Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रक्तपित्तचिकित्सितादनन्तरं कासचिकित्सितस्यारम्भः| तस्य च सम्बन्धो निदाने स्वयं ग्रन्थकृतैवोक्तः|
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रक्तपित्तचिकित्सितादनन्तरं कासचिकित्सितस्यारम्भः| तस्य च सम्बन्धो निदाने स्वयं ग्रन्थकृतैवोक्तः|
Adhikarana कासचिकित्सिताध्यायः वातकासचिकित्सा शुद्धस्य वातकासस्य चिकित्सा सपित्तस्य वातकासस्य चिकित्सा सकफस्य वातकासस्य चिकित्सा (२-३) · Śloka ३
अथातः कासचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) केवलानिलजं कासं स्नेहैरादावुपाचरेत्| वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः||१|| लेहैर्धूमैस्तथाऽभ्यङ्गस्वेदसेकावगाहनैः| बस्तिभिर्वद्धविड्वातं, सपित्तं तूर्ध्वभक्तिकैः||२|| ग़ृतैः क्षीरैश्च, सकफं जयेत्स्नेहविरेचनैः| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-केवलानिलजं कासं-दोषान्तरासंसृष्टं, स्नेहैः-वातघ्नसिद्धैः, आदावुपाचरेत्| ननु,शुद्धस्य वातस्य स्नेहैरेव प्रधानोपक्रम आदिमध्यावसानेषु, न पुनरन्य उपक्रमः, तस्मादादाविर्यनेन नार्थः| अत्रोच्यते| वातः केवलो दोषान्तरावृतमार्गः कासस्य कारणम्, न त्वनावृतमार्गः| तथा च काससम्प्राप्तावुक्तम् (हृ. नि. अ. ३११९)-तत्राधो विहतोऽनिलः| ऊर्ध्वंप्रवृत्तः" इत्यादि| एवं वातस्य विहतौ यो दोषः कारणं कफादिः, तस्य रूक्षाद्युपक्रमेणैव शमं कृत्वाऽनन्तरं कासेन सहोपक्रममस्य भिषजः कुर्युरिति तेषां भ्रान्तिनिरसाऱ्थमादावित्युक्तम्| तथा, पेयादिभिरुपाचरेत्| तथा, बद्धौ विड्वातौ यस्मिन्कासे तं बस्तिभिरुपाचरेत्| सपित्तं च वातकासमूर्ध्वभक्तिकैः-भक्तसमनन्तरं पीयमानैर्ग़ृतैर्भोजयेत् क्षीरैश्च| ऊर्ध्वभक्तिकैरिति ऊर्ध्वभक्तादिभिः| मयुरव्यंसकादित्वात् समासः, अध्यात्मादिग्वाठ्ठञ्| तथा, वातघ्नसिद्धैरित्येष्वपि योज्यम्| तथा, सकफं वातकासं स्नेहविरेचनैरुपाचरेत्| अथ स्नेहानाह
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ कासचिकित्सितम्| तत्र शुद्धवातचिकित्सामाह-केवलानिलजं कासमिति| आदौग्रहणं जितेऽपि वाते कासानुवृत्तौ रूक्षोपचारार्थम्| स्निग्धैरिति पेयादिबस्त्यन्तानां विशेषणम्| आदिशब्दात् बलकान्ति देयत (?) बस्तिभिर्बद्धविडातमिति वचनात् पूर्वैर्बद्धविड्वातेम द्वातं च (?)| पित्तानुबद्धवातकासचिकित्सामाह-सपित्तं त्विति| ऊर्ध्वभक्तिकैः-ऊर्ध्वं भोजनात् प्रयुक्तैः| कफानुबद्धवातकासचिकित्सामाह-सकफमिति| स्नेहाः-एरण्डतैलादयः|
Adhikarana गुडूच्यादिघृतं वातकासनुत् (३-४) · Śloka ४
| गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे||३|| प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुडूच्याः कण्टकार्याश्च पृथक्-प्रत्येकं, त्रिंत्शल्पलं तस्माद्यो रसस्तस्मिन् घृतात् प्रस्थः सिद्धो वातकासादिजित्| तिस्रोऽपि पञ्चम्य एता अपेक्षितक्रियेऽपादाने बोध्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- स्नेहैरित्युक्तम्| तानेव स्नेहानाह| तत्र घृतमाह-गुडूचीकण्टकारीभ्यामिति|
Adhikarana क्षारादिघृतं कासश्वासादिनुत् (४-६) · Śloka ६
| क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः||४|| द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्| दशमूलस्य निर्यूहे पीतो मण्डानुपायिना||५|| स कासश्वासह्रत्पार्श्वग्रहणीरोगगुल्मनुत्| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षारादिभिः पञ्चकोलयुतैर्द्विशाणमात्रैः कल्कैर्दशमूलक्वाथे सर्पिषः प्रस्थं पचेत्| स च-सर्पिःप्रस्थो, मण्डानुपायिना पीतः कासादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह-क्षाररास्नेति|
Adhikarana रास्नादिघृतं पञ्चकासादिजित् (६-९) · Śloka ९
| द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः||६|| पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्| तुलार्घं चाजमांसस्य तेन साध्यं घृताढकम्||७|| समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्| प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः||८|| पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्| सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत्||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रास्नादीनि पलोन्मितानि कुलत्थबदरयवान् द्विकुडवोन्मितान् आजमांसस्य च पञ्चाशत्पलानि जलद्रोणे पाचयेत्| तेन क्वाथेन घृताढकं साध्यं तुल्यक्षीरं पालिकैर्जीवनीयैः-जीवन्तीकाकोल्यादिभिः (हृ. सू. अ. १५/८), तद्धृतं समीक्ष्य देशकालादीनालोच्य, पानादिभिः प्रयुक्तं पञ्चकासादीन् जयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० रं० घृतान्तरमाह-द्रोणेऽपामिति|
Adhikarana विदार्यादिघृतं कासजित् (१०) · Śloka १०
विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विदार्यादिगणस्य क्वाथकल्काभ्यां च सिद्धं सर्पिः कासजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह-विदार्यादिगणेति| सङ्ग्रहे तु (चि. अ. ४) "काश्मर्थत्रिफलाव्योषशठीद्राक्षापरूषकम्| द्वे पाठे देवदार्वर्द्धिस्वगुत्पाग्निकगोक्षुराः|| व्याघ्री तामलकी मेदा काकनासा शतवरी| विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपचितः| क्षीरेण च जयत्याशु ज्वरकासहली मकान्| गुल्मारुचियकृतप्लीहशिरोहृत्पार्श्ववेदनाः|| कामलार्शोनिलाष्ठीलाक्षतशोषक्षयांश्च सः||" इति| अग्नि[क]ः- चित्रकः| वङ्गसेने तु (कासाधिकारे श्लो.१६)- " दशमूलिकषायेण भार्गीकल्कं घृतं पचेत्| दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्|| भार्ङ्गीकल्कं घृतं चाथ पचेद्दन्धि चतु र्गुणे| भार्गीरसं द्विगुणितं वातकासहरं परम्|| घृतं व्याद्रीकषायेण व्याघ्रीकल्कं विपाचयेत्|| चतुर्गुणेन दध्ना च तत्परंवातकासजित्||" इति| इति स्नेहाः|-
Adhikarana अशोकबीजादिलेहः (१०-११) · Śloka ११
| अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः||१०|| सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम्| लिह्यात्पयश्चानु पिबेदाजं कासातिपीडितः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशोकबीजादिभिर्विडसहितैर्घृतं सिद्धं कासजित्| तेषां वा-अशोकबीजादीनां, चूर्णं घृतप्लुतं लिह्यात्| अनु पश्चाच्च, छागं क्षीरं कासेनातिपीडितः पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहैरित्युक्तम्| तानेव लेहानाह| तत्राशोकबीजादिलेहमाह-अशोकबीजेति| चूर्णसिद्धं घृतं स्त्यानीभूतं लिह्यात्| चूर्णं वा घृतान्वितं लिह्यात्| उभयत्राजापयोऽनुपानम्|
Adhikarana विडङ्गादिलेहः (१२-१३) · Śloka १३
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्| भार्ङ्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया||१२|| सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा विडङ्गादिचूर्णं घृतस्य मात्रया-यथायोगं ह्र्स्वमध्योत्तमया, पिबेत् वातजे सकफे कासे श्वासादिषु च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विडङ्गादिलेहमाह-विडङ्गमिति| पिबेद्वेतिलेहायोग्यस्य पानविधिः| "घृतं तु पित्तेऽव्यधिके लिह्याद्वातेऽधिके पिबेत्| लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम्|| आक्रमत्यनिलं पीतमूष्माणं निरुणद्धि च|" (श्लो.११०) इति लेहपानयोग्यताविवेकः|
Adhikarana दुरालभादिलेहः (१३-१४) · Śloka १४
| दुरालभां शृङ्गबेरं शठीं द्राक्षां सितोपलाम्||१३|| लिह्यात्कर्कटशृङ्गी च कासे तैलेन वातजे| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुरालभादीन् कर्कटाशृङ्गी च वातजे कासे तैलेन लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दुरालभादिलेहमाह-दुरालभामिति|
Adhikarana दुःस्पर्शादिलेहः पिप्पलीशुण्ठीलेहः भार्ङ्गीशुण्ठीलेहः (१४-१५) · Śloka १५
| दुस्पर्शां पिप्पलीं मुस्तां भार्ङ्गी कर्कटकीं शठीम्||१४|| पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्| तद्वत्सकृष्णां शुण्ठीं च सभार्ङ्गी तद्वदेव च||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुःस्पर्शादीनि चूर्णितानि वातजे कासे पुराणगुडतैलाभ्यामवेलहयेत्| तथैव पिप्पलीसहितां शुण्ठीं पुराणगुडतैलाभ्यां लिह्यात्| तद्वच्च पुराणतैलाभ्यां भार्ङ्गींसहितां शुण्ठीं लेहयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दुःस्पर्शादिलेहमाह-दुःस्पर्शामिति| लेहद्वयमाह-तद्वत्सकृष्णामिति| तद्वत्-पुराणगुडतैलाभ्याम्|
Adhikarana पिप्पल्यादिपानपञ्चकम् (१६-१७) · Śloka १७
पिबेच्च कृष्णं कोष्णेन सलिलेन ससैन्धवाम्| मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम्||१६|| पिबेद्वदरमज्ज्ञो वा मदिरादधिमस्तुभिः| अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पलीं कदुष्णेन जलेन सैन्धवसहितां पिबेत्| मस्तुना सशर्करां शुण्ठीं वा पिबेत्| अथवा दध्ना युक्तां पिप्पलीरेणुकां पिबेत्| अथवा बदरमज्ज्ञो मदिरादिभिः पिबेत्| बहुवचनोपादानाच्च मदिरया अथवा दध्ना मस्तुना वेत्येवं द्रष्टव्यम्, न तु दध्नो मस्तिवति| पिप्लीकल्कं वा घृतभृष्टं सैन्धवयुक्तं मदिरादिभिः पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तलेहतुल्यगुणं पानपञ्चकाह| पिबेत्कृष्णांचेति| कणा च रेणुका च कणरेणुकम्| मज्ज्ञः-अस्थ्यन्तर्गतबीजानि| पिप्पलीकल्के जलमेव द्रवम्, "पेषणालोडने वारि" (हृ. क. अ. ६/२३) इति परिभाषबलात्| हारीतात्-"दुरालभा शठी क्ऱ्ष्णा मधूकं सिताशर्करा| लीढं निहन्ति वतोत्थं कासं क्षौद्रेण योजितम्|| उभे मेदेतुगाक्षीरी पिप्पली सितशर्करा| लिह्यात्तैलं घृतक्षौद्रैर्वातकासनिवारणम्|| पद्मकं त्रिफला व्योषं विडङ्गं सुरदारु च| बला रास्ना च तुल्यानि सूक्ष्मचूर्णानि कारयेत्|| समं चूर्णैस्त्विमैः सर्वैः पृथक् क्षौद्रं घृतं सिताम्| लिह्याल्लेहं विमथ्यैतत्सर्वकासहरं शिवम्||" इति|
Adhikarana सपीनसे कासे धूमः (१८) · Śloka १८
कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्| हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासी पीनसी च स्नैहिकं धूमं विधिना पिबेत्| क्षीरमांसरसाशनो हिध्मोक्तान् श्वासोक्तांश्च धूमान् पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूमैरीत्युक्तम्| तानेव धूमानाह| तत्र सपीनसे कासे धूममाह-कासी सपीनस इति| विधिना-धूमपानोक्तेन "शरावसम्पुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलाम्| अष्टाङ्गुलां वा वक्रेण कासवान् धूममापिबेत्||" (हृ. सू.अ. २१/२१) इति| क्षीरेण मांसरसेन वा धूमे पीयमाने भोजनम्|
Adhikarana मांसरसयूषाः (१९) · Śloka १९
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्| रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ग्राम्यादिजैर्मासरसैरथवा माषात्मगुप्तानां यूषैः शाल्यादीन् हितानाशयेत्| हितानिति देशकालादिसात्म्यवशात् यवा (शाल्या) द्यन्यतमं यत् पथ्यं तद्भुञ्जीतेति प्रतिपादयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पेयायूषरसादिभिरित्युक्तम्| तानाह| तत्र रसयूषानाह-ग्राम्यानूपौदकैरिति| ग्राम्याः-सुश्रुतोक्ताः "अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः| " (सू. अ. ४६/८५) इति| आनूपाः-महामृगाः| औदकाः जलचराः पक्षिणो मत्स्याश्च| तेषामानूपत्वेऽपि पृथग्ग्रहणमतिशयार्थम्| ग्राम्यादीनां मांसरसैः शाल्यादीन् भोजयेत्, माषयूषैरात्मगुप्तायूषैर्वा| हितानिति वचनाद्येन रसेन यूषेणवा यद्धान्यं प्रकृत्यादिवशाद्यस्य हितं तत्तस्य देयम्|
Adhikarana यवान्यादिपेया (२०-२१) · Śloka २१
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः| रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः||२०|| सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्| कटिहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवान्यादिभिः सिद्धां स्निग्धामम्ललवणां पेयां वातजेकासे पिबेत्| किम्भूताम् ? कट्याद्यार्तिश्वासहिध्माप्रणाशनीम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- त्यवान्यादिपेयामाह-यवानीपिप्पलीति| बिल्वफलस्य मध्यं-अन्तर्गतो भागः| यवान्यादीनां क्वाथेन पेयाः|
Adhikarana दशमूलादिपेया (२२) · Śloka २२
दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्| पिबेत्पेयां|२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तद्वत्-पूर्वोक्तगुणाम्, दशमूलक्वाथे सिद्धां पञ्चकोलगुडयुतां पेयां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पेयान्तरमाह=दशमूलरस इति| रसः-क्वाथः| पञ्चकोलचूर्णेन गुडेन च पानकाले योगः| तद्वत्-स्निग्धाम्ललवणां तद्गुणां च|
Adhikarana क्षैरेयीपेया (२२) · Śloka २२
| समतिलां क्षैरेयीं वा ससैन्धवाम्||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षैरेयीं-क्षीरसंस्कृतां वा पेयां, वातजे कासे पिबेत्| किम्भूताम् ? समतिलां,-तिलसहितां| तथा, ससैन्धवाम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पेयान्तरमाह-समतिलामिति| तण्डुलसमास्तिलाः| क्षीरेण सिद्धा-क्षैरेयी|
Adhikarana मांसपेया (२३) · Śloka २३
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा मात्स्याद्यैर्मांसैः साधितां सघृतसैन्धवां पेयां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पेयान्तरमाह मात्स्यकौक्कुटवाराहैरिति| मांसैः-मांसरसैः, मांसग्रहणं प्राचुर्यार्थम्, अल्पेनोदकेन रसोग्राह्य इत्यर्थः| हारीते तु-"रसं कर्कटकानां वा घृतभृष्टं सनागरम्| श्वासकासप्रशमनं शृङ्गीमत्स्यस्य वा पुनः||" इति|कर्कटकः-कुलीरः| शृङ्गीमत्स्यः-शृङ्गवान् मत्स्यः| रस एवायं सनागरः पेयः|
Adhikarana शाकानि (२३-२४) · Śloka २४
| वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः||२३|| कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वास्तुकादयः शाकविशेषाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शाकान्याह-वास्तुक इति| वायसी-काकमाची| कासघ्नः-कासमर्दः|
Adhikarana स्नेहाः भक्ष्याः (२४) · Śloka २४
| स्नेहास्तैलादयोभक्ष्याः क्षीरेक्षुरसगौडिकाः||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तैलादयः स्नेहाः| सं-भक्ष्याः क्षीरादिसम्बन्धिनो हिताः| क्षीरं चेक्षुरसश्च गुडश्च, तेषामिमे क्षीरेक्षुरसगौडिकाः| "द्वन्द्वान्ते पदं यच्छ्रूयते तत्सर्वैः सम्बध्यते " इति भाष्यकारवचनात् सर्वैरप्यत्र सम्बन्धः| तेन क्षीरसम्बन्धिन इक्षुरससम्बन्धिनो गुडसम्बन्धिनश्च भक्ष्या हिता इत्यवतिष्ठते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- स्नेहानाह-स्नेहस्तैलादय इति|भक्ष्यानाह-भक्ष्याः क्षीरेक्षुरसगौडिका इति| क्षीरेन इक्षुरसेन गुडेन वा कृताः|
Adhikarana पानानि (२५) · Śloka २५
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, दधिमस्त्वादीनि पिबेत्| इति वातजे कासे प्रायेणोपयोग्यन्नपानमुद्दिष्टम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पानान्याह-दधिमस्त्विति| अम्लानां फलानामम्बु| इति वातकासचिकित्सा|
Adhikarana पित्तकासचिकित्सा सकफे पित्तकासे वमनम् (२५-२६) · Śloka २६
| पित्तकासे तु सकफे वमनं सर्पिषा हितम्||२५|| तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः| फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तजे कासे, किम्भूते ? सकफे-कफयुक्ते, तु सर्पिषा वमनं हितम्| अत एव वक्ष्यति (श्लो.२७)-"पित्तकासे तनुकफे त्रिवृतां" इति| तस्मादत्रार्थात् बहुकफत्वं बोध्यम्| न केवलं सर्पिषा वमनं हितम्| यावन्मदनादिभिः क्वथितैर्जलैर्वमनमवस्थावशाद्धितम्, अथवा मदनफलमधुककल्कैर्विदार्यादिरसाप्लुतैर्वमनं हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ पित्तकासचिकित्सा| तत्र सकफे पित्तकासे वमनमाह-पित्तकासे त्विति| मदनादिक्वाथेन ससर्पिष्केण वमनम्| फलयष्ट्याह्वचूर्णेन वा विदारीक्षुरसकल्कितेन वमनान्तरम्|
Adhikarana तनुकफे पित्तकासे विरेचनम्,घनकफे पित्तकासे विरेचनम् (२७) · Śloka २७
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्| युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तजे कासे तनुकफे-घनश्लेष्मणि, त्रिवृतां मधुरैर्युतां विरेकाय युञ्ज्यात्| घने तु कफे तिक्तकैः सह त्रिवृतां युञ्ज्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विरेचनमाह-पित्तकासे तनुकफ इति| तच्च तनौ कफे मधुरैर्युक्त्या त्रिवृत्या, घने तिक्तैः|
Adhikarana तनुकफे पित्तकासे संसर्जनम् घनकफे पित्तकासे संसर्जनम् (२८) · Śloka २८
हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत्| घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हृतदोषो नरो हिमं मधुरं स्निग्धं संसर्जनं-विरेकादनन्तरं पेयादिक्रमं, भजेत्| घने तु कफे शीतं तथा रूक्षं तिक्तयुतं संसर्जनं भजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- संसर्जनमाह-हृतदोष इति| तच्च तनौ कफे शीतस्वादुस्निग्धम्, घने शीततिक्तरूक्षम्| शुद्धस्य शुद्धयोग्यस्य वा|
Adhikarana शुद्धेपित्तकासे लेहः सकफे पित्तकासे लेहः सवाते पित्तकासे लेहः (२९) · Śloka २९
लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः| सकफे साब्दमरिचः सघृतः सानिले हितः||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तकासे सितादिभिर्लेहो हितः| सकफे पित्ते साब्द मरिचो लेहो हितः| सानिले पित्ते सघृतो लेहो हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहमाह-लेहः पित्त इति| स च केवले पित्ते सितादिभिः, सकफे समुस्तमरिचैः, सवाते सघृतैः| सङ्ग्रहे तु (चि. अ. ४)- "पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्| लाजामृत्फलाद्राक्षात्वक्क्षीरीपिप्पलीसिताः|| अमृतफलाधात्री| दुःस्पर्शा कर्कटी शुण्ठी शठी द्राक्षा बला सिता| निदिग्धिकामूलफलं वटबीजं रसाञ्जनम्|| खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते| घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्|| पयोनुपानां शृङ्गी वा लिह्यात् साज्यसितामधुम्|" इति|
Adhikarana मृद्वीकादिलेहः (३०) · Śloka ३०
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्| लेहयेन्मधुना|३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, मृद्वीकागुलिकाः पञ्चाशत् त्रिंशत्पिप्पलीः शर्करापलं च मधुना लेहयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहान्तरमाह-मृद्वीकार्धशतमिति|
Adhikarana गोशकृद्रसलेहः (३०) · Śloka ३०
| गोर्वा क्षीरपस्य शकृद्रसम्||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोर्वा वत्सस्य क्षीरपस्य-क्षीरवृत्तेः, शकृद्रसं मधुना लेहयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहान्तरमाह-गोर्वेति| क्षीरपस्य गोः-क्षीरमात्राहारस्य वत्सस्य, शकृद्रसं मधुना सह मर्दितं लेहयेत्|
Adhikarana त्वगेलादिलेहः (३१-३२) · Śloka ३२
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः| लाजमुस्ताशठीरास्नाधात्रीफलबिभीतकैः||३१|| शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा| |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वगेलादिभिर्लेहो हृद्रोगकासहा भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- "पिप्पल्यामलकद्राक्षालाजालाक्षासितोपलाः| सञ्चूर्ण्य पक्वाः पयसा लिह्यात् क्षौद्राष्टभागिकाः|| विदरीक्षुमृणालानांरसान् क्षीरं सितोपलाम्| पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति|" इति| योगरत्ने तु-"व्याघ्रीबलाभ्यां च जलं साधितं पित्तकासनुत्| तैरेव साधितं क्षीरमनुपानं प्रशस्यते|| पिप्पल्यामलकद्राक्षा व्याघ्री यष्टी शतावरी| पिप्पली चेति तुल्यानि शर्करा च चतुर्गुणा|| त्वक्क्षीरीं द्विगुणां दत्वा लेहयेन्मधुसर्पिषा| क्षतकासं जयत्येष लेहः पित्तोल्बणं तथा|| चूर्णं तु पद्मबीजानां मधुना सम्प्रयोजयेत्|| पित्तकासार्दितो लिह्यात् स्वस्थतां लभते क्षणात्|| वासाकषायकल्काभ्यां घृतं समधुशर्करम्| सिद्धं तत्पित्तकासघ्नं सर्वपित्तविकारनुत्||" इति| वङ्गसेने तु (कासाधिकारे श्लो. ३०)- "बलाद्विबृहतीद्राक्षावासाभिः क्वथितं जलम्| पित्तकासापहं पेयं शर्करामधुयोजितम्||" इति|
Adhikarana घनकफ पित्तकासे अन्नपानं तनुकफे पित्तकासे अन्नपानम् (३२-३४) · Śloka ३४
| मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः||३२|| मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः| घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः||३३|| शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घनश्लेष्मणि पित्तकासे जाङ्गलै रसैर्मधुरैस्तथा मुद्गकुलत्थादियूषैस्तथा तिक्तैः शाकैश्च सह यवादयो मात्रया-परिमिताः, हिताः| घनश्लेष्मणि लेहाश्च तिक्तद्रव्ययुक्ताः| तनुकफे पित्ते शालयः षष्टिकाश्च रसादिभिर्हिताः स्युः-भवेयुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्नपानमाह-मधुरैरिति| तच्च घने श्लेष्मणि यवादिना शाल्यादि| लेहाः-लेह्यखलाः| ते च तिक्तद्रव्यकृता मधुमधुराश्च|
Adhikarana अनुपानानि (३४) · Śloka ३४
| शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुपानार्थं शर्कराम्भो हितम्, द्राक्षेक्षुस्वरसाः पयश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अनुपानान्याह-शर्कराम्भ इति|
Adhikarana मांसरसक्षीरपेयायूषाः (३५) · Śloka ३५
काकोलीबृहतीमेदाद्वयैः सवृषनागरैः| पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काकोल्यादिभिर्मांसरसादीन् पित्तकासे प्रकल्पयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तरसादिसाधनद्रव्याण्याह-काकोलीति| द्वयशब्दस्त्रिभिर्योज्यः|
Adhikarana क्षीरान्तरं पेयान्तरम् (३६-३७) · Śloka ३७
द्राक्षां कणां पञ्चमूलं तृणाख़्यं च पचेज्जले| तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करम्||३६|| साधितां तेन पेयां वा सुशीतां मधुनाऽन्विताम्| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तकासे तथा द्राक्षादीन् चतुर्गुणे जले पचेत्| तेन पादावशिष्टेन द्राक्षादीनां क्वाथेन, समं क्षीरं क्वथितं [ शीतं ] मधुशर्करायुतं पिबेत्| तेन वा-जलेन, साधितां पेयां सुशीतां माक्षिकयुतां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षीरान्तरमाह-द्राक्षां कणामिति| पेयान्तरमाह-साधितामिति| तेन-द्राक्षादिक्वाथेन|
Adhikarana पानकम् (३७-३८) · Śloka ३८
| शठीह्नीबेरबृहतीशर्कराविश्वभेषजम्||३७|| पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शठ्यादीन् जले पिष्ट्वा वस्त्रेण पूतं रसं घृतमिश्रितं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पानकमाह-शठीति| पिष्ट्वा-जलोष्णेन चतुर्गुणेन, फाण्टत्वात्| मूर्च्छितं-भृष्टम्|
Adhikarana घृतचूर्णक्वाथाः (३८-४०) · Śloka ४०
| मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्||३८|| शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्| कल्कीकृत्यपचेत्सर्पिः क्षीरेणाष्टगुणेन तत्||३९|| पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्| लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्||४०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शर्करादीन् कल्कीकृत्याष्टगुणेन क्षीरेण सर्पिः पचेत्| तच्च सर्पिः पानादिषु युक्तं पित्तकासजित्| एतेषां वा-शर्करादीनां, चूर्णं लिह्यात्| अथवैषामेव कषायं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतचूर्णक्वाथानाह मेदां विदारीमिति| लिह्यान्मधुना| सङ्ग्रहे तु (चि. अ. ४)- " महिष्यजावीगोक्षीरधात्री फलरसैः समैः| सर्पिः सिद्धं पिबेत्तद्वन्मधुरेण गणेन वा| क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम्| सशर्करं पिबेर्त्प्रातर्लिह्याद्वा माक्षिकान्वितम्| मधुरेण-जीवनीयेन| क्षीरिवृक्षाङ्कुरक्वाथे पक्वं क्षीरसमं घृतम्| पाययेत्पित्तकासार्तं मधुना वाऽवलेहयेत्||" इति| इति पित्तकासचिकित्सा|
Adhikarana कफकासचिकित्सा कफकासे स्नेहः (४१) · Śloka ४१
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्| स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफकासी पूर्वं सुरकाष्ठात् प्रदीपितात् यः स्रुतः स्नेहस्तं व्योषयवक्षारावचूर्णितं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफकासचिकित्सा| तत्र स्नेहनमाहकफकासीति| परिस्त्रुतं-पातालयन्त्रेण|
Adhikarana कफकासे वमनविरेचननस्यानि (४२) · Śloka ४२
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः| तीक्ष्णैर्विरेकैर्बलिनं|४२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्निग्धं च सन्तमनन्तरं विरेचयेत् ऊर्ध्वमधो मूर्ध्नि च| युक्तितो-यथाबलहानिर्न स्यादिति भावः| कैर्विरेचयेत् ? तीक्ष्णैर्विरेकैः| किम्भूतमातुरम् ? बलवन्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वमनविरेकनस्यान्याह-स्निग्धमिति| विरेकैः-वमनविरेचनानामौषधैः|
Adhikarana कफकासे संसर्जनम् (४२-४४) · Śloka ४४
| संसर्गी चास्य योजयेत्||४२|| यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः| कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः||४३|| धान्वबैलरसैः स्नेहैस्तिलसर्षपनिम्बजैः| |४४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-संसर्गी च-पेयादिपरिपाटीं च, अस्य योजयेत्| यवादिभिर्यथायोगमुष्णरूक्षैस्तथा कटूत्कटैः-प्रभूतकटुकैः, कासमर्दकादियुक्तैः| धन्वनि भवा धान्वाः-जाङ्गलाः, बिलेषु भवा बैलाः-बिलेशयाः, तेषां रसास्तैर्मासरसैः सहेत्यर्थः| तथा, स्नेहैस्तिलदिजैः सह|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शुद्ध्यनन्तरं संसर्जनमाह-संसर्गी चेति| यवानां पेया विलेपी च| मुद्गानां कुलित्थानां वा यूषः| जाङ्गलानां बिलेशयानां वा रसः| स च कासमर्दाद्यन्वितः| क्षारो-यवक्षारः| तिलादिजैः स्नेहैर्यूषरसयोः कृतकत्वम्| वङ्गसेने तु (कासा. श्लो. ४०)- "मुद्गामलाभ्यां यवदाडीमाभ्यां कर्कन्धुना मूलकशुण्ठकेन| शुण्ठीकणाभ्यां सकुलत्थकेन यूषो नवाङ्गः कफरोगहन्ता||" इति|
Adhikarana कफकासे उदकपानं कफकासे उषितोदकपानम् (४४-४५) · Śloka ४५
दशमूलाम्बु घर्माम्बु मद्यं मध्वम्बु वा पिबेत्||४४|| मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम्| पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलाम्ब्वादीन्(नि) पिबेत्| अथवा, मूलैः पौष्करादिभिर्निशां संस्थितं-रात्रिस्थितं, वारि क्षौद्रेण सह प्रातः पिबेत्| अथवा, अन्नस्य त्रिषु कालेषु-आदिमध्यावसानलक्षणेषु, पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तृषितस्य पानान्याह-दशमूलाम्ब्विति| घर्माम्बु-उष्णोदकम्| पानानन्तरमुष्णो (षितो) दकमाह-मूलैरिति| पुष्करादीनां मूलैः, निशामन्वितं-शीतकषायीकृतम्| त्रिषु कालेषु-अन्नादौ अन्नमध्ये अन्नान्ते वा|
Adhikarana कफकासेपिप्पल्यादयस्त्रयो लेहाः (४६-४७) · Śloka ४७
पिप्पली पिप्पलीमूलं शृङ्गबेरं बिभीतकम्| शिख़िकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः||४६|| विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः| कफकासहरा लेहास्त्रयः श्लोकार्धयोजिताः||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पल्यादयस्त्रयो लेहाः श्लोकार्धैर्योजिता मधुना सह कफकासहरा भवन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहत्रयमाह-पिप्पलीति| सङ्ग्रहे तु सप्त (चि. अ. ४)-"देवदार्वभया मुस्तं पिप्पली विश्वमेषजम्| गुडूची पिप्पली भार्ङ्गी शृङ्गी कर्कटकस्य च|| व्योषदाहविडङ्गानि त्रिफलाशर्कराबलाः| निदिग्धिकाया मूलत्वक् मरीचैः सह योजिता||" इति| [एभिः] चतुर्भिः सह|
Adhikarana कफकासे मधुनेत्यादयोऽष्टौ लेहाः (४८-४९) · Śloka ४९
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्| पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्||४८|| कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च| |४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा कफकासे मधुना मरिचं लिह्यात्| माक्षीकेणैवा गुरुं लिह्यात्| व्याघ्र्यादीनाम् रसान् पृथक्पृथक् मधुना लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- त्लेहाष्टकमाह-मधुना मरिचमिति| जोङ्गकं अगरुः| व्याघ्र्यादीनां षण्णां रसाः| कासघ्नः-कासमर्दः| असितः सुरसः-कृष्णतुलसी|
Adhikarana वातानुगे कफे लेहत्रयम् (४९-५१) · Śloka ५१
| देवदारुशठीरास्नाकर्कटाख़्यादुरालभाः||४९|| पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला| लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा||५०|| मधुतैलयुता लेहास्त्रयो वातानुगे कफे| |५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-देवदार्वादयो मधुतैलयुता लेहास्त्रयः-श्लोकार्धगदिताः, वातानुगे कफे स्युः| अत्र शृङ्गीधात्रीफलोद्भवेति केचिद्विशिष्टमामलकमाहुः| अन्ये तु शृङ्गी कर्कटशृङ्गीति व्याचक्षते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वातानुगे कफे लेहत्रयमाह-देवदारुशठीति| धात्रीफलोद्भवा शृङ्गी-शृङ्गाकारा शुष्कामलकत्वक्|
Adhikarana दाडिमाद्यं चूर्णम्,गुडक्षारादिचूर्णम् (५१-५३) · Śloka ५३
| द्वे पले दाडिमादष्टौ गुडाद्व्योषात्पलत्रयम्||५१|| रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्| गुडक्षारोषणकणादाडिमं श्वासकासजित्||५२|| क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्| |५३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दाडिमस्य पले द्वे तु गुडादष्टौ त्रिकटुकात् पलत्रयमित्येतद्दाडिमाद्यं चूर्णं रोचनादिगुणं पीनसादिजित्| सं-गुडादिकं क्रमेण पलद्वयमर्धकर्षं कर्षं अर्धकर्षं पलप्रमाणं पूर्वोक्तगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गुटिकामाह-द्वे पले इति| आ० र०- गुटिकान्तरमाह-गुडक्षारोषणकणादाडिमादिति| पलद्वयं गुडस्य| अर्धाक्षः क्षारस्य| कर्षो मरीचस्य| अर्धाक्षः कणायाः| पलं दाडिमस्य| सङ्ग्रहे तु (चि. अ. ४)- " विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनः शिलाम्| कासे श्वासे च हिध्मायां लिह्यात् क्षौद्रघृताप्लुतम्|| पाठाशुण्ठीशठीमूर्वागवाक्षिपिप्पलीघनम्| पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत्|| तद्वन्मुस्ताशठीशृङ्गीनागरातिविषाभयाः|" इति|
Adhikarana पाचनम् (५३) · Śloka ५३
| पिबेज्जवरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा ज्वरचिकित्सितोक्तं (श्लो. ६२)- "पथ्याकुस्तुम्बरी" इत्यादिकं पाचनं कर्कटशृङ्गीसहितं पिबेत् पूर्वगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पाचनमाह-पिबेज्ज्वरोक्तमिति| पथ्यादि-पथ्याकुस्तुम्बरीमुस्तेत्यादि|
Adhikarana पाचनान्तरम् (५४) · Śloka ५४
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्| सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा||५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दीप्यकादिकं गोमूत्रे क्वथितं जलेऽथवा क्वथितं पिप्पलीसहितं कफकासी पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पाचनान्तरमाह-अथवेति| तच्चमूत्रे जले[वा]क्वथितम्|
Adhikarana शमनम् (५५) · Śloka ५५
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्| पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतम्||५५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पलीकल्ककर्षं सशर्करं तैलेन पक्वं कुलत्थसलिलाप्लुतं कफकासघ्नं पाययेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शमनमाह-तैलभृष्टं चेति| वैदेही-पिप्पलीकल्को-द्गवपिष्टपिण्डम्| अक्षं-कर्षम्| सङ्ग्रहे तु (चि. अ. ४)- "सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्| चूर्णितं सर्पिषा वातकफकासहरं पिबेत्||" इति|
Adhikarana दशमूलघृतम् (५६-५७) · Śloka ५७
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्| पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः||५६|| पेयानुपानं तत्सर्ववातश्लेष्मामयापहम्| |५७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलक्वाथाढके घृतस्य प्रस्थं पुष्करमूलादिभिः प्रत्येकं कर्षप्रमाणैः कल्कीकृतैः पचेत्| तत् पेयानुपानं सर्ववातकफामयघ्नम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतमाह दशमूलाढके इति| आढके क्वाथस्य|
Adhikarana निर्गुण्डीघृतम् (५७) · Śloka ५७
| निर्गुण्डीपत्रनिर्याससाधितं कासजिद्धृतम्||५७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निर्गुण्डीपत्रस्वरससाधितं घृतं कासजित्स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह-निर्गुण्डीति|
Adhikarana विडङ्गघृतम् (५८) · Śloka ५८
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्| ५७ १/२| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विडङ्गानां रसे व्योषगर्भं च साधितं घृतं पूर्वोक्तगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- [घृतान्तरमाह-घृतमिति|]
Adhikarana पुनर्नवादिघृतम् (५८) · Śloka ५८
पुनर्नवशिवाटिकासरलकासमर्दामृता- पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः| घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्||५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुनर्नवादिरसैः पयसा युतैस्त्रिकटुना कल्केन च सिद्धं घृतमुपयुज्य-पीत्वा, कासादिभ्यो भयं न जायते| "वसुग्रहयुता जसौ जसयलाश्च पृथ्वी गुरुः|" अत्र पुनर्नवादिरसो घृताच्चतुर्गुणः क्षीरं घृतसमं घृतं व्योषाच्चतुर्गुणमिति पाकक्रमः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरामाह-पुनर्नवेति| शिवाटिका-द्वितीयः पुनर्नवा| त्रिकटुना कल्केन|
Adhikarana कण्टकारीघृतम् (५९-६३) · Śloka ६३
समूलफलपत्रायाः कण्टकार्या रसाढके||५९|| घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः| सौवर्चलयवक्षारमूलामलकपौष्करैः||६०|| वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः| मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः||६१|| शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्| कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते||६२|| कण्टकारीघृतं चैतत्कफव्याधिविनाशनम्| |६३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कण्टकार्याः समूलफलपत्राया रसाढके बलादिभिः कल्कैघृताच्चतुर्थांशप्रमाणैर्घृतप्रस्थं पचेत्| तच्च सर्पिः सर्वकासाधिष्विष्यते-अभिहितम्| इदं च कण्टाकारीघृतं कफव्याधिविनाशनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह-समूलफलशाखाया इति| मूलंपिप्पलीमूलम्| सङ्ग्रहे तु (चि. अ. ४)- "कण्टकार्यास्तुलां क्षुण्णां पक्त्वा द्रोणेऽम्भसः पचेत्| तेनाढकेन क्वाथस्य घृतप्रस्थं पिचून्मितैः|| रास्नादुः स्पर्शषङ्ग्रन्थापिप्पलीद्वयचित्रकैः| सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्|| कासश्वासकफष्ठीवहिध्मारोचकपीनसान्|" इति|
Adhikarana व्याघ्रीलेहः (६३-६७) · Śloka ६७
| पचेव्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते||६३|| क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्| शृङ्गीभार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्||६४|| सर्पिषः षोडशपलं चत्वारिंशत्पलानि च| मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्||६५|| दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्| पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च||६६|| लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्याघ्र्यास्तुलां क्षुण्णां-मर्दितां, जलस्य वहे-चतुर्द्रोणे, पचेत्| आढकस्थिते जले सञ्चूर्ण्य व्योषादीनि अर्धपलप्रमाणानि प्रत्येकं क्षिपेत्| अग्निरेवाग्निकः-चित्रकः| घृतस्य च षोडश पलानि, मत्स्यण्डिकायाः,-विमलायाः, चत्वारिंशत्पलानि, भूयश्च तत्सर्वं पचेत्| दर्वी लिम्पतीति दर्वीलेपी तस्मिन् दर्वीलेपिनि, अवलेहे शीते सति प्रत्येकं द्विकुडवप्रमाणं पिप्पल्यादि क्षिपेत्| अयं लेहो गुल्मादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- व्याघ्रीलेहमाह-पचेद्व्याघ्रीतुलामिति| वहेद्रोणचतुष्के| ग्रन्थि-पिप्पलीमूलम्| मत्स्यण्डिकायाः-शर्करायाः| अनवस्य-जीर्णस्य| सङ्ग्रहे तु (चि.अ. ४)- "त्रिफला पिप्पली पाठा सारिवा बृहतीद्वयम्| मरीचं पद्मकं मुस्तमुषीरं चाक्षसम्मितम्|| पक्त्वा जलाढके पादशेषेक्षारपलाष्टकम्| दत्वा गुडस्य च पलं पचेदादर्विलेपनात्|| लेहः कफोल्बणं कासं सर्वमेष नियच्छति| साधितं क्षीरमेभिर्वा तैलक्षोद्रयुतं पिबेत्||" इति| वङ्गसेने तु (कासाधिकारे)- "कुष्ठं तामलकी भार्ङ्गी शठीक्षारो हरीतकी| कोलं चोष्णाम्भसा चीर्णं लेहो वा मधुसंयुतः|| कोलं-मरिचम्| (श्लो. ४७) व्योषपुष्करमृद्वीकात्रिफलाशठिचित्रकैः| मधुतैलयुतो लेहः श्लेष्मकासनिबर्हणः|| व्योषाजमोदचित्रकषङ्ग्रन्थाचव्यकल्कितं सर्पिः| कफकासश्वासहरं वासकरससाधितं समधु||" इति| योगरत्ने तु-"विडङ्गं सैन्धवं रास्ना शठी क्षारो महौषधम्| श्लेष्मकासे हितं चूर्णं लेहो वा मधुसंयुतः|| बिभीतकं घृताभ्यक्तं गोशकृत्परिवेष्टितम्| स्विन्नमग्नौ हरेत्कासं ध्रुवमास्ये विधारितम्||" इति|
Adhikarana धूमः (६७) · Śloka ६७
| शमनं च पिबेद्धूमं शोधनं बहले कफे||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा कफकासे शमनं धूमं पिबेत्| घनश्लेष्मणि शोधनं धूमं पिबेत्| घनश्लेष्मणि शोधनं धूमं पिबेत्| अथ तमेव धूममाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूममाह-शमनं चेति| शमनं धूमं पिबेत्| यस्य तु बहलः कफः [स] शोधनं धूमं पिबेत्|
Adhikarana धूमान्तरम् (६८-६९) · Śloka ६९
मनःशिलालमधुकमांसीमुस्तेङ्गुदीत्वचः| धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु||६८|| निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः| वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान्||६९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एतेषां सम्बन्धिनं धूमं कासघ्नविधिना-सूत्रोदितेन, पीत्वाऽनु-पश्चात्, निष्ठ्यूतान्ते कोष्णं क्षीरं गुडान्वितं पिबेत्| स धूमः पीतो वातश्लेष्मोत्तरान् कासांश्चिरन्तनान् आश्वेव हन्ति| चिरन्तनानिति "सायं चिरं" इत्यादिना ठ्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूमान्तरमाह मनःशिलेति| अलं-हरितालम्| इङ्गुदी-तापसद्रुमः| त्वक्ताजि (?) चूर्णीकृत्वा तेषां धूमं पिबेदित्यर्थः| कासघ्नविधिना-धूमपानोक्तेन| धूमोत्क्लिष्टकफनिष्ठानामक्षीरं पिबेत्| सङ्ग्रहे तु (चि. अ. ४)- " प्रपौण्डरीकं मधुकं शार्ङेष्टाऽलं मनः शिलाम्| मरीचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्|| कृत्वा वार्तै पिबेद्धूमं क्षौमचैलानुवार्तिनीम्| घृताक्तामनु च क्षीरं पिबेत्तद्वद्गुडाम्बु वा|| शार्ङ्गेष्टा-उत्तुण्डुकी| सुरसः-तुलसी| तद्वत्-निष्ठ्यातान्ते| नेपालितालमरिचलाक्षानतकुटन्नटैः| उशीररोहिषफलद्रविडीवंशलेखनैः|| पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते| नेपाली-मनःशिला तालं-हरितालम्| द्रविडी-एला| वंशलेखनं-वंशत्वक्| कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः| कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः||" इति| योगरत्ने तु-"ताप्यमानसकासेन नासाभङ्गे स्वरेजडे| क्षवथौ घ्राणनासे च धूमनाडीं प्रयोजयेत्|| क्षौमगर्भां पिबेद्वर्ति हरितालं मनः शिलाम्| तालीसपत्रं कैडर्यं गुडान्नं चैव भोजयेत्|| कैडर्यं-कट्फलम्| धूमवर्तिर्बलाव्योषं हरितालं मनः शिला| अनुपानं शृतं वाऽपि प्रशस्तं काञ्जिकौदनम्|| मधुकं चाजमोदश्च जीवन्त्यगुरुसर्जजौ| स्वैरण्डमूला कासघ्नी धूमवर्तिरियं शुभा|| सर्जजो-राला| क्षौमं हिङ्गुवचाभूर्जग्रन्थिश्चैष घृतान्वितः| धूमकासहरः पीतः सर्वगन्धमयोऽपि वा|| मनः शिला समालिदरैः परिशोधितैः| त्र्यहं पत्रैः कृतं धूमं पिबेत्कासनिवारणम्|| जातेरुत्तरशिफाधूमं शिलागुग्गुलमिश्रितम्| गात्रस्य बदराङ्गारैः कारयेत्कासशान्तये|| जातेरुत्तरदिङ्मूलं शिलैलागुग्गुलुं समम्| अजामूत्रेन पिष्टोऽयं धूपः कासहरः परः| मूलेन शरपुङ्खाया धूपः कासहरः परः|" इति|
Adhikarana तमकोपद्रवे प्रतीकार (७०) · Śloka ७०
तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः| पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्||७०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफकासे यदि तमकः पित्तानुबन्धजः स्यात्| तत्रतमके, पित्तकासक्रियामवस्थावशात् प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तमकोपद्रवे प्रतीकारमाह-तमक इति| तमकः-प्रतमकः, "ज्वरमूर्च्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः|" (हृ. नि. अ. ४/११) इति वचनात्पित्तजत्वाच्च|
Adhikarana अनुबन्धभेदाच्चिकित्सा (७१-७२) · Śloka ७२
कफानुबन्धे पवने कुर्यात्कफहरां क्रियाम्| पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्||७१|| वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरुक्षणम्| कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्||७२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पवने कफानुबन्धे सति कफकासहरां क्रियां कुर्यात्| पित्तानुबन्धयोर्वातकफयोः पित्तकासनाशिनीं क्रियां विदध्यात्| वातश्लेष्मात्मके शुष्के कासे स्निग्धं कर्म| आर्द्रे तु कासे विरूक्षणं कर्म| कफजे तु कासे सपित्ते तिक्तसंयुतं विरूक्षणं कर्म|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अनुबन्धभेदाच्चिकित्सामाह-कफनुबन्ध इति| शुष्के-श्लेष्मनिष्ठीवनहीने,आर्द्रे-युक्ते| सपित्ते कफजे तु शुष्के तिक्तयुतं स्निग्धम्, आर्द्रे रूक्षम्| इति कफकासचिकित्सा
Adhikarana उरःक्षते औषधम् (७३) · Śloka ७३
उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्| क्षीरेण|७३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्तःक्षत उरसि सति सद्यः-शीघ्रमेव, लाक्षां माक्षिकयुक्तां क्षीरेण पिबेत्| उरःसन्धानजनेन लाक्षायाः प्राधान्यात्| तथा चाग्र्यं सङ्ग्रहे (सू.अ.१३)-"लाक्षा सद्यःक्षतघ्नानाम्|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ क्षतकासचिकित्सा| तत्र क्षतस्यौषधमाह-उरस्यन्तःक्षत इति| सद्यः-उत्पन्नमात्रे|
Adhikarana जीर्णैषधे भोजनम् (७३) · Śloka ७३
| शालीन् जीर्णेऽद्यात्क्षीरेणैव सशर्करान्||७३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णे-परिणते तस्मिन्नौषधे, क्षीरेणैव सह शालिम(लीन) द्यात् सशर्करम्(रान्)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्रौषधभोजनमाह-शालीनिति| जीर्णे-औषधे|
Adhikarana पार्श्वरुजाद्यन्विते औषधम् (७४) · Śloka ७४
पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्| |७४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पार्श्वबस्त्यादिरुगल्पाग्निश्च तां-लाक्षां, सुरायुतां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-पार्श्वबस्तिसरुगिति पार्श्वयोर्बस्तौ च सरुक्-सशूलः| तां-लाक्षाम्|
Adhikarana भिन्नविट्के औषधम् (७४) · Śloka ७४
| भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||७४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भिन्नपुरीषो नरो मुस्तातिविषापाठावत्सकान्वितां लाक्षां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-भिन्नविट्क इति| मुस्तादिभिश्चतुर्भिर्युतां लाक्षां शीतोदकेन पिबेत्|
Adhikarana दीप्तानले औषधम् (७५) · Śloka ७५
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयं गणं सिताम्| त्वक्क्षीरी समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्||७५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लाक्षादीनि हि क्षीरे पक्त्वा तत् क्षीरं दीप्ताग्निः पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाहा-लाक्षां सर्पिरिति| समित्-गोधमचूर्णम्|
Adhikarana सन्धानार्थं पयः (७६) · Śloka ७६
इक्ष्वारिकाबिसग्रन्थिपद्मकेसरचन्दनैः| शृतं पयो मधुयुतं सन्धानार्थं पिबेत्क्षती||७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इक्ष्वारिकादिभिः शृतं क्षीरं मधुयुतं सन्धानार्थमुरसि क्षतः पुमान् पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-इक्ष्वारिकेति|
Adhikarana ज्वरदाहे औषधद्वयम् (७७) · Śloka ७७
यवानां चूर्णमामानां क्षीरे सिद्धं घृतान्वितम्| ज्वरदाहे सिताक्षौद्रसक्तून्वा पयसा पिबेत्||७७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवानामामानां चूर्णं क्षीरे सिद्धं घृतयुतं ज्वरदाहे पिबेत्| अथवा, शर्करामाक्षिकयुतान् सक्तून् पयसा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-यवानां चूर्णमिति| आमानां-उलम्बिकायोग्यानाम्| औषधान्तरमाह-सिताक्षौद्रसक्तून्वेति|
Adhikarana कासे औषधचतुष्टयम् (७८-७९) · Śloka ७९
कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्| गुडोदकं वा क्वथितं सक्षौद्रमरिचं हितम्||७८|| चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्| रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्||७९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासवांश्च मधुरौषधैः साधितं सर्पिः पिबेत्| अथवा, गुडोदकं क्वथितं सक्षौद्रमरिचं शीतं पिबेत्| आमलकानां वा चूर्णं क्षीरे सिद्धं सर्पिर्युक्तं पिबेत्| रसायनोक्तविधिना वा पिप्पलीः प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-कासवांस्त्विति| मधुराणिजीवन्त्यादीनि| औषधान्तरमाह-गुडोदकं वेति| क्वथितं-क्वाथविधिना| औषधान्तरमाह-चूर्णमामलकानां वेति| औषधान्तरमाह-रसायनविधानेनेति|
Adhikarana कासे पर्वास्थिशूले चौषधम् (८०) · Śloka ८०
कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः| मधूकमधुकद्राक्षात्वक्क्षीरिपिप्पलीबलाः||८०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासी पर्वास्थिशूलवांश्च सघृतमाक्षिका मधूकादीर्लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-कासी पर्वास्थिशूलीति| वङ्गसेने तु (कासाधिकारे श्लो. ९३)- "चूर्णं ककुभसमुत्थं वासकरसभावितं बहून् वारान्| मधुघृतसितोपलाभिर्लेह्यं क्षतकासरक्तपित्तहरम्||" इति|
Adhikarana एलादि (त्रिजातकादि)गुटिका (८१-८३) · Śloka ८३
त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता| द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्||८१|| मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्| कासश्वासारुचिच्छर्दिमूर्च्छाहिध्मामदभ्रमान्||८२|| क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्| रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि||८३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिजातकमर्धकर्षप्रमाणं कणा कर्षद्वयमात्रा सितादिकं प्रत्येकं पलांशं श्लक्ष्णचूर्णितं मधुना कृता गुटिका वृष्याः पित्त शोणितादीन् घ्नन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- एलादिगुटिकामाह-त्रिजातमर्धकर्षांशमिति|
Adhikarana रक्तष्ठीवे औषधद्वयम् (८४-८५) · Śloka ८५
वर्षाभूशर्करारक्तशालितण्डुलजं रजः| रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारसपयोग़ृतैः||८४|| मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्| |८५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुनर्नवादिचूर्णं द्राक्षारसपयोग़ृतैः सिद्धं रक्तष्ठीवी पिबेत्| अथवा, मधूकादिभिः सिद्धं तण्डुलीयकं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-वर्षाभूशर्करेति| औषधान्तरमाह-मधूकमधुकक्षीरसिद्धमिति| मधूकमधुकाभ्यां सिद्धेन क्षीरेण सिद्धम्|
Adhikarana अत्र रक्तपित्तौषधमपि (८५) · Śloka ८५
| यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्||८५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मार्गेण-मुख़ादिना, विसृते रक्ते यथायथं रक्तपित्त चिकित्सितोक्तमौषधं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रक्तपित्तौषधमतिदिशति-यथास्वमिति| योगरत्ने तु-""गङ्गगोदावरीक्षिप्राकालिन्दीनर्मदोद्भवाम्| आहृत्यसिकतां श्वेतां सुसूक्ष्मां प्रसृतोन्मिताम्|| तुल्यां तैलघृतक्षौद्रैः सवसामञ्जिभिस्तथा| सागारधूमैस्त्रिफलारसेन च विमिश्रिताम्|| सप्तभिः प्रसृतैः सार्धं खजेन मथितां पिबेत्|रक्तष्ठीवी क्षतोरस्कः सिद्धयोगं समाचरेत्| रक्ते प्रवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्|| चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||" इति| सङ्ग्रहे तु (चि. अ. ५)- "रक्तेऽतिवृत्ते छागं वा जाङ्गलं वा पिबेदसृक्|" तथा-"पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम्| प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा|| यवगोधूममृद्वीकाचूर्णमामलकाद्रसः| तैलं च प्रसृतांशानि तत्सर्वं म्रुदुनाऽग्निना|| पचेल्लेहं घृतंक्षौद्रयुतः स क्षतकासनुत्| कासहृद्रोगकार्श्यघ्नो हितो वृद्धाल्परेतसाम्||" इति| यवचूर्णादीनि प्रसृतांशानि|
Adhikarana मूढवाते औषधम् (८६) · Śloka ८६
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्| |८६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूढवातस्तु पुरुषोऽजाया मेदः सुरया भृष्टमीषत्सैन्धवसहितमद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-
Adhikarana क्षामक्षीणादौ औषधम् (८६-८७) · Śloka ८७
| क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान्||८६|| शृतक्षीरसरेणाद्यात्सघृतक्षौद्रशर्करम्| |८७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो दीप्ताग्निः शृतक्षीरस्य सम्बन्धिना सरेण सघृतक्षौद्रशर्करमजामेदोऽद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-क्षामः क्षीण इति| अजामेद इत्युनषङ्गः|
Adhikarana क्षीणक्षतकृतकृशेषु औषधम् (८७-८८) · Śloka ८८
| शर्करायवगोधूमं जीवकर्षभकौ मधु||८७|| शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः| |८८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा क्षीणः क्षतः कृशो वा शर्करादिकं लिह्यात्| कथम् ? शृतक्षीरानुपानम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-
Adhikarana क्षीणक्षतकृतेषु औषधम् (८८-८९) · Śloka ८९
| क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः||८८|| पिप्प्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्| |८९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स च-क्षीणादिः, क्रव्यात्पिशितस्य निर्यूहं घृतेन भृष्टं पिबेत्| किम्भूतम् ? पिप्पलीक्षौद्रान्वितम्| तच्च मांसशोणितवर्धनं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-क्रव्यात्पिशितनिर्यूहमिति| सः-क्षीणः क्षतकासी|
Adhikarana क्षीणक्षतकृतेषु औषधान्तरम् क्षतोरस्के औषधम् (८९-९१) · Śloka ९१
| न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः||८९|| तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः| साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा||९०|| शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः| |९१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-न्यग्रोधादिभिः शृतात्क्षीरात् समुद्भूतेन सर्पिषा शाल्योदनं क्षतोरस्कः क्षीणशुक्रादिश्च नरोऽद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह-न्यग्रोधोदुम्बरेति| तालमस्तको-अग्र. . मज्जा| न्यग्रोधादिभिः शृतं यत् क्षीरं, ततो जातं यत्सर्पिः, तेन शाल्योदनमद्यात्|
Adhikarana वातपित्तार्दिते घृताभ्यङ्गः (९१-९२) · Śloka ९२
| वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः||९१|| तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना| |९२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातपित्तपीडिते गात्रमेदे वाऽभ्यङ्गोघृतैर्मतः| मातरिश्वना-वातेन, पीडिते सति तैलैर्वातरोगघ्नैरभ्यङ्गो मतः| चशब्दाद्धृतैरपीति द्योतयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृताभ्यङ्गमाह वातपितार्दित् इति| तैलाभ्यङ्गमाह-तैलैश्चेति|
Adhikarana ह्रत्पार्श्वार्तौ औषधम् (९२) · Śloka ९२
| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः|९२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हृत्पार्श्वपीडासु जीवनीयस्य सर्पिषः पानं स्यात्| इति सम्भावनायां लिङ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाह् हृत्पार्श्वार्तौ त्विति|
Adhikarana अत्र वातव्याध्युक्तमपि (९२) · Śloka ९२
| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः||९२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हृत्पार्श्वपीडासु जीवनीयस्य सर्पिषः पानं स्यात्| इति सम्भावनायां लिङ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वातव्याध्युक्तमतिदिषति कुर्याद्वेति|
Adhikarana क्षते औषधम् (९३-९४) · Śloka ९४
| यष्ट्याह्ननागबलयोः क्वाथे क्षीरसमे घृतम्||९३|| पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम्| |९४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यष्ट्याह्वयस्य नागबलायाश्च क्वाथे क्षीरतुल्ये पयस्यादिकल्कैः सिद्धं घृतं क्षतकासेहितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- औषधान्तरमाहयष्ट्याह्वनागबलयोरिति| सङ्ग्रहे तु (चि. अ. ५)- "शृतं वाऽष्टगुणे क्षीरे कोलला क्षारसान्वितम्| कल्कैः कट्वङ्गदार्वीत्वम्रत्सकत्वग्वत्सकत्वक्फलैर्घृतम् ||" इति| कट्वङ्गः-टुण्टुकः| फलं-वत्सकस्यैव|
Adhikarana अमृतप्राशं घृतम् (९४-१०१) · Śloka १०१
| जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा||९४|| बलाभार्ङ्गीस्वगुप्तर्द्धिशठीतामलकीकणाः| शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु||९५|| द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्| तैः पचेत्सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः||९६|| क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्| प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः||९७|| पलार्धकं च मरिचत्वगेलापत्रकेसरम्| विनीय चूर्णितं तस्माल्लिह्यान्मात्रां यथाबलम्||९८|| अमृतप्राशमित्येतन्नराणाममृतं घृतम्| सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||९९|| नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्| स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||१००|| कासहिध्माज्वरश्वासदाहतृष्णास्रिपित्तनुत्| पुत्रदं छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम्||१०१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवनीयो गणस्तथा शुण्ठ्यादयस्तैर्जीवनीयादिगणादिभिः कर्षांशैः सूक्ष्मचूर्णितैः क्षीरधात्र्यादिरसयुक्तं घृतस्य प्रस्थंद्वात्रिशत्पलानि पचेत्| द्राक्षाक्षोडादीन्य(त्य)त्रादिशब्देन नारिकेलनिकोचादिपरिग्रहः| शीते घृते माक्षिकस्य षोडशपलानि, शर्कराचूर्णपलानि पञ्चाशत्, मरिचादीनि द्विकार्षिकाणि चूर्णितानि प्रक्षिप्य तस्मान्मात्रां यथाबलं लिह्यात्| अमृतप्राशमेतत्संज्ञं घृतं नराणाममृततुल्यम्, महागुणत्वात्| यथा नागानां सुधा देवानाममृतम्| अत एवैतत् सुधामृतरसम्| प्राश्यं-भोज्यं, क्षीरमांसरसाशिना| एतच्च घृतं नष्टशुक्रादीन् बृंहयेत्| कासादिनुत्| पुत्रदम्| छर्द्यादिघ्नम्| अत्र च मधुरस्निग्धबृंहणानां द्राक्षादीनामपि यथालाभं कर्षप्रमाणमधिकं वा योज्यम्| यथा सामान्यपरिभाषोक्ता कर्षमात्रा परिपूर्णा स्यादिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अमृतप्राशमाह जीवनीयो गण इति| वीराविदारी| पयस्या-दुग्धिका| मधुरादिगुणं फलं-तच्च द्राक्षाक्षोडादि प्रसिद्धं ग्राह्यमित्यर्थः| विनीय-निक्षिप्य| सुधापाताले, अमृतं-स्वर्गे, ताभ्यां तुल्यरसमिदं घृतं नराणाममृतम्| अत एवामृतप्राशाख्यम्| " रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||" (हृ. सू. अ. १८/१७) इति मन्त्रलिङ्गात्|
Adhikarana श्वदंष्ट्रादिघृतम् (१०२-१०५) · Śloka १०५
श्र्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्| दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिराम्||१०२|| पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे| कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||१०३|| शतावर्यर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः| प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्||१०४|| मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः| धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||१०५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्वदंष्ट्रादीनि पालिकानि, तेषां रसे क्षीरचतुर्गुणे स्वगुप्तादिभिः कल्कैर्घृतात् प्रस्थः सिद्धो वातपित्तहृद्रोगशूलनुत्| मूत्रकृच्छ्रादिघ्निः| तथा, धनुरादिखिन्नानां बलमांसदः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह श्वदंष्ट्रोशीरेति| श्वदंष्ट्रया षोडशगुणे जले चतुर्थांशावशिष्टं पाकानन्तरं योरसः| यस्माच्चतुर्गुणं क्षीरं| अकरुणा एव हृतहृदयता|
Adhikarana समसक्तु मधुकादि घृतम् (१०६-१०७) · Śloka १०७
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद्धृतम्| पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||१०६|| पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्| समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्||१०७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुयष्ट्या अष्टौ पलानि, द्राक्षायाः षोडश, एतत्क्वाथे पिप्पल्यष्टपलेघृतप्रस्थं पचेत्| घृते च सिद्धे सुशीते सति क्षौद्रशर्करयोः पृथगष्टपलं विमिश्रयेत्| एतच्च घृतं समसक्तु क्षत क्षीणे रक्तगुल्मे च हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह मधुकाष्टपलेति| तन्त्रिपटां समसक्तु|
Adhikarana धात्रीफलादि घृतम् (१०८-११०) · Śloka ११०
धात्रीफलविदारीक्षुजीवनीयरसाद्धृतात्| गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्||१०८|| सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत्ततः| यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||१०९|| वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्| |११०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धात्र्यादिरसस्य पृथक् प्रस्थं गव्याजयोः क्षीरयोः प्रस्थौ ग़ृतस्य प्रस्थं च विपाचयेत्| सिद्धपूते च ततस्तस्मिन् ग़ृते शर्कराक्षौद्रयोः प्रस्थौ द्वौ विनयेत्-क्षिपेत्| तत इति "अव्ययादित्वात्" तसिः| एतच्च घृतं यक्ष्मादिहरं तथा वयःस्थापनादिगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह धात्रीफलेति| धात्रीफलरसादीनां नवानां नवप्रस्थः|
Adhikarana घृतलेहपानयोर्विषयभेदः (११०-१११) · Śloka १११
| घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||११०|| लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम्| आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च||१११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेऽभ्यधिके घृतं लिह्यात्| वातेऽधिके घृतं पिबेत्| लीढं तु घृतं निर्वापयेत्-संशमयेत्| अनलं च न हन्ति लीढं घृतम्| कुतः ? अल्पत्वात्| अत्रायं सद्भावार्थः,-किल पीतेनाधिकेन द्रवतया वह्नेर्मान्द्येनावश्यं भवितव्यम्| तथा च वक्ष्यति (हृ.चि.अ.१०/३२)-"अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा|" इति| तच्चाभ्यधिकं पित्तं लीढं घृतं संशमयति| अल्पत्वाच्च हेतोरग्निं न हन्ति-मन्दस्याग्नेरधिकं मान्द्यं न जनयति| पीतं सद्धृतमनिलमाक्रामति-प्रसह्य जयति| ऊष्माणं-जाठरं वह्निं जाज्वल्यमानं, रुणद्धि-आश्वेव स्थगयति, शमं किञ्चिन्नयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतलेहपानयोर्विषयभेदमाहघृतं त्विति| निर्वापयेत्-शमयेत्, शीतत्वात्| लेह्यं शीतस्पर्शं भवति| अल्पत्वात्-वह्नेरनावरकत्वात्, असृतावयवत्वात्| अल्पदेशे व्यापित्वं ह्यल्पत्वम्| ऊष्माणं-अग्निम्|
Adhikarana सर्पिर्गुडाः (११२-११३) · Śloka ११३
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु| त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||११२|| सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात्पयोऽनु च| रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||११३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षामाणां क्षीणानां कृशाङ्गानां च नृणामेतान्येव पूर्वोक्तानि घृतानि स्त्यानानि त्वकक्षीरीशर्करालाजचूर्णैः सह योजयेत्| सर्पिर्मिश्रान् गुडान् समध्वंशान् कृत्वा च दद्यात्| शर्करायाः पलानि पञ्चाशत् मधुनः पलानि षोडशात्र देयानि| मुनिना ह्येवमुक्तम् (च.चि.अ.११/६०)-धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात्पचेत्| शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|| क्षिप्त्वा सर्पिर्गुडान् कुर्याद्धिक्काश्वासज्वरापहान्|" इति| पय इत्यादि| अनन्तरं पयः पिबेत्| तैः_सर्पिर्गुडैः, रेतोवीर्यादीन् शीघ्रतरं प्राप्नोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सर्पिर्गुडानाहक्षामक्षीणकृशाङ्गानामिति| क्षामः-शुक्रेण हीनः| क्षीणे-बलवीर्याभ्याम्| कृशो-मासांदिभिः| स्त्यानानि घृतानि चूर्णैर्योजयेत्| तैः-मधुचतुर्थांशयुक्तैः| सर्पिर्गुडान्-घृतमोदकान् कृत्वा, रोगिणे दद्यात्| तदनु दुग्धं दद्यात्| सङ्ग्रहे तु (चि.अ. ५)- "बला विदारी हस्वं च पञ्चमूलं पुनर्नवा| पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशिकास्तथा|| एषां कषाये द्विक्षीरे विदार्याजरसांशिके| जीवनीयैः पचेत्पिष्टैरक्षमात्रैर्घृताढकम्|| सितापलानि पूते च इति द्वात्रिंशदावपेत्| गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च|| समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम्| स्त्यानं सर्पिर्गुडान्कृत्वा भूर्जपत्रेण वेष्टयेत्|| तान् जग्ध्वा पालिकान् क्षीरं मद्यं त्वनु पिबेत्कफे| शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्षिते|| रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते| शस्ता पार्श्वशिरः शूले भेदे च स्वरवर्णयोः|| शृ(शु)ङ्गाः-पल्लवाङ्कुराः| मुष्टिः-पलम्| द्विक्षीरे-द्विगुणक्षीरे| [विदार्याज] रसः, अंशिकः-समभागो, यस्य तस्मिन्| गोधूमचूर्णादिपञ्चकं प्रत्येकं कुडवांशम्| भूर्जपत्रवेष्टनं स्थापनासौकर्यार्थम्| 'मद्यं तु कफे' इति वचनात् वाते पित्ते च क्षीरम्| शर्करया शृते क्षीर घृततैलाढकत्रये| चूर्णीकृताः क्षिपेत्पक्वसान्द्रे दशापलाः पृथक्|| द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः| तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम्|| यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च| क्षामः क्षीणः कृशः शुष्यंस्तान् खादेत्पालिकैर्गुडैः|| तथा सद्यो रसादीनाम् वृद्ध्यापुष्टिं समश्नुते|| तद्वत्-पृथक् दशपले| पालिकैर्गुडैः-पालिकान् गुडन् कृत्वा| गोक्षारादाढकं सर्पिःप्रस्थमिक्षुरसाढकम्| रसाद्विदार्याः कुडवं रसात्प्रस्थं च तैत्तिरात्|| दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्| मधूकपुष्पकुडवं कुडवं च प्रियालतः|| पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिम्| पृथग्बिभीतकान्मज्ज्ञः पिप्पल्याश्च चतुर्थिकाम्|| त्रिंशत्पलानि खण्डच्च मधूकात्पाणिमानिकाम्| तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्|| सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान्| कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्|| वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च| क्षीणौजःस्वरशुक्रेषु योनिदोषेषु संस्त्रवे|| मृतप्रजासु वन्ध्यासु हिता गर्भस्य स्त्रुतौ|" इति| चतुर्थिकां०पलम्| पाणिमानिकां-कर्षम्| मरिचाजाज्योः पृथक्पलम्|
Adhikarana कूष्माण्डकरसायनम् (११४-११८) · Śloka ११८
वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्| घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्||११४|| खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि| त्रिजातधान्यमरिचं पृथगर्धपलांशकम्||११५|| अवतारितशीते च दत्वा क्षौद्रं घृतार्धकम्| खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्||११६|| कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्| उरःसन्धानजननं मेधास्मृतिबलप्रदम्||११७|| अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम्| |११८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वीतानि-अपासितानि, त्वगस्थीनि यस्मात्कूष्माण्डात् तस्य तुलां स्निन्नां सतीं पुनः सर्पिषः प्रस्थे घट्टयन् पचेत्| अत्र च कूष्माण्डे माक्षिकवर्णे जाते सति खण्डाच्छतं, फणाशुण्ठ्योर्द्विपलं, जीरकाच्च पलद्वयं, त्रिजातकादि प्रत्येकमर्धपलांशकं, क्षिपेत्| अवतारिते शीते चास्मिन् क्षौद्रस्य षोडश पलानि दत्वा, खजेन-दर्व्या, आमथ्य-विलोड्य, पश्चाद्भाण्डे स्थाप्यम्| एवं ह्यस्य सम्यग् घृतादिसमयोगः स्यात्| उपयोजितं च तत् कासादीन् हन्ति| उरःसन्धानं करोति| मेधादिप्रदम्| अश्विभ्यां-दस्राभ्यां, निर्दिष्टं कूष्माण्डकाख्यं रसायनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कूष्माण्डकरसायनामाह-वीतत्वगस्थिकूष्माण्डतुलामिति| स्विन्नां त्यक्तद्रवां शीतीकृतां पुनः पचेत्| क्षौद्रवर्णे कूष्माण्डे| शतं-पलशतम्| खण्डप्रक्षेपसमये स्वेदनान्निर्गतः कूष्माण्डरसः प्रक्षेप्य इति वृद्धवैद्याः|
Adhikarana नागबलारसायनम् मण्डूकपर्णीरसायनम् यष्टीरसायनम् शुण्ठीरसायनम् (११८-१२०) · Śloka १२०
| पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्||११८|| पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्| एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्||११९|| मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च| |१२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नागबलामूलस्य पलं क्षीरयुतं पिबेत्| किम्भूतम् ? अर्धकर्षादिवर्धितं मासं यावत्| किम्भूतो नरः ? क्षीरवर्तनोऽनन्नादः सन्| अयं प्रयोगः सुष्ठु पुष्ट्यादिकरः| एवमेव कल्पो मण्डूकपर्ण्याः यष्ट्याः शुण्ठ्याश्च कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- नागबलारसायनमाह पिबेदिति| वर्धितं अर्धकर्षेणैव, अष्टभिर्दिनैः पलं भवति| अतः पलमेव, यावन् मासः पूर्यते| अन्यद्रसायनमाह-मण्डूकपर्ण्या इति| अयं-नागबलोक्तः| सङ्ग्रहे तु (चि. अ. ५)- "पादशेषं जलद्रोणे पचेन्नागबला तुलाम्| तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्|| पलार्द्धिकैश्चातिबलायष्टीपुनर्नवैः| प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः|| अश्वागन्धासिताभीरुमेदायुग्मत्रिकण्टकैः| काकोलीक्षीरकाकोलीक्षीरशुक्लर्धिजीवकैः|| मृणालबिसखर्जूरशृङ्गाटककसेरुकैः| एतन्नागबलासर्पिः पित्तं रक्तं क्षतं क्षयम्|| जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्| वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्|| उपयुज्य च षण्मासं वृद्धोऽपि तरुणायते| क्षीरशुक्ला-क्षीरविदारी| मृणालबिसे-सूक्ष्मस्थूलपद्ममूले| शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च|| संयुक्तं वा शृतं क्षीरं पिबेत्कासज्वरापहम्| फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम्|| स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्| सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्| यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः| जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्|| रसं प्रयोजेत् क्षीणो व्यञ्जनार्थं सशर्करम्|| व्यञ्जनार्थं-शाकार्थम्| गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा| यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताप्लुतैः||" इति|-
Adhikarana नागबलासर्पिः (१२०-१२५) · Śloka १२५
| पादशेषं जलद्रोणे पचेन्नागबलातुलाम्||१२०|| तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्| पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः||१२१|| प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः| अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः||१२२|| काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः| मृणालबिसखर्जूरशृङ्गाटककसेरुकैः||१२३|| एतन्नागबलासर्पिः पित्तरक्तक्षतक्षयान्| जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्||१२४|| वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्| उपयुज्य च षण्मासान् वृद्धोऽपि तरुणायते||१२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नागबलायास्तुलां वारिद्रोणे पादशेषं यथा भवति तथा पचेत्| तेन-नागबलाक्वाथेन, तुल्याशं ऋतं तथा क्षीरं तथा पलार्धप्रमाणैरतिबलादिभिः कल्कैश्च साधयेत्| एतन्नागबलासर्पिः पित्तरक्तादीन् जयेत्| तथा, सुष्ठु बलादिकरम्| तथा, वर्णाय हितमायुष्यमोजस्यं वलीपलितघ्नं च| तथा, षण्मासा नुपयुज्येदं घृतं वृद्धोऽपि तरुण इवाचरति|
Adhikarana दीप्तेऽग्नौ एषविधिः (१२६) · Śloka १२६
दीप्तेऽग्नौ विधिरेष स्यात्| |१२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दीप्ते-समिद्धे, अग्नौ सत्येष विधिः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तस्य क्षतकासोपचारस्य विषमाह-दीप्तेऽग्नाविति|
Adhikarana मन्देऽग्नौ दीपनपाचनादिः द्रवे मले ग्राही (१२६) · Śloka १२६
मन्दे दीपनपाचनः| यक्ष्मोक्तः क्षतिनां शस्तो, ग्राही शकृति तु द्रवे||१२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मन्देऽग्नौ दीपनपाचनः| यक्ष्मोक्तो-राजयक्ष्मण्युक्तः, क्षतिनां शस्त उपक्रमः| द्रवे तु शकृति ग्राही उपक्रमः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मन्देऽग्नावुपचारान्तरमाह-मन्द इति| यक्ष्मोक्तः-राजयक्ष्मचिकित्सितोक्तः| द्रवमलस्योपचारान्तरमाह-ग्राहीति| ग्राही-यक्ष्मोक्त एव|
Adhikarana अगस्त्यहरीतकी रसायनम् (१२७-१३२) · Śloka १३२
दशमूलं स्वयंगुप्तां शङ्खपुष्पीं शठीं बलाम्| हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्||१२७|| भार्ङ्गी पुष्करमूलं च द्विपलांशं यवाढकम्| हरीतकीशतं चैकं जलपञ्चाढके पचेत्||१२८|| यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्| पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्||१२९|| तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्| लेहं द्वे चाभये नित्यमतः खादेद्रसायनात्||१३०|| तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्| पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्||१३१|| मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान्| अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्||१३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- दशमूलादिपुष्करान्तं पृथक् द्विपलप्रमाणम्| यवानामाढकं-चतुःषष्टिपलानि| हरीतकीफलानामेकं शतम्| एतत्सर्वं जलस्य पञ्चाढके पचेत्| यवस्वेदे च सति तं कषायं पूतंगालितं, तच्च स्विन्नमभयाशतं गुडतुलां दत्त्वा तथा घृततैलपिप्पलीचूर्णानां प्रत्येकं कुडवं दत्त्वा पचेत्| सिद्धे शीते च लेहे माक्षिककुडवं दत्त्वा, अतो-लेहाख्याद्रसायनात्, सत्रिभागपलमात्रं द्वे च हरीतक्यौ नित्यं खादेत्| तच्च भुक्तं वलीपलितं हन्यात्| वर्णादिवर्धनं तथा पञ्चकासादीन् हन्ति| अगस्त्येन महर्षिणा निर्मितमेतद्रसायनं धन्यं-श्रेष्ठमेतत्| अत्र च तैल घृतमधूनां समांशानामप्यविरोधः, पाकाच्छक्तयन्तरोत्पत्तेः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अगस्त्यहरीतकीमाह-दशमूलमिति| यवस्वेदे सति-यदा यवाः स्विन्नास्तदा कषायः सिद्धो भवतीत्यर्थः लेहं पलद्वयमितम्|
Adhikarana वसिष्ठहरीतकी (१३३-१४१) · Śloka १४१
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्| पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः||१३३|| बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्| पयस्यां कुटजं हिंस्त्रां पुष्पं सारं च बीजकात्||१३४|| बोटस्थविरभल्लातविकङ्कतशतावरीः| पूतीकरञ्जशम्याकचन्द्रलेख़ासहाचरम्||१३५|| सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्| पथ्यासहस्रं सशतं यवानां चाढकद्वयम्||१३६|| पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्| पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम्||१३७|| तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः| अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च||१३८|| शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्| चूर्णीकृतं त्रिजाताच्च त्रिपलं निख़नेत्ततः||१३९|| धान्ये पुराणकुम्भस्थं मासं ख़ादेच्च पूर्ववत्| रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम्||१४०|| स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते| |१४१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलादि इक्षुरकान्तं पलप्रमाणम्| बोटः-अलम्बुसा| स्थविरं-शैलेयम्| चन्द्रलेखा-बाकुची| हरीतकीनामेकादशशतानि यवानामाढकौ द्वौ अष्टगुणे जले पएत्| यवस्वेदे सति चावतारयेत्| तस्मिन् क्वाथे पूते पथ्यासहितां पुराणगुडात्तुलां तैलादीनां पृथक्पृथक् प्रस्थं क्षिपेत्| ततः-अनन्तरं, पुनः पचेत्| मृदौ वह्नौ दर्वीलेपे सत्यवतार्य शीते सति प्रस्थद्वयं क्षौद्रात् पिप्पलीनां चतुष्पलं चूर्णितं त्रिजाताच्च त्रिपलं क्षिपेत्| ततः-अनन्तरं, पुराणकुम्भस्थं-घृतरूढभाण्डस्थं, धान्यमध्ये मासं निखनेत्| मासादूर्ध्वं पूर्ववत् खादेत्| एतद्रसायनं वसिष्ठेन कथितम्| अगस्त्यलेहाद्गुणैरधिकं स्वस्थानां निष्परीहारं सर्वर्तुष्विष्यते, तन्त्रकृद्भिरिति शेषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वसिष्ठहरीतकीमाह-दशमूलं बलामिति| बोटस्थविरो-मुण्डी| चन्द्रलेखा-बाकुची| सहाचरं-कुरण्टकः| इक्षुरः-कोकिलाक्षः| एतत्सर्वं पलांशकं-प्रत्येकं पलमात्रम्| सपथ्ये-हरीतक्येकादशशतीयुक्ते| पूर्ववत्लेहं द्वे चापथ्ये|
Adhikarana षाडवं चूर्णम् (१४१-१४४) · Śloka १४४
| पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले||१४१|| कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्| एकैकां मरिचाजात्योर्धान्यकाद् द्वे चतुर्थिके||१४२|| शर्करायाः पलान्यत्र दश द्वे च प्रदाययेत्| कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्||१४३|| रुच्यं तद्दीपनं बल्यं पार्श्वार्तीश्वासकासजित्| |१४४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सैन्धवं-लवणं, पलप्रमाणम्| शुण्ठी पलप्रमाणा| पालिकमिति पलं परिमाणमस्येति ठक्| पालिकं पालिकी चेति "नपुंसकमनपुंसकेन" इत्येकशेषः| सौवर्चललवणाच्च द्वे पले| कुडवप्रमाणानि वृक्षाम्लादीनि| आर्जकं-कुठेरकम्, तस्मात्पत्रम्| एकामेकां मरिचाजाज्योश्चतुर्थिकां-पलसंज्ञाम्, धान्यकात् द्वे चतुर्थिके, शर्करापलानि च द्वादशात्र देयानि| तथा च मुनिः (च. चि. अ. ११/८२)- "पालिकं सैन्धवं शुण्ठी" इत्यारभ्य यावत् "शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्| कृत्वा चूर्णमतो मात्रा" इत्यादि| तस्मादत्राप्ययं ग्रन्थो निर्दिष्टो बोध्यः| प्रमादाच्च केचिन्न पठन्ति| अयं चात्रैवं वक्ति-"रुच्यं तद्दीपनं" इत्यादि| शर्करामन्तरेण तु रुच्यत्वमस्य कथमिवोपपद्यते ? तस्माद्युक्तोऽत्र शर्कराप्रयोग इति| एतच्चूर्ण कृत्वा, अतः- अस्माच्चूर्णात्, मात्रां यथोचितामन्नपानेषु दापयेत्, वैद्य इति शेषः| एतच्चूर्णं रुच्यं दीपनं बल्यं पार्श्वाद्यार्तिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- षाडवं चूर्णमाह-पालिकमिति| शुण्ठ्यपि पालिकी| आर्जकात्-पर्णाशात्, पत्रम्| अत्र-पलविंशतौ|
Adhikarana षाडवान्तरम् (१४४-१४६) · Śloka १४६
| एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात्||१४४|| ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विः सौर्वचलात्पलम्| शुण्ठ्याः कर्षं दधित्थस्य मध्यात्पञ्च पलानि च||१४५|| तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्| षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्||१४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धान्यकादेकां षोडशिकां-कर्षसंज्ञाम्| अजाजीदीप्यकाट् द्वे द्वे षोडशिके| ताभ्यां-अजाजीदीप्यकाभ्यां मिश्रिताभ्यां सकाशात्, दाडीमवृक्षाम्ले द्विर्द्विः-प्रत्येकं चतस्रः षोडशिका इत्यर्थः| एवमष्टौ कर्षा दाडिमस्य, अष्टौ वृक्षाम्लस्य| तथा सौवर्चलात् पलं, शुण्ठ्याः कर्षं, कपित्थस्य मज्जतः पञ्च पलानि| तत्-एतत्, चूर्णं शर्करायाः षोडशपलैः सम्मेलयेत्| अयं षोडवोऽन्नपानेषु पूर्ववत् प्रदेयः स्यात्| अर्हार्थे कृत्यः| केचित् षोडशिकां पलमित्याहुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- षाडवान्तरमाह-एकां षोडशिकामिति| षोडशिकां-कर्षम्| ताभ्यां-मिलिताभ्यां पलमिताभ्याम्| द्विर्द्विद्विर्भूत्वा द्विः, प्रत्येकं चतुः पलमिते दाडिमवृक्षाम्ले| षाडवः-षडङ्गसंयोगात्|
Adhikarana क्षते यक्ष्मोक्तोऽपि विधिः (१४७) · Śloka १४७
विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः| |१४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षते चावस्थावशाद्यक्ष्मणि यो विहितो विधिः स हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- यक्ष्मचिकित्सितमतिदिशति-विधिश्चेति|
Adhikarana धूमपानम् (१४७-१४८) · Śloka १४८
| निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः||१४७|| दाल्यते कासिनो यस्य स ना धूमान् पिबेदिमान्| |१४८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षतदोषे च निवृत्ते-शान्ते सति, कफे वृद्धे यस्य कासवतः पुंस उरः शिरश्च दाल्यते-पाट्यत इव, सः-कासी, धूमानिमान्-द्विमेदादीनां, पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूमपानमाह-निवृत्त इति| दाल्यते-भिद्यते भिद्यमानमिव व्यथते| ना-पुरुषः| इमान्-वक्ष्यमाणान्|
Adhikarana द्विमेदादिधूमः (१४८-१४९) · Śloka १४९
| द्विमेदाद्विबलायष्टिकल्कैः क्षौमे सुभाविते||१४८|| वर्ति कृत्वा पिबेद्धूमं जीवनीयघृतानुपः| |१४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्विभेदादिभिः कल्कैः क्षौमे-सुभाविते वर्ति कृत्वा धूमं पिबेत्| जीवनीयाख्यं घृतमनु-पश्चात्, पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूममाह-द्विमेदाद्विवचायष्टीकल्कैरिति| सुभाविते-पुनःपुनर्लिप्ते|
Adhikarana अन्यो मनःशिलादिधूमः (१४९-१५१) · Śloka १५१
| मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः||१४९|| तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्| पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया||१५०|| ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्| |१५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मनःशिलादिभिस्तद्वदेव-द्विमेदादिभिर्यथा धूमं पिबेत्| अनु शर्करोदकमिक्षुरसं गुडोदकं वा पिबेत्| उदकसादृश्यादिक्षुरसोऽपीक्षूदकशब्देन गृहीतः| स०-मनः शिलामार्द्रया वटशुङ्गया तुल्यां पिष्ट्वा सह सर्पिषा धूमं सतित्तिरिप्रतिभोजनं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- धूमान्तरमाह मनःशिलेति| तद्वदेव-कल्कैः क्षौमे सुभाविते वर्ति कृत्वेति| शर्करोदकाद्यन्यतममनुपानम्| आ० र०- धूमान्तरमाह पिष्ट्वेति| तित्तिरिमांसरसप्रधानं भोजनं यत्र धूमे तम्| इति क्षतजासचिकित्सा|
Adhikarana क्षयकासचिकित्सा क्षयकासे प्रथमोपचारः (१५१) · Śloka १५१
| क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्||१५१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षयजे कासे पूर्वोक्तं बृंहणं कुर्यादग्निसन्दीपनं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तथक्षयकासचिकित्सा| तत्र प्रथमोपचारमाह-क्षयजे बृंहणमिति|
Adhikarana बहुदोषे विरेचनम् (१) · Śloka १
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बहुदोषाय-प्रभूतादोषाय क्षयकासिने, सह स्नेहेन मृदु विरेचनं दद्यात्| तदेवाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विरेचनमाह बहुदोषायेति|
Adhikarana तदेव विरेचनम् (१५२-१५३) · Śloka १५३
| शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया||१५२|| तिल्वकस्य कषायेण विदारीस्वरसेन च| सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्||१५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शम्याकेन्-कर्णिकारेण, अथवा त्रिवृतया द्राक्षारसयुक्तया तिल्वकस्य कषायेण विदारीस्वरसेन च सर्पिः सिद्धं युक्त्यादेशकालादिवलेन, क्षीणदेहो विशोधनं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तदेव विरेचनत्रयमाह शम्याकेनेति| शम्याककल्केन सिद्धं सर्पिरेकम्| त्रिवृत्कल्कद्राक्षारसारसाभ्यां द्वितीयम्| रोध्रक्वाथविदारीरसाभ्यां तृतीयम्|
Adhikarana क्षीणपित्तादिषु कर्कटक्यादिघृतम् (१५४) · Śloka १५४
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्| घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्||१५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्ते क्षीणे कफादिषु च क्षीणेषु क्षयकासी कर्कटक्यादिपक्वं घृतं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शमनं घृतमाह| पित्ते कफ इति| कर्कटशृङ्गीबलातिबलाकल्केन क्षीरेण च साधितम्|
Adhikarana क्षीणपित्तादिषु विदार्यादिघृतं पयश्च (१५५) · Śloka १५५
विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्| घृतं पयश्च|१५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विदारीभिरिति बहुवचनं क्षीरविदार्यादिव्यक्तिविशेषाणां ग्रहणार्थम्| एवं कदम्बैरित्यत्रापि धाराकदम्बादिग्रहणार्थम्| जातौ बहुवचनमित्यन्ये| तालसस्यैः-तालफलैर्वा, साधितं घृतं पयो वा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह विदारीभिरिति| वाशब्दः पूर्वघृतापेक्षया, चशब्दस्य समुच्चयार्थत्वात्|
Adhikarana मूत्रवैवर्ण्यादिकेऽनुवासनम् (१५५-१५६) · Śloka १५६
| मूत्रस्यवैवर्ण्ये कृछ्रनिर्गमे||१५५|| शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे| घृतमण्डेन लघुनाऽनुवास्यो मिश्रिकेण वा||१५६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्रस्य वैवर्ण्ये कृछ्रनिर्गमे सति तथा मेढ्रे शूने सवेदने पायौ श्रोण्यां वङ्क्षणे चैवंविधे सति नरो लघुना घृतमण्डेनानुवास्यः| मिश्रिकेण वा-घृततैलेन, अनुवास्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- [अनुवासनमाह-मूत्रस्येति|] लघुना-लघुपञ्चमूलसिद्धेन| [घृतमण्डेन-]चिरस्थितस्य घृतस्याच्छभागेन| मिश्रकेण-वृद्धिचिकित्सिक्तेन सुकुमारकाख्येन "पचेत्पुनर्नवतुलां" (हृ. चि. अ. १३/४१) इत्यादिना|
Adhikarana अनुवासनशुद्धस्य मांसोपचारः (१५७-१५८) · Śloka १५८
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः| क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः||१५७|| औष्ण्यात्प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते| कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग् वहन् रसः||१५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुवासानान्तरं जाङ्गलैर्मासैः-हरिणैणाजादिभिः, तदभावात्तत्सदृशैरपि| प्रतिभुक्तस्यानन्तरं तथैव पिशिताशिनः प्रसहाः-द्वीपिव्याघ्रादयः, प्रयोज्याः| नानुवासितमात्रस्य जाङ्गलमांसप्रतिभुक्तस्यैव प्रसहाः पिशिताशिनश्च योज्याः, अग्निमान्द्यभयात्| ते प्रसहाः प्रमाथिभावात् तथौष्ण्यात् कफोपलिप्तेभ्यः स्रोतोभ्यः कफं च्यावयन्ति| प्रमाथिद्रव्यलक्षणं च खारणदादौगदितम्| यथा-"स्रोतांसि दोषलिप्तानि प्रमथ्य यत्| प्रविश्य सौक्ष्म्यात्तैक्ष्ण्याच्च तत्प्रमाथीति संज्ञितम्||" इति| तैश्च-स्रोतोभिः,शुद्धैः सम्यग्वहन् रसः पुष्टिं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुवासनशुद्धस्य मांसोपचारमाहजाङ्गलैरिति| जाङ्गलैः-मृगादिमांसरसैः| प्रतिभुक्तस्य-शुध्द्यक्तेष्टदोषशान्तिर्यथा भवत्येवं भुक्तस्य| वर्तकाद्याः-विष्किराः| पिशिताशिन इति सर्वेषां विशेषणम्| प्रथम् विष्किरास्ततो बिलेशयास्ततः प्रसहा इति क्रमः| तद्वत्-प्रतिभोजनवत्, अग्निबलापेक्षया मात्रावृद्धिरित्यर्थः| प्रमाथिभावात्-लीनमलोल्लेखनसामर्थ्यात्| तैः-स्रोतोभिः| रसो-रसधातुः|
Adhikarana मांसायोग्यस्य चविकादि घृतम् (१५९-१६१) · Śloka १६१
चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः| कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले||१५९|| शृतैर्नागरदुःस्पर्शापिप्पलीशठिपौष्करैः| पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्||१६०|| सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च| दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः||१६१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चविकादिभिर्जले शृतैर्नागरादिभिः पिष्टैः समैः सर्पिर्विपाचयेत्| सिद्धेऽस्मिन् घृते क्षारौ द्वौ, पञ्च-सैधवादीनि लवणानि च, दत्त्वा मात्रां प्रकृतत्वात् घृतस्य पिबेत्, कफकासार्तः पुरुषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मांसयोग्यस्य घृतमाहचविकात्रिफलेन्ति| समैः-नागरादिभिः पञ्चभिरेकया कर्कटशृङ्गया, अन्यथा समैरिति व्यर्थं, प्रत्येकं समस्य परिभाषाप्रात्वात्|
Adhikarana कासमर्दादिघृतं कासज्वारारूचिहरम् (१६२-१६३) · Śloka १६३
कासमर्दाभयामुस्तापाठाकट्फलनागरैः| पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च||१६२|| अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके| पचेच्छोशज्वरप्लीहसर्वकासहरं शिवम्||१६३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासमर्दादिभिरक्षप्रमाणैः क्षीरद्राक्षारसयोर्मिश्रितयोराढके घृतप्रस्थं पचेत्| शोषादिहरं शिवं च-आरोग्यकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह कासमर्दाभयेति|
Adhikarana वृषादिघृतम् कासज्वरारुचिहरम् (१६४) · Śloka १६४
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्| रसकल्कैर्घृत पक्वं हन्ति कासज्वरारुचीः||१६४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृषादीनां प्रत्येकं पत्रमूलफलाङ्कुरात् रसकल्कैः पक्वं घृतं कासादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाहवृषव्याघ्रीगुडूचीनामिति| पत्रादीनां चतुर्णां रसैस्तेषामेव कल्कैः| ते च वृषादीनां प्रत्येकं ग्राह्याः|
Adhikarana द्विगुणदाडिमरससिद्धं घृतम् पिप्पलीगुडसिद्दं घृतम् (१६५-१६६) · Śloka १६६
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्| पिबेदुपरि भुक्तस्य यवक्षार्रयुतं नरः||१६५|| पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम्| |१६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा दाडिमस्वरसे द्विगुणे व्योषकल्कसंयुतं सिद्धं घृतं भुक्तस्याहारस्योपरि यवक्षारयुतं पिबेत्| पिप्पलीगुडाभ्यां वा चतुर्गुणे घृते घृताच्चतुर्गुणे जले घृतसमे छागक्षीर इति पक्वं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह द्विगुण इति| व्योषयुतं साधनकाले| यवक्षारयुतं पानकाले| घृतान्तरमाह-पिप्पलीगुडसिद्धं वेति| पिप्पलीगुडयोः कल्केन छागक्षीरेण च सिद्धम्|
Adhikarana उक्तघृतानां दीपनत्वं स्त्रोतः शोधनत्वं च (१६६-१६७) · Śloka १६७
| एतान्यग्निविवृद्ध्यर्थं सर्पिषि क्षयकासिनाम्||१६६|| स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये| |१६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एतानि पूर्वोक्तानि चव्यादिभिर्विपक्वानि घृतान्यग्निवर्धनानि क्षयकासिनां स्युः| दोषोपलिप्तकण्ठोरःस्रोतसां च विशुद्धये स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तानां घृतानां दीपनत्वं स्रोतः शोधनत्वं चाह एतनीति| वङ्गसेने तु (कास. श्लो. ९९)- "शुभदेशसमुद्भूतं समुद्भृतं मूल [मश्व]गन्धायाः| पुण्येऽहनि सङ्क्षुण्णं विपचेद्द्रोणेऽम्भसस्तुलामस्मात्|| ज्ञात्वाऽष्टभागशेषं गृण्हीयातद्रसं सुपरितूतम्| द्वे चैवात्र पलशते दद्याच्छागस्य शुद्धमांसस्य|| सर्पिःप्रस्थमथैकं गव्यं च पयश्चतुर्गुणे दद्यात्| कल्कानक्षसमांशानूर्ध्वमतः सम्प्रवक्ष्यामि|| काकोलोयुगमृद्धी द्वे मेदे जीवकं स्वयंगुप्ताम्| ऋषभकमेलां मधुकं मृद्वीकाहस्तिपिप्पल्यौ|| जीवन्तीमुपकुल्यां बलां विदारीं शतावरी चात्र| दत्वा सम्यग्विपचेत्सर्पिरथोद्धृत्य पूत्वा च|| मधुशर्करयोः कुडवं दत्वा भाण्डे शुभे स्थितं मृदितम्| लीढ्वा तत्पाणितलं यथेष्टमाहारमश्नीयात्|| क्षीणक्षतशिशुवृद्धाः क्षीणेन्द्रियवर्णहीनमांसाश्च| प्राश्य प्रापुः सद्यः पुष्टिबलारोग्यतेजांसि|| उपयुज्य सर्पिरेतत्सत्पतिवर्षो युवेव भूत्वाऽऽशु| बहुशः स्नियोऽधिगच्छति न चात्र शुक्रक्षयं लभते|| पुत्रर्थिनी च नारी लभते पुत्रान् वयस्यतीतेऽपि वन्ध्या लभते पुत्रं सर्पिः प्राश्यैतदश्वगन्धाद्यम्|| उपयुक्ते यः पुरुषस्नीन् मासान् सार्धमासं वा| नारीशतं स गच्छनैव भवेद्योषितां तृत्पिः|| खालित्यवलीपतैर्न चास्यदेहोऽभिभूते क्षिप्रम्| वातव्याधिभिरार्तास्तथैव हृद्व स्तिरोगार्ताः|| भुञ्जाना भाजमानाः सर्पिररोगा भवन्तीह| एवं जगद्धितार्थं सर्पिरिदं वाजिगन्धायाः|| श्रेष्ठं वाजीकरणं निर्दिष्टं पूर्वमश्विभ्याम्|| (शो. ९५)- किलीरशुक्तिंश्च तकेण लावान्निःक्वाथवर्गैर्मधुरैस्यथाऽन्यैः| पचेद्घृतं तत्तु निषेव्यमाणं हन्यात्क्षातोत्थं क्षतजं च कासम्||" इति| योगरत्ने तु-" षोडशभिर्जपात्रैः मृद्वीकायाः पलानि दश षट् च| अष्टौ मधुयुक्तपचनि (?)च्छागं उलार्धं स्यात्|| अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य| दत्वा कषायतुल्यं पयो घनसर्पिषः प्रस्थम्|| ॠषभकजीवकमेदाविदारिवीरात्मगुत्पानाम्| भव्याक्रोडनिकोचकशृङ्गाटकपद्मबीजानाम्|| भागानक्षसमांशानावप्य च साधयेत्तु मृद्वग्नौ| सम्यक्सिद्धे तस्मिन् दद्यात्सितशर्करापलान्यष्टौ|| मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात्| समसक्तुकघृतमेतज्जनकेश्वरपूजितं समुद्दिष्टम्| क्षीणे क्षतेऽल्पशुक्रे तद्गुधिरे पैत्तिकेषुरोगेषु| स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत्||" इति|
Adhikarana हरीतकीलेहः (१६७-१३९) · Śloka १३९
| प्रस्थोन्मिते यवक्वाथे विंशति विजयाः पचेत्||१६७|| स्विन्ना मृदित्वा तास्तस्मिन्पुराणात्षट्पलं गुडात्| पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात्||१३८|| दत्त्वाऽर्धाक्षं पचेद्भूयः स लेहः श्वासकासजित्| ||१३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवक्वाथे प्रस्थप्रमाणे हरीतकीविशतिं पचेत्| स्विन्नास्ताः-हरीतकीः, तस्मिन्-यवक्वाथे, मृदुत्वा पुराणाद् गुडात् षट्पलं, पिप्पल्या द्विपलं, कर्षं मनःशिलायाः, रसाञ्जनादर्धकर्षं दत्त्वाऽस्मिन्क्वाथे पुनः पचेत्| स लेहः श्वासकासजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- हरीतकीलेहमाह प्रस्थोन्मित इति| ताः-हरीतकीः| तस्मिन्-यवव्काथे| मृदित्वा-निरस्थीक्र्त्य,मर्दनेन श्लक्ष्णीकुर्यादित्यर्थः| योगरत्ने तु (वङ्गसेने कासा श्लो.१७०)-" समूलपुष्पच्छदकण्टकार्यास्तुलां जलद्रोणपरिप्लुतां च| हरीतकीनां च शतं निदध्यात्तथाऽत्र पक्त्व चरणावशेषम्|| गुडस्य दत्वा शतमेतदग्नौ वोपक्वमुत्तार्थ ततः सुशीते| कटुत्रिकं च त्रिपलप्रमाणं पलानि षट् पुष्परसस्य तत्र||क्षिपेच्चतुर्जातपलं यथाग्नि प्रयुज्यमानो विधिनाऽवलेहः| वातात्मकं पित्तकफोद्भवं च द्विदोषजं कासमपि त्रिदोषम्|| क्षतोद्भवं च हन्यात्सपीनसं श्वासमुरः क्षतं च| यक्ष्माणमेकादशरूपमुग्रं भृगूपदिष्टं हि रसायनं स्यात्||" पुष्परसस्य-मधुनः| 'तुलामादाय वासायाः पचेदष्टगुणे जले|ंअपादावशेषेण पाचयेदभयाढकम्|| श्लक्ष्णचूर्णीकृतं विधात्खण्डाच्छुद्धात्तथा शतम्| शीतीभूते निदध्याच्च क्षौद्रस्याष्टौ पलानि तु|| वंशोद्भवायाश्चत्वारि पिप्पल्यर्धपलं तथा| चतुर्जातपलं चैव चूर्णितं तत्र दापयेत्|| रक्तपित्तं निहन्त्येषा कासं श्वासं तथा क्षयम्| विद्रधिं जठरं गुल्मं तृष्णाहृद्रोगपीनसान्|| पलार्धं भक्षयेदस्या यथेष्टं चात्र भोजनम्|' इति|
Adhikarana श्वावित्सूचीक्षारलेहः मयूरचरणक्षारलेहः एरण्डपत्रक्षारलेहः सुरसैरण्डपत्रक्षारलेहः त्र्यूषणचूर्णलेहः (१६९-१७१) · Śloka १७१
| श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः||१६९|| श्वासकासहरा, बर्हिपादौ वा मधुसर्पिषा| एरण्डपत्रक्षारं वा व्योषतैलगुडन्वितम्||१७०|| लेहयेत्, क्षारमेवं वा सुरसैरण्डपत्रजम्| लिह्यात् त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा||१७१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्वाविधां सम्बन्धिभ्यः सुचयो दग्धा घृतक्षौद्रशर्करान्विताः श्वासकासहराः बर्हिणो-मयूरस्य, वा पादौ दग्धौ मधुसर्पिषा सह श्वासकासहरौ| अथवा, एरण्डपत्रस्य क्षारंव्योषतैल्लगुडयुरं लेहयेत्| एवं-पूर्वोक्तेन प्रकारेण, सुरसैरण्डपत्रजं क्षारं व्योषतैलगुडान्वितं लेहयेत्| अथवा त्र्यूषणचूर्णं पुराणौडसर्पिषा लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षारलेहमाह श्वाविधामिति| सूचयः-शलाकाः,याभिस्ते पक्षिणः श्वानं विध्यन्ति| क्षारलेहान्तरमाह-बर्हिपादौ वेति| बर्हिपादौ-मयूरचरणौ, मधुसर्पिर्भ्यां लीढे तद्वत्| क्षारलेहान्तरमाह-एरण्डपत्रक्षारं वेति| क्षारलेहान्तरमाह-क्षारमेवं वेति| एवं-व्योषाद्यन्वितम्| सुरसः-तुलसी| लेहान्तरमाह-लिह्यादिति| सङ्ग्रहे तु (चि. अ. ५)- "चित्रकत्रिफलाजाजीकर्कटाज्याकटुत्रिकम्| द्रक्षां च क्षौद्र सर्पिर्भ्यां लिह्यादद्याङ्गुडेन वा|| पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम्| शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम्|| सारिवापुष्करजटाकर्कख्या रसाञ्जनम्| पुनर्नवा लोहरजस्त्रायमाण यवानिका|| वृद्धिस्तामलकी भार्ङ्गी विडङ्गं धन्वयासकम्| क्षारचित्रकचव्याम्लवेतसव्योषदारु च|| सर्वकासाञ्जयेल्लीढं तच्चूर्णं मधुसपिंषा|" इति| पिप्पली-गजपिप्पली, इतरस्या व्योषेणोक्तत्वात्| वितुन्नकं-क्षुद्रमुस्तम्|
Adhikarana समशर्करं चूर्णं मरिचचूर्णं तद्वत् (१७२-१७३) · Śloka १७३
पद्मकं त्रिपला व्योषं विडङ्गं देवदारु च| बला रास्ना च तच्चूर्णं समस्तं समशर्करम्||१७२|| खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम्| तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्||१७३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पद्मकादीनां समस्तं चूर्णं समशर्करम्| पद्मकादीनां चूर्णमेकतः, एकतः शर्कराचूर्णम्, तदुभयं संयोज्य खादेत्भक्षयेत्| अथवा, समशर्करमेव मधुघृताभ्यां मिश्रयित्वा लिह्यात्| तथैव मरिचचूर्णं घृतक्षौद्रशर्करायुतं लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- समशर्करं चूर्णमाह पद्मकमिति| एकेन केनचित् समशर्करा मा भुदिति समस्तग्रहणम्| खादेन्मधुघृताभ्यां विनैव| मरिचचूर्णमाह-तद्वदिति| लिह्यात्कासहरं परमिति तद्वच्छब्दार्थः|
Adhikarana पथ्यादिगुटिका मुखे धारणार्थंबिभीतकधारणम् (१७४) · Śloka १७४
पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे| सर्वेषु श्वासकासेषु, केवलं वा बिभीतकम्||१७४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पथ्याशुण्ठीघनगुडैर्गुटिकां मुखे धारयेत् सर्वेष्वेव श्वासकासेषु| केवलं वा बिभीतकं मुखे धारयेदिति योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गुटिकामाह पथ्याशुण्ठीघनगुडैरिति| बिभीतकधारणमाह-केवलं वेति|
Adhikarana पेयामुत्कारिकां च (१७५) · Śloka १७५
पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम्| पेया वोत्कारिका छर्दितृट्कासामातिसारजित्||१७५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पत्रकल्कं तिल्वकस्य घृते भृष्टं सशर्करं छर्दिटृडादिजित्| पेया वा पत्रस्य कल्के सिद्धा तद्वत्| अथवा, उत्कारिका पत्रकल्ककृता छर्द्यादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पेयामुत्कारिकां चाह पत्रकल्कमिति| तिल्वकपत्राण्यार्द्राणि पिष्ट्वा कल्कं कुर्यात्| तं घृतेन भर्जयेत्| तत्समेन तण्डुलपिष्टेन योजयेत्, पेयार्थमुत्कारिकार्धेन (र्थं च)| उत्कारिका-पूपलिका| सङ्ग्रहे तु (चि. अ. ५)- "गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्| साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा|| ससर्पिर्लवणा क्षसे हिध्माश्वासे सपीनसे| पाण्ड्वामये क्शये शोषे कर्णशूले च शस्यते||" इति| गण्डीरं-स्नुहीकाण्डम्|
Adhikarana मुद्गयूषः (१७६) · Śloka १७६
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः| सगौरामलकः साम्लः सर्वकासभिषग्जितम्||१७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कण्टकार्याः क्वाथे मुद्गयूषः सुसंस्कृतो-हिङ्गुसैन्धवादिना, सगौरामलकाम्लः सर्वकासेषु भिषग्जितं-औषधम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- यूषमाह-कण्टकारी इति| सुसंस्कृतः-स्नेहलवणादिभिः| गौरामलकं-पीतवर्णमामलकम्|
Adhikarana क्षीरयूषरसाः (१७७) · Śloka १७७
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि| वैष्किरान् प्रातुदान् बैलान् दापयेत्क्षयकासिने||१७७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातघ्नौषधानां निःक्वाथे सिद्धं क्षीरमथवा यूषान् रसांश्च विष्किरमांसजान् प्रतुदजान् वा| तथा, बिलेषु भवा बैलाः प्राणिनस्तेषां रसान् क्षयकासिने वैद्यो दापयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षीरयूषरसनाहवातधौषधनिःक्वाथ इति| बैलान्-बिलेशयकृतान्|
Adhikarana क्षयकासोक्ता बृंहणादि (१७८-१७९) · Śloka १७९
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः| क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि||१७८|| बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्| व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते||१७९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षतकासे च ये धूमाः-द्विमेदेत्यादयः, सानुपाना उक्ताः, ते च क्षयकासेऽपि योज्याः| तच्च यक्ष्मणि वक्ष्यते बृंहणमग्निदीपनं स्रोतोविशोधनं, तच्च क्षयकासिने योज्यम्| तथा, क्षयकासिभ्यो व्यत्यासेन सर्वं चिकित्सितं बल्यं प्रशस्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षतकासधूमानतिदिशति क्षतकासे चेति| यक्ष्मोक्तमतिदिशति-वक्ष्यते यच्चेति| व्यत्यासात्-परिवर्तात्| बृंहणं त्यक्त्वा दीपनमिक्त्वा (?) पुनर्बृंहणमित्यादि परिवर्तः|
Adhikarana क्षयकासे सर्वदोषाविरोधि कर्तव्यम् (३) · Śloka ३
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः| यथादोषबलं तस्य सन्निपातहितं हितम्||१८०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित- स्थाने कासचिकित्सितं नाम तृतीयोऽध्यायः||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्निपातोद्भवः क्षयकासो घोरो-दारुणो, यतो भवति, तस्माद् यथादोषबलं तस्य यत्सन्निपाते हितं तदत्र हितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने कासचिकित्सितं नाम तृतीयोऽ- ध्यायः समाप्तः|| ३||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षयकासे सर्वदोषाविरोधि कर्तव्यमित्याह सनीपातोद्भव इति| इति हेमाद्रिटीकायायुर्वेदरसायने| कासप्रकरणं नाम सामस्त्येन निरूपितम्||