Adhikarana १ (१-२) · Śloka २
अथात ऋतुचर्यमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
अथात इत्यादि| ऋतवो द्विमासिकाः शिशिरादयो हेमन्तान्ताः षट्, वर्षादयः प्रावृडन्ता वा; तेषु चर्या चरणं वर्तनं; तदधिकृत्य कृतोऽध्यायः ऋतुचर्यः, तं व्याख्यास्यामः| ऋतुचर्यमिति केचिदन्यथा व्याख्यानयन्ति- चरधातोर्गतिभक्षणार्थस्य चर्यमिति रूपं, तेन, आहारो विहारश्च चर्यशब्देनोच्यते| अन्ये तु ‘अथात ऋतुचर्यानामाध्यायम्’ इति पठन्ति, व्याख्यानयन्ति च- चर्या शास्त्रनियमित आचारः, ऋतुषु ऋतूनां वा चर्या ऋतुचर्या, ऋतुचर्यार्थोऽध्यायः ऋतुचर्या; यथा प्रदीपार्था मल्लिका प्रदीप इति; नामशब्दः सञ्ज्ञायाम्| ऋतुचर्यां नाम स्वस्थवृत्तेऽपि वक्ष्यति||१-२||
Adhikarana २ (३) · Śloka ३
कालो हि नाम (भगवान् ) स्वयम्भुरनादिमध्यनिधनः |
अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते |
स सूक्ष्मामपि कलां न लीयत इति कालः, सङ्कलयति कालयति वा भूतानीति कालः ||३||
Show commentary
तत्र यदङ्गभूता ऋतवस्तमेव प्रथमं स्वगुणकर्मनिरुक्तिभिर्दर्शयन्नाह- कालो हि नामेत्यादि| हि उपदर्शने, नामशब्दः प्रसिद्धौ, काल इति प्रसिद्ध उपदर्श्यते| स्वयम्भूरिति न केनाप्युत्पाद्यते| अनादिमध्येत्यादि- आदिः उत्पत्तिः, आद्यन्तयोरन्तरा मध्यं, निधनं विनाशः, एतैर्वर्जितः| स्वधर्मेण कालमुक्त्वा कर्मणा चिकित्सोपयोगितां निदर्शयन्नाह- अत्र रसव्यापदित्यादि|- अत्र काले| रसस्य मधुरादेः, रसशब्देनात्र रसवद्द्रव्यमुच्यतेऽभेदोपचारादित्यन्ये; व्यापद् विपन्नता, सम्पत्तिः सम्पन्नता, आयत्ते अधीने| जीवितमरणे चेति चकारोऽत्रशब्दमिहानुवर्तयति, तेन जीवितमरणे अत्र काले आयत्ते; जीवितस्योत्पत्त्यधीनत्वादिति सामर्थ्यादुत्पत्तिरपि कालाधीनैव| कथमेकस्मात् कालद्रव्यात् सम्पद्व्यापत्ती जीवितमरणे च परस्परविरुद्धे स्यातां? न ह्येकस्मादग्नेः शीतोष्णौ, एकस्माद्वा प्रदीपात् प्रकाशतमसी, इति| सत्यं, कालशब्देनात्र कालत्वोपाधिः शीतादिभेदभिन्नः शिशिरादिरभिधीयते, तस्य च सम्यङ्मिथ्याभ्यां योगाभ्यामन्योन्यविरुद्धयोरपि कार्ययोः सम्भव इत्यदोषः| कालस्य निरुक्तिं कुर्वन्नाह- स सूक्ष्मामित्यादि|- सः कालः, सूक्ष्मामपि स्तोकामपि, कलां भागं, न लीयते गतिमत्त्वात् श्लिष्टो न भवति; अन्ये तु ‘न लीयते’ इत्यत्र ‘कलीयते’ इति पठन्ति व्याख्यानयन्ति च- कलीयते सङ्ख्यायते इति कालः| निरुक्तिपक्षान्तरमाह- सङ्कलयतीत्यादि|- सङ्कलयति संहरणादेकराशीकरोति भूतानीति वा कालः, सङ्कलयति सुखदुःखाभ्यां भूतानि योजयतीति वा कालः, कालयति सङ्क्षिपतीति वा कालः, अथवा कालयति मृत्युसमीपं नयतीति वा कालः; अन्ये तु ‘कालयति’ इत्यत्र ‘कलयति’ इति पठन्ति, ‘कलयति सङ्ख्यातीति वा काल’ इति च व्याख्यानयन्ति||३||
Adhikarana ३ (४) · Śloka ४
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ||४||
Show commentary
तस्य संवत्सरेत्यादि| तस्य कालस्य| किंविशिष्टस्य? संवत्सरात्मनः संवत्सरस्वरूपस्य; संवत्सरात्मनः संवत्सरशरीरस्येत्यन्ये| भगवानादित्य इत्युपलक्षणं; तेन चन्द्रोऽपि गृह्यते, निशाकरणत्वादिहेतुत्वात्; अथवा रविरेव भगवान् माहात्म्यवान् स्वरश्मिभिः शीतोष्णवर्षाः कुरुते, कालविभागं च गतिविशेषेणात्मीयेनोदयास्तगमनलक्षणेन| ननु, संवत्सरात्मन इति किमुक्तं? येन, ऋत्वावृत्तिर्दिवसावृत्तिर्वा कालः, तेन ऋत्वात्मनो दिनात्मनो वेति वक्तव्यं; नैतदस्ति, न ह्येकस्मिनृतौ दिने वा ऋत्वन्तराणां दिनान्तराणां वा सर्वेषां धर्मावरोधः कुतः? शीतोष्णवृष्टिभेदेन तेषामत्यन्तभिन्नत्वात्; संवत्सरे पुनरेकस्मिन्नेव सर्वेषां भूतभवद्भविष्यतां दिवसानामृतूनां संवत्सरान्तराणां च धर्मोऽवरुध्यत इति यथोक्तमेव न्याय्यम्||४||
Adhikarana ४ (५) · Śloka ५
तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः, पञ्चदशाऽक्षिनिमेषाः काष्ठा, त्रिंशत्काष्ठाः कला, विंशतिकलो मुहूर्तः कलादशभागश्च, त्रिंशन्मुहूर्तमहोरात्रं, पञ्चदशाहोरात्राणि पक्षः, स च द्विविधः- शुक्लः कृष्णश्च, तौ मासः ||५||
Show commentary
इदानीं संवत्सरांशान् निमेषादीन् विवरितुमाह- तत्र लघ्वक्षरेत्यादि| तत्र तेषु मध्ये| लघ्वक्षरमकारादि, तस्योच्चारणं कण्ठताल्वादिव्यापारेणोदीरणं, तत्प्रमाणो निमेषः| ननु, लघ्वक्षरोच्चारणादिना निमेषादयो विभज्यन्त, तत् कथं भगवानादित्यो गतिविशेषेण निमेषादीनां विभागं करोतीत्युक्तं? नैष दोषः, यतो ज्यौतिषिका निमेषादिप्रविभागेन शङ्कुच्छायामागमोक्तामर्कगत्यापि प्रमाणयन्ति; सा पुनः सर्वजनप्रसिद्धेति न निर्दिष्टा| कलादशभागश्चेति कलाया दशमो भागस्त्रिस्रःकाष्ठाः| ‘त्रिंशत्कलो मुहूर्त’ इति पाठो निबन्धैर्विस्तरेण दूषितः| ‘शुक्लः कृष्णश्च’ इति पक्षक्रमोऽमावास्यावधिं मासं ज्ञापयति; अन्ये तु ‘कृष्णः शुक्लश्च’ इति पठन्ति||५||
Adhikarana ५ (६) · Śloka ६
तत्र माघादयो द्वादश मासाः, द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति; ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः |
तेषां तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः, शुचिशुक्रौ ग्रीष्मः, नभोनभस्यौ वर्षाः, इषोर्जौ शरत्, सहःसहस्यौ हेमन्त इति ||६||
Show commentary
तत्र माघादय इत्यादि| तत्र तेषामृतूनां मध्ये| तपाः माघः, तपस्यः फाल्गुनः| मधुः चैत्रः, माधवः वैशाखः| शुचिः ज्येष्ठः, शुक्रः आषाढः; अन्ये तु शुक्रो ज्येष्ठः, शुचिराषाढ इति मन्यन्ते| नभाः श्रावणः, नभस्यः भाद्रपदः| इषः आश्विनः, ऊर्जः कार्तिकः| सहाः मार्गशीर्षः, सहस्यः पौषः| शिशिरादिरयमृतुविभागो रसबलमधिकृत्योक्तः| चरकेऽपि तस्याशितीये (च. सू. अ. ६) रसबलनिष्पत्त्यर्थं शिशिरादिविभागो दर्शितः| अन्ये त्वन्यथा व्याख्यानयन्ति- तत्रेति गङ्गाया उत्तरे देशे शिशिराद्यृतुविभागो बोद्धव्यः इति; अयमर्थो गयदासाचार्येण बहुधा दूषितः||६||
Adhikarana ६ (७) · Śloka ७
त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरं च |
तयोर्दक्षिणं वर्षाशरद्धेमन्ताः; तेषु भगवानाप्यायते सोमः, अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते |
उत्तरं च शिशिरवसन्तग्रीष्माः, तेषु भगवानाप्यायतेऽर्कः, तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमुपहीयते ||७||
Show commentary
त एते शीतोष्णवर्षेत्यादि| त एते षडृतवः, शीतोष्णवर्षलक्षणैर्लक्षिताः| अत्र शीतं वातकृतम्, औष्ण्यमादित्यकृतं, वर्षश्चन्द्रकृतः; शीतवर्षौ चन्द्रकृतावित्यन्ये| एतैश्च षडृतुभिर्द्वे अयने भवतः| कुत इत्याह- चन्द्रादित्ययोः कालविभागकरत्वात्| के ते द्वे अयने इति पृष्ट आह- दक्षिणमुत्तरं च| अत्र दक्षिणमयनं चन्द्रकालं विभागयति, उत्तरमयनमादित्यकालमिति| तयोर्दक्षिणमित्यादि|- तयोर्दक्षिणोत्तरायणयोर्मध्ये वर्षाशरद्धेमन्ता दक्षिणायनं; तेषु वर्षादिषूत्तरोत्तरं भगवान् सोम आप्यायते अधिकबलो भवति, न केवलं सोम एव बलवान् भवति रसाश्चाम्लादयो वर्षादिषु यथासङ्ख्यमुत्तरोत्तरं बलवन्तो भवन्ति; उत्तरोत्तरं चेति चकारो व्यतिक्रमेण सम्बन्धनीयः, तेन सर्वप्राणिनां चोत्तरोत्तरं बलमभिवर्धते इत्यर्थः| उत्तरमित्यादि|- शिशिरवसन्तग्रीष्मा उत्तरायणं, तेषु शिशिरादिषूत्तरोत्तरं भगवानर्क आप्यायते अधिकबलो भवति; तिक्तादयो रसाश्च शिशिरादिषु यथासङ्ख्यमुत्तरोत्तरं च बलवन्तो भवन्ति| बलमपहीयते बलहानिर्भवति| ‘ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः’ इति सूत्रे यद्यपि प्रागुत्तरायणं पठितं, तथाऽपि भाष्ये यत् प्रथमं दक्षिणायनस्य व्याख्यानं तदुत्तरायणतोऽपि दक्षिणायनस्य वैशिष्ट्यं प्रतिपादयति; कुतः? विसर्गत्वात् प्राणिनां बलकरत्वाच्चेति||७||
Adhikarana ७ (८) · Śloka ८
भवति चात्र- शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि |
तावुभावपि संश्रित्य वायुः पालयति प्रजाः ||८||
Show commentary
अमुमेवार्थमुपसंहरन्नाह- भवति चात्रेत्यादि| शीतांशुः चन्द्रः| क्लेदयति आर्द्रीकरोति| उर्वीं भूमिम्| विवस्वान् आदित्यः शोषयति| तावुभावापीति तौ चन्द्रसूर्यौ| संश्रित्य आश्रित्य, वायुः प्रजाः पालयति रक्षति| चन्द्रमाश्रित्याप्यायनं जगतः करोति, सूर्यमाश्रित्य शोषणं; ततो यथाकालं रसाभिनिर्वृत्तिः, तेन प्रजा वर्धयतीति पिण्डार्थः||८||
Adhikarana ८ (९) · Śloka ९
अथ खल्वयने द्वे युगपत् संवत्सरो भवति |
ते तु पञ्च युगमिति सञ्ज्ञां लभन्ते |
स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत् परिवर्तमानः कालचक्रमित्युच्यत इत्येके ||९||
Show commentary
परिशिष्टं पूर्वसूत्राद्व्यख्यातुमाह- अथ खल्वयने इत्यादि| युगपदेककालमयनद्वयं संवत्सरः, न पृथग् दक्षिणायनमुत्तरायणं वा| ननु, ‘माघादयो द्वादशमासाः संवत्सरः’ इत्युक्तम्, तत् किं पुनरभिधानेन? उच्यते, पूर्वोदिते हि माघादयो द्वादशमासा व्यस्ता अक्रमपठिताश्च संवत्सर इत्याशङ्का स्यात्, ‘अथखल्वयने द्वे’ इत्यादिनिर्देशे क्रियमाणे येन क्रमेण षडृतुविभागेऽयनद्वयमुक्तं तेनैव चेदयनद्वयं युगपत् स्यात्तदा संवत्सर इति व्यस्तानामक्रमपठितानां च माघादीनां संवत्सरत्वं निरस्तमिति| इदानीं युगप्रविभागं दर्शयन्नाह- ते त्वित्यादि| ते पुनः पञ्च संवत्सराः युगमिति सञ्ज्ञां प्राप्नुवन्ति| इयं च युगस्य पारिभाषिकी सञ्ज्ञा, परमार्थतस्तु कृतादयश्चत्वारो युगविशेषाः| स एष इत्यादि स एषः कालः||९||
Adhikarana ९ (१०) · Śloka १०
इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति, दोषोपचयप्रकोपोपशमनिमित्तं; ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः; तद्यथा- भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ ग्रीष्मः; आषाढश्रावणौ प्रावृडिति ||१०||
Show commentary
संशोधनाश्रयं दर्शनं दर्शयन्नाह- इहेत्यादि| इह अस्मिन्नध्याये, तुशब्दः पुनरर्थः| अस्मिन्नध्याये पुनः किमर्थं वर्षादयः ऋतव इत्याह- दोषोपचयाद्यर्थम्| ननु, इदं दर्शनं व्याधिहेतुवातादिसञ्चयाद्यर्थत्वात् प्राक् कर्तुं युज्यते| नैवं, तत्र वातादिहेतूनां रसानां निष्पत्तेस्तदेव दर्शनं प्राक् कृतं, अथवा ‘हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत्’- (सू. अ. ५) इत्यादिश्लोके शिशिरादीनामादौ निर्दिष्टत्वात्| ननु, प्रावृड्वर्षयोः को भेदः? उच्यते, प्रथमः प्रवृष्टेः कालः प्रावृड्, तस्यानुबन्धो वर्षाः| सञ्चयात् प्रकोपो बलवान्, तस्य चिकित्सितं संशोधनमित्यत्र वर्षादयो ऋतव उक्ताः, तथा चरकेऽपि रोगभिषग्जितीये विमाने संशोधनमधिकृत्य वर्षादयोऽभिहिताः| यद्यपि दोषसञ्चयादिनिमित्तं वर्षादयः कथिताः, तथाऽपि सञ्चयादिषु संशोधनं कार्यमित्यस्य प्राधान्यं; शिशिरादयस्तु रसं बलं चाधिकृत्योक्ताः, वर्षादयस्तु संशोधनमधिकृत्य सञ्चयाद्यर्थमिति तात्पर्यार्थः| अन्ये त्वन्यथा व्याख्यानयन्ति- गङ्गाया दक्षिणे देशे वर्षाद्यृतुविभागो ज्ञातव्य इति; अयमपि गयदासाचार्येण दूषितः||१०||
Adhikarana १० (११) · Śloka ११
तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः, ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति |
ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्याश्च, ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति |
ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च, ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः सञ्चयमापादयन्ति; स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान् व्याधीञ्जनयति |
एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ||११||
Show commentary
पित्तादीनां सञ्चयप्रकोपौ वर्षादिषु यथा सहेतुकौ भवतस्तथा निर्दिशन्नाह- तत्र वर्षास्वित्यादि| तत्र तेषु ऋतुषु मध्ये, ओषधयो गोधूमचणकशाल्यादयः, तरुण्यः अभिनवाः, अल्पवीर्या अल्पशक्तयः, ‘भवन्ति’ इत्यध्याहारः; अन्ये तु वीर्यशब्दं शीतोष्णाख्यवीर्यवाचिनं मन्यन्ते| ननु, वर्षासु गोधूमादयः पुरातना एव भवन्ति, कथमभिनवा इत्युच्यन्ते? नैष दोषः, गोधूमचणकशाल्यादयोऽन्तःसूक्ष्मजलप्रवेशान्म्रदिमानमुपगताः किञ्चित्तिरस्कृतशक्तयः प्ररोहधर्मिण्यः प्रोच्छूनतामुपगता अनवा अपि तरुण्य इत्युच्यन्ते, शाकादयस्तु नूतना एव प्रयुज्यन्ते| आपश्चाप्रशान्ता अपरिणताः, नवत्वात्; अप्रसन्नाः कलुषा इत्यन्ये; क्षितिमलप्रायाः पृथिव्यास्तृणपर्णोत्करशवकोथादिमलबहुलाः, अत्रापि ‘भवन्ति’ इत्यध्याहारः| ता उपयुज्यमाना इत्यादि| विदह्यन्ते अम्लपाकमुपयान्ति| कास्ताः? पूर्वोक्ता ओषधय आपश्च| किं क्रियमाणाः? उपयुज्यमानाः| केषामम्लपाकमुपयान्ति? देहिनां; किंविशिष्टानां? शीतवातविष्टम्भिताग्नीनां; शीतेन कुपितो वातः शीतवातः (शारीरः ), तेन मन्दवेगीकृताग्नीनां; न पुनर्बाह्येन शीतवातेन; यतस्तेन बहिर्लोमकूपरोधेनोष्मणोऽनिर्गमादन्तरग्नेर्बलमेधते| पुनः किम्भूतानां देहिनां? क्लिन्नदेहानां आर्द्रीभूतशरीराणाम्| कस्यां सत्यां? भूमौ| किंविशिष्टायां? जलप्रक्लिन्नायां; पानीयेन सुष्ठु स्तिमितायाम्| क्व सति? नभसि, आकाशे| किंविशिष्टे? मेघावतते, मेघव्याप्ते| विदाहात् अम्लपाकात्| पित्तसञ्चयमिति संहतिरूपा वृद्धिः सञ्चयः; स्वस्थानवृद्धिरित्यन्ये| सञ्चीयमानमपि पित्तमृतुशैत्यात्तस्मिन् काले न कुप्यति| स सञ्चय इत्यादि| स एव पित्तस्य वर्षाकालोपचितः सञ्चयः, शरद्यल्पमेघे आकाशे सूर्यरश्मिभिः प्रविलायितः सन् पित्तोद्भवान् व्याधीनुत्पादयति| ता एवेत्यादि ता एवौषधयः पूर्वोक्ताः| कालपरिणामात् कालपरिपाकात्| परिणतवीर्याः सञ्जातशक्तिकाः| बलवत्यो देहोपचयहेतवः, अन्यथा परिणतवीर्यबलवतोरेकार्थत्वात् पुनरुक्तिः स्यात्| आपश्च प्रशान्ताः स्वच्छाः; क्षितिमलापगमादित्यन्ये| ता इति पूर्वोक्ता ओषधय आपश्च| उपयुज्यमानाः खाद्यमानाः पीयमानाश्च| सतुषारपवनोपस्तम्भितदेहानामिति सतुषारपवनेन हिमार्द्रवातेनोपस्तम्भितान्याप्यायितानि देहानि शरीराणि येषां ते तथोक्ताः| ता ओषधय आपश्च किंविशिष्टाः? अविदग्धाः, मधुरपाकमुपगताः| ऋत्वादिस्वभावात् कफस्य सञ्चीयमानस्य हिमानीवशात्तदानीं स्त्यानतैव भवति न प्रकोपः| स सञ्चय इत्यादि| अर्करश्मिप्रविलायित इति स्त्यानघृतवद्विलयनमात्रं वसन्ते भवति, न तूपशोषणाख्यः प्रशमः, कस्मात्? अर्कस्य नातितीक्ष्णत्वाच्छ्लेष्मप्राचुर्याच्च| श्लैष्मिकान् व्याधीन् अन्नद्वेषहृदयोत्क्लेदादीन्| ता एवौषधय इत्यादि| निदाघे ग्रीष्मे| निःसाराः निर्गतसाराः , सारोऽत्र गौरवम्| रूक्षाः निःस्नेहाः| न केवलमोषधय एवंविधा भवन्ति आपश्च भवन्तीत्यर्थः| ता उपयुज्यमाना इत्यादि|- ता अनन्तरनिर्दिष्टा औषधयो रौक्ष्यलघुत्वाभ्यां हेतुभ्यां सूर्यप्रतापोपशोषितदेहानां देहिनां नॄणां वातसञ्चयमापादयन्तीति पिण्डार्थः| यद्यपि शीतस्य वायोरुष्णे ग्रीष्मे सञ्चयो न युज्यते , तथाऽपि वातगुणेषु सर्वेषु रौक्ष्यं प्रधानं, तेनौषधीनामत्यर्थरौक्ष्येण रूक्षस्य वायोर्ग्रीष्मे सञ्चयः स्यादित्यदोषः | स सञ्चयः प्रावृषीत्यादि| स वातसञ्चयः शीतवातवर्षेरितो वातिकान् व्याधीन् कोष्ठतोदसञ्चरणादीन् जनयति| क्व काले? प्रावृषि; केषां वातिकान् व्याधीन् जनयति? देहिनां; किंविशिष्टानां? क्लिन्नदेहानां; कस्यां सत्यां? भूमावत्यर्थं जलोपक्लिन्नायाम्| एवमेष इत्यादि| एवमनेन प्रकारेण, एष इति कालस्वभावकृतौषधितारुण्यादिर्यावच्छीतवातवर्षेरितो वातिकान् व्याधीञ्जनयतीति दोषाणां यौ सञ्चयप्रकोपौ तयोरयं हेतुरुक्तः| ननु, दोषोपचयप्रकोपोपशमनिमित्तमिति त्रयाणां चयादीनां प्रतिज्ञातत्वात् कथं सञ्चयप्रकोपौ व्याख्यायोपसंहारः? नैष दोषः, प्रकोपे हि संशोधनं कार्यं; तत्र यदि यथाप्रतिज्ञं त्रीन् प्रशमसहितान् व्याख्याति तदा प्रशमान्तरितः प्रकोपोपक्रमविधिः स्यात्; तस्मात् सञ्चयप्रकोपावेव तावत् पृथगाख्याति||११||
Adhikarana ११ (१२) · Śloka १२
तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् ||१२||
Show commentary
प्रकोपे यथावसरं संशोधनविधेरासञ्जनार्थं तमेव विधिं वक्तुमाह- तत्र वर्षेत्यादि| वर्षादिषु ये सञ्चिता दोषास्त एव यदा शरदादिषु प्रकुपिता भवन्ति तदा निर्हरणं कर्तव्यम्| निर्हरणमाकर्षणं वमनादिना| प्रकुपितानामिति प्रशब्दो बहुदोषाणामेव संशोधनमिति दर्शयति; मध्यदोषेषु पाचनादि, अल्पदोषेषु पुनर्लङ्घनपिपासानिग्रहादि यथर्तुविधिसमाचारश्चेति चकारो दर्शयति| ननु, वर्षादिषु शरदादिषु चयप्रकोपयोरनन्तरमेवोक्तत्वात् किमर्थमत्र वर्षाहेमन्तग्रीष्मेष्वित्यादिपाठः? प्रकुपितानां निर्हरणं कर्तव्यमित्येव वक्तुं युक्तम्| सत्यं, शरदादिष्वेव प्रकुपितानां निर्हरणं यथा स्यादन्यत्र माभूदिति नियमार्थं पुनः शरदादिग्रहणं; यदि पुनः शरदादिग्रहणं न क्रियेत, तदा ग्रीष्मादिषु हेतुबाहुल्यात् प्रकुपितेषु दोषेषु वमनादयो विधीयेरन्; न चैतदिष्यते, ग्रीष्मादिषु हि वमनादयो विधीयमाना व्यापदं मरणं वोत्पादयन्ति| प्रावृट्सु चेति चकारः संशोधनसाध्येष्वतिपातिषु रोगेषु ग्रीष्मादिष्वपि संशोधनं कर्तव्यमिति ज्ञापयति| वर्षादिषु सञ्चयस्य पूर्वमेवोक्तत्वात् पुनर्वर्षादिग्रहणं यथास्वमृतुविहित आहाराचाराख्यः स्वस्थवृत्तोदितो विधिः कर्तव्य इति सूचयति| शरदादीनामृतूनां द्वितीयमासे संशोधनं कर्तव्यम्; तत्र पित्तसंशोधनं मार्गशीर्षे, कफनिर्हरणं चैत्रे, वातस्य श्रावणे, एवं हि साधारणः कालः, त्रिमासान्तरिताश्च दोषा भवन्ति| तथा चाह- “ग्रीष्मादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत्”- इति||१२||
Adhikarana १२ (१३) · Śloka १३
तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदाघे, वातिकानां शरदि , स्वभावत एव; त एते सञ्चयप्रकोपोपशमा व्याख्याताः ||१३||
Show commentary
उपशमं व्याख्यातुकाम आह- तत्र पैत्तिकानामित्यादि| स्वभावतः स्वलक्षणतः, स्वलक्षणं पुनरेषां शीतोष्णवर्षादि| ननु, यदि कालस्वभावादेव दोषाणामुपशमस्तर्हि शास्त्रवैयर्थ्यं स्यात्; न च वैयर्थ्यं दृश्यते, तदुक्तविधानादप्युपशमदर्शनात्| सत्यमेतत्, दोषाणां स्वभावविनाशित्वेऽपि चयादिविसदृशसन्तानोत्पत्तौ शास्त्रं हेतुतया व्याप्रियमाणं नानर्थकं; विनाशकारणाभावेऽपि हि घटादीनां विसदृशकपाललक्षणोत्पादे मुद्गरादिहेत्वन्तरसाफल्यमस्ति||१३||
Adhikarana १३ (१४) · Śloka १४
तत्र, पूर्वाह्णे वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः , प्रदोषे वार्षिकं, शारदमर्धरात्रे, प्रत्युषसि हैमन्तमुपलक्षयेत्; एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् ||१४||
Show commentary
सांवत्सरिकं विधिं दिनेऽप्यतिदेष्टुमाह- तत्र पूर्वाह्ण इत्यादि| तत्रेति अहोरात्रे| शारदमर्धरात्र इति भूगोलाधःस्थितसूर्यत्वादर्धरात्रे शारदं लिङ्गमातपाभावेऽपि गोलकगणितविदो ज्योतिर्विदो मन्यन्ते; भिषजस्तु कालस्वभावादाहारवशाच्चेति| अहोरात्रमपि वर्षमिवेत्यादि|- शीतोष्णवर्षैर्ये दोषोपचयप्रकोपोपशमास्तैरहोरात्रमपि वर्षमिव जानीयादिति सम्बन्धः| एतेनाहोरात्रिके सञ्चयादावनागताबाधोक्तदन्तधावनादिप्रतीकारैर्निर्हरणं कर्तव्यमित्युक्तम्| ननु, प्रतिदिनं दोषाणां सञ्चयप्रकोपप्रशमेषु सत्सु कथमार्तवाः सञ्चयादयो भवन्ति, दिवसैरेवर्तूनामारब्धत्वात्, आह्निकचयकोपयोः प्रत्यहमेव प्रतीतत्वात्| सत्यम्, आह्निकौ चयप्रकोपावहोरात्रमाश्रित्य सोमसूर्यानिलानामुष्णादिगुणमात्रोत्पन्नत्वादल्पकारणौ, अल्पेनैवानागताबाधविधानेन शान्तिमुपयातः; ऋतुभवौ तु चयप्रकोपौ मार्गान्तरगतसोमसूर्यानिलकृतैर्द्रव्यरसगुणवीर्यविपाकप्रभावैर्निरन्तरोपचितत्वादहोरात्रमात्राश्रितार्कादिगुणादत्यन्तभिन्नैरारभ्यमाणौ महाकारणकौ महतैव संशोधनादिविधिना शान्तिं गच्छतः||१४||
Adhikarana १४ (१५) · Śloka १५
तत्र, अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च; ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ||१५||
Show commentary
सोऽयं दोषचयादिरव्यापन्नेषु ऋतुषु भवतीति दर्शयन्नाह- तत्राव्यापन्नेष्वित्यादि| प्राणा अग्नीषोमादयः, आयुः शरीरेन्द्रियसत्त्वात्ममनसां संयोगः, बलमुत्साहोपचयलक्षणं, वीर्यं शक्तिः, ओजः हृदयाश्रितं सप्तधातुस्नेहः||१५||
Adhikarana १५ (१६) · Śloka १६
तेषां पुनर्व्यापदोऽदृष्टकारिताः, शीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च ||१६||
Show commentary
कुतः पुनः ऋतूनां व्यापद इत्याह- तेषां पुनरित्यादि| तेषां ऋतूनाम्| व्यापदः शीतोष्णवातवर्षाणामेव वैपरीत्यम्| अदृष्टेन सर्वजनसामान्येनाधर्मेण, कारिताः कर्तुं प्रयोजिताः| शीतोष्णेत्यादि| विपरीतानि हीनमिथ्यातियुक्तानि| ओषधीरपश्च व्यापादयन्ति विरुद्धतां प्रापयन्ति| अन्ये तु शीतोष्णवातवर्षाणीत्यादिपाठमन्यथा कृत्वाऽऽपातनिकापूर्वं पठन्ति| तद्यथा- अधर्मस्तावद् व्यापदां सम्भवे प्रयोजकः कर्ता; कः पुनः स्वतन्त्रः कर्ता? इत्याह- शीतोष्णवर्षाणां वैपरीत्यमोषधीर्व्यापादयत्यपश्च||१६||
Adhikarana १६ (१७) · Śloka १७
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ||१७||
Show commentary
व्यापन्नानामोषधीनामपां चोपयोगाद्दोषं वक्तुमाह- तासामुपयोगादित्यादि||१७||
Adhikarana १७ (१८) · Śloka १८
तत्र, अव्यापन्नानामोषधीनामपां चोपयोगः ||१८||
Show commentary
ऋतुव्यापदां चिकित्सासूत्रं दर्शयन्नाह- तत्राव्यापन्नानामित्यादि| अव्यापन्नशब्द उभयत्र सम्बध्यते; तेन, अव्यापन्नाः पुराणा ओषधयः, आपश्चाव्यापन्नाः क्वथिताः| अन्ये तु ‘तत्राव्यापन्नानामोषधीनामपां चोपयोग’ इत्यत्र ‘तत्र पुराणाभिरोषधिभिरनुपहतवीर्याभिः क्रियाः कार्याः’ इत्यादिपाठं पठन्ति; स चात्यर्थमप्रसिद्ध इति न लिखितः||१८||
Adhikarana १८ (१९) · Śloka १९
कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जनपदाः, विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यते यो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते, ग्रहनक्षत्रचरितैर्वा, गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ||१९||
Show commentary
ऋतुव्यापद्भ्योऽन्यैरपि हेतुभिर्व्याधिसम्भवं दर्शयन्नाह- कदाचिदित्यादि| कदाचिन्न सर्वकालम्| कृत्या कुपितमन्त्रिणोऽभिचारकर्मजनितो राक्षसीविशेषः, अन्ये तु सर्वराष्ट्रच्छेद्यभिचारः, अभिचारस्त्वेकपुरुषव्यापादक एव; अभिशापो गुरुसिद्धादीनामाक्रोशः; रक्षांसि हिंसाविहाराणि हेतिप्रहेतिकुलजातानि, तेषां क्रधो रक्षःक्रोधः; अधर्मः कायवाङ्मनसां दुश्चरितम्| उपध्वस्यन्ते उपदूयन्ते| जनपदा लोकाः| विषौषधिपुष्पगन्धेनेत्यादि | विषाणामोषधीनां च यानि पुष्पाणि तेषां गन्धेन| किंविशिष्टेन? वायुनोपनीतेन वायुना समीपमानीतेन; तेन ये श्वासकासादयस्तैरुपतप्यन्ते जनपदाः| ओषधयः सुविलिन्दवृक्षादयः| अन्ये तु कासश्वासेत्यादिपाठमन्यथा पठन्ति- ‘कासश्वासप्रतिश्यायगन्धाज्ञानभ्रमशिरोरुग्ज्वरमसूरिकादिभिरुपतप्यन्ते’ इति, व्याख्यानयन्ति च- तत्र नासारन्ध्रानुगतेन वायुना कासश्वासप्रतिश्यायगन्धाज्ञानभ्रमशिरोरुजः, त्वगिन्द्रियगतेन ज्वरमसूरिकादयः| ग्रहनक्षत्रचरितैर्वेति ग्रहाणां शनैश्चरादीनां गर्हितस्थानस्थितानां प्रचारो ग्रहचरितं; नक्षत्राणि अश्विन्यादीनि, तेषां चरितमुल्कापातादिभिर्जन्मनक्षत्राभिहननम्| गृहदारेत्यादि गृहादीनां यानि गर्हितानि निन्दितानि लक्षणानि चिह्नानि तन्निमित्तं प्रादुर्भाव उत्पत्तिर्येषां व्याधीनां तैर्वा उपतप्यन्ते जनपदाः, दारा भार्याः, शयनं खट्वा, आसनं पीठं, यानं दोलारथादि, वाहनं हस्त्यश्वादि, मणिः स्फटिकादिः; गृहादयो मणिपर्यन्तास्त एव रत्नानीति समासः, अन्यथा मणिरत्नयोरेकार्थत्वात् पुनरुक्तता स्यात्; अन्ये तु मणयः सर्पादीनां प्रशस्तावयवविशेषाः, रत्नानि माणिक्यादीनि, उपकरणानि घटपिठरशूर्पादीनि; अथवा गृहादीन्येवोपकरणानि| अन्ये तु गृहदारेत्यादिगद्ये गृहदारशब्दौ निमित्तशब्दं च परित्यज्य ‘शयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणप्रादुर्भावैर्वा’ इति पठन्ति||१९||
Adhikarana १९ (२०) · Śloka २०
तत्र, स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियम- दयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यम्, एवं साधु भवति ||२०||
Show commentary
इदानीमृतुव्यापदादिकृतानां रोगाणां सामान्येन चिकित्सां दर्शयन्नाह- तत्र स्थानेत्यादि| ऋतुकोपस्याधर्मकारित्वात्तत्र दैवव्यपाश्रयं भेषजम्| शान्तिरिन्द्रियविजयः, अथवा वेदोक्तमन्त्रैर्यजनादिकं; प्रायश्चित्तं प्राक्तनकर्मोपशमार्थं स्मार्तवचनेन चान्द्रायणादि, अथवा “प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते| तपोनिश्चियसंयुक्तं प्रायश्चित्तमिति स्मृतम्”- इति; मङ्गलं प्रशस्तौषधमणिधारणादि; जप ओङ्कारपूर्वकमृग्यजुःसामावर्तनं; होमो लक्षकोटिप्रयुतोपलक्षितः; उपहारः देवादिषु गवाश्वप्रभृतीनामुपा(न)यनम्, अन्ये उपहारो देवतानां सपशुर्बलिः; इज्या यागः; अञ्जलिः भक्त्या करसम्पुटविधानं; नमस्कारो देवद्विजगुरुभ्यः कायवाङ्मानसः प्रणामः; तपः तापनालक्षणमुपवासादि; नियमः शास्त्रोदितो विधिर्मौनादिः, दया प्राणिषु कृपा; दानं यथाविभवं वित्तविसर्गः; दीक्षा गुरुतो मन्त्रादिग्रहणं; अभ्युपगमः गुरुवाक्यादीनामङ्गीकारः; परशब्दः स्थानपरित्यागादिभिः प्रत्येकं सम्बध्यते| एवं साधु भवति एवं कुशलं भवतीत्यर्थः||२०||
Adhikarana २० (२१) · Śloka २१
अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ||२१||
Show commentary
अत ऊर्ध्वमित्यादि| अव्यापन्नाः प्रसन्नाः||२१||
Adhikarana २१ (२२-२३) · Śloka २३
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः |
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः ||२२||
दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः |
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ||२३||
Show commentary
ऋतुप्रकोपे हि पूर्वं शान्त्यादिकमुक्तम्, अधुना प्रसन्नर्तुलक्षणान्याह- वायुर्वात्युत्तर इत्यादि| तत्र षडृतुषु मध्ये, हेमन्ते उत्तरदिशो जातत्वादुत्तरो वायुर्वाति वहति| रजः धूलिः; आकुला व्याप्ताः| हिमानद्धा हिमसम्बद्धाः| दर्पिता हर्षिताः| ध्वाङ्क्षः काकः, खङ्गः गण्डकः, उरभ्रो मेषः| पुन्नाग इति नागकेशरम् | हिमसाह्वये हेमन्ते||२२-२३||
Adhikarana २२ (२४) · Śloka २४
शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः |
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ||२४||
Show commentary
प्रसन्नशिशिरर्तुलक्षणमाह- शिशिर इत्यादि| वातवृष्ट्येति वातेन मिश्रिता वृष्टिर्वातवृष्टिः||२४||
Adhikarana २३ (२५-२८) · Śloka २८
सिद्धविद्याधरवधूचरणालक्तकाङ्किते |
मलये चन्दनलतापरिष्वङ्गाधिवासिते ||२५||
वाति कामिजनानन्दजननोऽनङ्गदीपनः |
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ||२६||
दिशो वसन्ते विमलाः काननैरुपशोभिताः |
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ||२७||
कोकिलाषट्पदगणैरुपगीता मनोहराः |
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ||२८||
Show commentary
अधुना वसन्तलक्षणमाह- सिद्धेत्यादि| वसन्ते दक्षिणदिशो जातत्वान्मलयपर्वतस्थितचन्दनसुरभिर्दक्षिणो वायुर्वाति| अन्यदपि वसन्तलक्षणमाह- दिशो वसन्त इत्यादि| वसन्ते दिशो विमला रजोधूमादिवर्जितत्वान्निर्मला भवन्ति| दिश एव च किंशुकादिवृक्षपुष्पितैः काननैरुपशोभिता भूषिता भवन्ति| ता एव दिशः कोकिलाषट्पदगणौरुपगीता मधुरध्वनियुक्ता भवन्ति| दक्षिणानिलसंवीता दक्षिणवातेनावृता दिश इत्यर्थः| सुमुखाः शोभनावकाशाः| पल्लवोज्जवलाः पल्लवैः कृत्वा शृङ्गारिताः||२५-२८||
Adhikarana २४ (२९-३०) · Śloka ३०
ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः |
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ||२९||
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः |
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ||३०||
Show commentary
अव्यापन्नग्रीष्मर्तुलक्षणमाह- ग्रीष्म इत्यादि| असुख इति ग्रीष्मे हि नैरृतो वायुरसुखप्रदो भवति| तन्व्यः अल्पप्रवाहाः| भ्रान्तचक्राह्वयुगला इति जलाशयान्वेषितया भ्रान्तचक्रवाकयुगला दिशो भवन्ति| पयःपानाकुला इति उदकपानाय व्यग्रा मृगा भवन्ति| ध्वस्तवीरुत्तृणलता इति वीरुधः विटपाः, तृणानि प्रसिद्धानि, लता वल्ली, एते वीरुदादयो ध्वस्ता अधःपतिता भवन्ति| विपर्णाङ्कितपादपा इति विपर्णैर्विगलितपत्रैः, अङ्किताश्चिह्निताः, पादपा वृक्षा भवन्ति||२९-३०||
Adhikarana २५ (३१-३२) · Śloka ३२
प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः |
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ||३१||
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही |
कदम्बनीपकुटजसर्जकेतकभूषिता ||३२||
Show commentary
अव्यापन्नप्रावृडृतुलक्षणमाह- प्रावृषीत्यादि| पश्चिमानिलकर्षितैरम्बुदैरम्बरमाकाशं प्रावृषि आनद्धमाच्छादितं भवति| कथम्भूतैरम्बुदैरित्याह- विद्युदुद्द्योतेत्यादि|- विद्युदुद्द्योतेन सह प्रस्रुतैः क्षरितैः, तुमुलस्वनैः प्रचण्डगर्जितैः| मही च प्रावृषि कथम्भूता भवतीत्याह- कोमलेत्यादि|- शष्पं बालतृणम्, आढ्या समृद्धा| शक्रगोपः इन्द्रवधूः, अन्ये ज्योतिरिङ्गणमाहुः| नीपो धूलीकदम्बः||३१-३२||
Adhikarana २६ (३३-३४) · Śloka ३४
तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः |
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ||३३||
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता |
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ||३४||
Show commentary
अव्यापन्नवर्षालक्षणमाह- तत्र वर्षास्वित्यादि|- वर्षासु अम्भसा पानीयेन छन्ना उत्खाततटद्रुमाश्च नद्यो भवन्ति| सोपानसहिताः कूपविशेषाः वाप्यः| भूरव्यक्तस्थलश्वभ्रेति भूमिश्च अदृश्यस्थलगर्ता भवति| नातिगर्जदित्यादि अतिगर्जितवर्जितं पर्जन्यो योऽसौ मेघस्तेन निरुद्धार्कग्रहं नभो भवति||३३-३४||
Adhikarana २७ (३५-३६) · Śloka ३६
बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः |
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ||३५||
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः |
बाणसप्ताह्वबन्धूककाशासनविराजिता ||३६||
Show commentary
शरल्लक्षणमाह- बभ्रुरित्यादि|- बभ्रुः कपिलपिङ्गलः| श्वेताभ्रविमलं नभ इति नभ आकाशं, श्वेताभ्रं विमलं च भवति| हंसांसघट्टितैरिति हंसस्कन्धचालितैः| पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूरिति निम्नादिषु प्रदेशेषु यथासङ्ख्यं पङ्कादिकीर्णा भवति; द्रुमाश्च वल्मीककारिण्यः सूक्ष्माः पिपीलिकाः| बाणेत्यादि बाणः सहचरः, सप्ताह्वः सप्तपर्णः, बन्धूकः बन्धुजीवकः, ‘वादुली’ इति लोके| “मत्स्याम्लभोजिनः प्राच्या नित्यं चानूपसेविनः| श्लीपदं गलगण्डाश्च प्रायस्तेषु भवन्ति हि|| निम्नतोयगतान् मत्स्यान् भक्षयन्ति समुद्रजान्| प्रायशः कुष्ठिनस्तेन मनुष्या दक्षिणापथे|| तैलाम्लभोजिनो नित्यं गोधूमविदलाशिनः| भूयिष्ठमर्शसास्तेन खञ्जाश्चावन्तिजा नराः|| मांसकामाः सुराकामाः स्त्रीकामाः साहसे रताः| मागधास्तेन भूयिष्ठं दृश्यन्ते राजयक्ष्मिणः|| तीक्ष्णान्यन्नानि सेवन्ते बाह्लीकास्तु विशेषतः| अभिष्यन्दीनि मांसानि तथा धान्योदकानि च|| प्रकृत्या चाप्यभिष्यण्णाः सेवन्ते मानवाः सदा| तेन बाह्लीकदेशेषु प्रायो व्याधिर्बलासकः|| नानादेशस्वभावा ये नानाहारास्तथैव च| नानाचारा नैकसत्त्वा धर्मिणोऽधर्मिणस्तथा| तेषां सात्म्यं च सत्त्वं च ऋतुकालं च लक्षयेत्| भैषज्यं तु ततः कुर्याद्देहं विज्ञाय देहिनाम्|| यस्य देशस्य यत्सात्म्यं यच्चास्य चरितं भवेत्| तेन भेषजसंयुक्तं भैषज्यमुपकल्पयेत्|| आरोग्यं तेन वर्णौजो बलं वीर्यं च जायते| वर्जनादृतुसात्म्यानां कृशो नित्यं सुदुर्बलः|| नित्यं रोगाभिभूतश्च पुमान् सात्म्यविवर्जनात्|| तस्मात् सात्म्यं निषेवेत ह्यसात्म्यं परिवर्जयेत्|| सात्म्यसेवी जितक्रोधो नित्यं चापि जितेन्द्रियः|| जीर्णभोजी मितस्वप्नः सुखं जीवत्यनामयः|| ऋतवः प्राग्विनिर्दिष्टा बलयोगस्वभावतः| तेषु गर्भा निषिक्तास्तु तथारूपास्तथायुषः| तान् विज्ञाय ततो बुद्ध्या प्रशस्तान्निन्दितानपि|| ततोऽस्याहारसंयुक्तं भेषजं चावचारयेत्| ततोऽस्यारोगता देहे बलं वीर्यं च वर्धते” इति||३५-३६||
Adhikarana २८ (३७) · Śloka ३७
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः |
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ||३७||
Show commentary
इदानीमध्यायपरिसमाप्तौ व्यापत्सङ्ग्रहश्लोकः- स्वगुणैरित्यादि| स्वगुणैरतियुक्तेष्विति स्वगुणा ऋतूनामनन्तरोक्ताः, तैरतियुक्तेषु अतिशययुक्तेषु ऋतुषु, दोषा देहिनां कुप्यन्तीति सर्वत्र सम्बन्धनीयम्; अथवा ऋतूनां स्वगुणाः शीतोष्णवर्षाणि, तैरतियुक्तेषु| विपरीतेष्विति मन्दशीतादियुक्तेषु, अन्ये तु शीते उष्णम्, उष्णे शीतं, वर्षास्ववृष्टिरिति ऋतुवैपरीत्यमाहुः| विषमेष्वपीति वैषम्यं पुनः ऋतूनां वर्षालिङ्गं शरदि, शरलिङ्गं हेमन्ते, अन्यर्तुलिङ्गमन्यस्मिन्; एवमनुलोमविलोमाभ्यां शेषमृतुवैषम्यमुदाहार्यम्; अन्ये तु, ऋतूनां यथोक्तलिङ्गानामेकस्मिन्नृतौ सर्वेषां लिङ्गानां भावोऽभावश्चेति वैषम्यमाहुः| एतेन स्वगुणातियोगादृतूनां षड् व्यापत्तयः, विपरीतेषु षड्, विषमेषु च षडेव; इति ऋतूनामष्टादश व्यापत्तय उक्ताः||३७||
Adhikarana २९ (३८) · Śloka ३८
हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् |
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ||३८||
Show commentary
हरेद्वसन्ते श्लेष्माणमित्यादि सुगमम्||३८||
Adhikarana पुष्पिका · Śloka ६
इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ||६||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने ऋतुचर्याध्यायः षष्ठः||६||