Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पूर्वेऽध्याये विकृतान् दोषानाश्वेवोपक्रमेदित्युक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पूर्वेऽध्याये विकृतान् दोषानाश्वेवोपक्रमेदित्युक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०
Adhikarana दोषोपक्रमणीयाध्यायः (२) · Śloka २
अतस्तमेवोपक्रमं दर्शयितुं दोषोपक्रमणीयमारिरिप्सुरिदमाह - - - - अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषाणामुपक्रमणं-चिकित्सा, दोषोपक्रमणम्| तस्मै हितो दोषोपक्रमणीयः| शेषं पूर्ववद्योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लक्षणस्कन्धानन्तरमौषधस्कन्धमारभते| तत्र दोषोपक्रमणीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| दोषोपक्रमणस्यैव सर्वरोगौषधत्वात्| उपक्रमणं-औषधम्|
Adhikarana वातस्योपक्रमः (१-३) · Śloka ३
सर्वदोषेभ्यश्च प्रधानो वात इति तदुपक्रमं पूर्वमाह - - - - वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु| स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम्||१|| वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्| स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता||२|| दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः| विशेषान्मेद्यपिशितरसतैलानुवासनम्||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातस्योपक्रमः स्नेहः, श्रेष्ठत्वाच्च प्रागुपादानं स्नेहस्य| ततः स्वेदः| कृतस्नेहस्वेदस्य च संशोधनम्| तच्च मृदु-न तीक्ष्णम्, तीक्ष्णस्य वातकोपहेतुत्वात्| तथा, स्वाद्वादीनि भोज्यानि-भक्ष्याणि| अभ्यङ्गश्च मर्दनं चाभ्यङ्गमर्दनम्| मर्दनं-पाण्यादि ना| वेष्टनं-शाटकादिना| त्रासनं-खङ्गव्यग्राग्रहस्तराजपुरुषदर्शनादिना| ननु, भीशोकादिभिर्मारुतस्य कोप ऊक्तः| वक्ष्यति हि (हृ. नि. अ. १|१५) - "क्रियातियोगभीशोक" इत्यादि| तत् कथं त्रासनं वायोरुपक्रमः ? उच्यते| भयं वातप्रकोपहेतुः, न तु त्रासनम्| त्रासनं हि सर्ववतविजयि| तस्माद्वातोपशान्त्यर्थं त्रासनं युक्तम्| यथा,-उन्मादादिषु| तथा च वक्ष्यति वातोन्मादे (हृ. उ. अ. ६|२९) - "हर्षणाश्वासनोत्त्रासभयताडनतर्जनम्|" इत्यादि| तथा, सेकादिरुपक्रमः| सेको-दशमूलक्वाथादिना| तथा, मद्यं पैष्टिकं गौडिकं च वातस्योपक्रमः| तथा, स्निग्धोष्णा बस्तयो वातस्योपक्रमः| स्निग्धोष्णा इत्युक्त्या रूक्षशीतं बस्तिमत्र निराकरोति| तथा, बस्तिनियमो-यथाविधि बस्तिदानम्, वातस्योपक्रमः| अथवा बस्तिनियमः-कर्मकालयोगाख्यस्त्रिपञ्चाशद्बस्तिसङ्ख्यः "प्राक् स्नेह एकः पञ्चान्ते" (हृ. सू. अ. १९|६३) इत्येवमादिना ग्रन्थेन यो दर्शितः, स वातस्योपक्रमः| तथा सुखं शीलयतीति सुखशीलः| शीलिकामिभिक्ष्याचरिभ्यो णः| तस्य भावः सुखशीलता,-सौख्यवृत्तित्वम्| तिलप्रियालाक्षोडादयोऽनेका योनयो येषां तेऽनेकयोनयः स्नेहाः, ते च वातस्योपक्रम इति योज्यम्| किम्भूताः ? दीपनपाचनैर्द्रव्यैः सिद्धाः| विशेषेण पुष्टमांसरसस्तैलमनुवासनं च वातस्योपक्रमः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र वातौषधमाह-वातस्योपक्रम इति| स्नेहः-शोधनादिः (तैलादिः)| स्वेदः-तापादिः| शोधनं-वमनादि, तच्च मृदु-हीनयोगेन कृतम्| वेष्टनं-वलितवस्रादिना समन्ताद्बन्धनम्| त्रासनं-अकस्माद्भयोत्पादनम्| सेकः-सेचनम्| बस्तयो-निरूहाः| बस्तिनियमः-अनुवासनम्, तस्य बस्तिना नियत्वात्| सुखशीलता-सुखाभ्यासः| स्नेहाः-तैलादयः| तिलतैलातसीतैलगोघृतमहिषीघृतादिभेदात्-अनेकयोनयः| दीपनैः-चित्रकादिभिः| पाचनैः-मुस्तादिभिः| सिद्धाः-पक्वाः| स्नेहानां पुनर्वचनं यथाकथञ्चिदपि वातघ्नत्वज्ञापनार्थम्| मेद्यं-मेदुरम्, यत् पिशितं-मांसम्, तस्य रसस्तिलतैलमनुवासनं चेत्येतत्रयं विशेषेणौषधम्|
Adhikarana पित्तस्योपक्रमः (४-९) · Śloka ९
पित्तस्योपक्रमं वक्ति - - - - पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्| स्वादुतिक्तकषायाणि भोजनान्यौषधानि च||४|| सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्| कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः||५|| कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे| प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः||६|| अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्| छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः||७|| शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः| सुतीर्थविपुलस्वच्छसलिलाशयसैकते||८|| साम्भोजजलतीरान्ते कायमाने द्रुमाकुले| सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उपक्रम इत्यनुवर्तते| सर्पिषः पानमित्यादि पित्तस्योपक्रमः| तथा, हाराणां-मुक्तादाम्नां कण्ठेगुणसंज्ञानां वक्षसा धृतिः-धारणम्| तथा, मणीनां-मरकतचन्द्रकान्तपद्मरागादीनाम्| तथा, कर्पूरादिभिः प्रतिक्षणमनुलेपनम्| तथा, प्रदोषादिः पित्तस्योपक्रम इति वर्तते| प्रदोषो-रात्रिमुखम्| सुधाया इदं सौधं,-धवलगृहम्| हारि-रम्यम्, गीतं-गानम्| तथा, मित्रमयन्त्रणसुखं-न विद्यते यन्त्रणा यस्मिंस्तथाविधं सुखं यस्मिंस्तथाविधं मित्रम्| तथा, सन्दिग्धा-अव्यक्ता, मुग्धा-अप्रौढा, वाग्-वाणी, यस्य स एवंविधः पुत्रः| दाराः-कलत्राणि, वल्लभाः-सुशीलाश्च| तथा, छन्दानुवर्तिनः-चित्तानुगुणकारिणः| शीताम्बुधारा गर्भे-अभ्यन्तरे, येषां तथाविधानि गृहाणि| तथा, उद्यानं-उपवनम्| तथा, दीर्घिकाः-गृहपुष्करिण्यः| तथा, सौम्या भावाः पित्तस्योपक्रमः| क्व स्थितस्य ? सुतीर्थविपुलस्वच्छसलिलाशयसैकते यत् कायमानं-तृणगृहम्, तस्मिन्| शोभनं तीर्थं तस्य स एवम्| सुतीर्थश्चासौ विततविमलजलाशयश्च सुतीर्थविपुलस्वच्छसलिलाशयः तस्य समीपे सैकतम्, तस्मिन्| सिकता अस्मिन्देशे सन्तीति सैकतम्, "सिकताशर्कराभ्यां च" इत्यण्| समूहार्थे ठग्दुर्निवारः स्यात्| कीदृशे कायमाने ? साम्भोजं-सपद्मं, जलं यस्मिंस्तीरान्ते स एवं साम्भोजजलस्तीरान्तो यस्मिन् कायमाने तस्मिन्| तथा, द्रुमैः-वृक्षैः, आकुले-व्याप्ते| विशेषेण तु पयो घृतं विरेकश्चोपक्रमः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तस्यौषधमाह-पित्तस्य सर्पिषः पानमिति| सुगन्धिशीतहृद्यानां द्रव्याणां-चन्दनादीनां ये गन्धास्तेषामुपसेवनम्| कण्ठेगुणानां-कण्ठावल्म्बिनां, हाराणं-मुक्तावलीनां, ये मणयस्तेषामुरसा धृतिः| उशीरं-वीरणम्| प्रदोषः-चन्द्रं विनाऽपि| अयन्त्रणमुखं-यत् मुखेन नियन्त्रणं न करोति बुद्ध्या तु करोति| मुग्धा-मृदुला| उद्यानदीर्घिकाः-क्रीडावनावाप्यः| सुतीर्थः-शोभनावतरणमार्गः, विपुलः स्वच्छश्च यः सलिलाशयः, तस्य सैकते-सिकतामयप्रदेशे| साम्भोजजलतीरयोरन्तः-सन्धिः, यस्मिन्सैकते तत्तथा| कायमानं-तृणादिरचितागारम्| सौम्या भावाः-मनःप्रसादनाः पदार्थाः, पयः सर्पिर्विरेकश्चेति चतुष्टयं विशेषादौषधम्|
Adhikarana श्लेष्मण उपक्रमः (१०-१२) · Śloka १२
आधुना श्लेष्मण उपक्रममाह - - - - श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्| अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्||१०|| दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः| अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम्||११|| विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्| धूमोपवासगण्डूषा निःसुखत्वं सुखाय च||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विधिना-शास्त्रोक्तेन, युक्तं तीक्ष्णं वमनविरेचनं कफस्योपक्रमः| तथा, अन्नं रूक्षादिगुणयुक्तम्| तथा, मद्यं पुराणम्| रतिप्रीतिः प्रजागरः,-रमणं-रतिः, तस्याः प्रीतिः-सुखम्| तथा, प्रजागरः-अतिजागरणम्| तथा, अनेकरूपो व्यायामो-नियुद्धधनुराकर्षणादिकः| विशेषेण तु वमनं यूषो माक्षिकं तथा मेदोघ्नं यदौषधं तच्च धूमादयश्च| तथा, निःसुखत्वं-सुखाभावो दुःखरूपत्वम्, वाग्देहमनःकर्मणो दुःखदस्यानुष्ठानाद्यदसुखमुपद्यते, तच्च श्लेष्मणो वृद्धस्य विकारकरणहेतोरुपशमात् सुखाय जायते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्लेष्मण औषधमाह-श्लेष्मणो विधिना युक्तमिति| विधिना युक्तं तीक्ष्णं शोधनम्, तीक्ष्णेन शोधनेन व्यापदोऽसम्भवात्| अत एव मृदुमध्यं वातपित्तयोः शोधनमुक्तम्| रतिप्रीतिः-सम्भोगे प्रीतिः, न तु रतिः| वमनाद्यष्टकं विशेषादौषधम्| सुखाय-सुखसाधनाय| धर्माययन्निःसुखत्वं-दुःखानुभवः नाधर्माय, तस्य रोगहेतुत्वात्|
Adhikarana संसर्गसन्निपातभेदानामुपक्रमः (१३) · Śloka १३
इदानीं संसर्गोपक्रमं वक्ति - - - उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः| संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पृथक्-प्रत्येकं, दोषान्-वातादीन्. उद्दिश्य-आश्रित्य, य उपक्रमः कीर्तितः-उक्तः, संसर्गे सन्निपाते च तं-उपक्रमं, यथास्वं विकल्पयेत्-प्रवृद्धदोषानुसारेण निरूप्य प्रयुञ्जीत| यथा,-वातपित्तसंसर्गे वातपित्तोपक्रमौ मिश्रौ, वातकफसंसर्गे वातकफोपक्रमौ, इत्यादि| एवं सन्निपातेऽपि निरूप्योपक्रमः प्रयोज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-संसर्गसन्निपातभेदानामौषधमाह-उपक्रम इति| यथास्वं-स्वमात्मीयं विशेषमनतिक्रम्य, विकल्पयेत्| यथा,- वातपित्तसंसर्गे वातपित्तौषधमेलनमविरोधेन| तस्मिन्नेव वाताधिके वातौषधमाधिक्येन, पित्ताधिक्ये पित्तौषधम्, एवमन्यत्रापि|
Adhikarana संसर्गभेदानामुपक्रमान्तरम् (१४) · Śloka १४
संसर्गे भूयोऽप्युपक्रममाह - - - - ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते| मरुतो योगवाहित्वात्, कफपित्ते तु शारदः||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उपक्रम इत्यनुवर्तते| वातपित्तसंसर्गे ग्रीष्मर्तुचर्याविहित उपक्रमः प्रायेण योज्यः| यथा (हृ. सू. अ. ३|२७) - "अतोऽस्मिन् पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्| भजेन्मधुरमेवान्नम्" इत्यादि सर्वं त्याज्यं सेव्यं च| कफमारुतसंसर्गे वसन्तर्तुभवः "तीक्ष्णैर्वमननस्याद्यैः" (हृ. सू. अ. ३|१९) इत्यादिरुपक्रमो योज्यः| प्रायेणेत्यत्रापि योज्यम्| ननु, ग्रीष्मेऽत्यन्तशीतसेवोक्ता, वसन्ते च तीक्ष्णं वमननस्याद्युक्तम्| एतच्च द्वयमप्येकान्तेन पवनहेतुः| तत्कथमुक्तम् ? "ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते|" इत्याशङ्क्याह-मरुतो योगवाहित्वात्| अत्रायं भावः,-यदा किल वायुः पित्तेन युज्यते तदा दाहादिकृत्, न च पित्ते समे सति दाहादिकं कर्तुं मरुत्समर्थः| अपि च ग्रीष्मे शीतमेव सेव्यत इति नायं नियमः| किं तर्हि? स्निग्धाद्यपि| तस्मान्मरुत्पित्ते ग्रीष्मविधिर्युक्तः| वसन्ते च कफयोगात् कफविकारकार्येव भवति पवनः, योगवाहित्वात्| अतस्तीक्ष्णो वमननस्यादिर्न्याय्य एव| पित्तेन सह स्थितस्य वायोः पित्तचिकित्सा, कफेन सह स्थितस्य वायोः कफचिकित्सा, स्वभाववशादिति भावः| तथा च ग्रन्थः,-"योगवाही" (पृ. ९|२३) इत्यादि| कफपित्तसंसर्गे तु शारदः-शरदृतुचर्याविहित उपक्रमः| ननु, सन्निपाते क उपक्रमः ? ब्रूमः| वर्षर्तुचर्याविहितः| प्रावृषि हि दोषत्रयकोप उक्तः| अत एव तत्राह (हृ. सू. अ. ३|४४) - "भजेत्साधारणं सर्वम्" इत्यादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-संसर्गभेदानामौषधान्तरमाह-ग्रैष्म इति| मरुत्पित्ते संसृष्टे ग्रैष्म उपचारः कार्यः| कफमारुते वासन्तः| कफपित्ते शारदः| तत्र शारदस्य कफपित्तघ्नत्वाद्युक्तो निर्देशः| ग्रैष्मस्य पित्तघ्नत्वाद्वासन्तस्य कफपित्तघ्नत्वादयुक्तः, तत्राह-मरुतो योगवाहित्वादिति| योगं-सम्बन्धं, वहतिनिर्वहति, द्वितीयस्यानुसरणेनेति-योगवाही| तेन पित्तयुक्तस्य वायोः पित्तघ्नेनोपशान्तिः, कफयुक्तस्य कफघ्नेन| प्रायोग्रहणादनुचितांशस्य त्यागोऽपि|
Adhikarana उपक्रमस्य कालः (१५) · Śloka १५
सम्प्रत्युपक्रमस्य कालं वक्ति - - - - चय एव जयेद्दोषं कुपितं त्वविरोधयन्| सर्वकोपे बलीयांसं शेषदोषाविरोधतः||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चयकाल एव दोषं-वातादिं, जयेत्| यथा छिन्नमूलत्वान्न विकुर्वीत| न कोपकालं प्रतीक्षेतेति सूचनार्थ एवशब्दः| कथं जयेत् ? इत्याह-कुपितं दोषमविरोधयन्| सर्वदोषकोपे तु बलवत्तरं दोषं जयेत्| कथम्? शेषदोषाविरोधेन|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-औषधकालमाह-चय एवेति| चय एव दोषं जयेत्, न कोपं प्रतीक्षेत| अथ कथञ्चिच्चयातिक्रमे कुपितं दोषं जयेत्| तं पुनरविरोधयन् जयेत्| कुपितोऽपिद्विविधः,-प्रकृतिसमसमवेतो विकृतिविषमसमवेतश्च| तत्र प्रथमे दोषस्वरूपतुल्यं रोगस्वरूपम्, द्वितीये विपरीतम्| यथा,- कफज्वरे कफविपरीतमुष्णत्वम्| तत्र ज्वरस्वरूपस्य कफप्रकोपविरोधित्वादत्युष्णमौषधं न कार्यम्| वक्ष्यति हि (हृ. चि. अ. १/१६) -"ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना| तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्||" इति| सर्वेषां युगपत्कोपे यो बलीयान् तं जयेत्, शेषदोषमविरोधयन्| सङ्ग्रहकारस्त्वाह (सू. अ. २१) - "क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले| वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्|| ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्| यथोपन्यासतः प्राप्तमादौ दोषे भिषग्जितम्|| नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः| स्थानतः केचिदिच्छन्ति प्राक् तावत् श्लेष्मणो वधम्|| शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः| तदभावे कथं भोज्यपानद्रव्यावचारणम्|| असत्यभ्यवहारे च कुतो दोषस्य निग्रहः| तस्मादादौ कफो जेयः कायद्वारार्गलो हि सः|| मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते| अतो वातसखस्यास्य कुर्यात्तदनु निग्रहम्|| अधःस्थायी च तदनुनिग्राह्यः स्यात्समीरणः| अत एव च पित्तादिः कफान्तोऽन्यौ क्रमः स्मृतः|| सुश्रुतश्च न सर्वत्र मतमेतड्रवीति तु| जयेज्ज्वरेऽतिसारे च क्रमात् पित्तकफानिलान्|| प्रायेण तापात्मतया ज्वरे पित्तं विशिष्यते| विशश्च सरता पित्तात्तथा च मृदुकोष्ठता|| तस्य चानुबलः श्लेष्मा गौरवापक्तिजाड्यकृत्| वायुश्च वर्धतेऽवश्यं यस्त्वहःसु तयोः क्षये|| ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः| कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि|| यस्मादामशयोत्क्लेशाद्भूयिष्ठं तत्समुद्भवः| क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाशये स्थितान्|| स्वाशयेषु प्रदुष्टानां स्थितैवं ह्याशुकारिता| विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम्|| भेषजं योजयेत्तत्र तन्त्री कुर्यान्न तु क्रमम्|" इति|
Adhikarana अशुद्धशुद्धप्रयोगयोर्लक्षणम् (१६) · Śloka १६
प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्| नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यः प्रयोगो व्याधिं शमयेदन्यमन्यं व्याधिमुदीरयेत्-प्रकोपयेत्, नासौ विशुद्धो-न श्रेष्ठ इत्यर्थः| स तु विशुद्धः प्रयोगो, यः शमयेद्व्याधिं न कोपयेत्| तस्मादन्यं व्याधिमविरोधयन् व्याधिं जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्राशुद्धप्रयोगो हेयः शुद्ध उपादेयः| तस्मात्तयोर्लक्षणमाह-प्रयोग इति| दोषाणां परस्परं न शमः, इत्युक्तं सङ्ग्रहे (सू. अ. २१) -"क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि| दोषा दोषात्मकत्वाच्च न साम्येऽपि परस्परम्|| शीतद्रवाम्ललवणकट्वादिगुणतुल्यता| दृष्टा मिथश्च दोषेषु नातोऽन्योन्यं जयन्ति ते|| आरम्भकं विरोधेऽपि मिथो यद्वद्गुणत्रयम्| विश्वस्य दृष्टं युगपव्द्याधेर्दोषत्रयं तथा||" इति|
Adhikarana दोषाणां स्थानान्तरप्राप्तिप्रकारः (१७-१९) · Śloka १९
अत कथं दोषाः कोष्ठाच्छाखास्थिमर्मसु यान्ति ? इत्याह - - - - व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि| कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च||१७|| शाखादिभ्यः कथं दोषाः कोष्ठं यान्ति ? इत्याह - - - - दोषा यान्तितथा तेभ्यः स्रोतोमुखविशोधनात्| वृद्ध्याऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||१८|| कोष्ठस्था दोषाः किं कुर्यः ? इत्याह - - - - तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोष्ठात्-उदारात्, शाखास्थिमर्माणि दोषा यान्ति| कुतः ? इति हेतुचतुष्टयमाह-व्यायामादिभिः शाखास्थिमर्माणि दोषा यान्ति| तत्र व्यायामोपजातश्रमस्योर्ध्वं प्रपन्नः पवनो व्यायामकृतक्षोभश्रमोष्मादिभिः प्रशिथिलं चलं च दोषं स्वास्पदात् च्यावयित्वा पर्याकुलं शाखादिषु क्षिपति| तथा, अग्न्यातपादिसम्बन्धिन ऊष्मणस्तैक्ष्ण्यात्,-तीक्ष्णेन ह्यूष्मणा विलायिता दोषास्तेनैव चोष्मणा विवृतेषु स्रोतोमुखेषु सत्सु शाखादीनि यान्ति| अहितेत्यादि| अहितेन च सेवितेन दोषाः स्वप्रमाणादतिरिच्यमानाः कोष्ठमापूर्य वार्षिका इव जलौघा निम्नोन्नतानीव शाखास्थिमर्माणि प्रपद्यन्ते| अपि समुच्चये| द्रुतत्वादित्यादि| द्रुतत्वात्-शीघ्रवाहित्वात्, मारुतस्य च, कोष्ठाच्छाखास्थिमर्माणि दोषा यान्ति| स०-स्रोतसां मुखानि, तेषां विशोधनं-विवरणम्, तस्माद्दोषाः कोष्ठं यान्ति| तथा, वृद्ध्यादिभिः| वृद्धिः-स्वप्रमाणातिरेकः| वृद्धा हि दोषाः स्वानि स्रोतांस्यापूर्य कोष्ठं यान्ति| अभिष्यन्दनं च नाग्नितापादितीक्ष्णोष्णादिसंश्लेषादेव, अपि तु क्षीरदध्याद्यभिष्यन्दिभोजनादपि| एवं पाकात्,-पाचनादिभिः पक्वा दोषाः क्वचिदनासज्जन्तः कोष्ठं यान्ति| किञ्चः ? वायोश्च निग्रहात्,-चशब्दान्न केवलं पूर्वेभ्यो हेतुभ्यो यावद्वाय्वप्रेरणाच्च, इति चार्थः| स०-तत्रस्थाः-कोष्ठस्थाश्च दोषा विलम्बेरन्-न रोगानुत्पादयेयुः| यस्मात्ते भूयो हेतुप्रतीक्षिणः, निमित्तकारणहेतुषु सर्वासां प्रायोदर्शनाद्धेतौ प्रथमा, भूयो हेतुप्रतीक्षित्वादित्यर्थः| वृद्धोऽपि हि दोषः कोष्ठे शाखादौ वा मार्गान्तरेण गतो हीनशक्तित्वान्न रोगोत्पादनसमर्थो भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ स्थानभेदोपक्रम उच्यते| तत्र दोषाणां स्थानान्तरप्राप्तिप्रकारमाह-व्यायामादिति| व्यायामादिभिश्चतुर्भिः कोष्ठस्था दोषाः शाखाख्यं बहिर्मार्गं यान्ति, मध्यं वा अस्थिमर्माख्यम्| आ० र०-तथा शाखास्था अस्थिमर्मस्था वा स्रोतोमुखविशुद्ध्यादिभिः पञ्चभिर्हेतुभिः कोष्ठं यान्ति| अभिष्यन्दनं-द्रवीभावः| आ० र०-एवं दोषाः कोष्ठस्थाः किं कुर्युः ? इत्याह-तत्रस्थाश्चेति| यत्स्थानं प्राप्तास्तत्र विलम्बन्ते, यावत्स्थानान्तरगमने हेतुं न लभन्ते| लब्धे तु हेतौ पुनः स्थानान्तरं यान्तीत्यर्थः|
Adhikarana दोषाः कालादिबलेनान्यस्थानेऽपि कुप्यन्ति (१९) · Śloka १९
यद्येवं किं कदाचिदप्यन्यस्थानगता दोषा हीनशक्तित्वान्न रोगान् कुर्युः ? इत्याह - - - - | ते कालादिबलं लब्ध्वा कुपयन्त्यन्याश्रयेष्वपि||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ते-दोषाः, कालदेशापथ्यादेः समानगुणाद्बलं लब्ध्वा कुप्यन्ति,-विकारमुत्पादयन्तीत्यर्थः| कुत्र स्थाने ? इत्याह-अन्याश्रयेष्वपि,-कोष्ठाश्रयाः शाखास्थिमर्मस्वपि, शाखास्थिमर्मस्वपि, शाखामर्माश्रिताः कोष्ठेष्वपीत्यर्थः| न केवलं स्वस्थानस्था एव कुप्यन्तीति सूचनार्थोऽपि शब्दः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वस्थाने परस्थाने वा विलम्बमाना दोषाः स्वैः स्वैः प्रकोपणैः प्रकुप्यन्तीत्याह-ते कालादिबलमिति|
Adhikarana आगन्तुदोषस्याल्पबलस्य स्थानिचिकित्सा (२०) · Śloka २०
इदानीं परस्थानगतानां दोषाणां विकल्पेन चिकित्सामुपदिशन्नाह - - - - तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु| कुर्याच्चिकित्साम्|२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु वातादिषु, अन्यस्थानसंस्थेषु-अन्यस्य स्थानमन्यस्थानं तत्र सन्तिष्ठन्तेऽन्यस्थानसंस्थास्तेषु,-परस्थानगतेषु, तदीयां-स्थानिदोषसम्बन्धिनीमेव, चिकित्सां कुर्यात्, न स्वकीयाम्| तस्य-परस्थानदोषस्येयं-तदीया, ताम्| किम्भूतेषु दोषेषु ? अबलेषु तु| तुरवधारणे, अबलेष्वेव न बलवत्सु| बलवत्सु हि स्वामेव चिकित्सां वक्ष्यति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- आगन्तोर्दोषस्य हीनबलस्य स्थानिचिकित्सा कार्येत्याह-तत्रेति| तदीयां-यस्य स्थाने कुपितस्तस्य चिकित्साम्|
Adhikarana प्रबलस्यागन्तोः स्वचिकित्सा (२०) · Śloka २०
अत एवाह - - - - | स्वामेव बलेनान्याभिभाविषु||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलेन- आत्मीयया शक्त्या, अन्याभिभाविषु-अन्यस्थानिदोषमभिभवितुं शीलं येषां तेऽन्याभिभाविनः, स्थानिदोषं पराभूय तत्र ये सन्तिष्ठन्ते इत्यर्थः| तेषु स्वामेव चिकित्सां कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आगन्तोरपि प्रबलस्य स्वचिकित्सैव कार्येत्याह-स्वमेवेति|
Adhikarana आगन्तुस्थानिनोस्तुल्यबलयोः क्रमेण चिकित्सा (२१) · Śloka २१
किमेष एव नियमः ? यदन्यस्थानगतेष्वबलेष्वागन्तुषु स्थानिदोषसम्बन्धिनीं चिकित्सां कुर्यात्| बलवत्सु पुनरागन्तुसम्बन्धिनीं चिकित्सां कुर्यात्| अथ पक्षान्तरोऽपि कुत्रचित् कश्चिदस्ति ? इत्याह - - - - आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्थानिनं दोषं प्रतिकृत्य-यथास्वं स्थानिदोष आगन्तुदोषचकित्सानिर्वर्तनान्न विकारं कुर्यात्तथा तस्य प्रतीकारं कृत्वा, स्वैरेवोपक्रमैरबलवन्तमागन्तुं दोषं शमयेत्-चिकित्सेत्| न केवलमन्यस्थानसंस्थेष्वागन्तुष्वबलेषु स्थानिदोषचिकित्सां कुर्यात्, यावदागन्तुदोषचिकित्सामपि कुर्यादित्यर्थः| अथासौ स्थानिदोष आगन्तुदोषेण बलवत्त्वादभिभूयेत, ततोऽस्य विकारकरणं प्रत्यसमर्थत्वात्तत्प्रतीकारमकृत्वैवागन्तुं शमयेदिति वाशब्दार्थः| अन्यस्थानसंस्थेष्विति बहुवचननिर्देशः पर्यायेण दोषाणां स्थितत्वात्| अन्यथा द्वयोरेकस्य वाऽन्यस्थानस्थितत्वं सम्भवति, न त्रयाणाम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आगन्तुस्थानिनोस्तुल्यबलयोः क्रमेण चिकित्सा कार्येत्याह-आगन्तुमिति| स्थानिनं प्रतिकृत्यागन्तुं शमयेत्| अथवा, आगन्तुं प्रतिकृत्य स्थानिनं शमयेत्| प्रतिकृत्य-प्रतीकारं कृत्वा|
Adhikarana तिर्यग्गतेषु दोषेषु सावधानेन चिकित्सा (२१-२२) · Śloka २२
तिर्यग्गतेषु दोषेषु यत्कार्यं तदाह - - - - | प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्||२१|| कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिर्यग्गता दोषाः प्रायो-बाहुल्येन, आतुरांश्चिरं क्लेशयन्ति-पीडयन्ति| तेषु-तिर्यग्गतेषु दोषेषु, त्वरया-शीघ्रमेव, क्रियां-चिकित्सां, न कुर्यात्| वैद्य इति शेषः| कीदृशो वैद्यः ? देहाग्निबलाभिज्ञः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्राय इति, ज्ञात्वा कोष्ठप्रपन्नाम्श्चेति| तिर्यग्गताः-शोधनमार्गं परित्यज्य स्थिताः, अन्तर्बहिर्वा शोधयितुमशक्यत्वाच्चिरं क्लेशयन्ति| अतस्तेषु त्वरया न चिकित्सां कुर्यात्,- देहमग्निं बलं च विचार्य शनैः शनैः कुर्यादित्यर्थः|
Adhikarana तच्चिकित्साप्रकारः (२२-२३) · Śloka २३
कथं तेषामुपक्रमः कार्यः ? इत्याह - - - - | शमयेत्तान् प्रयोगेण सुखं वा कोष्ठमानयेत्||२२|| ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तान्-तिर्यग्गतान् दोषान्, प्रयोगेण-शास्त्रविहितेन, शमयेत्| सुखं वेति वा देहपीडा न भवति तथा क्रमेण कोष्ठमानयेत्, "वृद्ध्याऽभिष्यन्दनात्" इत्यादिना| ज्ञात्वेत्यादि| कोष्ठगतांश्चावगत्य यथासन्नं विनिर्हरेत्,-यो य आसन्नो मार्गो गुदं मुखं घ्राणं वा, तेनैव यथासन्नं-वमनविरेचनादिना निष्कासयेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तान्-तिर्यग्गतान् शमयेत्| अथवा सुखं-अक्लेशेन, स्नेहस्वेदादिना-प्रयोगेण, कोष्ठमानयेत्| तत ऊर्ध्वमधो वा निर्हरेत्| अल्पत्वबहुत्वाभ्यां विकल्पव्यवस्थां विचार्य|
Adhikarana सामदोषलक्षणम्, निरामदोषलक्षणम् (२३-२४) · Śloka २४
सम्प्रति साममललिङ्गमाह - - - - | स्रोतोरोधबलभ्रंशगौरवानिलमूढताः||२३|| आलस्यापक्तिनिष्ठीवमलसङ्गारुचिक्लमाः| लिङ्गं मलानां सामानां, निरामाणां विपर्ययः||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रोतसां रोधः-स्रोतोरोधः| बलस्य भ्रंशो-हानिः,-बलभ्रंशः| गौरवं-गुरुत्वम्| अनिलस्य-वायोः, मूढता-सम्यगसञ्चारः| आलस्यं-तन्द्रा| अपक्तिः-आहारस्यापाकः| निष्ठीवो-मुखस्रावः| मलस्य-पुरीषादेः, सङ्गः-अप्रवृत्तिः| अरुचिः-अन्नानभिलाषः| क्लमो-ग्लानिः| इत्येतत्सामानां मलानां-दोषाणाम्. लिङ्गं-लक्षणम्| निरामाणां विपर्ययः-अस्माद्वैपरीत्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ सामदोषोपक्रमः| तत्र सामलक्षणमाह-स्रोतोरोधेति| निरामलक्षणमाह-निरामाणामिति| विपर्ययः-स्रोतःशुद्ध्यादिरूपः|
Adhikarana आमलक्षणम् (२५) · Śloka २५
सम्प्रत्यामलिङ्गमाह - - - - ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊष्मणः-अग्नेः, अल्पबलत्वेन-दौर्बल्येन, आद्यं-प्रथमं, धातुं रसं-रसाख्यम्, अपाचितमामं प्रचक्ष्यते-वदन्ति| आचार्या इति शेषः| किम्भूतं रसम् ? आमाशयगतम्| तथा, दुष्टं-वाताद्यनुशयितम्| रसग्रहणमनिलस्य निरासार्थम्| अन्यथा आद्यो धातुर्वाताख्य इत्याशङ्क्येत| वातादीनामपि हि धारणाद्धातुसंज्ञाऽस्त्येव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमलक्षणमाह-ऊष्मण इति| उष्मणोरसाग्नेः| धातुं-न दोषं मलं वा| आद्यं-न रक्तादिकम्| रसं-न रसत्वात्प्रच्युतं रक्तत्वमप्राप्तम्|
Adhikarana अन्यमतेनामलक्षणम् (२६) · Śloka २६
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्| कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्ये-अपरे आचार्याः, दोषेभ्य एव-वातादिभ्यो, अतिदुष्टेभ्योऽन्योन्यमूर्च्छनात्-परस्परमिश्रीभावात्, आमस्य सम्भवं कथयन्ति| केभ्यः कस्येव? यथा कोद्रवेभ्यो विषस्य सम्भवं कथयन्ति| [तथा दोषेभ्य आमस्य सम्भवम्| ]
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मतान्तरेणामलक्षणमाह-अन्य इति| अन्योन्यमूर्च्छनात्-परस्परमेकलोलीभावात्|
Adhikarana सामा दोषा रोगाश्च (२७) · Śloka २७
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेन-पूर्वोक्तलक्षणेन, आमेन सम्पृक्ताः-संयुक्ताः, दोषा दूष्याश्च-रसादयः| कीदृशाः ? दूषिताः, तैरेव वातादिभिः| सहामेन सामाः, इत्युपदिश्यन्ते-तत्र तत्र प्रदेशे तन्त्रे भण्यन्ते| ये च रोगाः-ज्वरादयः, तदुद्भवाः-वातादिदोषसमुत्थाः, तेनामेन युक्ताः सामा इत्युच्यन्ते| यथेहैव (हृ. चि. अ. १|१८) - "अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे|" इत्यादि वक्ष्यति| आमलक्षणं चैवं पठन्ति-"द्रवं गुर्वनेकवर्णं हेतुः सर्वरोगाणां स्निग्धं पिच्छिलमामं तन्तुमदनुबद्धशूलं दुर्गन्धि" इत्यादि| सामानां च वातादीनां सङ्ग्रहे पृथग्लक्षणमुक्तम्| ते सङ्ग्रहश्लोका यथा (सू. अ. २१) - "वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः| दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु|| आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः| विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम्|| पीतं च पित्तमच्छं च श्लेष्माऽच्छः पिण्डितोऽथवा| विशदश्च सफेनश्च धवलो मधुरो रसे||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सामत्वं व्याचष्टे-आमेनेति| सामैर्दोषैर्धातुभिर्मलैश्च जनिता रोगा अपि सामा उच्यन्ते|
Adhikarana सामदोषाणां चिकित्सा, सर्वदेहप्रविसृतादिसामदोषेषु शोधननिषेधः (२८-२९) · Śloka २९
सामा अपि दोषा यादृशा न निर्हार्यास्तादृशान् दर्शयति - - - - सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्| लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव||२८|| आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामान्-दोषान्-वातादीन्, सर्वस्मिन् देहे प्रविसृतान्-व्याप्ताशेषकायान्, धातुषु-रसाद्येषु, लीनान्-श्लिष्टान्, अनुत्क्लिष्टान्-स्वस्थानादचलितान्, न निर्हरेत्-वमनादिभिर्न शोधयेत्| कुतः ? दुर्निर्हरत्वतः-दुःखेन निर्हर्तुं शक्यत्वात्| ते हि निर्ह्रियमाणा आश्रयस्य-शरीराख्यस्य, नाशाय स्युः| यावत्तु सर्वदेहप्रविसृता न स्युः| यथा भुक्तानन्तरं ज्वरोत्पत्तौ नवातिसारे च तदा वमनेन हरीतक्या च यथायोगं निर्हारोऽनुज्ञात एव ग्रन्थकृता| अत्र दृष्टान्तमाह-फलादित्यादि| आमात्-अपक्वात्, फलात्-आम्रादेः, रसो निर्ह्रियमाणो दुर्निर्हरत्वात् आश्रयस्य-फलस्य, यथा नाशाय भवति, एवं दोषा अपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सामेषु दोषेष्ववस्थाविशेषेण शोधनं निषेधति-सर्वदेहप्रविसृतानिति| व्याप्तदेहान् धातुलीनान् अनुत्क्लिष्टान् सामान् न शोधयेत्| ते हि दुर्निर्हरत्वादाश्रयस्य नाशाय स्युः|
Adhikarana तान् शेधनयोग्यान् कृत्व यथासन्नं शोधयेत् (२९-३०) · Śloka ३०
तर्हीदृशे दोषे किं कार्यम् ? इत्याह - - - - | पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान्||२९|| शोधयेच्छोधनैः काले यथासन्नं यथाबलम्| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तान्-तथाविधान् दोषान्, पाचनैः-ज्वराद्यध्यायोक्तैः| दीपनैरिति पाचनानां स्नेहानां च विशेषणम्, मध्यदीपकत्वात्| अग्निदीप्तिकृद्भिः पाचनैः स्नेहैश्च तथा स्वेदैः परिष्कृतान्-परिकल्पितान् कृतसंस्कारान्, यथासन्नं यथाबलं च कृत्वा यथोक्ते काले शोधनैर्द्रव्यैः शोधयेत्| यथासन्नमिति यस्य दोषस्य य आसन्नो मार्गस्तेनैव तं निर्हरेत्| यथाबलमिति यस्य यावद्बलमातुरस्योत्तमं मध्यममधमं वा, तज्ज्ञात्वा तीक्ष्णेन मध्येन मृदुना वा शोधनेन शोधयेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तानेव शोधनयोग्यान् कृत्वा शोधयेदित्याह-पाचनैरिति| परिष्कृतान्-शोधनयोग्यतां नीतान्| तत्र पाचनैः पक्वत्वम्| दीपनैर्धातुभ्यः पृथक्त्वम्| स्नेहैरुत्क्लिष्टत्वम्| स्वेदैः कोष्ठगतत्वम्|
Adhikarana यथासन्नमार्गः (३०-३१) · Śloka ३१
कस्य को मार्ग आसन्नः ? इत्याह - - - - | हन्त्याशु युक्तं वक्क्रेण द्रव्यमामाशयान्मलान्||३०|| घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद्गुदेन च| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वक्क्रेण द्रव्यं युक्तं-पीतं, आमाशयात् मलानाशु हन्ति| घ्राणेन तु पीतमूर्ध्वजत्रूत्थान् मलानाशु हन्ति| गुदेन युक्तं पक्वाधानात्-पक्वाशयात्, आशु मलान् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यथासन्नत्वं व्याचष्टे-हन्त्याशु युक्तमिति| आमाशयात्-आमाशयमभिव्याप्य, पक्वाधानात्-पक्वशयमभिव्याप्य, 'ल्यब्लोपे पञ्चमी'| ऊर्ध्वजत्रूत्थान् जत्रु-स्कन्धसन्धिः, तस्योर्ध्वं,- ऊर्ध्वजत्रु|
Adhikarana स्वयंप्रवृत्तान्सामान्न स्तम्भयेत् (३१-३२) · Śloka ३२
इदानीं यादृशा आमा न धार्यास्तादृशान् दर्शयति - - - - | उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम्||३१|| धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः| |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अध ऊर्ध्वं वोत्क्लिष्टानामान् स्वयं वहतो-यत्नं विनैव प्रवृत्तान्, औषधैः-स्तम्भनैः, न धारयेत्| कुतः ? इत्याह-हि-यस्मात्, ते-दोषाः, विधृता रोगदाः-ज्वरादिकारिणः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वयं प्रबृत्तान् सामान् न स्तम्भयेदित्याह-उत्क्लिष्टानिति, धारयेदिति|
Adhikarana तेषूपेक्षैव भेषजम्, सविबन्धेषु तेषु पाचना निर्हरणं वा (३२-३३) · Śloka ३३
तेषु तु यत्कार्यं तदाह - - - - | प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः||३२|| विबद्धान् पाचनैस्तैस्तैः पाचयन्निर्हरेत वा| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतः-अस्माद्धेतोः, प्रवृत्तान् प्राक्-प्रारम्भकाले, दोषान् हितभोजिन उपेक्षेत-सङ्ग्रहणेन न धारयेत्| विबद्धान्-ईषत्प्रवृत्तान्, तैस्तैः-यथोक्तैः, पाचनैः पाचयेत्-पाकं नयेत्| निर्हरेद्वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वयं प्रवृत्तेषु सामेषूपेक्षैव भेषजमित्याह-प्रवृत्तानिति| प्राक्-प्रथमम्, यावन्न बलहानिः| स्वयं प्रवृत्तेषु सविन्बन्धेषु पाचनं निर्हरणं वा कार्यमित्याह-विबद्धानिति| पूर्ववद्विकल्पव्यवस्था|
Adhikarana स्वस्थस्य शोधनकालः (३३-३४) · Śloka ३४
अथ कः शोधनकालः ? इत्याह - - - - | श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्||३३|| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्रमात्-यथाक्रमम्| ग्रीष्मचितं वायुं श्रावणे निर्हरेत्| वर्षाचितं पित्तं कार्तिके निर्हरेत्| हेमन्तशिशिरचितं कफं चैत्रे निर्हरेत्| एते हि साधारणाः कालाः अत एतेषु शोधनं युक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथौषधकालाः| तत्रौषधं द्विविधं,- शोधनं शमनं च| तत्र स्वस्थस्य शोधनकालमाह-आवण इति| साधारणे-वृष्टिशीतोष्ण्-तिशयरहिते, हेतुगर्भं चेदं विशेषणम्|
Adhikarana असन्धौ शोधननिषेधः (३४-३५) · Śloka ३५
ननु, ग्रीष्मादिष्वेव कस्माद्वातादयो न शोध्यन्ते ? इत्याह - - - - | अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः||३४|| सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्| संशोधनसाध्यस्यायमेव संशोधनकालः ? नेत्याह - - - - स्वस्थवृत्तमभिप्रेत्य, व्याधौ व्याधिवशेन तु||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यतो ग्रीष्मादयोऽत्युष्णादियुक्ताः| [तेषां-अत्युष्णवर्षशीतानां, ग्रीष्मवर्षाहिमागमानां, साधारणे सन्धौ शीतोष्णवर्षसमभावे काले दोषान्-वातादीन्, दुष्टान्-विकृतान्, विशोधयेत्-विनिर्हरेत्| सन्धौ हि साम्यम्| ] ततः शोधनं प्रति न ते कालाः| तथा हि-ग्रीष्मे तावदादानग्लानं खरतररविकिरणतप्तं पिपासाक्लमाद्याकुलमतिप्रविलीनदोषमतिशिथिलं शरीरं भवति| औषधं पुनरतिखरदिवाकरकरनिर्भरतापादुष्णतीक्ष्णतां यातमतियोगाय सम्पद्यते| प्रावृषि घनघनौषसङ्घट्टसादिते सर्वतो जगत्यवसन्नोऽग्निर्भवति| आदानदुर्बलं च शरीरं भवति| ओषधयश्च जलदजलप्लावितमूला अल्पवीर्याः सम्पद्यन्ते| भूबाष्पसंयोगाच्चौषधीनां विदग्धत्वम्| अतोऽपथ्यतां गता अयोगायैव| शीतकाले चातिशीतोपहतत्वाच्छरीरमतिवातविष्टब्धमतिस्तब्धगुरुदोषं भवति| शीतोपहतत्वाच्चोष्णस्वभावमप्यौषधं संशोधनायोपयुक्तं मन्दवीर्यतां प्राप्तमयोगायैव कल्पते इति| तस्माद्युक्तमुक्तमत्युष्णवर्षशीतत्वात् ग्रीष्मादिषु स्वस्थस्य शोधनमयुक्तम्, न त्वातुरस्य, इति| स०-स्वस्थावस्थमधिकृत्यायं संशोधनकाल उक्तः| व्याधौ त्वात्ययिके व्याध्यनुरोधेन संशोधनकालः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्धिनियमेनासन्धौ शोधनं निषेधति-अत्युष्णवर्षशीता इति, सन्धाविति, स्वस्थवृत्तमिति| उष्णवृष्ट्योर्वृष्टिशीतयोः शीतोष्णयोश्चापगमोद्गमावस्था-सन्धिः| आ० र०-स्वस्थवृत्तमभिप्रेत्य-स्वस्थोपचाराभिप्रायेण| स्वस्थस्यापि रोगानुत्पत्तये शोधनमुचितम्|
Adhikarana व्याधितस्य शोधनकालः (३६) · Śloka ३६
यदि हेमन्तादावतिशीतोष्णादौ काले व्याधिः संशोधनसाध्यः सम्भवेत्, तदा कथं संशोधनं कार्यम् ? इत्याह - - - - कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्| प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत्||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीतोष्णवृष्टीनां प्रतीकारं कृत्वा-कृत्रिमं ऋतुगुणं यथायथं सम्पाद्य संशोधनादिलक्षणां क्रियां प्रयोजयेत्| कृत्रिमगुणोपधानं च यथा,-हेमन्ते गर्भगृहादि, ग्रीष्मे धाराग्रहादीनि| क्रियाकालं न हापयेत्-नातिक्रामयेत्, आत्ययिकस्य व्याधेः प्राणहारित्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्याधितस्य शोधनकालमाह-व्याधाविति, कृत्वेति, प्रयोजयेदिति| व्याधिवशेन-यदैव व्याधिरुत्पद्यते तदैव| प्राप्तां-अवस्थावशात् प्राप्तावसराम्|
Adhikarana शमनौषधकालाः दश (३७) · Śloka ३७
सम्प्रत्यौषधकालान् दर्शयन्नाह - - - - युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे| ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशिचौषधम्||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशैते औषधस्य कालाः| अनन्नमौषधं तदुच्यते यदुपयुज्य परिणते तस्मिन् भुञ्जीत| अन्नादौ तदुच्यते यदुपयुज्य समनन्तरमाहारोपयोगो विधीयते| मध्य इति अन्नस्य-आहारस्य मध्ये यदौषधं भुज्यते| अन्ते-अवसाने| कवलान्तर इति कवलयोः-ग्रासयोः, अन्तरे-मध्ये, न तु ग्रासमिश्रितं कृत्वेत्यर्थः| ग्रासे ग्रास इति यद्ऽऽग्राससम्पृक्तं भुज्यते| मुहुरिति पुनः पुनर्भुक्तेऽभुक्ते वा यदौषधं भुज्यते| सान्नमिति सहान्नेन-आहारेण यदौषधं भुज्यते| सामुद्गं तद्भण्यते यदाहारस्य प्राक् पश्चाच्च प्रयुज्यते, तेन हि समुद्गपुटयुगलसमेनौषधद्वयेनाहारो मध्यीक्रियते| समुद्गः-सम्पुटकः| निशि तदुच्यते यच्छयनवेलायां भुज्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनौषधकालानाह-युञ्ज्यादिति, ग्रासे ग्रास इति| यत्राहारे जीर्णे भेषजं जीर्णे आहारस्तत्-अनन्नम्, आभक्तं नाम| यत्र गृहीते एवौषधे आहारस्तत्-अन्नादौ, प्राग्भक्तं नाम| यत्रार्धाहारे भेषजं पश्चाच्छेप आहारस्तत्-मध्ये, मध्येभक्तं नाम| यत्र गृहीत एवाहारे भेषजं तत्-अन्ते, अधोभक्तं नाम| यत्र प्रतिग्रासं ग्रासासम्पृक्तमौषधं तत्-कवलान्तरे, ग्रासान्तरं नाम| यत्र प्रतिग्रासं ग्राससम्पृक्तमौषधं तत्-ग्रासे ग्रासे, सग्रासं नाम| यत्र भुक्तस्याभुक्तस्य वा पुनः पुनरौषधं तत्-मुहूर्नाम| यत्र आहारेण सह साधितं मिश्रीकृतं चौषधं तत्-सान्नं नाम| यत्रादौ भेषजं ततोऽनन्तरमेवाहारः ततोऽनन्तरमेव पुनर्भेषजं तत्-सामुद्गं नाम| सामुद्गः-सम्पुटः| यत्र रात्रौ स्वप्नकाले भेषजं तत्-निशि, नैशं नाम एवं दशौषधकालाः|
Adhikarana अनन्नस्य विषयः, प्राग्भक्तस्य विषयः, मध्येभक्तस्य विषयः, अधोभक्तस्य विषयः, ग्रासग्रासान्तयोर्विषयः, मुहुरौषधस्य विषयः, सान्नस्य विषयः, सामुद्रस्य विषयः, नैशौषधस्य विषयः (१३) · Śloka १३
अधुना विषयविभागेन यस्मिन् व्याधौ यदुपयुज्यते तद्दर्शयति - - - - कफोद्रेके गदेऽनन्नं बलिनो रोगरोगिणोः| अन्नादौ विगुणेऽपाने, समाने मध्य इष्यते||३८|| व्यानेऽन्ते प्रातराशस्य, सायमाशस्य तूत्तरे| ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि||३९|| मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्श्वासकासिषु| योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके||४०|| कम्पाक्षेपकहिध्मासु सामुद्रं लघुभोजिनाम्| ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते||४१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्रमणीयो नाम त्रयोदशोऽध्यायः||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफोद्रेके रोगे निरन्नमौषधं योज्यम्| कयोः ? इत्याह-बलिनोरित्यादि| बलवति रोगे रोगिणि च तत्केवलमन्नादिरहितमौषधं योज्यम्| तद्धि निरन्नमतिवीर्यं भवति| बलवांश्च यदि रोगी तदोपयुञ्जीत, न तु दुर्बले| दुर्बलस्य त्वन्नसहितं न ग्लानिकरं भवति| अन्नादाविति| अपाने वायौ विगुणे-कुपिते सति, औषधं भुक्त्वा समनन्तरमेवाहार इष्यत इत्यर्थः| समाने वायौ विगुणे मध्ये भक्तस्यौषधमिष्यते| व्याने वायौ विगुणे प्रातराशस्य-पूर्वाह्णभुक्तस्य, अन्ते-अवसाने, भेषजमिष्यते| सायमित्यादि| उत्तरे-व्यानापेक्षया उदाने मरुति, विगुणे सायमाशस्य-अपराह्णभुक्तस्य त्वन्ते भेषजमिष्यते| प्राणे मातरिश्वनि-वाते, प्रदुष्टे-विकृते, ग्रासग्रासान्तरयोर्भेषजमिष्यते| ग्रासस्य ग्रासान्तश्च तयोः, तेन ग्राससम्पृक्तमौषधं ग्रासयोर्मध्ये भेषजमिति चावतिष्ठते| मुहुर्मुहुः-भुक्ते यदभुक्ते वा भेषजं, तत्तु विषादिषु योज्यम्| अरोचके-अरुचौ, सह भोज्यैर्भैषज्यं योज्यम्| कीदृशैर्भोज्यैः ? चित्रैः-अनेकविधैः| सामुद्गं नाम यदादावन्ते चाहारस्य भुज्यते तत्कम्पादिषु 'प्रशस्यते' इति वक्ष्यमाणेन सम्बन्धः| केषाम् ? लघ्वन्नाशिनाम्| ऊर्ध्वजत्रुविकारेषु शयनवेलायामौषधं प्रशस्यत इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषोपक्रमणीयाध्यायस्त्रयोदशः समाप्तः|| १३||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनन्नस्य विषयमाह-कफोद्रेके गत इति| अह्नस्तृतीयो भागः-श्लेषमकालः, तदर्धं-कफोद्रेकः, तस्मिन् गते-तदनन्तरमेव| प्राग्भक्तस्य विषयमाह-अन्नादाविति| मध्येभक्तस्य विषयमाह-समान इति| अधोभक्तस्य विषयमाह-व्यानेऽन्त इति| व्याने विगुणे प्रातर्बोजनस्यान्ते भेषजम्| उत्तरे-उदाने, विगुणे सायं भोजनस्यान्ते| ग्रासग्रासान्तयोर्विषयमाह-ग्रासग्रासान्तयोरिति| मुहुरौषधस्य विषयमाह-मुहुर्मुहुरिति| [मुहुर्मुहुरिति वीप्सया क्रियासङ्करस्त्विष्टः, "न क्रियासङ्करो हितः|" (सङ्ग्रहे सू. अ. २३) इत्यस्य बाधः|] सान्नस्य विषयमाह-योज्यमिति| सामुद्गस्य विषयमाह-कम्पाक्षेपकहिध्मास्विति| नैशौषधस्य विषयमाह-ऊर्ध्वंजत्रुविकारेष्विति| सङ्ग्रहे तु एकादशौषधकाला उक्ताः (सू. अ. २३) - "अन्तर्भक्तं यत्पूर्वाह्णभुक्ते जीर्णे मध्याह्ने भेषजमुपयुज्यते, तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम्| एतेन रात्रिर्व्याख्याता| तद्दीप्राग्नेर्व्यानजेश्वामयेशु|" इति| तथा-"तत्राद्ये काले तृषितः पीताम्बुरजीर्णौ क्षुधितः क्षामश्च भेषजं वर्जयेत्| शेषेषु चाहृद्यमसात्म्यपतितीक्ष्णोष्णोग्रगन्धं भूरिमात्रं चेति| भवन्ति चात्र| रोगमादौ परीक्षेत ततो~क़नन्तरमौषधम्| ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्|| निवृत्तोऽपि पुबर्व्याधिः स्वल्पेनायाति हेतुना| देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः|| तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना| सिद्धानामपि योगानां पूर्वेषं दार्ढ्यमावहन्|| सातत्यात्स्वाद्वआवाच्च पथ्यं द्वेष्यत्वमागतम्| कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः|| मनसोऽर्थानुकूल्येन तुष्टुरूर्जा रुचिर्बलम्| सुखोपंभोगत च स्याद्यधेश्चातः परिक्षयः|| लौल्याद्दोषक्षयव्द्याधेर्षैषम्येण च या रुचिः| तासु पथ्योपचारज्ञो य्प्गेनान्नं प्रकल्पयेत्|| सप्ताहेन गुणालाबे क्रियामन्यां प्रयोजयेत्| पुर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः|| गुणे त्वल्पेऽपि तामेव विशेषोत्कर्षलब्धये| भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः|| शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम्| अनन्यकार्योऽव हित-न्मन्निगुरुसम्मतः|| आस्वादितं परिचरैः स्वयं चानु प्रयोजयेत्| उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम्|| देशेऽम्यत्रापि वसतस्तत्तुल्यगुणजन्म वा| वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लघु|| रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया| एकाग्रमनसा युक्तं भैषज्यममृतायते|| भेषजमवचारयन् [प्रायः] प्रागेव तावदेवमातुरं परीक्षेत| कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा| तस्मिंश्च देशे मनुष्यणामिदमाहारजातमेवं विहारजातमेतावद्वलमेवविधं सत्त्वमेवंविधं सात्म्यमियं भक्रिरिमे व्याधयो हितमिदमहितमिदमिति| प्रायोग्रहणेन केन व निदानविशेषेणास्य कुपितो दोषः| दोषस्य ह्येकस्यापि बहवः प्रकोपहेतवः| तस्माधथास्वलक्षणैः कर्मभिश्च बुध्वाऽपि दोषमेवमवगमयेत्| तद्यथा,- किमाहारेण कुपितो वयुः किं विहारेण, तथा रूक्षेण लघुना शिशिरेण वा, साहसेन वेगरोधेन वा, भयेन शोकेन वेति| ततश्च तत्प्रतिपक्षमेवौषधं प्रयुज्यमानामाशु सिद्धये सम्पद्यते| तत्र मधुराम्ललवणा रसाः कटुतिक्तकशायाश्चेतरेतरप्रतिपक्षाः| तदनन्तरं चोपलभेत मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितम्| एकरूपस्यापि हि हेतोर्मृद्वादिविभागेन पृथक् समवेतानाम् च दोषाणामंशांशबलविकल्पविशेषात् व्याधेर्बलाबलविशेषः| तत्रानेकदोषात्मकेषु व्याधिषु, अनेकरसेषु च भेषजेषु, दोषरसप्रभावमेकैकशोऽभिसमीक्ष्य व्याधिभेषजप्रभावतत्त्वं वय्वस्येत्| न त्वेवं सर्वत्र| न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेणोपगृहीतानामुपहतानां चान्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्त्वमध्यवसितुं शक्यम्| तथाविधे हि समुदाये समुदायाप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्त्वमवगच्छेत्| तथा, कस्य धामाधिष्ठाय व्याधिरयमवस्थित इति निरूपयेत्| प्रविसृतो हि दोषः स्वकीयमेव स्थानमातङ्कायाधितिष्ठन् मूर्द्धादीन् वा दुस्तरो भवति| ततः स्थानविशेषेण भेषजविशेशः पर्येषितव्यः| ततश्चैवमालोचयेत्| कस्यायमौषधस्य व्याधिरातुरो वा योग्यः कियतो वा| दोषानुरूपो हि भैषज्यवीर्यं प्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति| सहसाऽतिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि व| तथाऽग्निक्षारशस्त्रकर्माण्यल्पसत्त्वमातुरमल्पबलं वा निपातयेयुः| संशमनानि तु व्याधिबलादधिकानि तमुपशमय्य व्याधिं व्याधिक्षपितदेहे शीघ्रमन्यमावहन्ति, शरीरबलादधिकानि ग्लानिमूर्च्छामदमोहबलक्षयान्, अग्निबला दधिकानि ग्लानिमग्निसादं च| अपि च| अतिस्थूलोऽतिकृशोऽतिदुर्बलो दुष्टमांसशोणितास्थ्यङ्गावयवोऽल्पाग्निरल्पाहारोऽसात्य्म्याहारोऽपचितः साररहितो वा व्याधिबलमेव तावदसमर्थः सो-म्, किं पुनस्तथाविधो भेषजवेगम्| तस्मात्ताद्रुषमविषादकरैर्मृदुसुखैरुत्तरोत्तरं गुरुभिरविभ्रमैश्चोपाचरेदोषधैः, विशेषादबलाः| ता ह्यनवस्थितमृदुविक्लवहृदयाः प्रायः सुकुमाराः परं संस्तभ्याश्च| ततोऽपि विशेषेण शिशवः| तथा बलवति बलवव्द्याध्यातुरेऽल्पबलमल्पं वा भेषजमकिञ्चित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्| योग्यमपि चौषधमेवं परीक्षेत| इदमेवंरसवीर्यविपाकमेवंगुणमेवंद्रव्यमेवंकर्मैवंप्रभावमस्मिन् देशे जातमस्मिन्नृतौ चैवंगृहीतमेवंनिहितमेवंविहितमेवंनिषिद्धमेवमुपसंस्कृतमेवंसंयुक्तमेवंयुक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काले एतावन्तं दोषमपकर्षत्युपशमयति वा| अन्यदपि व चैवंविधं भेषजमभूत्, तच्चानेनान्येन वा विशेषेण प्रयुक्तमिदमकरोत्| सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहारसारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि| यान्यनालोचितनि निहन्युरातुरम्| आलोच्यमानान्यपि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः, किंपुनरल्पबुद्धिम्| तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत प्रज्ञाम्| अपि च| सन्ति व्याधयो ये शास्त्रे उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः| तत्र प्रज्ञयैव दोषादिगुरुलाघवेन सम्यग्व्यवस्येदन्यतरनिष्ठायाम्| कालश्च भेषजस्य योग्यतामापादयति| स तु क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्राक्| तत्र शीतोष्णवर्षलक्षणा ऋतवस्त्रयो हेमन्तग्रीष्मवर्षाख्याः| तेषामन्तरे शोधनार्थं साधारणा वसन्तप्रावृट्शरदाख्यास्त्रयो विकल्पन्ते| तत्र शोधनं प्रति फाल्गुनचैत्रौ वसन्तः| आषाढश्रावणौ प्रावृट्| कार्तिकमार्गशीर्षौ शरत्| अपि च| शीतोष्णवर्षलक्षणस्त्रिविधः कालः| तत्र शीतोष्नयोर्व्रुष्टिशीतयोश्चान्तरेण साधारणौ वसन्तजलदात्ययौ| ग्रीष्मवर्षाकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विकल्प्यते| तेषु साधारणेष्वहःसु वमनादीनां प्रव्रुत्तिः, निवृत्तिरितरेष्वयोगतियोगभयात्| साधारणा हि मन्दशीतोष्णवर्षतया सुखत्वात् भवन्त्यविकल्पकाः शरीरौषधानाम्| विपरीतास्तिवतरे| तथा हि-शीतकालेऽतिमात्रशीतोपहतत्वाच्छरीरमत्यर्थं शीतवातविष्टब्धमतिस्तब्धगुरुदोषं भवति| तदनुप्राप्तं च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मन्दवीर्यतां गतमयोगाय जायते| शरीरं च वात प्रयोपद्रवाय| तद्वद्वर्षस्वपि समन्तादतिघनेन घनसङ्घातेनावतप्ते नभस्युपरुद्धतेजःप्रसरेषु दिनकरकरेषु जलदपटलप्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलबलमुद्गिक्तमलबलमादानदुर्बलं शरीरं भवति| औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृताम्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कन्धशाखः पुनरिव बालतामुपगतोऽल्वीर्या भवति| अपरिसंस्थिततया च क्षितिमलप्रायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंसृष्टाभिरद्भिः सलिलसीकरानुविद्धशिशिरपवनसम्पृक्तेन च धाराधरधारोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते| तेनासावपथ्यतामुपगतो ध्रुवमयोगाय| प्रथमसङ्गृहीतमपि चौषधं तोयदतोयानुगतमारुतोपहते जगतीति| ग्रीष्मे पुनरादानोपहत्त्वात् शरीरमुष्नरूक्षवातातपाध्मातमतिस्विन्नमतिशिथिलमतिप्रविलीनदोषं भवति| भेषजं पुनरनुष्णमपि तपनतरुणतरकरनिपातादुष्नतीक्ष्णतामुपगतमतियोगायोपकल्पते| शरीरं च पिपासाभ्रमक्लमोपद्रवाय| तस्मात्साधरणेष्वेव तदन्तरालेशु वमनादीनि योजयेत्, न चेदात्ययिको व्याधिः| आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चोपपाद्यौषधमवहितोऽवचारयेत्| आतुरावस्थासु तु कालाकालसंज्ञा| तद्यथा,-अस्यामवस्थायामस्यौषधस्य कालोऽकालो वा| न ह्यप्राप्तातीतकालमौषधं यौगिकं भवति|" इति| औषधभेदाश्च सङ्ग्रहे दर्शिताः (सू. अ. १२) - "द्विविधमौषधम्,- ऊर्जस्करं रोगघ्नं च| उभयमपि चोभयात्मकम्, बाहुल्येन तु निर्देशः| तत्रोर्जस्करं द्विविधं,- रसायनं वाजीकरणं च| रोगघ्नमपि द्विविधं,- रोगस्य प्रशमनमपुनर्भवकरं च| पुनश्च द्विविधं,- द्रव्यमद्रव्यं च| तत्र द्रव्यं त्रिविधं,- भौममौद्भिदं जङ्गमं चेति| तेशु वक्ष्यमाणं हेमादिलवणान्तं प्रायेण भौमम्| औद्भिदं पुनर्वनस्पतिवानस्पत्य्वीरुदोषधिभेदेन चतुर्विधं भवति| तत्र फलिनो वनस्पतिः| पुष्पफलवन् वानस्पत्यः| वल्ली गुल्मं च वीरुत्| फलपाकान्ता औषधिरिति| जङ्गमोद्भवं तु मधुघृतादि जङ्गमं द्रव्यमाहुः| अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसत्त्वदानभयोन्त्रासक्षोभणहर्षणभर्त्सनस्वप्नजागरणसंवाहनादि| तथा त्रिविधमौषधम्,- दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्त्वावजयश्च| तत्र दैवव्यपाश्रयं-मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि| युक्तिव्यपाश्रयं-आहारौषधयोजना| सत्त्वावजयः पुनः-अहितान्मनोनिग्रहः| पुनरपि च त्रिविधम्,- अपकर्षणं प्रकृतिविधानं निदानत्यागश्च| ते पुनरकर्षणादयो द्विविधाः,- बाह्याभ्यन्तरभेदेन| तत्र बाह्यमपकर्षणं-ग्रन्थ्यर्बुदोपपक्ष्मकृमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः, आभ्यन्तरं-वमनविरेचनादिभिः| प्रकृतिविधानं-संशमनम्| तत्र बाह्यं-अभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यम्, आभ्यन्तरं-यदन्तरमनुप्रविश्याविक्षोभयन् दोषान् शमयति| निदानत्यागो-यथादोषं शीतोष्णाशनव्यायामादीनां वर्जनं स्निग्धरूक्षाद्यनभ्यवहारश्च| तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते, न तु भेषजसाध्ये शस्त्रादि| पुनरपि च त्रिविधं,- हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च| तत्र हेतुविपरीतंगुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि, तथेतरस्मिन्नितरत्| व्याधिविपरीतं-द्वौ मूलोपक्रमौ| तौ च-लङ्घनबृंहणे स्नेहस्वेदौ पञ्चकर्माणि वमनादीनि धूमाञ्जनादीनि च, तथा विम्लापनोपनाहपाटनादीनि| यच्च दोषशमनहेतुत्वे सत्यपि ज्वरे विशेषतो हितं मुस्तपर्पटकं यवागूश्च| प्रमेहे रजनी यवान्नं च| रक्तपित्ते चोर्ध्वगे विरेचनमधोगे वमनम्| उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम्| तद्यथा,- छर्द्यं छर्दनम्, अतीसारेऽनुलोमनम्, मदात्यये मद्यपानम्, तुच्छदग्धेऽग्निप्रतपनम्, पित्तेऽन्तर्निगूढे विमार्गगे वा स्वेदः, कट्वम्ललवनतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्तनाय स्वमार्गापादनाय च| श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारः तत्पीडितस्योष्मणोऽन्तःप्रवेशेन कफविलापनायेति| एवंविधं ह्यविपरीतमेव सद्भेषजं हेतुव्याधिविपरीतार्थं करोति| अनौषधं पुनर्द्विविधं,- बाधनमनुबाधनं च| तत्र सद्यः प्राणहरं बाधनम्| कालान्तरेणानुबाधनमिति|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| दोषोपक्रमणीयस्तु सामस्त्येन निरूपितः|| १३||