Adhikarana १ (१-२) · Śloka २
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
अथात इत्यादि| आमशब्दात् पच्यमानोऽप्यत्र बोद्धव्यः| आमश्च पच्यमानश्च पक्वश्च तेषामेषणं विज्ञानं तद्विद्यते यस्मिन्नध्याये तं तथा||१-२||
Adhikarana २ (३) · Śloka ३
शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिहिता अनेकाकृतयः, तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्मांसस्थायी दोषसङ्घातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ||३||
Show commentary
शोफसमुत्थाना इत्यादि| शोफसमुत्थाना इति शोथकारणाः, ‘शोफस्येव समुत्थानं येषाम्’ इत्यन्ये| प्रायेणेति बाहुल्येन, कदाचिद्भिन्नसमुत्थाना अपि भवन्ति| तैर्विलक्षण इति तेभ्यो ग्रन्थ्यादिभ्यो व्याधिभ्यः पृथगित्यर्थः; ‘तैर्ग्रन्थ्यादिव्याधिभिः कृत्वा विलक्षणो नानाप्रकारः’ इत्यन्ये| पृथुर्विस्तीर्णः| ग्रथितो ग्रन्थिरिवोन्नतः, ‘जातबहुग्रन्थिः’ इत्यन्ये| समः समसंस्थानः, विषमो वेति विषमसंस्थानो वा, एतेन व्रणशोफस्याकृतेरनियम उक्तः| त्वङ्मांसस्थायीति एतत्तु प्रायेण, कुतः? शेषव्रणवस्तुष्वपि व्रणशोफस्य सम्भवात्| दोषसङ्घात इति एकस्य द्वयोर्बहूनां वा दोषाणां सङ्घातो दोषसङ्घातः; सङ्घात उच्छ्रायः| शरीरैकदेशोत्थित इति एतेन सर्वसराद्भिन्नत्वं प्रतिपादयति||३||
Adhikarana ३ (४) · Śloka ४
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः |
तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः |
तत्र, वातशोफः कृष्णोऽरुणो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति; पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति; श्लेष्मश्वयथुः पाण्डुः कठिनः स्निग्धः शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति; सर्ववर्णवेदनः सन्निपातश्वयथुः; पित्तवच्छोणितजोऽतिकृष्णश्च; पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ||४||
Show commentary
स इत्यादि| तस्य व्रणशोफस्य| दोषरूपव्यञ्जनैरिति वातादिरूपैर्वातादिलक्षणैश्चेत्यर्थः; ‘दोषरूपव्यञ्जनैः दोषाणां वातादीनां रूपाण्याकृतयो व्यज्यन्त एभिरिति व्यञ्जनानि’ इत्यन्ये| तत्रेत्यादि| अनवस्थितः चलः| तोदादयश्चेति आदिशब्दाद्भेदनच्छेदनादयः| पित्तशोफ इत्यादि| ओषादयश्चेति आदिशब्दाच्चोषपरिदाहधूमायनानि गृह्यन्ते| श्लेष्मशोफः पाण्डुरित्यादि| कण्ड्वादयश्चेति आदिशब्दाद्गुरुत्वसुप्तत्वादयः| आगन्तुरिति पतनपीडनादिकृतः||४||
Adhikarana ४ (५) · Śloka ५
स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशमयितुं क्रियाविपर्ययाद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति |
तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय- |
तत्र, मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं; सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिः, ताभिश्च संसर्प्यत इव, छिद्यत इव शस्त्रेण, भिद्यत इव शक्तिभिः, ताड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्यत इव चाङ्गुल्या, दह्यते पच्यत इव चाग्निक्षाराभ्याम्, ओषचोषपरीदाहाश्च भवन्ति, वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति, आध्मातबस्तिरिवाततश्च शोफो भवति , त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं; वेदनोपशान्तिः पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं, बस्ताविवोदकसञ्चरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते, मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् |
कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति; तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च घनता, न मोहमुपेयादिति ||५||
Show commentary
स यदेत्यादि| बाह्याभ्यन्तरैरिति बाह्या आलेपनादयः, आभ्यन्तराः क्वाथपानवमनविरेचनादयः, तैः प्रशमयितुं न सम्भावितो न पारितः, ‘न प्राप्तः’ इत्यन्ये| क्रियाविपर्ययादिति अतर्पणादीनामन्यथाभावात्| हेत्वन्तरमाह- बहुत्वाद्वा दोषाणामिति|- न हि बहुदोषा विकाराः शोणितावसेकादिभिरेव प्रशमं यान्ति; यदुक्तम्- “आलेपनस्रावणशोधनैश्च सम्यक्प्रयुक्तैर्यदि नोपशाम्येत्”- इति| तत्रेत्यादि| स्थैर्यं काठिन्यम्| सूचीभिरिवेत्यादि| निस्तुद्यते भृशं व्यथ्यते, निःशब्दोऽत्र भृशार्थे| ताभिः पिपीलिकाभिः| छिद्यत इव द्विधा क्रियत इव| भिद्यते विदार्यत इव| शक्तिरायुधविशेषः| ताड्यते आहन्यत इव| दण्डो लगुडः| घट्यते चाल्यत इव| दह्यते पच्यत इव च क्षाराग्निभ्यामिति यथासङ्ख्यं व्याख्येयं, तेन दह्यते भस्मसात् क्रियत इवाग्निना, पच्यते अङ्गारतापैरुपतप्यत इव क्षारेण| ओष एकदेशिको दाहः, चोषः चूष्यत इव वेदनाविशेषः| परि समन्ताद्दाहः परिदाहः| आततः त्वक्सङ्कोचरहितः| वेदनोपशान्तिरित्यादि| त्वक्परिपुटनं त्वच उच्चटनम्| प्रत्युन्नमनम् आभिमुख्येनोर्ध्वं नमनम्| बस्ताविवेत्यादि| यथा बस्तावुदकसञ्चरणं भवति तद्वद्वैद्ये एकमन्तमवयवं प्रपीडयति सति पूयस्य सञ्चरणं शोफे भवतीत्यर्थः| मुहुर्मुहुस्तोदो वातवेदना; कण्डूः श्लेष्मवेदना; पक्वशोथे विदाहापगमेन पित्ताभावात्तल्लिङ्गाभावः| उन्नतता व्याधेः उन्नतशोफः| उपद्रवा ओषपरिदाहादयः| कफजेष्वित्यादि| कफजेषु रोगेष्विति रोगोऽत्र शोफः| तत्र विषये कफजेष्वतिगम्भीरगतित्वात्, अभिघातजेषु वा केषुचिद्दूरानुप्रविष्टशल्यादिहेतुत्वात्| तत्र हि त्वक्सवर्णतेत्यादि| तत्रेति कफजेऽभिघातजे च शोफे| त्वक्सवर्णता न तु त्वग्वैवर्ण्यं, गम्भीरगतित्वादन्तःपाकः, बहिः पुनस्त्वक्सावर्ण्यमेव| शीतशोफता बहिः, अन्तः पुनरुष्णत्वं, गम्भीरगतित्वात् कफारब्धत्वाच्च| अल्परुजता कफारब्धत्वात्| अश्मवद्घनता शिलावत् काठिन्यं, कफारब्धत्वादबहिःपाकत्वाच्चेति| न मोहमुपेयादिति न तत्र मोहं गच्छेत्, एभिः पक्वलक्षणैः पक्वमेव जानीयादित्यर्थः| ‘न मोहमुपेयाद्यतस्तं रक्तपाकमाचक्षते वृद्धाः’ इत्यन्ये||५||
Adhikarana ५ (६) · Śloka ६
भवन्ति चात्र- आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् |
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||६||
Show commentary
आमादिलक्षणज्ञाने गुणमज्ञाने दोषं च दर्शयन्नाह- आममित्यादि| शेषा अन्ये आमादिज्ञानवर्जिताः| तस्कराश्चौराः, तेषामिव वृत्तिर्येषां, प्राणधनापहारित्वात्||६||
Adhikarana ६ (७-८) · Śloka ८
वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः |
तस्मात् समस्तान् परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ||७||
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य |
पचत्यतः शोणितमेव पाको मतोऽपरेषां विदुषां द्वितीयः ||८||
Show commentary
एकदोषारब्धा अपि पाककाले सर्वदोषाश्लिष्टा भवन्तीत्याह- वातादित्यादि| ऋतेशब्दः कफाच्चेत्यत्रापि सम्बध्यते| ‘त्रिभिरेव शोणितचतुर्थैः शरीरमिदं धार्यते’ (सू. अ. २१) इति द्वितीयं दर्शनं दर्शयन्नाह- कालान्तरेणेत्यादि| कालान्तरेणेति अन्तरशब्दोऽत्रावधिवाची, प्रकोपप्रसरस्थानसंश्रयकालावधिना| अभ्युदितं तु पित्तमिति समन्ततो भावेन पुनरुद्गतं पित्तं, कृत्वा वशे वातकफौ वातश्लेष्माणौ हीनौ कृत्वा, प्रसह्य बलात्कारेण वशे कृत्वा, ‘क्रोडीकृत्य’ इत्यन्ये| मतः सम्मतः||७-८||
Adhikarana ७ (९) · Śloka ९
तत्र, आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमनेकोपद्रवदर्शनं क्षतविद्रधिर्वा भवति |
स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ||९||
Show commentary
आमं न छिन्द्यात् पक्वं नोपेक्षेतेति दर्शयन्नाह- तत्रेत्यादि | आमच्छेदे इति आमशब्दात् पच्यमानस्यापि ग्रहणात्तत्राप्येते दोषाः| व्यापादनं हिंसनम्| अवदरणं विदरणम्| क्षतविद्रधिः ‘तैस्तैर्भावैरभिहते क्षते वा’ (नि. अ. ९) इत्यादिविद्रधिनिदानोक्तः| स यदेत्यादि| मोहः अज्ञानम्| चिरं प्रभूतकालम्| गम्भीरानुगतः दूरानुप्रविष्टः| उत्सङ्ग इवोत्सङ्गः, व्रणाशये हि चिरकालं पूयावस्थानेनावदारितमन्तःप्रदेशान्तरं निम्नमुत्सङ्गतुल्यत्वात् ‘उत्सङ्ग’ इत्युच्यते; ‘उत् ऊर्ध्वं पूयस्य सङ्ग उत्सङ्गः’ इत्यन्ये| अवकाशम् अन्तरालम्||९||
Adhikarana ८ (१०) · Śloka १०
भवति चात्र- यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते |
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१०||
Show commentary
अस्यैवार्थस्य निन्दार्थवादपरं श्लोकमाह- यश्छिनत्त्याममित्यादि| पक्वं शोफं शस्त्रकर्मार्हम्| श्वपचाविव चण्डालाविव| मन्तव्यौ ज्ञातव्यौ| तौ द्वौ| अनिश्चितकारिणौ आमच्छेदनपक्वोपेक्षणात्; अने तु ‘तौ नरौ श्वपचतुल्यावातुरव्यापादनात्| तद्व्यापादनं तौ कुतो विधत इत्याह- अनिश्चितकारिणौ यतोऽसमीक्ष्य विधायिनौ वैद्यौ’||१०||
Adhikarana ९ (११-१३) · Śloka १३
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् |
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः ||११||
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते |
तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि ||१२||
प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वितः |
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ||१३||
Show commentary
पक्वे शोफे शस्त्रकर्मार्हे पूर्वकर्माह- प्रागित्यादि| इष्टं हितं हितकारि; अन्ये त्विष्टमभिप्रेतमपथ्यमपि तद्बलाधानार्थं भोजयेत्| यो वेदनां न सहते तं तीक्ष्णं मद्यं पाययेत् परं मद्यपम्| अस्यैव च फलमाह- न मूर्च्छत्यन्नसंयोगादित्यादि| शस्त्रं न बुध्यते शस्त्रवेदनां न जानातीत्यर्थः| रोगेषूक्तेष्विति मूढगर्भोदरार्शोश्मर्यादिवर्जितेषु, कर्मणि शस्त्रप्रयोगे प्राप्ते, अवश्यं ध्रुवं भोक्तव्यम्| कस्मादुक्तेषु रोगेषु भोजयेदित्याह- प्राण इत्यादि|- प्राणो ह्याभ्यतर इति अत्राभ्यन्तरः प्राणो बलं, तच्चौजोजनितं भारहरणादिशक्तिलक्षणम्| बाह्यप्राणगुणान्वित इति बाह्यप्राणोऽत्र बाह्यं बलमुपचयलक्षणं पाञ्चभौतिकाहारजनितं, गुणाः शरीरदार्ढ्यादिकाः, तैरन्वितः संयुक्तः सन्नाभ्यन्तरः प्राणः शक्तिलक्षणः शरीरं धारयतीत्यर्थः| अन्ये त्वन्यथा व्याख्यानयन्ति- प्राणो ह्याभ्यन्तर इति; ‘सम्पन्नो यवः’ इतिवज्जातिविवक्षयेहैकवचनं, तेनात्राग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेत्याभ्यन्तराः प्राणाः, बाह्यप्राणा आग्नेयसौम्यवायव्यद्रव्याणि दिवसो वायू रात्रिः शब्दस्पर्शरूपरसगन्धाश्चेति, तेषां गुणाः, तैरन्वितोऽनुगतः सन्नाभ्यन्तरः प्राणः शरीरं धारयतीत्यर्थः| तत्र बाह्यप्राणस्यग्नेर्गुणैः कट्वम्ललवणादिभिरनुगतः सन्नन्तरग्निः शरीरं धारयतीत्यादिना बाह्यप्राणगुणानुगतत्वेनाभ्यन्तरप्राणस्य शरीरधारकत्वं दर्शयन्ति, अस्माभिस्तु विस्तरभयान्न दर्शितम्| लक्ष्मणटिप्पणकारस्तु- आभ्यन्तरः प्राणोऽग्नीषोमादिः, येन प्राणी जीवति, बाह्यप्राणोऽन्नं, तद्गुणाः प्रीणनादयः, तैरन्वितः सन्नाभ्यान्तरः प्राणः शरीरं धारयतीत्यर्थः||११-१३||
Adhikarana १० (१४) · Śloka १४
अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः |
विशालमूलो विषमं विदग्धः स कृच्छ्रतां यात्यवगाढदोषः ||१४||
Show commentary
महति शोफेऽल्पे वाऽप्रतिक्रियमाणे सति बहुं दोषमाह,- अल्प इत्यादि| विषमं विदग्ध इति विषमविदाहो विषमपाक इत्यर्थः| अवगाढदोष इति आभ्यन्तरपूय इत्यर्थः| ‘यो ह्युत्थितोऽल्पो यदि वा महान् वा क्रियां विना पाकमुपैति शोथः’ इति केचित् पठन्ति||१४||
Adhikarana ११ (१५) · Śloka १५
आलेपविस्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् |
पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् ||१५||
Show commentary
शोफानामालेपनादिक्रियासमूहावचारणेऽपि पक्वानामुपक्रमसाफल्यं दर्शयन्नाह,- आलेपनेत्यादि| पच्येत शीघ्रं सममिति एतेन समपाकत्वमुक्तं, स शोफः, पिण्डितो वर्तुलीभवति ||१५||
Adhikarana १२ (१६) · Śloka १६
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य |
तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१६||
Show commentary
पक्वस्याप्युपेक्षणे शोफस्य प्रागुक्तमेव दोषं दृष्टान्तेन दर्शयन्नाह- कक्षमित्यादि| कक्षस्तृणादिबहुलः प्रदेशः| इहेति पक्वशोफे||१६||
Adhikarana १३ (१७-१८) · Śloka १८
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् |
तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् ||१७||
पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते |
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ||१८||
Show commentary
व्रणस्य षष्टेरुपक्रमाणां सूत्रस्थाने सूत्रणार्थं विम्लापनादीनुपक्रमान्निर्दिशन्नाह- आदावित्यादि| आदौ विम्लापनमङ्गुल्यादिमर्दनेन शोफविलयनम्| अवसेचनं जलौकादिभी रक्तविस्रावणम्| उपनाहो बन्धनं पाचनाय| वैकृतापहमिति सवर्णकरणरोमसञ्जननादि| अन्ये त्वन्यथाऽऽपातनिकां गृह्णन्त्यन्यथैव च व्याख्यानयन्ति- तत्र व्रणस्य षष्टेरुपक्रमाणां सुखबोधार्थं लक्षणान्तरेण सप्तत्वं दर्शयन्नाह,- आदावित्यादि| विम्लापनशब्दोऽत्र बहिःप्रमार्जने शोफविलयनकरे लेपपरिषेकाभ्यङ्गस्वेदादौ वर्तते, न तु मन्दवेदनस्य स्निग्धस्विन्नस्य शोफस्य द्विव्रणीयपठितवेणुनालाङ्गुष्ठादिमर्दने| अवसेचनं विस्रावणम्, अवसेचनशब्दोऽप्यत्र वमनविरेकशोणितविस्रावणाद्यन्तर्बहिःप्रमार्जने वर्तते, न तु केवल एव विस्रावणे| एवं शेषेष्वप्युपक्रमेषूपक्रमान्तराणि समानेषु समानान्यन्तर्भाव्यानि||१७-१८||
Adhikarana पुष्पिका · Śloka १७
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्यायः ||१७||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाव्याख्यां सुश्रुतव्याख्यायां सूत्रस्थाने सप्तदशोऽध्यायः||१७||