Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- पूर्वमन्नपानादिद्रव्यैकदेशः प्रायोपयोगवान्निर्दिष्टः, तस्य चाहारविधेर्मात्रा चोपदिष्टा| सम्प्रति द्रव्यरसवीर्यविपाकादयो वाच्याः| अन्नपानं हि रसवीर्यविपाकादीन् परीक्ष्योपयोक्तव्यम्, नान्यथा| तस्मान्मात्राशितीयाध्यायादनन्तरं द्रव्यादिविज्ञानीय आरभ्यते-
Adhikarana द्रव्यादिविज्ञानीयाध्यायोनवमः (२) · Śloka २
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्रव्यमादिर्येषां ते द्रव्यादयः| आदिशब्देन रसवीर्यादिपरिग्रहः| द्रव्यादीनां विज्ञानं-अवगमः, तस्मै हितः| शेषं पूर्ववत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्रव्यादिविज्ञानीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| यतः पूर्वैश्चतुर्भिरध्यायैराहार उक्तः| स चानन्तविशेषत्वात् तावता ज्ञातुमशक्यः, अतोऽशेषसङ्रहार्थं द्रव्यरसगुणवीर्यविपाकप्रभावाः सामान्यतो वाच्याः| ते चास्मिन्नध्याये| अत एवायं द्रव्यादिविज्ञानीयः|
Adhikarana रसादीनां द्रव्यमेव श्रेष्ठम् (१) · Śloka १
तत्र द्रव्यस्य रसादिभ्यः प्राङ्निर्देशः, प्राधान्यात्|
प्राधान्यं च स्वयमेव ग्रन्थकृत् प्रतिपादयन्नाह द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः|
|१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसादीनामिति निर्धारणे षष्ठी| रसवीर्यादीनां मध्ये द्रव्यमेव प्रधानम्| कुतः ? ते-रसादयो, हि-यस्मात्, तदाश्रयाः-तदेव द्रव्यमाश्रयो येषां त एवम्| अत एव केवला रसादयो नोपलभ्यन्ते| तस्मात् द्रव्यं प्रधानम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र द्रव्यस्य प्राधान्यमाह-द्रव्यमेवेति|| रसादिभ्यो द्रव्यमेव प्रधानम्| हि-यस्मात्, ते-रसादयः, तदाश्रयाः-द्रव्याधिष्ठानाः| एतेनैव रसाद्याश्रयो द्रव्यमित्युक्तं भवति| प्राधान्यकथनं द्रव्यज्ञाने तात्पर्यार्थम्| उक्तं च सङ्ग्रहे (सू. अ. १७)-"यस्माद् दृष्टो यवः स्वादुर्गुरुरप्य निलप्रदः| दीपनं शीतमप्याज्यं वसोष्णाऽप्यग्निसादिनी|| काटुपकोऽपि पित्तघ्नो मुद्गो, माषस्तु पित्तलः| स्वादुपाकोऽपि, चयकृत्स्निग्धोष्णं गुरु फाणितम्|| रसे स्वादौ यथा चैतत्तथाऽन्येष्वपि दृश्यते| वातलं कफपित्तघ्नमम्लमप्याक्षकीफलम्|| कुरुते दधि गुर्वेव वह्निं पालेवतं न तु| कपित्थंदाडिमं चाम्लं ग्राहि, नामलकीफलम्|| कषाया ग्राहिणी शीता धातकी, न हरीतकी| अप्रधानाः पृथक् तस्माद्गसाद्याः संश्रितास्तु ते|| प्रभावश्च यतो द्रव्ये, द्रव्यं श्रेष्ठमतो मतम्|" इति|
Adhikarana द्रव्यस्य पञ्चभूतात्मकत्वम् (१) · Śloka १
|
पञ्चभूतात्मकं तत्तु|१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुरवधारणे| यत्तदोश्च नित्याभिसम्बन्धात् यदित्येतदनुक्तमप्यर्थाल्लभ्यते| तेनायमर्थः,-यत् रसादीनामाश्रयभूतं कार्यं द्रव्यं-हरीतक्यादि स्थावरं, छागादि वा जङ्गमं, तत् पञ्चभूतात्मकम्, न तु यत्कारणं द्रव्यमाकाशादि| तस्य हि पञ्चभूतात्मकत्वे सत्याकाशादीनां पृथक्त्वेनात्मलाभो न स्यात्| ततश्चेदमाकाशं नाम महाभूतम्, इदं पृथ्वी नाम महाभूतमिति गदितुं न पार्येत, सर्वस्य पञ्चमहाभूतात्मकत्वात्| न च यत्कारणं तत्कदाचित् कार्यं स्यात्| तस्मात् कार्यद्रव्यस्यैव पञ्चमहाभूतात्मकत्वम्, न कारणद्रव्यस्याऽऽकाशादेः| मुनिस्तु (च. सू. अ. १|४७)- "खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|" इति नवधा द्रव्यमुक्त्वा तल्लक्षणं व्यधीत| यथा (चरके सू. अ. १|५०)- "यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्द्रव्यम्" इति| अस्यार्थः,-यत्र कर्म-परिस्पन्दलक्षणं संयोगवियोगकारणम्, समवेतश्च गुणः-यत्र शब्दादयो गुर्वादयो वा| बुद्धिर्वा परादयो वा समवेताः, यच्च कारणं समवायि तद्द्रव्यमुच्यते| समवायीति| यत्कारणमपृथग्भवति तत्समवायिकारणम्| यथा,-तन्तवः पटस्य| एतानि कर्मगुणाश्रयित्वसमवायिकारणत्वानि यद्यपि सर्वाणि सर्वस्मिन् द्रव्ये न विद्यन्ते, तथाऽपि यद्यत्र सम्भवति तत्र तेन तस्य द्रव्यस्य द्रव्यत्वं कल्प्यम्| तद्यथा,-मनसः कर्मगुणाश्रयित्वेन, वाय्वादीनां तु कर्मगुणाश्रियत्वेन समवायिकारण्त्वेन च| ननु, आकाशादीनि कारणद्रव्याणीति कथमुक्तम् ? यावताऽऽकाशस्य द्रव्यत्वमेव नास्तीति केचित्| तान्ब्रूमहे| जलधेरिव प्रत्यक्षेणैवास्य नीलरूपतोपलब्धेरस्तित्वं सिद्धम्| तथा, कवयोऽपि नीलत्वमेवास्य वर्णयन्ति| यथा कर्णाटस्य-"विपुलपुलिना हृद्या नद्यो वहन्त्यतिनिर्मलाः कमलसुभगो वायुर्घ्राणं विलम्बति मांसलः| नवजलधरच्छायावासादिवाचिरनिर्गतो वहति शशभृन्नीलस्निग्धे नभस्यवदातताम्||" इति| तथा च बाणस्य-"धौताशनि नभसि" इति| तदेतद्दूषयन्ति| तथा हि,- दूरात् भ्रान्तिमात्रेणैव नीलरूपत्वमस्योपलभ्यते| यथा-गिरेर्विविधवर्णस्यापि दूरान्नीलत्वप्रतीतिः| यत्कवीनां वर्णनं तत्सादृश्यलेशेन निष्प्रमाणमेव सम्भाव्यते| तथा च तेजसः शुक्लत्वं वर्णयन्ति| न च शुक्लत्वमेतस्योपपद्यते, निराकारत्वात्| तस्मान्नीलरूपत्वमाकाशस्यानुपपन्नम्| अपि च, यद्याकाशस्य नीलरूपता स्यात्, तदा नीलरूपं भवन्नभः| न च स्यात्स्निग्धनीलरूपत्वं नभसः| ननु, दर्शनवैचित्र्यादस्य रूपवत्त्वमुपपन्नम्| यथा,-पुरुषः शरादेरृजुतां दिदृक्षुरेकं चक्षुर्निमील्यापरं चोन्मील्य तामुपलभते, न तु नयनयुगलेन| तद्वत्सन्निकृष्टे गगनरूपस्यानादानम्, विप्रकृष्टे तु ग्रहणं स्यादिति| न चैतद्युक्तम्| यतो रूपवत्त्वेऽभ्युपगम्यमाने स्पर्शवत्त्वमस्य प्रसज्येत, रूपस्य स्पर्शेन नित्यसम्बन्धात्| स्पर्शवत्त्वे च सत्याकाशत्वमेव न स्यात्| अतो न रूपवद्व्योम| अन्ये त्वेवं मन्यन्ते| पवनवदाकाशस्यावस्थाऽस्तु| यथा किल पवनः स्पर्शवान्, न च तस्मिन् रूपं सम्भवति| तथैवाकाशो रूपवान्, न च स्पर्शवानिति| तदिदमनवगतपदार्थस्वरूपाणां विलपनम्| ततो यत्र रूपं तत्रावश्यं स्पर्शः, न तु यत्र स्पर्शस्तत्रावश्यं रूपम्| तस्मान्न नभो रूपवन्न च सत् (स्पर्शवत्)| अत्रोच्यते| परमार्थदर्शिभिर्यदुपादायोत्पत्तिः कथ्यते, तदस्ति| यथा,-पृथिव्यादि| उक्तं च-"अक्षरात् खं ततो वायुस्तस्मात्तेजस्ततो जलम्| उदकात् पृथिवी जाता भूतानामेष सम्भवः||" इति| तस्मादाकाशं द्रव्यमस्ति| अपि च, आकाशमुपदाय यतिवृद्धिप्रसवादिविशेषोपलब्धेराकाशस्यास्तित्वम्| यथा,-रूपोपलब्धिविशेषसम्भवानुमितं चक्षुः| अपि च, आकाशाभावे ह्येकघनत्वं जगतः स्यात्| तथा, शब्दाख्यस्य गुणस्यान्यथाऽनुपपत्त्याऽस्त्याकाशमिति| ननु, वायोर्द्रव्यत्वं नास्ति, तत्स्वरूपग्राहकप्रमाणाभावात्| स्पर्शोपलब्धेर्वायोरस्तित्वमुच्यत इति चेत् तदपि न, यतोऽधुनैवोक्तं खाद्वायुरिति| गगनस्य च स्पर्शाभावात् वायोरप्यस्पर्शवत्त्वम्, कारणगुणपूर्वकत्वात्कार्यस्य| नैतदस्ति| कार्यस्योभयात्मकत्वदर्शनात्| कारणगुणपूर्वकं कार्यं दृष्टमकारणगुणपूर्वकं च दृष्टम्| तत्र कारणगुणपूर्वकं तावद्यथा,-तन्तुश्वेतत्वपूर्वकं पटे श्वेतत्वं दृष्टम्| अकारणगुणपूर्वकं च दृष्टम्, यथा-हरिद्राक्षारसंयोगाद्रक्तता| तस्मादस्पर्शादाकाशादुत्पन्नो वायुः स्यादेव स्पर्शवान्| ननु, एवमप्यग्निजलपृथिवीष्वपि स्पर्शविशेषसम्भवात् अग्न्यादिसमवाय एव वायुर्व्यवह्रियते न तु तद्व्यतिरिक्तो वायुरस्ति| अत्रोच्यते| सत्यमनलादीनामपि स्पर्शोऽस्ति, किन्तु विलक्षण एवासौ| तथा हि,- तेजसः स्पर्शो रूपैकार्थसमवायी| अपां स्पर्शो रूपरसाभ्यां समवेतः| पृथिव्याः स्पर्शो रूपरसगन्धसमवेतः| यस्तु वायोः स्पर्शः, स पत्रचलनशाखाभञ्जनादिकर्मसमवायी| स नैषामग्न्यादीनां दृष्टानां नाप्यदृष्टानामात्मगिक्कालादीनाम्| गुणाश्च सर्वे द्रव्याश्रया दृष्टाः, रूपादय इव पटादिषु| तस्माद्वायोर्विशिष्टस्पर्शवत्त्वादस्तित्वमनुमीयते| तथा, पवनस्य तत्कर्मोपदेशादस्तित्वम्| यस्य तत्त्वदर्शिभिः कर्मोपदिश्यते, तदस्ति| यथा,- कफादिवद्वातस्य च कर्मोपदिष्टम् (हृ.सू.अ. १२|४९)- "स्रंसव्यासव्यधस्वाप" इत्यादि| तस्मादस्ति वायुर्द्रव्यमिति| अग्निर्द्रव्यं नास्ति, इन्धनव्यतिरेकेणानुपलब्धेः| अत्रोच्यते| तत्त्वदर्शिभिरग्नेर्द्रव्योत्पत्तिहेतुत्वेनोपदेशादस्तित्वम्| तथा चेहैव वक्ष्यति (श्लो. ८)- "आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्|" इति| ननु, युक्तश्चतुर्णां पृथिव्यापस्तेजोवायूनां भूतानां सावयवत्वात् द्रव्येषूत्कर्षापकर्षसन्निवेशः, क्वचिद्द्रव्ये कस्यचिद्भूतस्य प्रमाणतः प्रभावतश्चावयवानामुक्तर्षापकर्षसद्भावात्| आकाशस्य तु निरवयवत्वात्सूक्ष्मत्वादेकत्वाच्चोत्कर्षापकर्षसन्निवेशो न युक्तः| युक्तमाह भवान्| किन्तु सावयवानामेव द्रव्याणां येऽवयवाः क्वचित्पाषाणादौ संहतास्तथाऽवतिष्ठन्ते| यथा तत्र द्रव्ये काठिन्यस्य प्रकर्षो भवति| तत्र चाकाशमपकृष्यते| अनिबिडावयवे तु सन्निवेशे आकाशः प्रकृष्यते| तदेवमनया युक्त्याऽऽकाशस्यापि न्यूनाधिकभाव उपपन्नः| अथ केन महाभूतेन कथं कृत्वाऽऽरब्धं तद्द्रव्यमित्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्रव्यभेदानाह-पञ्चभूतात्मकमिति| पञ्च सङ्ख्याकानि भूतान्येव आत्मानो यस्य तत्तथा, पार्थिवादिभेदात् पञ्चधेत्यर्थः| कार्यकारणयोरभेदोपचारात् भूतशब्देन भौतिकमुच्यते| द्रव्यमित्यनुवर्तते|
Adhikarana द्रव्योत्पत्तिप्रकारः (१-२) · Śloka २
|
क्ष्मामधिष्ठाय जायते||१||
अम्बुयोन्यग्निपवननभसां समवायतः|
तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पृथ्वीमाधारीकृत्वोत्पद्यते| एवं पृथिव्याख्येन भूतेनाऽऽधारत्वेनोपकृत्य तेन तदारब्धं द्रव्यमित्युच्यते| स०-तथा, अम्बु-सलिलं, योनिः-कारणं, यस्य तदम्बुयोनि द्रव्यम्| एवं जलं नाम महाभूतं रसवत्त्वाद्योनितयोपकृत्य तेन तदारब्धमित्युच्यते| [मुनिनाऽप्युक्तम् (च. सू. अ. १|६३)- "रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||" इति| अमीषां द्रव्यादीनामाश्रयकर्मणोर्भेदश्चिन्त्यः|] तथा, अग्निपवननभसां समवायात्-अपृथग्भावात्, तस्य-द्रव्यस्य, निवृत्तिः-निष्पत्तिः| तथा, तस्य द्रव्यस्य यो विशेषः-इदमन्यदिदमन्यद्द्रव्यमित्येवंरूपो नानास्वभावः, सोऽप्यग्निपवननभसां समवायात्| एवमग्नि पवननभोभिः समवायिकारणत्वैनोपकृत्य तैरेतद्द्रव्यमारब्धमित्युच्यते| एवं च सर्वं कार्यद्रव्यं पञ्चमहाभूतात्मकम्, पञ्चभिर्महाभूतैरारब्धत्वात्| ननु, यदि पञ्चमहाभूतात्मकं द्रव्यं तत्कथमुच्यते पार्थिवमिदं द्रव्यमिदमाप्यमित्याह- स०-यत्र द्रव्ये यद्भूतं भूयिष्ठमधिकृतम्, तेन तस्य व्यपदेशः-संज्ञा भवति| यथा,-पृथिव्याऽधिकयोत्पादितं द्रव्यं पार्थिवम्| एवमाप्यं तैजसं च वेद्यम्| तदेवं सर्वं द्रव्यं पञ्चभूतात्मकं स्थितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्रव्योत्पत्तिमाह-तत्त्विति| तत्-द्रव्यम्, क्ष्मां-पृथिवीम्, अधिष्ठाय जायते, मृदमिव घटः, उपादानकारणं पृथ्वीत्यर्थः| आ रं-अम्बु-उदकं, योनिः-विपरिणामकारणं यस्य तदम्बुयोनि| यथा,-घटे निष्पाद्ये मृदः पिण्डीभावादौ| अग्न्यादीनां सम्बन्धात् तन्निर्वृत्तिः-सम्पूर्णावयवत्वम्, काठिन्यक्रियावकाशादिदानेन| विशेषः-परस्परम्, सोऽपि तत एव| यथा,- पिण्डीभूताया मृदो मणिककरकशरावादिभेदः| आ रं-सर्वेषां पञ्चभुतात्मकत्वादभेदे प्राप्ते भेदहेतुमाह-व्यपदेश इति| व्यपदेशः-इदं पार्थिवमिदमाप्यमित्यादि भेदेन व्यवहारः| स भूयसा-अधिकेन भूतेन, यत्र यस्याधिक्यं तस्य तेन व्यपदेशः|
Adhikarana सर्वद्रव्याणां सर्वधर्मत्वम् (३) · Śloka ३
तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्|
|३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्माद्भूतसङ्घातसम्भवात् कारणाद्द्रव्यं नैकरसं-अपि त्वनेकरसम्| एवं द्रव्यवद्रसस्यापि भूतसङ्घातसम्भवत्वम्| अत एव प्रतिद्रव्यं मधुरादिरसस्य नानास्वादोपलम्भः| तथा च, द्राक्षाऽक्षोडक्षीरेक्षुक्षौद्रगोक्षुरादौ द्रव्ये सत्यपि माधुर्येऽपरोऽपर आस्वाद उपलभ्यते| एवमम्लानामपि मातुलुङ्गधान्याम्लादीनां द्रव्याणां नानास्वादोपलम्भः| एवं लवणादीनामपि वेद्यम्| अपि चैषां द्राक्षादीनामनेकरसत्वमास्वादविशेषादनुमीयमानं भूयसा रसेनान्यरसाभिभवं कृत्वा व्यपदिश्यते इदं मधुरमिदमम्लाद्यन्यतमम्, महाभूतवत्| यथा,-सर्वं द्रव्यं पञ्चमहाभूतात्मकं भूयसा महाभूतेनान्यमहाभूताभिभवं कृत्वा यथा तेन व्यपदिश्यते पार्थिवमिदमाप्यमिदमिति| ननु, द्रव्यनिर्णये प्रकृते पाञ्चभौतिकं यदेव द्रव्यं प्रतिज्ञातं तदेव "तस्मात्" इत्यादिना निगमग्रन्थेनातिवाहयितुं युक्तम्, न पुनरप्रस्तुतमनेकरसत्वम्| तस्मादत्रैवं ग्रन्थः कर्तुं न्याय्यः-"तस्मान्नैकभूतजं द्रव्यं भूतसङ्घातसम्भवात्|" इति| अत्रोच्यते| षण्णामपि रसानां योनिरुदकम्| ततश्चैकस्यैव महाभूतस्योदकसंज्ञस्य रसकारणत्वं प्राप्तं नान्येषाम्, नीरसत्वात्| इति कृत्वा न भूतसङ्घातसम्भवत्वं रसस्य| इत्येवंविधामाशङ्कामपनिनीषुर्भूतसङ्घातसम्भवत्वं रसस्य चैकेनैव प्रयत्नेन "तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्|" इति जगाद| मुनिश्चात एव रसस्य भूतसङ्घातसम्भवत्वं स्पष्टं कृत्वोवाच| यथा (च. सू. अ. १|६३)- "रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निवृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||" इति| एवं भूतसङ्घातो रसानां द्रव्याश्रितानामपि सम्भवकारणम्| एतच्च रसभेदीये सविस्तरं कथयिष्यामः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्वेषां द्रव्याणां सर्वधर्मत्वमाह-तस्मादिति| तस्मात्-सर्वभूतारब्धत्वात् सर्वमपि द्रव्यं नैकरसं-अनेकरसम्, सर्वधर्ममित्यर्थः| रसशब्दोऽत्र धर्ममात्रोपलक्षणः| सर्वभूतारब्धत्वेऽप्येकरसत्वे को दोषः ? इत्याशङ्क्याह-भूत सङ्घातसम्भवादिति| रसानामपि भूतसमुदायादुत्पत्तेः| वक्ष्यति हि (हृ.सू.अ. १०/१)-"द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः|" इति| सति च कारणे कार्येणावश्यं भाव्यम्|
Adhikarana सर्वरोगाणां सर्वदोषजत्वम् धर्मतारतम्यम् सर्वधर्मत्वपरिहारः (३-४) · Śloka ४
|
नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः||३||
अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते|
|४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यतः सर्वं द्रव्यमनेकरसम्| ततः-तस्मात्कारणात्, एकदोषा रोगा ज्वरादयो न भवन्ति, अपि त्वनेकदोषाः, त्रिदोषा इत्यर्थः| अत्रापि "व्यपदेशस्तु भूयसा" इत्यध्याहार्यम्| तेन त्रिदोषात्मकेऽपि ज्वरे वाताधिके वातज्वर एवं पित्तज्वरः श्लेष्मज्वर इत्येवंरूपो व्यपदेश उपपन्नः| ननु, यदि सर्वो ज्वरः सन्निपातजः, तत्किमिति वक्ष्यति ? अयं सन्निपातज्वर इति| ब्रूमहे| समविषमरूपं शक्त्युत्कर्षमाश्रित्य यत्र दोषा वर्तन्ते स सन्निपातज्वर इति तन्त्रकृता पुरस्ताद्विस्तरेण प्रतिपादयिष्यते| अथ को रसोऽनुरसो वेत्याह-तत्रेत्यादि| तत्र-तस्मिन् द्रव्ये, यो व्यक्तः-स्फुट उपलभ्यते, स रसः स्मृतस्तन्त्रकृद्भिः| यश्चाव्यक्तो-अस्फुटप्रतिभासो रसनेन्द्रियेणोपलभ्यते, सोऽनुरसः| हीनार्थोऽत्रानुशब्दः, अल्पो रस इत्यर्थः| न चैतावदेवानुरसलक्षणमित्याह-किञ्चिदित्यादि| मुखक्षिप्तस्य हरीतक्यादेर्द्रव्यस्य रसनेन्द्रियेण किञ्चिदन्ते व्यक्तोऽप्युपलभ्यते यः सोऽप्यनुरस इष्यते, मुनिभिरति वाक्यशेषः| अन्ते इत्यनेनैतद्बोधयति,-अन्ते-अवसाने, न त्वादावापातमात्रे न च मध्ये| तयोर्हि रसस्यैवोपलम्भः| अनुशब्दस्यात्र पश्चादर्थत्वात् पश्चात् स्फुटोऽपि किञ्चिद्य उपलभ्यते सोऽप्यनुरस इत्यर्थः| ननु, मधुरादयो रसा गुर्वादिगुणयुक्ताः कथं वक्तुं पार्यन्ते| यतो मधुरादयो रसा गुणा गुर्वादयश्च गुणाः| न च गुणानां मधुरादीनां गुर्वादिगुणाधारत्वमुपपन्नम्| तथा च वैशेषिका:-"निर्गुणा गुणाः" इति| तस्मिन् पर्यनुयोग इदमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तुल्यन्यायत्वप्रसङ्गात् सर्वेषां रोगाणां सर्वदोषजत्वमाह-नैकदोषा इति| रोगा नैकदोषाः-सर्वेऽपि रोगाः सर्वदोषोद्भवाः| कुतः? तत एव हेतोः,-रोगाणामपि भूतसङ्घातसम्भवात्| भुतसङ्घातस्य तु त्रिषु दोषेषु विभक्तत्वात्| यथोक्तं सङ्ग्रहे (सू.अ. २०)-"वाय्वाकाशधातुभ्यां वायुः आग्नेयं पित्तम्, अम्भःपृथिवीभ्यां श्लेष्मा|" इति| भूतसङ्घातं विना न दोषसङ्घातः, तं विना न रोगोत्वपत्तिरिति, अतः सर्वे रोगास्त्रिदोषजाः| केचित्तु सर्वद्रव्याणां सर्वरसत्वेन सर्वदोषसामान्यात् सर्वदोषकोपनत्वम्, ततो रोगा नैकदोषा इति व्याचक्षते| तदसत्| सामान्यवद्वैपरीत्यस्यापि सत्त्वात्| सामान्यं प्रयोजकमिति चेत् न, दोषघ्नद्रव्यभेदाभावप्रसङ्गात्| वैपरीत्यमपि क्वचित् प्रयोजकमिति चेत् न, सर्वदोषकोपनत्वनियमव्याघातात्| सर्वदोषकोपनानां नियम इति चेत् न, व्द्येकदोषकोपनद्रव्याभावप्रसङ्गात्| बाहुल्येनैव व्यपदेश इति चेत् न, द्विदोषकोपनैकशमनद्विशमनैककोपनद्रव्याभावप्रसङ्गात्| सिद्धान्तेऽपि सर्वेषां सर्वधर्मत्वस्वीकारान्न दोषघ्नादिविभाग इति चेत् न, तस्य तस्य धर्मस्य तत्र तत्र प्रयोजकत्वात्| तथा च वक्ष्यति (श्लो.२२)-"किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्| गुणान्तरेण वीर्येण प्रभावेणैव किञ्चन||" इत्यादि| तस्मात्पूर्वमेव व्याख्यानं युक्तम्| सर्वेषां सर्वधर्मत्वादिविशेषे प्राप्ते तन्निरासार्थं धर्मतारतम्यमाह-तत्र व्यक्त इति| तत्र-द्रव्ये, कश्चिद्धर्मः सद्योव्यक्तः कश्चिदव्यक्तः कश्चिदीषव्द्यक्तः कश्चिदन्ते व्यक्तः| तेष्वाद्यो रसाख्यः, इतरे त्रयोऽनुरसाख्याः|
Adhikarana द्रव्ये गुर्वादयो गुणाः रसे साहचर्योपचारतो गुणाः (४-५) · Śloka ५
|
गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये||४||
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः|
|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पृथिव्यादौ-पृथिव्यादिमहाभूतारब्धे द्रव्ये, रसाश्रये गुर्वादयो गुणाः परमार्थत आश्रिताः, न तु रसेषु मधुरादिषु| यत्तु रसेषु व्यपदिश्यन्ते तत् साहचर्योपचारतः| सह चरतीति सहचरः, तस्य भावः साहचर्यम्| यस्मिन्नेवगुडादौ द्रव्ये मधुरो रस आश्रितस्तस्मिन्नपि गुरुगुण आश्रितः, इति मधुररसगुरुगुणयोः सहचरभावः| साहचर्येण-तुल्याश्रयत्वेनोपचारः साहचर्योपचारः, तस्मात्साहचर्योपचारतो, गुर्वादयो गुणा रसेषु-मधुरादिषु व्यपदिश्यन्ते| यथा,-गुरुर्मधुरो रसो लघुरम्ल इत्यादि| न पुनः परमार्थतो रसेषु गुर्वादयः सन्ति| अस्ति च साहचर्येण व्यपदेशः| यथा-घृतसहचरेण घृतस्थेनाग्निना दग्धो घृतदग्ध इत्युच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गुर्वादीनां रसाश्रयत्वाद्द्रव्यस्यासर्वधर्मत्वे प्राप्ते परिहारमाह-गुर्वादय इति| गुर्वादयो गुणा द्रव्य एव, न रसेषु | यस्तु मधुरो गुरुः, अम्लो लघुरित्यादि व्यपदेशः, स साहचर्योपचारतः| एकस्मिन्नाश्रये द्वयोरवस्थानं-साहचर्यम्| साहचर्यमेव कुतः? इत्याह-रसाश्रय इति| द्रव्यं हि गुर्वादीनामिव रसानामप्याश्रयः| अत एकाश्रयत्वात्साहचर्यम्, तेन उपचारः-अविद्यमानस्याप्याश्रयाश्रयीभावस्यारोपः| ननु, किमेतत् रसाव्द्यतिरिक्तं द्रव्यं नाम ? इत्यत आह-पृथिव्यादाविति| पृथिव्यादिशब्दाभिलभ्यं द्रव्यमित्यर्थः|
Adhikarana पार्थिवद्रव्यलक्षणम् (५-६) · Śloka ६
|
तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्||५||
पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु पार्थिवादिषु पञ्चसु द्रव्येषु मध्ये, पार्थिवं द्रव्यं गुर्वादिगुणोत्कटम्| उल्बणशब्देनैतत् द्योतयति,-पार्थिवे द्रव्येऽन्येऽपि गुणाः सन्ति, सर्वद्रव्याणां पाञ्चभौतिकत्वात्| गुर्वादयस्तत्रोत्कटाः| एवमाप्यादिषु सर्वं योज्यम्| तथा, गौरवाद्यावहं- गुरुत्वादिकृदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ द्रव्यभेदान् लक्षयर्ति| तत्र पार्थिवं लक्षयति-तत्र द्रव्यमिति| गुर्वादिगुणोत्कटं गौरवादिकरं च पार्थिवं द्रव्यम्| सङ्घातः-काठिन्यम्| उपचयः-स्थौल्यम्| गुणशब्दोऽत्र धर्मवाची| उल्बणग्रहण सर्वेषां सर्वधर्मत्वात्|
Adhikarana आप्यद्रव्यलक्षणम् (६-७) · Śloka ७
|
द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्||६||
आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आप्यं द्रव्यं द्रवादिगुणोल्बणं स्नेहनादिकृत् |
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आप्यं लक्षयति-द्रवशीतेति| द्रवादिगुणोत्कटं स्नेहनादिकरं च द्रव्यमाप्यम्| द्रवसान्द्रयोः परस्परविपरीतयोरप्यार्द्रत्वसामान्यादाप्यत्वम्| विप्यन्दः-स्रोतःस्रावः| प्रह्लादः-तृप्तिः|
Adhikarana आग्नेयद्रव्यलक्षणम् (७-८) · Śloka ८
|
रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्||७||
आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्|
|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आग्नेयं द्रव्यं रूक्षादिगुणोत्कटं दाहादिकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आग्नेयं लक्षयति-रूक्षतीक्ष्णेति| रूक्षादिगुणोत्कटं दाहादिकरं च द्रव्यमाग्नेयम्| भा-कान्तिः| वर्णो-गौरादिः| प्रकाशः-आलोकः| पचनं-पाकः| तदात्मकत्वं कार्यकारणयोरभेदोपचारात्|
Adhikarana वायव्यद्रव्यलक्षणम् (८-९) · Śloka ९
|
वायव्यं रूक्षविशदलग़ुस्पर्शगुणोल्बणम्||८||
रौक्ष्यलाग़ववैशद्यविचारग्लानिकारकम्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वायव्यं द्रव्यं रूक्षादिगुणोल्बणं रौक्ष्यलाग़वादिकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वायव्यं लक्षयति-वायव्यमिति| रूक्षादिगुणोत्कटं रौक्ष्यादिकरं च द्रव्यं वायव्यम्| विचारो-विविधा चेष्टा|
Adhikarana नाभसद्रव्यलक्षणम् (९-१०) · Śloka १०
|
नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम्||९||
सौषिर्यलाघवकरम्|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नाभसं द्रव्यं सूक्ष्मादिगुणोल्बणं सौषिर्यादिकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नाभसं लक्षयति-नाभसमिति| सूक्ष्मादिगुणोत्कटं सौषिर्यादिकरं च द्रव्यं नाभसम्| सौषिर्यं सरन्ध्रत्वम्|
Adhikarana सर्वद्रव्यमौषधम् (१०) · Śloka १०
जगत्येवमनौषधम्|
न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवं-अनेन पञ्चमहाभूतारब्धेन गुर्वादिगुणयोगेन द्रव्याणां, जगति-भुवनेऽस्मिन्, अनौषधभूतं न किञ्चिद् द्रव्यमस्ति,-अपि तु सर्वमेव द्रव्यं यत्सिकतापांस्वादिकं तदौषधं,-चिकित्सितम्| वशान्नानार्थयोगयोः,-अर्थश्च योगश्च-अर्थयोगौ, अर्थः-प्रयोजनम्, योगो-युक्तिः, यथा,-अनया युक्त्यौषधमिदं योजितमस्य रोगस्य विजयाय स्यादनया चास्य रोगस्येति, नानाविधौ यावर्थयोगौ तयोर्वशात्-सामर्थ्यात्, सर्वमपि द्रव्यमौषधम्, रोगप्रतीकारहेतुत्वात्| अथ किं द्रव्यं किम्भूतोत्कटं भवति ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्रव्यमात्रस्यौषधत्वमाह-जगतीति| एवं-उक्तेन प्रकारेण, तस्य तस्य द्रव्यस्य तत्तद्गुणयोगत्वात् जगति न किञ्चिद्द्रव्यमनौषधं विद्यते-सर्वमेव द्रव्यमौषधम्| कुतः? नानार्थयोगयोर्वशात्,-अर्थः-प्रयोजनम्, योगो-योजना, नानाविधावर्थयोगौ-नानार्थयोगौ, तयोः| एतदुक्तं भवति,-यदेकस्मिन्नर्थे नोपयुज्यते तदेवान्यस्मिन्नुपयुज्यते| यदेकेन योगेन नोपयुज्यते तदेवान्येनोपयुज्यते| यथा,-अत्यन्तानुपयुक्तोऽपि खरमेषादिविड्रसो बिन्दुशः श्वासकासादौ, अत्यन्तापथ्योऽपि माप इण्डुरीकृतः सनवनीतोऽर्दितादौ|
Adhikarana अग्निपवनोत्कटं द्रव्यमूर्ध्वगम् भूमितोयगुणाधिकमधोगामि (११-१२) · Śloka १२
द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्|
अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्||११||
इति द्रव्यम् रसान् भेदैरुत्तरत्रोपदेक्ष्यते|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊर्ध्वं गच्छतीति-ऊर्ध्वगमम्| खप्रकरणे "गमेरप्युपसङ्ख्यानम्" इति खः| प्रायो-बाहुल्येन, ऊर्ध्वगमं द्रव्यमग्निपवनाधिकं भवति| यथा,-मदनफलादि| बाहुल्य (प्रायो) ग्रहणात् अग्निसमीरणोत्कटस्याप्यधोगामित्वं दृष्टम्| यथा,-हरीतक्यादेः, अचिन्त्यप्रभावत्वात्| यथा,-सर्पस्य विषमयत्वेऽपि तत्फणामणेर्विषघ्नत्वम्| भूयिष्ठं-प्रायेण, भूमितोयोल्बणं द्रव्यमधोगामि भवति| यथा,-त्रिवृतादि| यत्तु व्यामिश्रात्मकं तुल्यकालमूर्ध्वाधोदोषहरणं तदिह ग्रन्थगौरवभयान्नोक्तमपि व्यामिश्रभूतोत्कटं द्रव्यं व्यामिश्रात्मकमिति सामर्थ्यलब्ध एवायमर्थः| स०-इति-परिसमाप्तौ, द्रव्यं प्रति यद्वक्तव्यं तन्निष्पन्नमित्यर्थः| एवं द्रव्ये निर्दिष्टे रसा निर्देष्टुं युक्ता इत्याह- स०-बहुवक्तव्यत्वादुत्तरत्र-अनन्तरेऽध्याये, रसान् भेदैः-त्रिषष्टिसङ्ख्यावच्छिन्नैः, उपदेक्ष्यते तन्त्रकृत्| अथ वीर्यस्य विपकादिभ्यः प्राधान्यात्तच्चर्चां प्रस्तौति-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-औषधद्वैविध्यं पञ्चविधे द्रव्ये विभजति| द्रव्यमूर्ध्वगममिति| द्विविधमौषधम्,-शोधनं शमनं च| शोधनं द्विविधम्,-ऊर्ध्वगममधोगमं च| तत्राग्निपवनोत्कटमूर्ध्वगमम्, भूमितोयगुणमधोगमम्| पारिशेष्यादाकाशोत्कटं शमनम्| तथा च सुश्रुतः (सू. अ. ४१/६)-"आकाशगुणभूयिष्ठं संशमनम्" इति| गमनं-गमः| ऊर्ध्वं गमोऽस्यास्तीति ऊर्ध्वगमम्| प्राय इति भूयिष्ठमिति च व्यभिचारार्थम्| यथा,-चित्रकवदग्निपवनोत्कटाया अपि दन्त्या विरेचनत्वम्, मृद्वीकावद्भूमितोयगुणाधिकस्यापि मधुकस्य वमनत्वम्| सङ्ग्रहे तु (सू.अ. १७)-"व्यामिश्रात्मकमुभयतोभागम्| शमनं तु दोषविपरीतगुणमुक्तं प्राक्| तत्सङ्ग्करे च यतो बाहुल्येन| तत्सङ्करे-गुणसङ्करे, यतो बाहुल्येन-येषां गुणानां बाहुल्यं तैर्निर्णयः| तथा, अनिलात्मकं ग्रहि| अनलात्मकं दीपनपाचनम्| उभयात्मकं लेखनम्| भूम्युदकात्मकं बृंहणम्|" इति| प्रकरणार्थमुपसंहरति-इति द्रव्यमिति| इतिपरिसमाप्तौ| आ० र०-क्रमप्राप्तस्य रसस्यानभिधाने हेतुमाह-रसो भेदैरिति| उत्तरत्र-उत्तरस्मिन्नध्याये, उपदेक्ष्यते-वक्ष्यते, यतोऽसौ बहुभिर्भेदैर्विशिष्टः, बहुमेदत्वेन बहुवक्तव्यत्वात् पृथगध्यायकरणमित्यर्थः|
Adhikarana वीर्यस्य चर्चाप्रस्तावः (१२-१३) · Śloka १३
|
वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु||१२||
लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्रव्यमुक्तम्| वीर्यं पुनर्गुर्वादीनष्टौ गुणान् द्रव्याश्रितानिति समाचक्षते| तत्-तस्मात्, एवं-अनेन प्रकारेण, वीर्यमष्टधा-अष्टप्रकारं, गुर्वादिवादिनां मतम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ वीर्यम्| तत्र परमतं दर्शयति-वीर्यं पुनरिति| एके-खारणादिप्रभृतयः, गुर्वादीन् गुणान् वीर्यं च वदन्ति| एवं च तदष्टधा सम्मतम्| सुश्रुतस्तु गुरुलघू विहाय विशदपिच्छिलौ पठति (सू.अ. ४०/५)-"केचिदष्टविधमाहुः,-उष्णं शीतं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति|" इति|
Adhikarana चरकमते सर्वं वीर्यवदेव (१३-१४) · Śloka १४
चरकाचार्यः पुनरेवं वक्ति |
चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया||१३||
नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सा|
|१४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-येन-स्वभावेन, या क्रिया क्रियते-यत्कर्म निष्पाद्यते, तद्वीर्यम्| तदेवं यावत् किञ्चिद्गुणजातं द्रव्ये स्थितं तत्सर्वं वीर्यमेव| सर्वं करोतीत्यत एवाह-नावीर्यमित्यादि| यन्न वीर्यं तन्न किञ्चित्करोति-न काञ्चिदप्यर्थक्रियां निष्पादयति, प्रतिनियतशक्तिपरिष्वक्तत्वात् सर्वभावानाम्| अत एवाह-सर्वेत्यादि| हिशब्दो यस्मादर्थे| यस्मात्सर्वा क्रिया वीर्यकृता-वीर्येण जनिता| ततो यन्न वीर्यं तन्न किञ्चित्कुरुते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चरकमतं दर्शयति-चरकस्त्वाहेति| येन क्रियते तत्-वीर्यम्, द्रव्यकर्तृके कर्माणि करणभूतमित्यर्थः| कतिविधं तत् ? इत्यपेक्षायामाह-या क्रियेति| या क्रिया येन क्रियते तस्यां तद्वीर्यम्, यावत्यः क्रियास्तावन्त्येव वीर्याणीत्यर्थः| कुतः? इत्याह-नावीर्यमिति| अवीर्यं द्रव्यं न किञ्चित्कुरुते-वीर्यं विना कर्तृत्वं नास्तीत्यर्थः| कुतः? इत्याह-सर्वा वीर्यकृता हि सा| हि-यस्मात्, सा-क्रिया सर्वोऽपि वीर्यकृता|
Adhikarana गुर्वादिष्वेवाष्टसु वीर्याख्या (१४-१५) · Śloka १५
|
गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते||१४||
समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु|
व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि||१५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यतो वीर्यस्यैव करणसामर्थ्यं तेन कारणेन गुर्वादिष्वेवाष्टासु वीर्याख्या अन्वर्थेति-अनुगतार्थेति, भण्यते| एवकारोऽवधारणार्थः| गुर्वादिष्वेव वीर्यसंज्ञा न तु रसविपाकप्रभावेषु [मन्दसान्द्रादिषु वा]| किम्भूतेषु गुर्वादिषु ? समग्रेत्यादि| समग्राश्च ते गुणाश्च, तेषु साराः-चिरकालावस्थितयो गुर्वादय एव| तथा च, जाठराग्निसंयोगेनापि न मधुरादिरसवत् स्वभावमेते जहति| सर्तेः सुस्थिर इति घञि सारशब्दः| तथा, अन्येभ्यो मन्दसान्द्रादिभ्यो गुणेभ्यो रसादिभ्यो वा गुर्वादयः शक्त्युत्कर्षविवर्तिनः| शक्तेः-सामर्थ्यस्य, उत्कर्षः-आधिक्यम्, विशेषेण वर्तो-विवर्तः,-विशेषेण भवनम्, शक्त्युत्कर्षस्य विवर्तः, स विद्यते येषां त एवम्| किञ्च, गुर्वादीनां गुणानां व्यवहाराय-व्यवहारार्थम्, मुख्यत्वात्-अन्येभ्यो गुणेभ्यो गुर्वादयः प्रधानभूता इत्यर्थः| तथा च, (श्लो. ४)-"गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये|" इत्युक्तम्, न मधुरादयो गुणा इति| तस्मात् गुर्वादीनां गुणानां व्यवहारमुख्यत्वं रसादिभ्यः| तथा, बह्वग्रग्रहणात्-बहुग्रहणादग्रग्रहणाच्च, बहवो द्रव्यरसादयो गुर्वादिभिर्गृहीता भवन्ति| तथा चायुर्वेदशास्त्रेषु रसादिभ्यो गुर्वादीनामग्रे ग्रहणं दृष्टम्| यथा,-वातादिदोषगुणनिरूपणायां गुर्वादीनामेव पूर्वं ग्रहणम्, न रसादीनाम्| तथा च, "तत्र रूक्षो लघुः" इत्याचार्योऽपठद्वाय्वादिलक्षणे (हृ. सू. अ. १|११)| एवं गुर्वादीनामेवाग्रग्रहणात् गुर्वादिष्वेव वीर्याख्याऽन्वर्था-अनुगतार्थेति भण्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ननु, एवं रसादीनामपि वीर्यत्वप्रसङ्ग इत्याह-गुर्वादिष्विति| तेन-चरकेण, गुर्वादिष्वेव वीर्याख्या वर्ण्यते| कुतः? अम्वर्थेति कृत्वा| इतिशब्दो हेतौ| यतस्तेषु क्रियमाणा वीर्यसंज्ञाऽन्वर्था स्यात्| अन्वर्थत्वमेव दर्शयति-समग्रेत्यादि| करणं हि वीर्यम्| करणं च साधकतमम्| साधकतमत्वं च गुर्वादीनामेव| कुतः? समग्रगुणसारत्वात्| समग्रेषु गुणेषु मध्ये स्थिर (सार)त्वात्-चिरस्थायित्वात्, शक्त्युत्कर्षविवर्तनात्-उत्कृष्टशक्तित्वात्, व्यवहाराय मुख्यत्वात्-लोके शास्त्रे च मुख्यत्वेन व्यवह्नियमाणत्वात्, बह्नग्रग्रहणात्-बहुगुणगणनायां प्रथमग्रहणात्| विपाकेऽपि स्थिरत्वस्य, प्रभावेऽपि शक्युत्कर्षस्य, मृदुकठिनादावपि व्यवहारमुख्यत्वस्य, रसेष्वपि बह्वग्रग्रहणस्य दर्शनात् चतुर्णामुपादानम्|
Adhikarana रसादीनां विर्यत्वाभावः (१६) · Śloka १६
अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा|
विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः||१६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतः-अस्माच्च कारणकदम्बकात्, विपरीतत्वात्-वैपरित्येन स्थितत्वात्, न रसादयो वीर्यम्| तथा हि,-रसस्य सारत्वं नास्ति, जाठरानलसंयोगवशेन रसान्तरोत्पत्तेः| गुर्वादीनां तु जाठराग्निसंयोगवशेनापि नान्यथाभावः| तथा च न रसस्य शक्त्युत्कर्षविवर्तित्वम्,-यतो रसस्य गुर्वाद्याहितशक्तेरेव स्वकर्मणि सामर्थ्यम्| व्यवहाराय यथा गुर्वादेर्मुख्यत्वं यथा च बह्वग्रग्रहणं तथा प्राग्दर्शितम्| प्रभावः-सर्वातिशायि द्रव्यस्वभावः, तस्य च क्रियानिर्वर्तनसामान्ये सत्यपि वीर्यसंज्ञा पूर्वोक्ताद्धेतोर्न प्रवर्तते| एवं विपाककर्मणोरपि चिन्त्यम्| तस्मात् रसाद्येषु सम्भवत्यपि-विद्यमानाऽपि, असद्रूपेव सा वीर्यसंज्ञा न विवक्ष्यते-नोररीक्रियते| आदौ भवः-आद्यः| दिगादित्वाद्यत्| रस आद्यो येषां-प्रभावादीनां, त एवं तेषु| वीर्यमित्यादि| हिशब्दो यस्मादर्थे| यत एवं सा-वीर्यसंज्ञा, सम्भवत्यपि रसादिषु वैपरीत्यान्न विवक्ष्यते, अतो गुर्वादय एव वीर्यम्, न रसादयः |
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एतच्च रसादिषु नास्तीति दर्शयति-अतश्चेति| सा-वीर्याख्या, रसादिषु सम्भवत्यपि-विद्यमानापि, न विविक्ष्यते, अनुदरा कन्येतिवत्| क्रियानिर्वर्तनसामान्यात्सत्यपि वीर्यत्वे रसादयो वीर्यत्वेन न व्यवह्नियन्त इत्यर्थः| कुतः? अतो-हेतुचतुष्टयात्, विपरीतत्वात्| सिद्धमर्थमपनुदति-वीर्यमिति| हि-स्फुटम्, अतः-कारणात्, गुर्वादय एव वीर्यम्| गुर्वादीनामष्टानां योगरूढा वीर्यसंज्ञेति भावः|
Adhikarana द्विधैव वीर्यम् (१७) · Śloka १७
उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षते|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्य आचार्या उष्णं शीतमिति द्विप्रकारं वीर्यमाचक्षते| एवकारोऽवधारणार्थः| द्विधैव वीर्यम्, नाष्टधेति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पूर्वमतापरितोषान्मतान्तरं दर्शयति-उष्णं शीतमिति _ अन्ये-सुश्रुतादयः, उष्णं शीतं चेति द्विविधमेव वीर्यमाचक्षते-वदन्ति|
Adhikarana तत्रोपपत्तिः (१७-१८) · Śloka १८
अपि च|
नानात्मकमपि द्रव्यमग्निषोमौ महाबलौ||१७||
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्|
|१८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपि चेति निपातसमुदायो युक्तिसमुच्चये| तेऽपि सयुक्तिकमेवाहुरित्यर्थः| तामेव युक्तिं दर्शयन्नाह-नानात्मकमपीत्यादि| नानास्वभावमपि द्रव्यं-स्थावरजङ्गमाद्यं चेतनाचेतनम्, अग्नीषोमौ महाबलौ-उत्कृष्टशक्ती, न जातु कदाचिदतिक्रामति-नोल्लङ्घ्य वर्तते| अवश्यं हि द्रव्यं किञ्चिदाग्नेयं किञ्चित्सौम्यम्, अतः किञ्चिद्द्रव्यमुष्णवीर्यं किञ्चिच्छीतवीर्यम्| तथा च मुनिः (च. सू. अ. २६|८४)- "न मत्स्यान् पयसा सहाभ्यवह्रियात्| उभयं ह्येतन्मधुरं मधुरविपाकं शीतोष्णत्वात् विरुद्धवीर्यम्, विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय|" इति| अत्र दृष्टान्तमाह-व्यक्ताव्यक्तमित्यादि| व्यक्तं चाव्यक्तं च व्यक्ताव्यक्तम्, नानात्मकमपि जगत्-त्रैलोक्यं कर्तृ यथा व्यक्तं चाव्यक्तं च नातिक्रामति, तथा द्रव्यमग्नीषोमावित्यर्थः| व्यक्तं-स्थूलम्, दृश्यमित्यर्थः| साङ्ख्यानां तु महदादि-व्यक्तम्, अव्यक्तं-प्रधानं पुरुषश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तमतस्योपपत्तिमाह-अपि चेति, नानात्मकमिति| न केवलं मतमात्रमिदम्, युक्तं चेदं पूर्वस्मान्मतात्, इत्यपि चेत्यस्यार्थः| नानात्मकमपि-पृथिव्याद्यनेककारणमपि, द्रव्यमग्नीषोमौ जातुचित्-कदाचिदपि, नातिक्रामति-तर्योर्वशे वर्तते, किञ्चिदाग्नेयत्वादुष्णं किञ्चित्सौम्यत्वाच्छीतमिति द्विधैव गतिरित्यर्थः| कुतः? यतस्तौ महाबलौ| अत एव सर्वान् गुणान् गुर्वादयोऽभिभवन्ति| गुर्वादीनप्युष्णशीतौ| अत्र दृष्टान्तमाह-यथा विश्वं कर्तृ व्यक्ताव्यक्ताख्यभेदद्वयं नातिक्रामति|
Adhikarana उष्णवीर्यलक्षणम् शीतवीर्यलक्षणम् (१८-१९) · Śloka १९
|
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः||१८||
शमं च वातकफयोः करोति, शिशिरं पुनः|
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः||१९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तयोरुष्णशीतयोर्मध्ये, उष्णं-उष्णवीर्यं, भ्रमादीन् करोति| आशुपाकितां-शीघ्रपाकित्वम्| शिशिरं पुनः-शीतवीर्यं तु, ह्लादनादीन् करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उष्णं लक्ष्यति-तत्रेति| यद्भ्रमादिकं करोति तदुष्णवीर्यम्| आशुपाकिता-शीघ्रपाकः| शीतं लक्ष्यति-शिशिरमिति, ह्लादनमिति| यत् ह्लादनादीन् करोति तच्छीतवीर्यम्| ह्लादनं-निर्वृत्तिः| जीवनं मूर्च्छापनयनादिभिः प्राणधारणम्| स्तम्भः-स्वेदापनयनम्| रक्तपित्तयोः प्रसादं-निर्मलत्वम्|
Adhikarana विपाकस्य लक्षणम् (२०) · Śloka २०
वीर्यादनन्तरं विपाकं लक्षयति जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्|
रसानां परिणामान्ते स विपाक इति स्मृतः||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जाठरेण-औदर्येण, अग्निना योगात्-संश्लेषात्, यत् रसानां परिणामान्ते-जरणनिष्ठाकाले, रसान्तरं-रसविशेषः, उदेति-उपद्यते, स विपाक इति स्मृतो-मुनिभिः कथितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ विपाकः| तत्र विपाकं लक्षयति-जाठरेणेति| रसानां-रसवतां द्रव्याणां, जाठराग्निना संयोगात् यद्रसान्तरमुत्पद्यते स विपाकः| "आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्|" (हृ. शा. अ. ३१५७) इत्याद्युक्तानां मधुराम्लकटुपाकानां व्यावृत्त्यर्थमाह-परिणामान्ते,-आहारपरिणामान्ते| ते तु परिणामात्प्रागेव उत्पद्यन्ते, इति तेषां रसत्वमेव|
Adhikarana विपाकत्रैविध्यम् (२१) · Śloka २१
स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः|
तिक्तोषणकषायाणां विपाकः प्रायशः कटुः||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्वादुः-मधुरो गुडादिः, पटुः-लवणः सैन्धवादिः, मधुरं [ यथा भवति तथा ] कृत्वा पच्यते रस इति सम्बन्धः| मधुरमिति क्रियाविशेषणत्वान्नपुंसकलिङ्गम्| स्वादुःस्वादुविपाको, लवणोऽपि स्वादुविपाक इत्यर्थः| अम्लो रसो-दधिकाञ्चिकादिः, अम्लं पच्यते-अम्लविपाको भवति| तिक्तोषणकषायाणां प्रायशः कटुर्विपाको भवति| प्रायशोग्रहणं पूर्वत्रापि योजनीयम्| तेन व्रीहिस्थो मधुरो रसोऽम्लं पच्यत इत्युपपन्नम्| तथा चोक्तम् (हृ. सू. अ. ६|१०)- "स्वादुरम्लविपाकोऽन्यो व्रीहिः" इति| तथा, हरीतक्या भूयस्त्वेन यः कषायो रसः, स मधुरमेव पच्यते| तथा, कटुको रसः शुण्ठ्यार्द्रकपिप्पल्यादिस्थो मधुरं पच्यते| तथा चोक्तम् (हृ. सू. अ. ६|१५३)- "कषाया मधुरा पाके" इति| तथा (हृ. सू. अ. ६|१६३)- नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्| रुच्यं लघु स्वादुपाकं " इति, "तद्वदार्दकम्" इति| तथा (हृ. सू. अ. ६|१६१)- "श्लेष्मला स्वादुशीतार्द्रा" इत्यारम्भ यावत् "स्वादुपाका" इति| अत्र केचिदाहुः,-तिक्तकषाययोरेव कटुविपाकतया पित्तकर्तृत्वमापद्यत इति| तदेतदसत्| शीतवीर्यत्वेनैतयोः पित्तहर्तृत्वात्| वीर्यं हि रसविपाकौ विजयते| वक्ष्यति हि (श्लो. २५)- "रसं विपाकस्तौ वीर्यम्" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विपाकत्रैविध्यमाह-स्वादुरिति| स्वादुः पटुश्च-मधुरो लवणश्च, मधुरं पच्यते,-पक्वो मधुरत्वं यातीत्यर्थः| मधुरमिति क्रियाविशेषणम्| पच्यत इति कर्मकर्तर्यात्मनेपदम्| एवमम्लो रसोऽम्लं पच्यते| तिक्तादीनां त्रयाणां कटुको विपाकः| मधुररसस्यापि व्रीहेर्विपाकेऽम्लत्वात्, लवणस्यापि सौवर्चलस्य कटुविपाकत्वात्, अम्लतिक्तोषणानामपि दाडिमपटोलपिप्पलीनां मधुरत्वात्, कषायस्यापि कुलत्थस्याम्लविपाकत्वात्, प्रायश इत्युक्तम्, मतान्तरसङ्ग्रहार्थं च| तत्र द्वौ विपाकाविति सुश्रुतः (सू. अ. ४०१११)- "द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः| निवर्तन्तेऽधिकास्तत्र पाको मधुर इष्यते|| तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु| निवर्तन्तेऽधिकास्तत्र पाकः कटुक इष्यते||" इति| पराशरस्तु तिक्तकषाययोर्मधुरविपाकमाह (सं.सू.अ. १७)-"पाकास्त्रयो रसानामम्लोऽम्लं पच्यते कटुः कटुकम्| चत्वारोऽन्ये मधुरं, संसृष्टरसास्तु संसृष्टम्|| कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः| तेषां पित्तविग़ाते तिक्तकषायौ कथं भवतः||' इति| षोढा पाकस्तु सङ्ग्रहे निरस्तः (सू.अ. १७)- "यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम्| यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम्|| याति तैलं च कटुतां कटुकाऽपि न पिप्पली| यथारसत्वे पाकानां न स्यादेवं विपर्ययः||" इति|
Adhikarana त्रयाणां पाकानां लक्षणम् (२२-२३) · Śloka २३
रसैरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्|
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्||२२||
गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसैः-जिह्वावैषयिकैर्मधुराम्लकटुकैः, विपाककालोपलभ्यो मधुराम्लकटुकलक्षणो यो रसो भवति-असौ, तुल्यफलः,-तुल्यं-सदृशं, फलं यस्य स तुल्यफलः| एतदुक्तं भवति,-अभ्यवहृतस्य मधुररसस्य जाठराग्निसंयोगवशात् यत् रसान्तरं फलतया निष्पन्नं तत् रसैः सदृशफलम्| फलग्रहणेनैतत्प्रतिपादयति,-फलोपममेव वृष्यादिलक्षणं कार्यसदृशम्, न तु कुसुमोपमं देहाह्लादनादिलक्षणं कार्यमिति| एवमम्लादीनामपि व्याख्येयम्| तत्रेत्यादि| तत्र-तेषु रसवीर्यविपाकादिषु मध्ये, द्रव्यं किञ्चिच्छुभाशुभं-सदसत्कर्म, रसेन कुरुते| यथा,-मधु मधुरकषायरसत्वेन पित्तं शमयति| किञ्चिद्विपाकेन| यथा,-तदेव मधु कटुविपाकतया कफं हन्ति| किञ्चिन्न द्रव्यं गुणान्तरेण,-अन्योन्यगुणविकृतत्वात् रसविपाकतो यः स गुणान्तरो गुर्वादिः, तेन| यथा,-अम्लं काञ्जिकं कफं शमयति रौक्ष्यात्| किञ्चिन वीर्येण| यथा (सङ्ग्रहे सू. अ. १७)- "कषायतिक्तं महत्पञ्चमूलं वातं जयति, न तु पित्तमुष्णवीर्यत्वात्|" किञ्चिन द्रव्यं प्रभावेणैव शुभाशुभं कर्म कुरुते| यथा,-अम्लोष्णा सुरा क्षीरं वर्धयति| ननु, यत्र द्रव्याश्रितानां रसादीनां विरोधः, तत्रैषां कार्यनिष्पत्तौ समशक्तित्वं न वा ? इत्याशङ्कानिवृत्त्यर्थमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रयाणां पाकानां लक्षणमाह-रसैरिति| असौ-त्रिविधो विपाकः, यथास्वं रसैः-मधुराम्लकटुकैः, तुल्यफलः-तुल्यकार्यो ज्ञेयः| मधुरस्य रसस्य कार्यं दृष्ट्वा मधुरः पाको लक्षणीयः| एवमम्लस्याम्लः कटुकस्य कटुकः| द्रव्यादीनां पृथक् प्रयोजकत्वमाह-तत्र द्रव्यमिति| गुणान्तरेण-रसाव्द्यतिरिक्तेन गुर्वादिना गुणेन| एतदेव रसादीनामपि गुणत्वं ज्ञापयति| तेन "पलाण्डुस्तद्गुणैर्न्यूनः" (हृ. सू.अ. ६/११२) इत्यादिप्रयोगा उपपन्नाः| प्रभावेण-आत्मनैव| द्रव्यस्यात्मा-प्रभावः| तथा च सुश्रुतः (सू.अ. ४०/१४)-"तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम्| किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति च||" इति| शुभं-दोषशमनं कर्म, अशुभं-दोषकोपनम्| किञ्चिद्परं किञ्चनेति त्रयं कर्तृकर्मविशेषणम्| यदा बहूनि द्रव्याणि एकमेव कर्म कुर्वन्ति तदा-कर्तृविशेषणम्, यदैकमेव द्रव्यं बहूनि कर्माणि तदा-कर्मविशेषणम्| एतच्चोदाहृतं सङ्ग्रहे (सू.अ. १७)-"तत्र यन्मधुरं रसविपाकयोः शीतवीर्यं च द्रव्यं, यच्चाम्लं तयोरुष्नवीर्यं च, यद्वा कटुकं, तेषां यथास्वं रसादिभ्यः प्रायो गुणान् दोषकोपनशमनत्वं च विद्यात्| तद्यथा-क्षीरमदिरामरिचादीनाम्| रसादिसङ्करेण त्वन्यथात्वम्| यथा-मधु मधुरं श्लेष्माणं शमयति कटुविपाकितया, सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च| तथा, यवोऽपि| आनूपौदकपिशितं शीतमपि पित्तं करोति, उष्णवीर्यत्वत्| तथा तैलं कटुविपाकितया च विपाकत एव बद्धविण्मूत्रम्| अम्लं काञ्जिकं कफं जयति, तीक्ष्णोष्णत्वात्| कपित्थं तु रौक्ष्यात्कफम्, पित्तं च शीतवीर्यत्वात्| आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकितया च, कफं रौक्ष्याल्लाघवाच्च, शैत्यरौक्ष्यलाघावैस्तु न वातम्| लवणं सैन्धवं स्वादुपाकतया पित्तं जयति, लाघवात् कफम्| कटुकाऽपि शुण्ठी स्नेहौष्ण्यस्वादुपाकतया वातं जयति, पिप्पली च, लशुनोऽपि स्नेहौष्ण्यगौरवैः, पलाण्डुश्च| स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम्, वृद्धं च मूलकं स्वादुपाकतया| तिक्ता पित्तं जयति| तिक्ता अपि व्याघ्रीविशल्यार्कवारुण्य उष्णवीर्यत्वात् पित्तं जनयन्ति| कषायतिक्तं महत् पञ्चमूलं वातं जयति, न तु पित्तम्, उष्णवीर्यत्वात्| कषायाः कुलत्थाश्चाम्लपाकतया च| इत्येतन्निदर्शनमात्रमुक्तम्|" इति|
Adhikarana द्रव्यदीनां पृथक् प्रयोजनत्वं (२३-२४) · Śloka २४
|
यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते||२३||
अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते|
विरुद्धगुणसंयोगे भूयसाऽल्पं हि जीयते||२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसादीनां-रसवीर्यविपाकप्रभावानां मध्ये, यत्-रसादिवस्तु,-रसो वा वीर्यं वा विपाको वा प्रभावो वा, बलवत्त्वेन-बलिष्ठतया, द्रव्ये वर्तते-अवतिष्ठते, तत्-वस्तुजातम्, इतरान्-अबलिष्ठान्, अभिभूय-विफलीकृत्य, कारणत्वं प्रपद्यते,-कर्मकरणे कारणतामासादयतीत्यर्थः| अत इदमाह-विरुद्धेत्यादि| हि-यस्मात्, विरुद्धगुणसंयोगे-संहतीभावे सति, यदल्पं वस्तु तत् भूयसा-बलवता, जीयते-अभिभूयते| गुणशब्देन चात्र रसादयो गृह्यन्ते, न पारिभाशिका गुर्वादयोऽप्रकृतत्वात्| विरुद्धगुणसंयोग इत्यत्र विरुद्धगुणसमवेतद्रव्यसंयोग इति बोध्यम्, न विरुद्धगुणसंयोग इति| न हि गुणानां संयोगो वक्तुं युज्यते, किं तर्हि ? द्रव्याणाम्| तथा च मुनिः (च. वि. अ. १|२८)- "संयोगस्तु द्वयोर्बहूनां वा द्रव्याणां संहतीभावः|" इति| विरोधश्च द्विविधः,-स्वरूपतः कार्यतश्च| स्वरूपविरोधो यथा,-गुरुलघ्वोः शीतोष्णयोश्च| कार्यतो यथा,-वायौ जेतव्ये रूक्षोष्णद्रव्यसंयोगोपयोगः| अत्र हि यो गुणानां विरोधः, स कार्येण| तत्र यदल्पं वस्तुजातं तत् भूयसा वस्तुजातेनाभिभूयते| तत्र यथा,-क्षीरं शीतवीर्यमपि मधुररसहेतुकस्नेहगौरवादिभिः सहायबाहुल्याद्वातशमनाख्यं कार्यं करोति, न पुनः स्वकार्यं वातप्रकोपाख्यम्| यत्र तु द्रव्ये रसादीनामुत्कर्षासम्भवः परस्परं साम्यम्, तत्र कस्य कार्यकारणत्वम् ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सत्स्वपि सर्वेष्वेकस्यैव प्रयोजकत्वे हेतुमाह यद्यदिति| बलवत्त्वेन-बलाधिक्येन| बलं च द्विविधं,- कृत्रिममकृत्रिमं च| मात्राधिक्येन सहायसम्पत्त्या च कृतंकृत्रिमम्, स्वाभाविकं-अकृत्रिमम्|
Adhikarana रसादीनां साम्ये स्वाभाविकम् बलम् (२५) · Śloka २५
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति|
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसं-मधुरादिषड्विधम्, विपाकः कर्ता अपोहति-कार्यकरणे कुण्ठयति| यथा,-मधुरो मधुनि रसः कटुना विपाकेनाभिभूयते, अत एव पवनशमनाख्यं कार्यं मधुररसहेतुकं न करोति, अपि तु वातप्रकोपनाख्यं कटुविपाकहेतुकमेव करोति| तौ-रसविपाकौ, वीर्यं कर्तृभूतमपोहति| यथा,-महिषामिषे स्थितौ मधुररसविपाकावुष्णवीर्याख्यं कर्तृ अभिभवति, अत एव तन्मांसं पित्तादिदूषणम्, अन्यथा स्वादुरसविपाकित्वात् पित्तशमकमेव स्यात्| प्रभावस्तु त्रीण्यपि रसादीनि विजयते| यथा,-अम्लरसविपाकोष्णवीर्या सुरा क्षीरं जनयति| बलसाम्ये इति-ईदृशम्, रसादीनां नैसर्गिकं बलं,-स्वाभाविकी शक्तिः| एतदुक्तं भवति,-रसं समबलमपि विपाकोऽपोहति, रसविपाकौ च समबलावपि वीर्यं स्वभावादपोहति, एतानि च समबलान्यपि प्रभावोऽपोहतीति| ननु, द्रव्यरसविपाकवीर्याणि कर्मानुमानेन यथास्वरूपाण्येवावगच्छामः| प्रभावस्य तु न ज्ञायते कीदृशं कर्म ? इत्यत आह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र स्वाभाविकं बलमाह-रसमिति| तौरसविपाकौ| तानि-रसविपाकवीर्याणि| अपोहति-जयति| बलसाम्ये-कृत्रिमबलतुल्यत्वे, यत्र रसविपाकयोस्तुल्यमात्रत्वं तुल्यसहायत्वं च तत्र रसाद्विपाको बली, मात्रासहायवैषम्ये तु यो मात्राधिकः सहायाधिको वा स बलीत्यर्थः| एवं वीर्यादिष्वपि वाच्यम्| सङ्ग्रहे तु (सू. अ. १७)- विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने| नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा|| रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः| एकरूपा विरूपा वा द्रव्यं समधिशेरते| माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः| सह वृत्त्या स्थिताः क्षीरे न त्वानूपौदकामिषे|| गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः| स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः| रसं विद्यान्निपातेन तेनाधिवसनेन च| वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया|| मधुरस्कन्धनिर्द्दिष्टघृततैलगुडादिषु| गुणाऽऽस्वाद्वादिभेदेन रसषट्कं न युज्यते|| अस्तु भेदादसह्वयात्वमैक्यं वाऽऽस्वादलक्षणात्| भूतोत्कर्षापकर्षेण भेदो योऽल्पेन कल्प्यते|| सङ्कीर्णत्वात् फले चासौ तुल्यत्वान्न विविक्ष्यते| गुर्वादीनां विशेषेऽपि स्वजातेरनतिक्रमात्|| सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः| दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु|| न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः| आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम्|| गुर्वाद्या वीर्यमुच्यन्ते शक्तिमन्तोऽन्यथा गुणाः| पटुसामर्थ्यहीनत्वाद्गुणा द्वादश ते गुणाः||" इति|
Adhikarana प्रभावस्य लक्षणम् (२६) · Śloka २६
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वयोर्द्रव्ययो रसादीनां-रसवीर्यविपाकानां साम्ये सति, यदेकं द्रव्यमन्यत्कर्म कुरुते, अन्यत्पुनरन्यद्विशिष्टं कर्म, तत् प्रभावजं-प्रभावाज्जातमिति ज्ञेयम्| अयमस्य द्रव्यस्य प्रभाव इति विशिष्टकर्मकरणान्निश्चीयत इत्यर्थः| ननु, प्रभावः क उच्यते ? इति चेत् ब्रूमः| रसवीर्यविपाकादिगुणातिशायी द्रव्यस्य स्वभावो यः, स प्रभावः| उक्तं च-"रसवीर्यविपाकादिगुणातिशयवानलम्| द्रव्यस्वभावो निर्दिष्टो यः प्रभावः स कीर्तितः||" इति| अत्र निदर्शनार्थमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ प्रभावः| प्रभावं लक्षयति-रसादिसाम्य इति| द्वयोर्द्रव्ययो रसादिसाम्ये सत्यप्येकस्य यद्विशिष्टं कर्म दृश्यते, तत्प्रभावजम्| तत्र यो द्रव्यधर्मो हेतुः, स प्रभाव इत्यर्थः|
Adhikarana प्रभवोदाहरणम् (२६-२७) · Śloka २७
|
दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी||२६||
मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्|
|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चित्रकस्य रसवीर्यविपाकैस्तुल्याऽपि दन्ति रसादिभ्योऽतिशायिद्रव्यस्वभावयोगाद्विरेचनी, न चित्रकः, चित्रकत्वात्| मधुकस्य च मृद्वीका तुल्याऽपि रसादिभ्योऽतिशायिद्रव्यस्वभावयोगात् मृद्वीका विरेचनी, न मधुकम्| घृतं क्षीरस्य रसादिभिस्तुल्यमपि घृतं दीपनम्, न पुनः क्षीरम्| अन्ये प्रभावलक्षणमन्यथाऽऽह-प्रतिवस्तु स्वसंज्ञाप्रवृत्तिनिमित्तलक्षणो यो धर्मस्त्वतलादिप्रत्ययप्रतीतिसमधिगम्यः स प्रभावः| तन्त्रान्तरे चोक्तम्-"वस्तूनां यः स्वसंज्ञायाः प्रवृत्तौ कारणे स्मृतः| त्वतलादिप्रबोध्यश्च प्रभाव इति स स्मृतः||" इति| एवं च दन्तीत्वाद्दन्त्या विरेचनकारित्वं प्रभावः, चित्रकस्य चित्रकत्वादविरेचनकारित्वं प्रभावः, एवं मृद्वीकात्वान्मृद्वीकाया विरेचनकारित्वं प्रभावः, इत्यादि सकलपदार्थेषु बोध्यम्| सामान्यविशेषाभ्यां यतः सकलं व्याप्तम्, अतो ग्रन्थकार इदमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रभावमुदाहरति-दन्तीति| रसादय उक्ताश्वरकेण (सू. अ. २६/७०)- "कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः| तद्वद्दन्ती प्रभावात्तु विरेचयति" सा नरम्||" इति| मधुममृद्वीकयोः क्षीरघृतयोश्च मधुररसपाकत्वेन शीतवीर्यत्वेन च साम्येऽपि मृद्वीकैव विरेचनी न मधुकम्, घृतमेव दीपनं न क्षीरम्| सङ्ग्रहे त्वन्यदप्युदाहृतम् (सू.अ. १७)-"कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्| लशुनो वातकफकृन्न तु तैरेव यद्गुणैः|| मिथो विरुद्धान् वातादीन् लोहिताद्या जयन्ति यत्| कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम्|| शिरीषादि विषं हन्ति स्वप्नाद्यं तद्विवृद्धये| मणिमन्त्रौषधीनां च यत्कर्म विविधात्मकम्|| शल्याकर्षणपुंजन्मरक्षार्युधवशादिकम्| दर्शनाद्यैरपि विषं यन्नियच्छति चागदः|| विरेचयति यद्दृष्यमाशु शुक्रं करोति वा| ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादिकम्|| मात्रादि प्राप्य तत्तच्च यत्प्रपञ्चेन वर्णितम्| तच्च प्रभावजं सर्वमतोऽचिन्त्यः स उच्यते|| रसेन वीर्येण गुणैश्चकर्म द्रव्यं विपाकेन च यद्विदध्यात्| सद्योऽन्यथा तत् कुरुते प्रभावाद्धेतोरतस्तस्य न गोचरोऽस्ति||" इति|
Adhikarana द्रव्यभेदेन कर्मणो भेदः (२७-२८) · Śloka २८
|
इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्||२७||
विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-प्रकारे, अनेन प्रकारेण द्रव्यरसवीर्यादीनां सामान्येन कर्म व्याख्यातम्, न विशेषेण| यैरेव महाभूतै रसवीर्यादयो द्रव्याश्रिता आरब्धाः, तैरेव तथाभूतैस्तदाश्रयमपि द्रव्यम्| अतः सामान्यतः कर्म द्रव्यादीनामुक्तम्| साम्प्रतं विशिष्टं कर्म प्रतिद्रव्यं वक्तुमिदमाह-पुनश्च तदिति| तत्-सामान्योक्तं कर्म द्रव्यरसादीनां सम्बन्धि, पुनर्भिद्यते-विशिष्यते| केन ? इत्याह-विचित्रेत्यादि| विचित्राश्च ते प्रत्ययाश्च विचित्रप्रत्ययाः,-नानाकारसन्निवेशविशेषयुक्तानि महाभूतानि, प्रतिसत्त्वं प्राक्तनशुभाशुभकर्मप्रेरितो विचित्रो महाभूतपरिणाम इत्यर्थः| विचित्रप्रत्ययारब्धं च तद्द्रव्यं च, तस्य भेदो-विशेषः, तेन विचित्रप्रत्ययारब्धद्रव्यभेदेन, तत्-सामान्योक्तं कर्म द्रव्यादीनां, भिद्यते-नानात्वेन सम्पद्यते| द्रव्याश्रितत्वाद्रसादीनामपि यत्कर्म तदपि द्रव्यभेदेन भिद्यते| ननु, सर्वमपि देशकालादिवशाद्विचित्रप्रत्ययारब्धम्, परस्परवैलक्षण्याद्द्रव्याणाम्| परस्परवैलक्षण्ये चैषां विचित्रप्रत्ययारब्धत्वमेव कारणम्| यद्वशादन्यदिदं द्रव्यमिति रूपरसवीर्यविपाकादिभिन्नमुत्पद्यते, तथा प्रतिभासते च| तत्किन्नु ? "विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते|" इति| अत्राचक्ष्महे| सत्यमेतत्, किन्तु विशिष्टद्रव्यस्य सङ्ग्रहार्थं विचित्रप्रत्ययारब्धमिति विशेषणं शास्त्रकृता कृतम्| यस्य भेदेन द्रव्ये रसवीर्यादीनां यत्सामान्योक्तं कर्म तद्भिद्यते| यस्मिन् द्रव्ये रसादीनामन्यानि महाभूतान्यारम्भकाणि द्रव्यस्य चारम्भकाण्यपराणि, तद्द्रव्यं विचित्रप्रत्ययारब्धम्| तदेवं द्रव्याणां द्वैविध्यम्| यतः कानिचिद्द्रव्याणि यैरेव महाभूतैर्यथाविधै रसादय आरब्धाः, तैरेव तथाविधैर्महाभूतैस्तदाश्रयाण्यपि द्रव्याण्यारब्धानि| तानि रसादिसमानप्रत्ययारब्धान्युच्यन्ते| तानि च यथायथं तत्कर्म रसाद्यनुगुणं सामान्यात् कुर्वते| यथा,-क्षीरेक्षुशर्करादीनि| कानिचित्पुनस्तदाश्रितरसादिसमारम्भकमहाभूतान्यन्यानि तदाश्रयद्रव्यारम्भकाण्यन्यानि च महाभूतानि, तैरारब्धानि तानि विचित्रप्रत्ययारब्धानि द्रव्याणि| एतदुक्तं भवति,-रसादीनामारम्भकाण्यन्यानि द्रव्यस्य चारम्भकाण्यन्यथाभूतानि महाभूतानि, नोभयत्रैकरूपाणीति| तानि च यथायथं रसाद्यनुगुणं कर्म न कुर्वन्ति, भिन्नत्वाद्धेतुभावस्य| तथा हि,-रसादीनामारम्भेऽन्यो हेतुरन्यश्च तदाश्रयद्रव्यारम्भ इति| यथा,-मकुष्ठयवमत्स्यसिंहादीनि| एतानि हि यथारसं न वीर्यविपाककर्म कुर्वन्ति, विचित्रप्रत्ययारब्धत्वात्| इत्थं यानि रसादिसमानप्रत्ययारब्धानि द्रव्याणि बहून्यपि तेषां रसोपदेशेन कर्म निर्देष्टुं शक्यते| अत एव हेतोः षण्णां रसानां यो गुणनिर्देशः, तस्य सार्थकत्वम्| रसोपदेशमन्तरेण हि बहुतराणां द्रव्याणां समानरूपाणां क्षीरेक्ष्वादीनां कर्म वक्तुं सुखेन शक्यते| यानि तु विचित्रप्रत्ययारब्धानि द्रव्याणि तेषां प्रतिद्रव्यं कर्मोपदेशं विना यथायथं कर्म वक्तुं न शक्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अध्यायार्थमुपसंहरति-इति सामान्यत इति| द्रव्यादीनां प्रभावान्तानाम्| सामान्योक्तं कर्मापवदति-पुनश्व तदिति| तत्-सामान्योक्तं कर्म, भिद्यते-विशिष्यते, अन्यथा क्रियत इत्यर्थः| केन ? विचित्रप्रत्ययारब्धद्रव्यभेदेन, विचित्राः-परस्परविलक्षणाः, प्रत्ययाः-कारणभूता महाभूतसङ्गाताः, तैरारब्धं यद्द्द्रव्यं तस्य भेदो-द्रव्यान्तरविशिष्टत्वम्, तेन| पार्थिवाद्यवान्तरसामान्यभेदस्य पूर्वमुक्तत्वात् पुनस्तदित्युक्तम्| एतदुक्तं भवति,-क्वच्चिद्द्रव्ये यादृगेव भूतसङ्घातो द्रव्यस्यारम्भकः, तदृगेव रसादीनाम्| तत्समानप्रत्ययारब्धम्, तत्सामान्यगुणान्नातिक्रामति| क्वचिदन्यादृग्भूतसङ्घातो द्रव्यस्यारम्भकोऽन्यादृग्रसस्यान्यादृक् गुणस्येत्यादि, तद्विचित्रप्रत्ययारब्धम्, तत्सामान्यगुणानतिक्रामति | तदर्थे द्रवद्रव्यान्नस्वरुपविज्ञानीयाद्यारम्भः |
Adhikarana उदाहरणार्थं ग्रन्थकृद्वचः (९) · Śloka १
एतदुदाहरणार्थं ग्रन्थकृदाह स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः||२८||
उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः|
२८१/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादिविज्ञानीयो नाम नवमोऽध्यायः||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्वादुरसोपेतो गुरुगुणयुक्तक्तश्च गोधूमो मधुररसोपदिष्टं वातजित्त्वं यत् कर्म तत् करोति, समानप्रत्ययारब्धत्वात्| यवस्तु स्वादुरसोपेतो गुरुगुणयुक्तक्तश्च गोधूमो मधुररसोपदिष्टं यद्वातजित्त्वं कर्म तन्न करोति, अपि तु वातकृत्त्वमेव करोति, विचित्रप्रत्ययारब्धत्वात्| मत्स्यः स्वादुरसोपेतो गुरुगुणोपेतश्च न मधुररसोपदिष्टः शीतवीर्यः, किं तर्हि ? उष्णवीर्यः, विचित्रप्रत्ययारब्धत्वात्| क्षीरं च स्वादुरसोपेतं गुरुगुणयुक्तं च मधुररसोपदिष्टं शीतवीर्यम्, समानप्रत्ययारब्धत्वात्| स्वादुरसयुक्तो गुरुगुणयुक्तश्च सिंहो न यथारसं मधुरविपाकः, किं तर्हि ? कटुको विपाके, विचित्रप्रत्ययारब्धत्वात्| शूकरो मधुररसयुक्तो गुरुगुणोपेतश्च यथारसं मधुरविपाक एव, समानप्रत्ययारब्धत्वात्| एवं यानि समानप्रत्ययारब्धानि द्रव्याणि तेषां रसोपदेशेनैव गुणा निर्दिष्टा भवन्ति| तथा च मुनिः (च. सू. अ. २३|४८)- "शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यच्चोक्तं कटुकं तयोः|| तेषां रसोपदेशेन निर्दिष्टो गुणसङ्ग्रहः| वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते|| यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ| एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्||" इति| बाहुल्येन च रसादिसमानप्रत्ययारब्धान्येव द्रव्याणीति चेतसि कृत्वाऽऽचार्योऽवोचत्| यथा (श्लो.४)- "गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये| रसेषु व्यपदिश्यन्ते साहचर्योपचारतः||" इति| अत एव च बहुतराणि द्रव्याणि रसादिसमानप्रत्ययारब्धानि, अतो रसोपदेशव्याप्त्या तानि निर्देष्टुं शक्यन्ते, नान्यथा| विचित्रप्रत्ययारब्धानि पुनः कतिपयान्येव द्रव्याणि, तानि प्रतिद्रव्यमेवोपदिश्यन्ते| मुनिनाऽप्ययमर्थो युक्त्यवोक्तः| यथा (च. सू. अ. २३|५९)- "मधुरं किञ्चिदुष्णं स्यात्कषायं तिक्तमेव च| यथा महत्पञ्चमूलं यथा चानूपमामिषम्|| लवणं सैन्धवं नोष्णमम्लमामलकं यथा| अर्कगुरुगुडूचीनां तिक्तानां चोष्णमुच्यते|| किञ्चिदम्लरसं ग्राहि किञ्चिदम्ल भिनत्ति च| यथा कपित्थं सङ्ग्राहि भेदि चामलकं यथा|| पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते| कषायः स्तम्भनः शीतः सोऽभयाया मतोऽन्यथा| तस्माद्रसोपदेशेन न सर्वं द्रव्यमादिशेत्|" इति| ये च रससंयोगा वक्ष्यमाणास्ते रसादिसमानप्रत्ययारब्धैर्मधुराम्ललवणतिक्तकटुकषायरूपैर्मिथः कल्पनीयाः, न तु विचित्रप्रत्ययारब्धैर्मधुराम्ललवणतिक्तकटुकषायरूपैः| यस्मात्तेषां न यथाशास्त्रनिरूपिता रसवीर्यविपाकादयो विद्यन्ते, विचित्रप्रत्ययारब्धवात्| [अतो रसोपदेशव्याप्त्या तैर्द्रव्यैस्ते रससंयोगाः कल्पयितुं न युज्यन्ते|] अयं रससंयोगभेद एवंगुणोऽयमेवंगुणः, एवंगुणत्वाच्चामुष्मिन्विषये योज्य एतस्मिन्विषये चायमिति निर्देष्टुं न शक्यते, अनिर्ज्ञातस्वरूपत्वात्| न हि विचित्रप्रत्ययारब्धैर्ये रससंयोगाः क्रियन्ते, तेषां स्वरूपं कथमप्यवधारयितुं शक्यते| अपि च, समानप्रत्ययारब्धैर्ये संयोगाः कल्प्यन्ते, तेषां संयोगिनां वीर्यति यो विरोधः शीतोष्णलक्षणः, स न दोषाय| ये तु विचित्रप्रत्ययारब्धैः संयोगाः कल्प्यन्ते, तेषां संयोगिनां यः शीतोष्णलक्षणो विरोधः, स दोषायेति वेद्यम्| अन्यथा रसालापानकादीनामनेकद्रव्यकृतानामनभ्यवहार एव प्राप्नुयात्| तथा, त्रयस्त्रिंशद्वर्गा ये वक्ष्यमाणास्तेषु यदयौगिकं तज्जह्यात् यौगिकं त्वनुक्तमपि युञ्ज्यादिति यद्वक्ष्यते तत्र रसादिसमानप्रत्ययारब्धमेव योज्यम्, न विचित्रप्रत्ययारब्धम्| तस्य रसवीर्यविपाकानां निश्चयस्य कर्तुमशक्यत्वात्| तस्मादित्यादि| यत एवं विचित्रप्रत्ययारब्धं विचित्ररूपम्, तस्माद्रसोपदेशेन न तत्सर्वं द्रव्यमादिशेत्, अपि तु रसादिसमानप्रत्ययारब्धमेव द्रव्यं रसोपदेशेन निर्दिशेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने द्रव्यादिविज्ञानीयाध्यायो नवमः समाप्तः|| ९||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्रव्यभेदमुदाहरति-स्वादुरिति| यवगोधूमयोर्मत्स्यपपयसोः सिंहशूकरयोश्च स्वादुत्वगुरुत्वाभ्यां तुल्यत्वेऽपि यवमत्स्यसिंहानां विचित्रप्रत्ययारब्धत्वात् वातल प्रभावत्वोष्णवीर्यत्वकटुविपाकित्वानि स्वादुत्वगुरुत्वविपरीतानि| गोधूमपयःशूकराणां तु समानप्रत्ययारब्धत्वात् वातघ्नप्रभवत्वशीतवीर्यत्वमधुरविपाकित्वानि स्वादुत्वगुरुत्वयोरविपरीतानि| वातजित्त्ववातकृत्त्वाभ्यां तत्कारणभूतौ प्रभावौ लक्ष्येते| इति हेमाद्रिटीकायामायुर्वेदरसायने| द्रव्यादीनां प्रकरणं सामस्त्येन निरूपितम्|| ९||