधुरो रसो रुधिरादिक्रमेणौजसो वृद्धिकरः सामान्याद्विशेषाच्च| यथा,-क्षीरं धातुवर्धनमुक्तं वृष्यं च| तत्र धातुवर्धनत्वेनैव वृष्यत्वस्योक्तत्वाद्वृष्यशब्दोपादानं यान्यन्यानि वृष्याणि द्रव्याण्यात्मगुप्तादीनि, तेभ्यः सकाशाद्विशेषेणाश्वेववृद्धिकरमिति द्योतयितुं कृतमिति| कुरुत इत्यादि| सः-मधुरो रसः, अत्युपयोगेन-अतिसेवया, मेदःश्लेष्मोत्थान् रोगान् करोति| कांस्तान् ? इत्याह-स्थौल्यादिकान्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-प्रकरणार्थमुपसंहरति-रसानामिति| रसलक्षणप्रकरणानन्तरं रसकर्मप्रकरणमुपक्रमते-कर्माणीति| आ० र०-मधुररसस्य कर्माण्याह-मधुरो रस इति| आगन्मसात्म्यात्-निरुपाधिकसात्म्यादित्यर्थः| प्रबल-इतररसकृतेभ्यो बलेभ्यः| बलं-देहधारणसामर्थ्यम्| बालादीनां प्रशस्तो-हितः| स्तन्यं-स्त्रीक्षीरस्| सन्धानं-भग्नानां श्लेषः| आयुष्यः-अयुर्वृद्दिकरः| जीवनः-मूर्च्छादिहरः| अतिमात्रशीलितस्य मधुरस्य कर्माण्याह-कुरुनेऽत्युपयोगेनेति| स्थौल्यादयो मेदःश्लेष्मजानामुदाहरणम्| सन्न्यासोमदात्ययनिदाने वक्ष्यमाणः|

Adhikarana अम्लरसकर्माणि (१०-१२) · Śloka १२

अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः| उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लग़ुः||१०|| करोति कफपितास्रं मूढवातानुलोमनः| सोऽत्यभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम्||११|| कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्| |१२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अम्लो रसोऽग्निदीप्तिकृत्त्वादियुतः| तथा, कफपित्तास्रं करोति| मूढं-अननुलोमगं, वातमनुलोमयतीति-मूढवातानुलोमनः| सः-अम्लो रसो, अतिसेवितो देहशैथिल्यं तिमिरादींश्च कुर्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अम्लस्य कर्माण्याह-अम्ल इति| हृद्यो-हृदयप्रियः| रोचनो-जिह्वायाः| अत्युपयुक्तस्याम्लस्य कर्माण्याह-सोऽयभ्यस्त इति| पाण्डुत्व-पाण्डुरोगः|

Adhikarana लवणरसकर्माणि (१२-१४) · Śloka १४

| लवणः स्तम्भसङ्ग़ातबन्धविध्मापनोऽग्निकृत्||१२|| स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत्| सोऽतियुक्तोऽस्रपवनं ख़लतिं पलितं वलिम्||१३|| तृट्रकूष्ठविषवीसर्पान् जनयेत्क्षपयेद्धलम्| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लवणो रसः स्तम्भादिविध्मापनो वह्निकृत्त्वादियुतश्च| सोऽत्यभ्यस्तो वातरक्तादीन् जनयेत्| बलं-प्राणं क्षपयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लवणस्य कर्माण्याह-लवण इति| स्तम्भादीनां विध्मापनो-नाशनः| स्तम्भो-निष्क्रियत्वम्| सङ्ग़ातः-काठिन्यम्| बन्धः-स्रोतोरोधः| छेदो-विलम्बिमांसादेः| भेदः-पक्वशोफादेः| अत्युपयुक्तस्य लवणस्य कर्माण्याह-सोऽतियुक्त इति| अस्रपवनं-वातशोणितम्| ख़लतिपलिते-कपालरोगौ| वलिः-शैथिल्यकृतत्वक्सङ्कोचः|| विषजननं-विषातिवृद्धिजननम्|

Adhikarana तिक्तरसकर्माणि (१४-१६) · Śloka १६

| तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम्||१४|| कुष्ठमूर्च्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत्| क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः||१५|| लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः| धातुक्षयानिलव्याधीनतियोगात्करोति सः||१६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तिक्तो रसः स्वयं मुखस्यारोचनशीलः अरुच्यादीन् जयेत्| अरुचिः-आहारद्रव्यविषयेऽनभिलाषः| स च क्लेदादीनामुपशोषणः| तथा, लघ्वादिगुणयुक्तः| सोऽतिसेवितो धातुक्षयादीन् करोति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तिक्तस्य कर्माण्याह-तिक्तः स्वयमिति| स्वयमरोचिष्णुः-स्वयं न रोचते| अन्यस्य त्वरुचिं जयेत्, क्लेदादीनामुपशोषणः| स्तन्यविशोधनः-स्तन्यदुष्टिहरः| कण्ठविशोधनः-कण्ठरोधहरः| अत्युपयुक्तस्य तिक्तस्य कर्माण्याह-धातुक्षयमिति| चलव्याधीन्-वातव्याधीन्|

Adhikarana कटुरसकर्माणि (१७-१९) · Śloka १९

कटुर्गलामयोदर्दकुष्ठालसकशोफजित्| व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः||१७|| दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः| छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः||१८|| कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्| मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्||१९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कटुर्गलामयादीन् जयति| व्रणस्यावसादनो-रोहणः| स्नेहादिविशोषणो दीपनत्वादिगुणयुक्तश्च| अन्नं शोषयति-विदहति| अन्नशोषणत्वाच्छिनत्ति बन्धान्| स्रोतांसि विवृणोति-प्रसारयति| कफघ्नश्च| सोऽतिनिषेवितस्तृष्णादीन् करोति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कटुकस्य कर्माण्याह-कटुरिति| उदर्दस्त्रिधा| स चोक्त आयुर्वेदप्रकाशे-"उदर्द उक्तो वक्षोऽभिष्यन्दोऽन्यैः शीतवेपथुः| शीताम्बुस्पर्शजः शोफो रागकण्डूयुतः परैः||" इति| अलसकः-आमविकारः| व्रणावसादनः-व्रणोत्सेधहरः| स्नेहादीनामुपशोषणः| शोषणः-नाशनः, अन्नस्यादनीयत्वं नाशयतीत्यर्थः| छिनत्ति बन्धान्-सन्धीन्| स्रोतांसि विवृणोति-प्रसारयति| अत्युपयुक्तस्य कटुकस्य कर्माण्याह-कुरुते सोऽतियोगेनेति| शुक्रबलयोः क्षयः| आकुञ्चनं-शिरादिसङ्कोचः|

Adhikarana कषायरसकर्माणि (२०-२२) · Śloka २२

कषायः पित्तकफहा गुरुरस्रविशोधनः| पीडनो रोपणः शीतः क्लेदमेदोविशोषणः||२०|| आमसंस्तम्भनो ग्राहि रूक्षोऽति त्वक्प्रसादनः| करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः||२१|| तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्| |२२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कषायः पित्तकफघ्नो गुरुत्वादियुतोऽतिशयेन त्वक्प्रसादनश्च| सोऽप्युपयुक्तो विष्टम्भादीन् करोति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कषायस्य कर्माण्याह-कषाय इति| अस्रविशोधनो-रक्तदुष्टिहरः| पीडनो-व्रणानामाचूषणः| आमसंस्तम्भनः-आमदोषाणां पाकप्रसिबन्धकरः| ग्राहीस्तम्भनः| अतित्वक्प्रसादनः-त्वचमतिनिर्मलां करोति| अत्युपयुक्तस्य कषायस्य कर्माण्याह-करोतीति| पौरुषभ्रंशः-शुक्रहानिः|

Adhikarana मधुरस्कन्धः (२२-२५) · Śloka २५

अथ मधुरादिस्कन्धान्निर्दिशति- | घृतहेमगुडाक्षोडमोचचोचपरूषकम्||२२|| अभीरुवीरापनसराजादनबलात्रयम्| मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ||२३|| मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम्| क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे||२४|| क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर्मधुरो गणः| |२५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हेम-काञ्ह्चनम्| राजादनः-चाषप्रियम्| बलात्रयं-बलाऽतिबला नागबलेति| मेदा महामेदेति-मेदाद्वयम्| चतस्रः पर्णिन्य इति शालिपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च| मधूकं-मधूकपुष्पम्| मधुकं-मधुयष्टी| बिम्बी-गोल्हा| श्रावणीयुगं-श्रावणी महाश्रावणी च| क्षीरिणी-काञ्चनक्षीरी| काश्मरी-गम्भारी| सहे-महासहा, क्षुद्रसहा च| आदिशब्देन तृणपञ्चमूलमेदोमज्जतैलमधुरदाडिमपुष्करबीजशृङ्गाटकाश्वगन्धाश्वदंष्ट्रामृणालकशेरुकसिञ्-चतिकाखर्जूरीतालमस्तकादीनि गृह्यन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अथ रसस्कन्धाः| तत्र मधुरस्कन्धमाहघ्रुतहेमगुडेति| हेम-सुवर्णम्| अभीरुः-शतावरी| वीराकाकोली| राजादनः-चारः| बलात्रयं-बलाऽतिबला नागबला च| मेदे-महामेदाऽरिमेदा च| चतस्रः पर्णिन्यः-शालिपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च| श्रावणीयुगं-श्रावणी महाश्रावणी च| श्रावणी-मुण्डी| क्षीरशुक्ला-क्षीरविदारी| तुगाक्षीरी-वंशरोचना| क्षीरिण्यौ-क्षीरकाकोली दुग्धिका च| काश्मरी-गम्भारी| सहे-तरणीद्वयम्| आदिशब्दात् "खर्जूरतैलमेदोमज्जसिञ्चतिकापियालखर्जूरीतालमस्तकतामलकीम- धूलिकाऽऽत्मगुप्ताच्छत्रातिच्छत्रर्ष्यप्रोक्तर्ष्यगन्धाश्वगन्धाश्वदं- ष्ट्रामृणालिकापुष्करबीजशृङ्गाटककसेरुकप्रपौण्डरीककतकानि तृणपञ्चमूलं च " सङ्ग्रहोक्तनि (सू. अ. १८)|

Adhikarana अम्लस्कन्धः (२५-२६) · Śloka २६

इदानीमम्लस्कन्धमाह | अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम्||२५|| दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि| आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्||२६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-धात्रीफलं-आमलकम्| रजतं-रौप्यम्| चुक्रं-शुक्तम्| उपलक्षणं चेदम्| सङ्ग्रहोक्तान्यन्यान्यपि कोशाम्रलकुचकुवलकोलबदरैरावतप्राचीनामलकमस्तुधान्याम्लादीनीहैव बोध्यानि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अम्लस्कन्धमाह-अम्ल इति| अम्लिकाचिञ्चा| रजतं-रूप्यम्| चुक्रं-शुक्तम्| सङ्ग्रहे तु (सू.अ. १८)- "कोशाम्रवृक्षाम्लकुवललकुचपालेवतदन्तशठध वधन्वनकोलबदरैरावतप्राचीनामलकतिलकण्टकमस्तुधान्याम्लमद्यानि|" इति|

Adhikarana लवणस्कन्धः (२७) · Śloka २७

लवणस्कन्धमाह वरं सौवर्चलं कृष्णं बिडं सामुद्रमौद्भिदम्| रोमकं पांसुजं शीसं क्षारश्च लवणो गणः||२७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वरं-सैन्धवम्, लवणश्रेष्ठत्वात्| क्षारः-स्वर्जिकादिः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लवणस्कन्धमाह-वरं सौवर्चलमिति| वरंसैन्धवम्| कृष्णं-कृष्णलवणम्| सीसं-धातुभेदः|

Adhikarana तिक्तस्कन्धः (२८-३०) · Śloka ३०

तिक्तस्कन्धमाह- तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्| भूनिम्बनिम्बकटुकातगरागुरुवत्सकम्||२८|| नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम्| पाठापामार्गकांस्यायोगुडूचीधन्वयासकम्||२९|| पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा| |३०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नक्तमालः-करञ्जः कांस्यं-लोहभेदः| अयो-लोहम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तिक्तस्कन्धमाह-तिक्तः पटोलीति| वत्सकः कुटजः| नक्तमालः-करञ्जः| द्विरजनी-हरिद्राद्वयम् कांस्यायसी-धातुविशेषौ| धन्वयासको-दुरालभा| महत्पञ्चमूलं-बिल्वादि| व्याघ्र्यौ-क्षुद्रा बृहती च| विशालाइन्द्रवारुणी| सङ्ग्रहे तु (सू.अ. १८)- "नलदकृतमालसु- षवीज्योतिष्मतीवरुणाजशृङ्गीत्रायमाणाकटुकाकिराततिक्तक- रवीरविकङ्कतार्ककाकमाचीवैजयन्तीवेतससपपर्णसुमनःसो- मवल्कमदनफलानि पटोलादिश्च शाकवर्गः||" इति||

Adhikarana कटुस्कन्धः (३०-३१) · Śloka ३१

कटुस्कन्धमाह | कटुको हिड्गुमरिचकृमिजित्पञ्चकोलकम्||३०|| कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्| |३१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तं मूत्रं छागादीनाम्| उपलक्षणं चेदम्| अन्यानि च सङ्ग्रहोक्तानि मनःशिलासर्षपकुष्ठादीनि बोध्यानि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कटुकस्कन्धमाह-कटुको हिङ्ग्विति| कृमिजित्-विडङ्गम्| "कुठेरशिग्रुसुरस" (हृ. सू. अ. ६/१०६) इत्यादिवर्गोक्ताः-कुठेराद्या हरितकाः| मांसाशिनां प्रसिद्धो मृगाद्यवयवभेदः-पित्तम्| अरुष्करो-भल्लातकः| सङ्ग्रहे तु (सू. अ. १८)- "तेजोवतीहस्तिपिप्पलीमूलकसर्षपलशुनपलाण्डुकरञ्जमनःशिलाऽऽलदेवदारुकुष्ठैलासुरसचोरकरेणुकाः||" इति|

Adhikarana कषायस्कन्धः (३१-३२) · Śloka ३२

कषायस्कन्धमाह- | वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरो मधु||३१|| कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्| बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च||३२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आदिशब्देन प्रियङ्गुरोध्रकट्वङ्गादीनि गृह्यन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कषायस्कन्धमाह-वर्गः कषाय ति| पथ्याहरीतकी| अक्षो-बिभीतकः| मुक्ता-मुक्ताफलम्| प्रवालंविद्गुमम्| बालमिति कपित्थखर्जूरयोर्विशेषणम्| सङ्ग्रहे तु (सू.अ. १८)- "प्रियङ्ग्वनन्तारोध्रकट्वङ्गकट्फलधवधन्वन- धात्रीफलधातकीपुष्पपद्मापद्मकनागकेसरकुमुदतुङ्गतिन्दुकज- म्ब्वाम्रप्लक्षवटविकङ्कतजम्ब्वाम्रास्थ्यश्वत्थमोचरससमङ्घासो- मवल्कसप्तपर्णस्यन्दनासनसल्लकीशालतालपियालैलवालुक-परिपेलवजिङ्गिणिबदरीकदरारिमेदकाशकसेरुवंशाश्मन्तका-शोकशिंशपापलाशशमीशणशङ्खनाभिमेषशृङ्गीवरुणस्फूर्जक-सर्जभूजार्जुनाजकर्णवरणकमृणालप्रभृतीनि|" इति| मधुरस्कन्धोक्त आदिशब्दोऽम्लादिस्कन्धेऽप्यनुवर्तते, तेनानुक्तान्यपि स्वयमूह्यानि|

Adhikarana मधुरस्य श्लेष्मकरत्वापवादः (३३) · Śloka ३३

इदानीमेषां गुणनिरूपणं करोति मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते| मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात्||३३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रायेण मधुरं द्रव्यं कफकृद्भवति, शाल्यादीन् पुराणान् वर्जयित्वा| प्रायोग्रहणं तैलमकुष्टादौ व्यभिचारदर्शनात्| एवमुत्तरत्रापि प्रायोग्रहणस्य प्रयोजनं वेद्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अथ सामान्योक्तरसकर्मापवादः| तत्र मधुररसस्याह-मधुरं श्लेष्मलमिति| जीर्णशाल्यादिभ्य ऋतेविना, मधुरं श्लेष्मलम्| जीर्णादिति शाल्यादीनां चतुर्णां विशेषणम्| जीर्णात्-संवत्सरोषितात्| सिता-शर्करा| प्रायोग्रहणात् जीर्णशाल्यादीनां व्यभिचारोदाहरणत्वम्| तैलादीनामप्यश्लेष्मलत्वात्| एवमम्लादिष्वपि वाच्यम्|

Adhikarana अम्लस्य पित्तकरत्वापवादः (३४) · Śloka ३४

प्रायोऽम्लं पित्तजननं दाडिमामलकादृते| |३४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अम्लं द्रव्यं प्रायः पित्तकृत्, दाडिमामलके हित्वा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अम्लस्यापवादमाह-प्रायोऽम्लमिति|

Adhikarana लवणस्याचक्षुष्यापवादः (३४) · Śloka ३४

| अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात्||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लवणं द्रव्यं प्रायश्चक्षुषोऽपथ्यम्, सैन्धवं वर्जयित्वा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लवणस्यापवादमाह-अपथ्यं लवणमिति|

Adhikarana तिक्तकटुनोरवृष्वातकोपनापवादः (३५) · Śloka ३५

तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्| ऋतेऽमृतापटोलीभ्यां शुण्ठीकृष्णारसोनतः||३५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तिक्तं द्रव्यं कटु च प्रायेणावृष्यं वातकृच्च, गुडूच्यादीन् हित्वा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तिक्तकटुकयोरपवादमाह-तिक्तं कटु चेति| अमृतापटोलीभ्यां विना तिक्तमवृष्यं वातलं च| तद्वत् शुण्ठ्यादीन् विना कटुकम्| अमृता-गुडूची| कृष्णा-पिप्पली| रसोनो-लशुनः|

Adhikarana कषायस्य शीतस्तम्भनापवदः (३६) · Śloka ३६

कषायं प्रायशः शीतं स्तम्भनं चाभयां विना| |३६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कषायं द्रव्यं प्रायेण शीतवीर्यं स्तम्भनं च भवति, हरीतकीं वर्जयित्वा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कषायस्यापवादमाह-कषायमिति| अभया-हरीतकी|

Adhikarana कट्वम्ललवणा यथोत्तरं व्रीर्योष्णाः,तिक्तकषायमधुराः शीतलाः तिक्तकटुकषाया रूक्षाः कट्वम्लमधुराः स्निग्धाः कटुकषायमधुराः गुरवः अम्लकटुतिक्ता लघवः (३६-३९) · Śloka ३९

| रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम्||३६|| तिक्तः कषायो मधुरस्तद्वदेव च शीतलाः| तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा||३७|| पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः| पटोः कषायस्तस्माच्च मधुरः परमं गुरुः||३८|| लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः| |३९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कट्वम्ललवणा रसा यथोत्तरमुष्णवीर्याः| कटुरुष्णः अम्ल उष्णतरः, लवण उष्णतमः| एवमुत्तरत्रापि यथोत्तरत्वं योज्यम्| तिक्तादयश्च तद्वदेव यथोत्तरं शीतवीर्याः| तेन तिक्तः शीतवीर्यः, कषायः शीतवीर्यतरः, मधुरः शीतवीर्यतम इति स्थितम्| तिक्तकटुकषाया रूक्षा विष्टम्भकृतश्च| तथेति यथोत्तरमित्यर्थः| पट्वादयः स्निग्धा निःसारितविण्मूत्रवाताश्च| तथेत्यत्रापि वर्तते| अर्थात् लवणात्कषायो गुरुतरः, कषायान्मधुरः परमं गुरुः,-अतिशयेन गुरुरित्यर्थः| अम्लो लघुः, तस्मात्-अम्लात्, कटुर्लघुतरः, तस्माच्च-कटोः, तिक्तो लघुतमः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अथ रसानां गुणतारतम्यम्| तत्र वीर्यतारतम्यमाह-रसा इति| कटुको रस उष्णवीर्यः, ततोऽम्लः, ततोऽपि लवणः| तिक्तो रसः शीतवीर्यः, ततः कषायः, ततोऽपि मधुरः| तद्वदेवेति वीर्येण यथोत्तरं च| तिक्तो रूक्षो बद्धमलश्च, ततः कटुः, ततोऽपि कषायः| लवणः स्निग्धः सृष्टमलश्च, ततोऽम्लः, ततोऽपि मधुरः| लवणो गुरुः, ततः कषायः, ततोऽपि मधुरः| अम्लो लघुः, ततः कटुः, ततोऽपि तिक्तकः| अत्रापि प्राय इत्यनुवर्तते| तेनाम्लस्याप्यामलकस्य शीतवीर्यत्वमित्यादि स्वयमूह्यम्| अत एव "मधुराम्ललवणाः स्निग्धा गुरुवश्च, कटुतिक्तकषाया रूक्षा लघवश्च|" इति (सू. अ. ४२/६) सुश्रुतोक्तमम्लस्य गुरुत्वं कषायस्य लघुत्वमप्युपपन्नम्|

Adhikarana रसानां संयोगकल्पनयोर्विभागः (३९-४०) · Śloka ४०

इदानीं रसानामाधारद्वारेण संयोगान् कल्पनां च विभजन्नाह | संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा||३९|| रसानां यौगिकत्वेन यथास्थूलं विभज्यते| |४०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वक्ष्यमाणाया रीत्या रसानां संयोगाः सप्तपञ्चाशद्विभज्यन्त इति वचनविपरिणामेन सम्बन्धः| कल्पना पुनरेषां त्रिषष्टिधा विभज्यते| कथं कृत्वा कल्पना विभज्यते ? यथास्थूलम्,-स्थूलानतिक्रमेण व्यक्तरसास्वादानुरूपतया, न पुनर्यथासूक्ष्मम्| तथा हि,-रसानुरसकल्पनया तरतमयोगवशाच्च रसानां कल्पना क्रियमाणाऽऽनन्त्यमुपैति| तस्माद्यथास्थूलं रसानां कल्पना त्रिषष्टिधा विभज्यते| तथा, यौगिकत्वेन-शरीरोपयोग्यत्वेन|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-रसानां संयोगकल्पनयोर्विभागं प्रतिजानीतेसंयोगा इति| रसानां संयोगाः सप्तपञ्चाशद्भवन्ति, कल्पना तु त्रिषष्टधा भवति, तदुभयमपि विभज्यते-विभागेन कथ्यते| यथास्थूलम्, सूक्ष्माणाम् संयोगानां रसानुरसभेदेनानन्तवात्| केन हेतुना विभज्यते ? यौगिकत्वेन| यतस्तदुभयं यौगिकम्,- स्नेहविचारणादिषूपयोगि, अतो विभज्यते|

Adhikarana रससंयोगविभागः (४०-४२) · Śloka ४२

इदानीं रससंयोगानां सङ्ख़्यानं विभक्तुकाम आह | एकैकहीनास्तान् पञ्चदश यान्ति रसा द्विके||४०|| त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्| चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्||४१|| पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते| द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः||४२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्विके-द्विपरिमाणे रसाधारद्रव्यसम्बन्धिनी संयोगे, पञ्च रसाः-मधुराम्ललवणतिक्तकटुकाः, तान्-रसान्, पञ्च-अम्ललवणतिक्तकटुकषायाख़्यान्, यान्ति-संयुज्यन्ते| किम्भूतान् ? एकैकहीनान्,-एकैकेन हीनाः- विनाकृताः, एकैकहीनाः, तान्| येनैकेन युक्तास्तद्वियुक्तानित्यर्थः| अत्र च पञ्चानां रसानां पर्यायेण प्रत्येकमेकैकहीनतावशात् कर्मत्वेन कर्तृत्वेन च सम्बन्धो वेद्यः| अत एव "चतुर्द्विकौ पञ्चदशप्रकारौ" इति यद्वक्ष्यति तदुपपन्नम्| एवं मधुरोऽम्लादीन्, अम्लो लवणादीन्, लवणस्तिक्तादीन्, तिक्तः कटुकषायौ, कटुः कषायं यातीति स्थितम्| द्विक इति द्वौ परिमाणमस्य संयोगस्य| सङ्ख़्यायाः संज्ञेत्यादिपरिमाणानुवृत्तेः परिमाणार्थे सङ्ख़्यायाः अतिशदन्तायाः कनिति कन्| एवं त्रिकादिष्वपि वक्ष्यमाणेषु लक्षणं योज्यम्| द्विरसद्रव्यसंयोगे पञ्चदश भेदा भवन्ति| यथा,-मधुरोऽम्लं याति| १| मधुरो लवणम्| २| मधुरस्तिक्तम्| ३| मधुरः कटुकम्| ४| मधुरः कषायम्| ५| अम्लो लवणं याति| ६| अम्लस्तिक्तम्| ७| अम्लः कटुकम्| ८| अम्लः कषायम्| ९| लवणस्तिक्तम्| १०| लवणः कटुकम्| ११| लवणः कषायम्| १२| तिक्तः कटुकम्| १३| तिक्तः कषायम्| १४| कटुः कषायमिति| १५| अत्र च मधुरस्य गन्तृत्वमेव, न गम्यत्वम्, आदौ स्थितत्वात्| कषायस्य गम्यत्वमेव, न गन्तृत्वम्, अन्त्यत्वात्| एवं द्विरससंयोगे पञ्चदश| त्रिके-त्रिरसाधारद्रव्यसम्बन्धिनि संयोगे, स्वादुः-मधुरो, दश संयोगान् याति| यथा,-मधुराम्ललवणाः| १| मधुराम्लतिक्तकाः| २| मधुराम्लकटुकाः| ३| मधुराम्लकषायाः| ४| स एव मधुरोऽम्लत्यागेन तत्स्थाने लवणयुक्तस्तिक्तादिभिस्त्रिभिः क्रमेणान्वितस्त्रीन् संयोगान् याति| मधुरलवणतिक्तकाः| ५| मधुरलवणकटुकाः| ६| मधुरलवणकषायाः| ७| स एव लवणत्यागेन तत्स्थाने तिक्तयुक्तः कटुकषायाभ्यां क्रमेणान्वितो द्वौ संयोगौ याति| मधुरतिक्तकटुकाः| ८| मधुरतिक्तकषायाः| ९| स एव तिक्तत्यागेन तत्स्थाने कटुकान्वित एकं संयोगं याति| मधुरकटुकषायाः| १०| एवं मधुरो दश संयोगान् याति| अम्ल इत्यादि| त्रिक इति वर्तते| अम्लः षट् संयोगान् याति| यथा,-अम्ललवणतिक्तकाः| १| अम्ललवणकटुकाः| २| अम्ललवणकषायाः| ३| स एवाम्लो लवणत्यागेन तत्स्थाने तिक्तान्वितः कटुकषायाभ्यां क्रमेण युक्तो द्वौ संयोगौ याति| अम्लतिक्तकटुकाः| ४| अम्लतिक्तकषायाः| ५| एवं तिक्तत्यागेनैकं संयोगं याति| अम्लकटुकषायाः| ६| इत्यम्लः षट्| त्रीन् पटुरिति| लवणस्तिक्तयुक्तः कटुकषायाभ्यां क्रमेणान्वितो द्वौ संयोगौ याति| लवणतिक्तकटुकाः| १| लवणतिक्तकषायाः| २| स एव तिक्तत्यागेनैकं याति| लवणकटुकषायाः| ३| एवं लवणस्त्रीन् संयोगान् याति| तिक्त एकमेव संयोगं याति| तिक्तकटुकषायाः| १| एवं त्रिकसंयोगे विंशतिः| चतुष्केष्वित्यादि| चतुष्करससंयोगेषु स्वादुर्दश संयोगान् याति| तत्र मधुरः साम्लो लवणादिभिः षट् संयोगान् याति| यथा,-मधुराम्ललवणतिक्ताः| १| मधुराम्ललवणकटुकाः| २| मधुराम्ललवणकषायाः| ३| मधुराम्लतिक्तकटुकाः| ४| मधुराम्लतिक्तकषायाः| ५| मधुराम्लकटुकषायाः| ६| स एव मधुरोऽम्लत्यागेन तत्स्थाने लवणान्वितस्त्रीन् संयोगान् याति| मधुरलवणतिक्तकटुकाः| ७| मधुरलवणतिक्तकषायाः| ८| मधुरलवणकटुकषायाः| ९| स एव लवणत्यागेन तत्स्थाने तिक्तान्वित एकं संयोगं याति| मधुरतिक्तकटुकषायाः| १०| एवं चतुष्केषु मधुरो दश संयोगान् याति| चतुरोऽम्ल इत्यादि| चतुष्क इति वर्तते| अम्लः सलवणस्तिक्तादिभिस्त्रीन् संयोगान् यांति| यथा,-अम्ललवणतिक्तकटुकाः| १| अम्ललवणतिक्तकषायाः| २| अम्ललवणकटुककषायाः| ३| स एव लवणत्यागेन तत्स्थाने तिक्तान्वित एकं संयोगं याति| अम्लतिक्तकटुककषायाः| ४| एवं चतुष्केष्वम्लश्चतुरः संयोगान् याति| पटुः सकृदिति पटुः-लवणः, सकृत्-एकं भेदं, याति| यथा,-लवणतिक्तकटुकषायाः| १| एवं चतुष्केषु पञ्चदश संयोगभेदाः| पञ्चकेष्वेकमेवाम्ल इति| पञ्चकेष्वम्लो रस एकमेव संयोगं सेवते| यथा,-अम्ललवणतिक्तकटुकषायाः| १| मधुरः पञ्च सेवत इति| मधुरो रसः पञ्च संयोगान् सेवते| यथा,-अम्लत्यागात् मधुरलवणतिक्तकटुकषायाः| १| लवणत्यागात् मधुराम्लतिक्तकटुकषायाः| २| तिक्तत्यागात् मधुराम्ललवणकटुकषायाः| ३| कटुकत्यागात् मधुराम्ललवणतिक्तकषायाः| ४| कषायत्यागात् मधुराम्ललवणतिक्तकटुकाः| ५| एवमेकीकृताः षट्पञ्चाशत् संयोगा भवन्ति| द्रव्यमित्यादि| एकं षड्रसं द्रव्यमिति सप्तपञ्चाशत्| षड्रसाः पृथग्भूताः मधुराम्ललवणतिक्तकटुकषाया इति| शर्कराकाञ्चिकसौवर्चलकिराततिक्तमरीचख़दिरादीनां यथाक्रमं मधुरादयो रसा आस्वाद्यन्ते| एवमेते त्रिषष्टिसङ्ख़्याः| पद्येन च सुख़स्मृत्यै रसभेदान् शृणुष्व मे| मधुरोऽम्लेन पटुना तिक्तेन कटुकेन च|| १|| कषायेण पृथक् सार्धमम्लस्तु लवणेन च| तिक्तेन कटुना सार्धं कषायेण पृथक् सह|| २|| पटुस्तिक्तेन कटुना कषायेण पृथक् सह| तिक्तस्तु कटुना सार्धं कषायेण पृथक् तथा|| ३|| कटुकस्तु कषायेण द्विसंयोग इति स्मृताः| दश पञ्च च भेदास्ते सङ्ख़्याता, विंशतिस्त्रिके|| ४|| मधुराम्लौ तु पटुना तिक्तेन कटुना तथा| कषायेण तथा सार्धं तथा स्वादुपटू पृथक्|| ५|| तिक्तेन कटुकेनापि कषायेण तथा सह| स्वादुतिक्तौ तु कटुना कषायेण पृथक् सह|| ६|| स्वादूषणौ कषायेण स्वादोरेवं दश त्रिके| भेदाः स्युरम्ललवणौ तिक्तेन कटुना पृथक्|| ७|| कषायेण तथा सार्धमम्लतिक्तौ पृथक् सह| कटुकेन कषायेण तथाऽम्लकटुकौ सह|| ८|| कषायेणेति षट् प्रोक्ता भेदा अम्लस्य तु त्रिके| पटुतिक्तौ तु कटुना कषायेण पृथक् सह|| ९|| पटूषणौ कषायेण भेदा इति पटोस्त्रयः| तिक्तोषणौ कषायेण तिक्तस्यैवं सकृत्स्मृतः|| १०|| त्रिके भेदा इति प्रोक्ताश्चतुष्के दश पञ्च च| स्वाद्वम्ललवणाः सार्धं तिक्तेन कटुकेन च|| ११|| पृथक्कषायेण तथा मधुराम्लौ सतिक्तकौ| कटुकेन तु सम्पृक्तौ कषायेण पृथक् तथा|| १२|| स्वाद्वम्लकटुकाः सार्धं कषायेणेति षट् स्मृताः| सप्तमश्चात्र मधुरलवणोषणतिक्तकैः|| १३|| भेदोऽष्टमो मतः स्वादुकटुतिक्तकषायकैः| नवमस्त्वत्र मधुरपटूषणकषायकैः|| १४|| दशमोऽत्र भवेत्स्वादुतिक्तोषणकषायकैः| दश भेदा भवन्त्येवं मधुरेण चतुष्कके|| १५|| कटुतिक्ताम्लवणैर्भेद एकश्चतुष्कके| द्वितीयस्त्वम्ललवणकषायकटुकैः स्मृतः|| १६|| तृतीयोऽत्र भवेदम्लपटुतिक्तकषायकैः| चतुर्थोऽत्र भवेदम्लतिक्तोषणकषायकैः|| १७|| एवमम्लेन भेदाः स्युश्चत्वारोऽत्र चतुष्कके| पटुनैकोऽत्र लवणतिक्तोषणकषायकैः|| १८|| एवं पञ्चदश ख़्याताश्चतुष्करससङ्ख़्यया| षड् भेदान् पञ्चके प्राहुस्तान् वक्ष्यामि विभागशः|| १९|| एको भेदोऽम्ललवणतिक्तोषणकषायकैः| द्वितीयः स्वादुलवणतिक्तोषणकषायकैः|| २०|| तृतीयस्त्वम्लमधुरतिक्तोषणकषायकैः चतुर्थस्त्वम्लमधुरपटूषणकषायकैः|| २१|| पञ्चमस्त्वम्लमधुरपटुतिक्तकषायकैः| षष्ठो भेदोऽम्लमधुरलवणोषणतिक्तकैः|| २२|| षड् भेदा इति निर्दिष्टाः पञ्चके प्रविभागशः| भेदः स्वाद्वम्ललवणतिक्तोषणकषायकैः|| २३|| एक एव षड्रसेन, पृथक्त्वेन तु षट् स्मृताः| स्वादुरम्लोऽथ लवणस्तिक्तश्च कटुकस्तथा|| २४|| कषाय इति भेदाः स्युः सर्वतोऽत्र त्रिषष्टिधा| क्षीरं सुरा बिडं निम्बश्चव्यं पद्मं रसाश्रयम्|| २५|| द्रव्यं स्वादुरसादीनां षण्णां विद्धि यथाक्रमम्| द्रव्यं द्रव्यान्तरेणैव योजयेद्द्विरसादिषु|| २६|| धात्रीफलं शर्करया लवणेनार्द्रकं तथा| एवमादीनि द्रव्याणि योजयेद्भिषगुत्तमः|| २७|| कानिचित् द्विरसादीनि द्रव्याणि स्युः स्वभावतः| यथैणः षड्रसः कृष्णो, यथा पञ्चरसाऽभया|| २८|| मद्यं पञ्चरसं यद्वत्तिलो यद्वच्चतू रसः| एरण्डतैलं त्रिरसं, माक्षिकं द्विरसं यथा|| २९|| ग़ृतमेकं स्वादुरसं मधुरादिविभागतः| दिङ्मात्रादुदितादेवं शेषमूह्यं मनीषिणा|| ३०|| सम्प्रति "एकैकहीनान्" इत्यादिना ग्रन्थेन ये रसानां भेदाः शास्त्रकृतोक्ताः, तानेव सङ्क्षेपेण प्रकटयितुमाह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-संयोगान् विभजति-एकैकहीना इति| द्विके क्रियमाणे रसा एकैकहीनाः कार्याः| ते च तान्-संयोगान्, पञ्चदश यान्ति| त्रिके क्रियमाणे स्वादुर्दश संयोगान् याति, अम्लः षट्, लवणस्त्रीन्, तिक्त एकम्| चतुष्के क्रियमाणे स्वादुर्दश, अम्लश्चतुरः, लवण एकम्| पञ्चके क्रियमाणे अम्ल एकं संयोगं सेवते-भजति, मधुरः पञ्च| षट्के क्रियमाणे षडास्वादं द्रव्यमेकं भेदं सेवते| तत्द्यथा,-मधुराम्लौ|१| मधुरलवणौ|२| मधुरतिक्तौ|३| मधुरकटुकौ|४| मधुरकषायौ|५| अम्ललवणौ|६| अम्लतिक्तौ|७| अम्लकटुकौ|८| अम्लकषायौ|९| लवणतिक्तौ|१०| लवणकटुकौ|११| लवणकषायौ|१२| तिक्तकटुकौ|१३| तिक्तकषायौ|१४| कटुकषायौ|१५| मधुराम्ललवणाः|१६| मधुराम्लतिक्ताः|१७| मधुराम्लकटुकाः|१८| मधुराम्लकषायाः|१९| मधुरलवणतिक्ताः|२०| मधुरलवणकटुकाः|२१| मधुरलवणकषायाः|२२| मधुरतिक्तकटुकाः|२३| मधुरतिक्तकषायाः|२४| मधुरकटुकषायाः|२५| अम्ललवणतिक्ताः|२६| अम्ललवणकटुकाः|२७| अम्ललवणकषायाः|२८| अम्लतिक्तकटुकाः|२९| अम्लतिक्तकषायाः|३०| अम्लकटुकशायः|३१| लवणतिक्तकटुकाः|३२| लवणतिक्तकषायाः|३३| लवणकटुकशायाः|३४| तिक्तकटुकषायाः|३५| मधुराम्ललवणतिक्ताः|३६| मधुराम्ललवनकटुकाः|३७| मधुराम्ललवनकषायाः|३८| मधुराम्लतिक्तकटुकाः|३९| मधुराम्लतिक्तकषायाः|४०| मधुराम्लकटुकषायाः|४१| मधुरलवणतिक्तकटुकाः|४२| मधुरलवनतिक्तकषायाः|४३| मधुरलवणकटुकषायाः|४४| मधुरतिक्तकटुकषायाः|४५| अम्ललवणतिक्तकटुकाः|४६| अम्ललवणतिक्तकषायाः|४७| अम्ललवणकटुकषायाः|४८| अम्लतिक्तकटुकषायाः|४९| लवणतिक्तकटुकषायाः|५०| अम्ललवणतिक्तोषणकशायाः|५१| मधुराम्ललवणतिक्तकटुकाः|५२| मधुराम्ललवणतिक्तकषायः|५३| मधुराम्ललवणकटुकषायाः|५४| मधुराम्लतिक्तकटुकषायाः|५५| मधुरलवणतिक्तकटुकषायाः|५६| एकं द्रव्यं षडास्वादं-मधुराम्ललवणतिक्तकटुकषायाः|५७| ननु, एतावन्तश्चेद्रसभेदाः, तत्कथमुक्तम्? "षड्साः" इति, अत आह-असंयुक्ताश्चेति| मिश्रास्तु सप्तपञ्चाशत्|

Adhikarana सङ्ख्यया कल्पनाविभागः (४३) · Śloka ४३

षट् पञ्चकाः, षट् च पृथग्रसाः स्यु- श्चतुर्द्विकौ पञ्चदशप्रकारौ| भेदास्त्रिका विंशतिरेकमेव द्रव्यं षडास्वादमिति त्रिषष्टिः||४३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पञ्चकरसानां संयोगाः षट्सङ्ख्याः, "पञ्चकेष्वेकमेवाम्ले मधुरः पञ्च सेवते" इति| षट् च पृथग्रसाः, "असंयुक्ताश्च षड्रसाः" इति| चतुरीत्यादि| चतुष्कभेदः पञ्चदशप्रकारः , द्विकभेदश्च पञ्चदशप्रकारः| "चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्|" एवं पञ्चदश प्रकाराः| "एकैकहीनांस्तान् पञ्च पञ्च यान्ति रसा द्विके|" इति वचनात् [च]| भेदा इत्यादि| त्रिकाः-त्रिभेदभिन्ना भेदा विंशतिः| "त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्|" इति विंशतिः| एकमेव द्रव्यं षडास्वादम्| इति-इत्थम्, रसानां भेदास्त्रिषष्टिः,-यथास्थूलं चैषा त्रिषष्टिधा कल्पना व्याख्याता| उपजातिवृत्तम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-सङ्ख्यया कल्पनां विभजति-षट् पञ्चका इति| पञ्चकाः-पञ्चरससंयोगभेदाः षट्, पृथग्रसभेदाः षट्, चतुष्काः पञ्चदश, द्विकाश्च पञ्चदश, त्रिका विंशतिः, षदास्वादं द्रव्यमेको भेदः, इत्येवं त्रिषष्टिः कल्पनाभेदाः|

Adhikarana रसभेदानामानन्त्यम् सर्वेषां रसभेदानामुपयोगित्वम् (१०) · Śloka १०

सम्प्रति यथासूक्ष्मं प्रदर्शयितुमाह ते रसानुरसतो रसभेदा- स्तारतम्यपरिकल्पनाय च| सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः||४४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभेदीयो नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ते रसभेदाः-त्रिषष्टिरूपाः, रसतो-रसवशेन, तथाऽनुरसतो-अनुरसवशेन, तथा तारतम्यपरिकल्पनया-अयं मधुरोऽयं मधुरतरोऽयं मधुरतम इत्येवंरूपा या तया च, गणनां समतीताः-सङ्ख्यामतिक्रान्ताः सम्भवन्ति| दोषेत्यादि| दोषाः-वातादयो, भेषजानि-हरीतक्यादीनि, दोषाश्च भेषजानि च दोषभेषजानि, तेषां वशो-अनुरोधः सामर्थ्यं वा, तस्माद्धेतुभूताद्रसभेदा उपयोज्याः, न दोषमनपेक्ष्य भेषजं वाऽनपेक्ष्य| एवमेवोपयोज्या इत्यर्थः| तथा च मुनिः (च. सू. अ. २६|२३)- "क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्| दोषौषधादीन् सञ्चिन्त्य भिषजा सिद्धिमिच्छता||" इति| दोषभेषजवशादित्युपलक्षणार्थम्| देशादिवशादपि दोषादीन् वीक्ष्य रसभेदा उपयोज्याः| यथा,-पवने जेतव्ये मधुराम्लौ मधुराम्ललवणा वेति| स्वागता रनभगैर्गुरुकान्ता इति| इति श्रीमृगाङ्कदत्तपुत्र श्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने रसभेदीयाध्यायो दशमः समाप्तः|| १०||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-उक्तभेदानामवान्तरभेदैरानन्त्यं दर्शयति-ते रसनुरसत इति| ते-रसभेदाः, रसानुरसकल्पनया तारतम्यकल्पनया च गणनां समतीताः सम्भवन्ति| यथा,-मधुराम्लस्य द्रव्यस्य मधुरस्य रसत्वे, अम्लस्यानुरसत्वे, क्वचिदम्लस्य रसत्वे, मधुरस्यानुरसत्वे बहुभेदत्वमित्यादि| तथा, मधुरस्य मधुरतरत्वं मधुरतमत्वं चेत्यादि तारतम्यम्| सर्वेषां रसभेदानां यौगिकत्वं दर्शयति-दोषभेषजवशादिति| दोषवशाद्भेषजवशाद्वा सर्वेऽपि रसा उपयोज्याः-औपयोगिका भवन्ति| दोषवशाद्यथा,-केवलवायावम्लः, पित्तयुक्ते अम्लतिक्तौ, श्लेष्मयुक्ते अम्लकटुकावित्यादि| भेषजवशाद्यथा,- विरेचनमौषधमेकरसत्वादहृद्यं द्विरसत्रिरसादि कार्यम्| सङ्ग्रहे तु (सू. अ. १८)- "रसः खल्वाप्यः प्रागव्यक्तश्च| स षडृतुकत्वात्कालस्य महाभूतगुणानामूनातिरिक्तविशेषेण संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन| अथ यः शिशिरपवनधरणिधरविविधवनगहननदीतडागपल्वलोदपानकमलकुमुदकुवलयाकीर्णो रम्यः स्थिरस्निग्धभूमिर्भूरिहतिततृणोऽतिदूरविस्तृतप्रतानप्रवलोपसञ्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापचीज्वराद्यामयोपद्रुतजनपदः, सोऽनूपो मधुररसयोनिः| यस्तु विषमविपुलसिक्तास्थलबहुलोऽतिदूरावगाढविरससलिलः कठिनक्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदोऽनूपविपरीतश्च, स जाङ्गलः कटुकरसयोनिः| उभयलक्षणमिश्रीभावात्साधारणः, अत एव चानूपसाधारणो जाङ्गलसाधारणश्चेति विकल्पः| तयोराद्यो लवणाम्लयोर्योनिः, इतरश्चेतरयोः|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| रसभेदप्रकरणं सामस्त्येन निरूपितम्|| १०||