Skip to content

. शरीरसंख्याव्याकरणशारीरम्

Adhikarana १ (१-२) · Śloka

अथातः शरीरसङ्ख्याव्याकरणं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Show commentary

गर्भव्याकरणानन्तरमुत्पन्नस्य गर्भस्य सञ्जाताङ्गप्रत्यङ्गतया लब्धशरीरसञ्ज्ञस्य शरीरावयवानां सङ्ख्या कर्तुं युज्यत इत्याह- अथात इत्यादि| पञ्चमहाभूतशरीरिसमवायः शरीरमुक्तं, तस्यावयवशः सङ्ख्या, तस्या व्याकरणं विवरणं यत्र शारीरे तद्व्याख्यास्यामः; अथवा शरीरशब्दोऽयं समुदायवृत्तिरवयवेष्वपि वर्तते, तेषां सङ्ख्या; शेषं पूर्ववत्||१-२||

Adhikarana २ (३) · Śloka

शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्मूर्च्छितं ‘गर्भ’ इत्युच्यते | तं चेतनावस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं विवर्धयति; एवं विवर्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा ‘शरीरं’ इति सञ्ज्ञां लभते | तच्च षडङ्गं- शाखाश्चतस्रो, मध्यं पञ्चमं, षष्ठं शिर इति ||३||

🔊 Audio coming soon

Show commentary

तत्र शरीरावयवसङ्ख्याविवरणं प्रतिपादयितुकामः शरीरशब्दव्यपदेश्यमेव तावत् क्रमेणाह- शुक्रशोणितमित्यादि| आत्मप्रकृतिविकारसम्मूर्च्छितमिति आत्मा क्षेत्रज्ञः, प्रकृतयः प्रधानादयोऽष्टौ, विकाराः पञ्चभूतान्येकादशेन्द्रियाणि चेति षोडश, तैः सम्मूर्च्छितं मिश्रीभूतं ‘गर्भ’ इति सञ्ज्ञां लभते; एतेन योगिनामुपयोगी पञ्चविंशतिको राशिरुक्तः| तमिदानीं भिषजामुपयोगिनं षड्धातुकं कृत्वा निर्दिशन्नाह- तमित्यादि| चेतनया हेतुभूतया यावद्गर्भप्रसवकालमवस्थितं चेतनावस्थितम्, अन्यथा कुथितविशीर्णं स्यात्| तं वायुर्विभजति दोषधातुमलाङ्गप्रत्यङ्गविभागेन; तेज एनं पचति रूपाद्रूपान्तरेणावस्थानं प्रापयति; आपः क्लेदयन्ति विभागपरिणामकारिणोरनिलानलयोः शोषणेऽप्यार्द्रतां जनयन्ति; पृथिवी संहन्ति अद्भिः क्लिन्नमपि कठिनं मूर्तिमत् करोति; ‘संहरति’ इत्यन्ये पठन्ति; तन्न, सम्पूर्वस्य हृञो विनाशार्थत्वात्; आकाशं विवर्धयति अनिलानलविदारितस्रोतसामाध्मापनेनोर्ध्वमधस्तिर्यग्विवर्धितमवकाशदानेन विवर्धयति| मध्यमिदं कण्ठादिगुदपर्यन्तम्||३||

Adhikarana ३ (४) · Śloka

अतः परं प्रत्यङ्गानि वक्ष्यन्ते- मस्तकोदरपृष्ठनाभिललाटनासाचिबुकबस्तिग्रीवा इत्येता एकैकाः, कर्णनेत्रभ्रूशङ्खांसगण्डकक्षस्तनवङ्क्षणवृषणपार्श्वस्फिग्जानुकूर्परबाहूरुप्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः, स्रोतांसि वक्ष्यमाणानि , एष प्रत्यङ्गविभाग उक्तः ||४||

🔊 Audio coming soon

Show commentary

अपरमप्यवयवविभागं सङ्ख्याश्रयं शरीरे निर्दिशन्नाह- अतः परमित्यादि| अंसो बाहुशिरः, गण्डो गल्लः, स्फिक् पादः, ऊरू ‘जाङ्घ’ इति लोके| बाहूरुप्रभृतयो द्वे द्वे इत्यत्र प्रभृतिग्रहणाच्चौष्ठसृक्कणीकुकुन्दराणामवरोधः | ननु स्रोतांसि प्रत्यङ्गेषु किमिति न निर्दिष्टानीत्याह- स्रोतांसीत्यादि| वक्ष्यमाणानीति आश्रितेषु त्वगाद्यवयवेष्वित्यर्थः||४||

Adhikarana ४ (५) · Śloka

तस्य पुनः सङ्ख्यानं - त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्माणि सिरा धमन्यो योगवहानि स्रोतांसि च ||५||

🔊 Audio coming soon

Show commentary

एतान्यङ्गप्रत्यङ्गान्याश्रयभूतानि प्रतिपाद्यैतेष्ववयवेषु ये समाश्रितास्त्वगाद्यवयवास्तेषां व्याकरणमाह- तस्य पुनरित्यादि| तस्येति अङ्गप्रत्यङ्गात्मकस्य शरीरस्य| सङ्ख्यानमिति सङ्ख्यायते येन शरीरं तत् सङ्ख्यानम्| किं तदित्याह- त्वचः कला इत्यादि| त्वगादिकं योगवहस्रोतोऽन्तमेकोनत्रिंशत्| योगवहानीति धमन्या सह योगं वहन्ति यानि स्रोतांसि तानि योगवहानि धमनीव्याकरणोदितानि प्राणोदकान्नादिवाहीनीत्यर्थः ||५||

Adhikarana ५ (६) · Śloka

त्वचः सप्त, कलाः सप्त, आशयाः सप्त, धातवः सप्त, सप्त सिराशतानि, पञ्च पेशीशतानि, नव स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे सन्धिशते, सप्तोत्तरं मर्मशतं, चतुर्विंशतिर्धमन्यः, त्रयो दोषाः, त्रयो मलाः, नव स्रोतांसि, (षोडश कण्डराः, षोडश जालानि, षट् कूर्चाः, चतस्रो रज्जवः, सप्त सेवन्यः, चतुर्दश सङ्घाताः, चतुर्दश सीमन्ताः, द्वाविंशतिर्योगवहानि स्रोतांसि, द्विकान्यन्त्राणि ) चेति समासः ||६||

🔊 Audio coming soon

Show commentary

केचित् सुश्रुताध्यायिनः सङ्क्षेपेण त्वगादीन् कतिचित्सङ्ख्ययोपेतान् पठन्ति| तन्मतमाह- त्वचः सप्तेत्यादि| समासः सङ्क्षेपः||६||

Adhikarana ६ (७) · Śloka

विस्तारोऽत ऊर्ध्वं- त्वचोऽभिहिताः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयं वृक्कौ च ||७||

🔊 Audio coming soon

Show commentary

सङ्क्षेपेणाभिहितानां त्वगादीनां विस्तारमाह- विस्तारोऽत इत्यादि| त्वचोऽभिहिता इति सङ्ख्यया नामभिश्च गर्भव्याकरणे, कलादयश्चाभिहिताः||७||

Adhikarana ७ (८) · Śloka

आशयास्तु- वाताशयः, पित्ताशयः, श्लेष्माशयो, रक्ताशय, आमाशयः, पक्वाशयो, मूत्राशयः , स्त्रीणां गर्भाशयोऽष्टम इति ||८||

🔊 Audio coming soon

Show commentary

आशयानाह- आशयास्त्वित्यादि| आशयोऽधिष्ठानम्| पित्ताशयादधः पक्वाशयः, तस्यैकदेशे च विभक्तमलाधार उण्डु(न्दु)को विद्यते, अत उण्डु(न्दु)कात् पक्वाशयो भिन्न इत्यर्थः| आशयक्रमस्तु वाग्भटेनोक्ता यथा- “रक्तस्याद्यः क्रमात् परे| कफामपित्तपक्वानां वायोर्मूत्रस्य च क्रमात्| गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरा”- (वा.शा.३) इति||८||

Adhikarana ८ (९) · Śloka

सार्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणामर्धव्यामहीनानि ||९||

🔊 Audio coming soon

Show commentary

अन्त्राण्याह- सार्धेत्यादि| व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्||९||

Adhikarana ९ (१०) · Śloka १०

श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखानि, एतान्येव स्त्रीणामपराणि च त्रीणि द्वे स्तनयोरधस्ताद्रक्तवहं च ||१०||

🔊 Audio coming soon

Show commentary

श्रवणेत्यादि| नन्वन्यान्यपि धमनीव्याकरणोदितानि स्रोतांसि वक्तव्यानीत्याह- बहिर्मुखानीति| धमनीव्याकरणोदितानि त्वन्तर्मुखानि| अधस्ताद्रक्तवहं स्मरातपत्रस्याध आर्तववहं, स्मरातपत्रं भगस्योपरितने भागे| उक्तं च- “विपुलपिप्पलपत्रसमाकृतेरवयवस्य शिरस्तलमाश्रितम्| सकलकामसिरामुखचुम्बितं निगदितं मदनातपवारणम्-” इति||१०||

Adhikarana १० (११) · Śloka ११

षोडश कण्डराः- तासां चतस्रः पादयोः, तावत्यो हस्तग्रीवापृष्ठेषु; तत्र हस्तपादगतानां कण्डराणां नखा अग्रप्ररोहाः, ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां मेढ्रं, श्रोणिपृष्टनिबन्धिनीनामधोभागगतानां बिम्बं , मूर्धोरुवक्षोंऽसपिण्डादीनां च ||११||

🔊 Audio coming soon

Show commentary

षोडशेत्यादि| कण्डरा महास्नायुः| तावत्यो हस्तग्रीवापृष्ठेष्विति हस्तयोश्चतस्रः, ग्रीवायां चतस्रः, पृष्ठे चतस्रः| हस्तादिगतानां कण्डराणामग्रिमभागमाह- तत्रेत्यादि| जेज्झटस्तु “हस्तपादगतानां कण्डराणामस्थ्नां च नखा अग्रप्ररोहा” इति पठति| ग्रीवया सह हृदयनिबन्धिनीनां चतसृणां मेढ्रं ‘अग्रप्ररोह’ इति शेषः| श्रोण्या सह पृष्ठनिबन्धिनीनां पृष्ठनिश्चलबन्धं कुर्वतीनां पृष्ठजानां चतसृणामधोभागगतानां बिम्बं मण्डलमर्थान्नितम्बस्य| मूर्धोरुवक्षोंऽसपिण्डादीनां चेति पूर्ववाक्यात् बिम्बमनुवर्तते, तेन मस्तकस्य यद् बिम्बं मण्डलं तद्ग्रीवाश्रितानां प्रागुक्तानामेव चतसृणामुपरिगतानां कण्डराणामग्रप्ररोहः, तथा पादगतानां चतसृणामुपरिगतानामूरुमण्डलमग्रप्ररोहः, तथा पृष्ठगतानां चतसृणां कण्डराणामुपरिगतानां वक्षोमण्डलम्, आदिशब्दगृहीतस्य स्तनस्य च मण्डलमग्रप्ररोहः| हस्तगतानां चतसृणामुपरिगतानामंसपिण्डो बाहुशिरोऽग्रप्ररोह इति| मस्तकस्य तथैवोर्वोस्तथा वक्षसस्तथांऽसपिण्डयोश्च यद्बिम्बं मण्डलम्, आदिशब्दात् स्तनपिण्डयोरपि मण्डलं, तासां षोडशानां यथासमीपं प्ररोहः||११||

Adhikarana ११ (१२) · Śloka १२

मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि; तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्परगवाक्षितानि चेति, यैर्गवाक्षितमिदं शरीरम् ||१२||

🔊 Audio coming soon

Show commentary

जालान्याह- मांसेत्यादि| मांसादीनां चतुर्णां प्रत्येकं चत्वारि जालानि| तेषां मांसादिजालानां चत्वार्येकैकस्मिन् मणिबन्धे गुल्फे च| तद्यथा- मांसस्यैकमेकस्मिन् मणिबन्धे गुल्फे च, एवं सिराणां स्नायूनामस्थ्नां चैकैकं जालकमिति चत्वारि जालकानि| परस्परगवाक्षितानि सञ्जातपरस्परच्छिद्राणीत्यर्थः| यैर्गवाक्षितमिति विरचितनिरन्तरजालकाकाररन्ध्रनिकरपरिकलितमित्यर्थः||१२||

Adhikarana १२ (१३) · Śloka १३

षट् कूर्चाः, ते हस्तपादग्रीवामेढ्रेषु; हस्तयोर्द्वौ, पादयोर्द्वौ, ग्रीवामेढ्रयोरेकैकः ||१३||

🔊 Audio coming soon

Show commentary

षट् कूर्चा इत्यादि| कूर्चा इव कूर्चाः, नाम्नैवाकृतिरुन्नेया; ते पुनर्मांसास्थिसिरास्नायूनां जालकप्रभवाणां सन्ततिविरचिताः||१३||

Adhikarana १३ (१४-१५) · Śloka १५

महत्यो मांसरज्जवश्चतस्रः- पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्ये, आभ्यन्तरे च द्वे ||१४|| सप्त सेवन्यः ; सिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका; ताः परिहर्तव्याः शस्त्रेण ||१५||

🔊 Audio coming soon

Show commentary

महत्य इत्यादि| पेशीनिबन्धनार्थमिति प्रयोजनकथनम्| गयी तु, महत्यो मांसरज्जवश्चतस्रः चतस्रः पृष्ठवंशमुभयत इत्यष्टौ प्रतिपादयति||१४-१५||

Adhikarana १४ (१६) · Śloka १६

चतुर्दशास्थ्नां सङ्घाताः; तेषां त्रयो गुल्फजानुवङ्क्षणेषु, एतेनेतरसक्थि बाहू च व्याख्यातौ, त्रिकशिरसोरेकैकः ||१६||

🔊 Audio coming soon

Show commentary

सङ्घातानाह- चतुर्दशास्थ्नामित्यादि| त्रयो गुल्फजानुवङ्क्षणेषु, तावन्तोऽन्यस्मिन् सक्थ्नि, बाह्वोरेवमेव, एवं चतुर्भिस्त्रिकैर्द्वादश; त्रिकशिरसोरेकैकः- त्रिके एकः, एकः शिरसीत्येवं चतुर्दश| यद्यपि श्रोणिकाण्डभागे त्रिकं प्रसिद्धं, तथाऽप्यत्र बाहुग्रीवास्थित्रयसङ्घातस्त्रिक उच्यते||१६||

Adhikarana १५ (१७) · Śloka १७

चतुर्दशैव सीमन्ताः; ते चास्थिसङ्घातवद्गणनीयाः, यतस्तैर्युक्ता अस्थिसङ्घाताः; ये ह्युक्ताः सङ्घातास्ते खल्वष्टादशैकेषाम् ||१७||

🔊 Audio coming soon

Show commentary

सीमन्तानाह- चतुर्दशैवेत्यादि| तैर्युक्ता अस्थिसङ्घाता इति| तथाच भोजः- “सङ्घाताः सीविता यैस्तु सीमन्तांस्तान् प्रचक्ष्महे”- इति| परमतमाह- ये ह्युक्ता इत्यादि| एकेषामाचार्याणां मते सङ्घाता अष्टादश; तद्यथा- पूर्वोक्ताश्चतुर्दश, श्रोणिकाण्डमुपर्येकः, वक्षौपर्येकः, उदरोरःसन्धाने एकः, अंसकूटमुपर्येकः, एवमष्टादश||१७||

Adhikarana १६ (१८) · Śloka १८

त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते; शल्यतन्त्रेषु तु त्रीण्येव शतानि | तेषां सविंशमस्थिशतं शाखासु, सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोरःसु, ग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः, एवमस्थ्नां त्रीणि शतानि पूर्यन्ते ||१८||

🔊 Audio coming soon

Show commentary

अस्थिसङ्ख्यां कुर्वन्नाह- त्रीणीत्यादि| वेदवादिनो भाषन्त इत्यत्रायुर्वेदवादिन इति द्रष्टव्यं, न पुनर्वेद एव; तदा तु त्रीण्येवास्थिशतानीत्यत्रत्यं वचो वेदविरुद्धत्वादप्रमाणं स्यात्| स्वमतमाह- शल्यतन्त्रेष्वित्यादि||१८||

Adhikarana १७ (१९) · Śloka १९

एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश, तलकूर्चगुल्फसंश्रितानि दश, पार्ष्ण्यामेकं, जङ्घायां द्वे, जानुन्येकम्, एकमूराविति, त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; श्रोण्यां पञ्च, तेषां गुदभगनितम्बेषु चत्वारि, त्रिकसंश्रितमेकं, पार्श्वे षट्त्रिंशदेकस्मिन् , द्वितीयेऽप्येवं, पृष्ठे त्रिंशत्, अष्टावुरसि , द्वे अंसफलके ; ग्रीवायां नव, कण्ठनाड्यां चत्वारि, द्वे हन्वोः , दन्ता द्वात्रिंशत्, नासायां त्रीणि, एकं तालुनि, गण्डकर्णशङ्खेष्वेकैकं, षट् शिरसीति ||१९||

🔊 Audio coming soon

Show commentary

कथं शाखासु विंशत्यधिकं शतं पूर्यते तदाह- एकैकस्यां त्वित्यादि| तलकूर्चगुल्फेत्यादि तत्र पादतले पञ्च शलाकाः, तत्प्रबन्धनमेकमस्थि , द्वे द्वे कूर्चगुल्फयोरिति दश| विंशच्चतुष्केण सविंशमेकशतम्| यथा श्रोणिपार्श्वपृष्ठोरःसु सप्तदशोत्तरं शतं पूर्यते तथाऽऽह- श्रोण्यां पञ्चेत्यादि| श्रोण्यां पञ्चेति यदुक्तं तस्यैव विवरणमाह- तेषामित्यादि| गुदभगनितम्बद्वये चत्वारि, एवं श्रोणिगतपञ्चकमारभ्य अक्षकाश्रितां द्वयं यावत् सर्वैक्ये सप्तदशोत्तरं शतं पूर्यते| ग्रीवां प्रत्यूर्ध्वं यथा त्रिषष्टिस्तथाऽऽह- ग्रीवायामित्यादि| गण्डकर्णशङ्खेष्वित्यत्र गण्डौ च कर्णौ च शङ्खौ चेति विग्रहे षडस्थीनि भवन्ति||१९||

Adhikarana १८ (२०) · Śloka २०

एतानि पञ्चविधानि भवन्ति; तद्यथा- कपालरुचकतरुणवलयनलकसञ्ज्ञानि | तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपालानि, दशनास्तु रुचकानि , घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि, पार्श्वपृष्ठोरःसु वलयानि , शेषाणि नलकसञ्ज्ञानि ||२०||

🔊 Audio coming soon

Show commentary

एतानीत्यादि| कपालानि कर्परसञ्ज्ञानि| दशना दन्ता इत्यर्थः| तरुणानि तरुणसञ्ज्ञानि| वलयानि वलयसञ्ज्ञानि| अस्थ्नां स्थानविशेषेण धर्मविशेषान्नामविशेषः पञ्चविधः| शेषाणि नलकसञ्ज्ञानीति हस्तपादाङ्गुलितलकूर्चनलकादिषु | तदुक्तं भोजे- “हस्तपादाङ्गुलितले कूर्चेषु मणिबन्धयोः| बाहुजङ्घाद्वये चापि जानीयान्नलकानि तु-” इति| नामविशेषकथनं रचनाविशेषज्ञापनार्थम् ||२०||

Adhikarana १९ (२१-२३) · Śloka २३

भवन्ति चात्र- अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः | अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ||२१|| तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् | अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् | मांसान्यत्र निबद्धानि सिराभिः स्नायुभिस्तथा | अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा ||२३||

🔊 Audio coming soon

Show commentary

शरीरधारणविषयेऽस्थ्नां प्राधान्यं दर्शयन्नाह- भवन्ति चात्रेत्यादि| अत्रास्थ्नि||२१-२३||

Adhikarana २० (२४-२५) · Śloka २५

सन्धयस्तु द्विविधाश्चेष्टावन्तः , स्थिराश्च ||२४|| शाखासु हन्वोः कट्यां च चेष्टावन्तस्तु सन्धयः | शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः ||२५||

🔊 Audio coming soon

Show commentary

अस्थ्याश्रितान् सन्धीनाह- सन्धयस्त्वित्यादि| चेष्टावन्तश्चलाः, स्थिरा अचलाः| कट्यां चेति चकाराद्ग्रीवायामपि चलाः||२४-२५||

Adhikarana २१ (२६) · Śloka २६

सङ्ख्यातस्तु दशोत्तरे द्वे शते | तेषां शाखास्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूर्ध्वं त्र्यशीतिः | एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गुष्ठे, ते चतुर्दश; जानुगुल्फवङ्क्षणेष्वेकैकः, एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति; एतेनेतरसक्थि बाहू च व्याख्यातौ; त्रयः कटीकपालेषु, चतुर्विंशतिः पृष्ठवंशे, तावन्त एव पार्श्वयोः, उरस्यष्टौ; तावन्त एव ग्रीवायां, त्रयः कण्ठे, नाडीषु हृदयक्लोमनिबद्धास्वष्टादश, दन्तपरिमाणा दन्तमूलेषु, एकः काकलके नासायां च, द्वौ वर्त्ममण्डलयोर्नेत्राश्रयौ, गण्डकर्णशङ्खेष्वेकैकः, द्वौ हनुसन्धी, द्वावुपरिष्टाद्भ्रुवोः शङ्खयोश्च, पञ्च शिरःकपालेषु, एको मूर्ध्नि ||२६||

🔊 Audio coming soon

Show commentary

शाखास्वष्टषष्टेर्विवरणमाह- एकैकस्यामित्यादि| पादाङ्गुष्ठेऽस्थित्रितयान्वितेऽपि सन्धिद्वयमेव स्यात्| हस्ताङ्गुष्ठेऽस्थित्रितयसंयुक्तेऽपि सन्धिद्वयमेव गणनीयं, तृतीयस्य हस्ताङ्गुष्ठसन्धेर्मणिबन्धसन्धावेवान्तर्भावात्| इदानीं शाखासन्धीनभिधाय कोष्ठसन्धीनूर्ध्वभागसन्धींश्च दर्शयन्नाह- त्रय इत्यादि| तावन्त एव ग्रीवायामष्टावित्यर्थः| त्रयः कण्ठे गलनलकास्थनि| नाडीषु कण्ठपार्श्वनाडीषु, हृदयक्लोमनिबद्धासु अन्नपानवहासु मण्डलास्थिसञ्ज्ञास्वष्टादश | काकलकं गलमणिः, घण्टिकेति लोके, तत्रैकः; नासायां चैकः| द्वौ वर्त्ममण्डलयोस्तरुणास्थिसन्धी| गण्डौ च कर्णौ च शङ्खौ चेति विग्रहे षट् सन्धयः| शङ्खयोश्चेत्यत्राप्युपरिष्टाद् द्वाविति सम्बन्धनीयम्| तदुक्तं- “ग्रीवास्वष्टौ त्रयः कण्ठे कण्ठनाड्यां नवद्वयम्| वर्त्ममण्डलगण्डाह्वकर्णशङ्खहनुद्वये|| भ्रूशङ्खद्वितयस्योर्ध्वं सप्तस्वेषु द्वयं द्वयम्| कपाले पञ्च मूर्ध्न्येको नासाकाकलयोर्द्वयम्|| द्वात्रिंशता त्र्यशीतिः स्यादेवं दन्ताश्रितैः सह”- इति||२६||

Adhikarana २२ (२७) · Śloka २७

त एते सन्धयोऽष्टविधाः- कोरोलूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्ताः | तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः, कक्षावङ्क्षणदशनेषूलूखलाः, अंसपीठगुदभगनितम्बेषु सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकटीकपालेषु तुन्नसेवन्यः, हन्वोरुभयतस्तु वायसतुण्डाः, कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः | तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||२७||

🔊 Audio coming soon

Show commentary

त एते सन्धय इत्यादि| यद्यप्येषां नामभिरेवाकृतयो व्याख्यातास्तथाऽपि केषाञ्चित् सन्धीनां सुखावबोधनार्थमाकृतिर्लिख्यते| कोरो नाम गर्तस्तदाकृतयः कोराः, कोरः कलिका तदाकृतय इत्यन्ये| उलूखलस्तण्डुलकण्डनोपयोगी, तदाकृतयः सन्धयोऽप्युलूखलाः| समुद्गः सम्पुटः, तदाकृतौ भवाः सामुद्गाः| प्रतरत्यनेनेति प्रतरो भेलकः, तदाकृतयः प्रतराः| मण्डलो मण्डलाकृतिः| शेषाणां च नामभिरेवाकृतयो ज्ञेयाः||२७||

Adhikarana २३ (२८) · Śloka २८

अस्थ्नां तु सन्धयो ह्येते केवलाः परिकीर्तिताः | पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते ||२८||

🔊 Audio coming soon

Show commentary

अस्थिमात्राश्रिताः सन्धयोऽभिहिताः, नान्याश्रिताः सन्धय इति दर्शयन्नाह- अस्थ्नां त्वित्यादि||२८||

Adhikarana २४ (२९) · Śloka २९

नव स्नायुशतानि | तासां शाखासु षट्शतानि, द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्ततिः | एकैकस्यां तु पादाङ्गुल्यां षण्निचितास्तास्त्रिंशत् , तावत्य एव तलकूर्चगुल्फेषु, तावत्य एव जङ्घायां, दश जानुनि, चत्वारिंशदूरौ, दश वङ्क्षणे, शतमध्यर्धमेवमेकस्मिन् सक्थ्नि भवन्ति; एतेनेतरसक्थि बहू च व्याख्यातौ; षष्टिः कट्यां, पृष्ठेऽशीतिः, पार्श्वयोः षष्टिः, उरसि त्रिंशत्; षट्त्रिंशद्ग्रीवायां, मूर्ध्नि चतुस्त्रिंशत्; एवं नव स्नायुशतानि व्याख्यातानि भवन्ति ||२९||

🔊 Audio coming soon

Show commentary

यथा शाखासु स्नायूनां षट्शतानि पूर्यन्ते तथाऽऽह- एकैकस्यां त्वित्यादि| षण्निचिता इति षट्स्नायवो निबद्धा इत्यर्थः| कोष्ठस्थाः कथ्यन्ते- षष्टिः कट्यामित्यादि| ग्रीवां प्रत्यूर्ध्वस्थाः कथ्यन्ते- षट्त्रिंशदित्यादि| महास्नायोस्तु ‘कण्डरा’ इति सञ्ज्ञा||२९||

Adhikarana २५ (३०-३६) · Śloka ३६

भवन्ति चात्र- स्नायूश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे | प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ||३०|| प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ | वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ||३१|| आमपक्वाशयान्तेषु बस्तौ च शुषिराः खलु | पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ||३२|| नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता | भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ||३३|| एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः | स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ||३४|| न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः | व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ||३५|| यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा | स गूढं शल्यमाहर्तुं देहाच्छक्नोति देहिनाम् ||३६||

🔊 Audio coming soon

Show commentary

भवन्ति चात्रेत्यादि| वृत्ता वर्तुलाः| तासां च सर्वशरीरावयवनिबन्धनं दर्शयन्नाह- नौरित्यादि| नृयुक्ता प्राणिसहिता, सुसमाहिता सुघटिता| यथा स्नायुर्व्यापादिता सती शरीरिणं पुरुषं हन्ति न तथाऽस्थ्यादीनि हन्युः||३०-३६||

Adhikarana २६ (३७-३८) · Śloka ३८

पञ्च पेशीशतानि भवन्ति | तासां चत्वारि शतानि शाखासु, कोष्ठे षट्षष्टिः, ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् | एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश, दश प्रपदे, पादोपरि कूर्चसन्निविष्टास्तावत्य एव, दश गुल्फतलयोः, गुल्फजान्वन्तरे विंशतिः, पञ्च जानुनि, विंशतिरूरौ , दश वङ्क्षणे, शतमेवमेकस्मिन् सक्थ्नि भवति; एतेनेतरसक्थि बाहू च व्याख्यातौ; तिस्रः पायौ, एका मेढ्रे, सेवन्यां चापरा, द्वे वृषणयोः , स्फिचोः पञ्च पञ्च, द्वे बस्तिशिरसि, पञ्चोदरे , नाभ्यामेका, पृष्ठोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः, षट् पार्श्वयोः, दश वक्षसि, अक्षकांसौ प्रति समन्तात् सप्त, द्वे हृदयामाशययोः, षट् यकृत्प्लीहोण्डु(न्दु)केषु; ग्रीवायां चतस्रः, अष्टौ हन्वोः , एकैका काकलकगलयोः, द्वे तालुनि, एका जिह्वायां , द्वे ओष्ठयोः, द्वे नासायां , द्वे नेत्रयोः, गण्डयोश्चतस्रः, कर्णयोर्द्वे, चतस्रो ललाटे, एका शिरसीति ; एवमेतानि पञ्च पेशीशतानि ||३७|| भवति चात्र- सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् | पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ||३८||

🔊 Audio coming soon

Show commentary

पञ्च पेशीशतानीत्यादि| मांसावयवसङ्घातः परस्परं विभक्तः ‘पेशी’ इत्युच्यते| गयी तु “कोष्ठे षष्टिः, ग्रीवां प्रत्यूर्ध्वं चत्वारिंशत्” इति पठति| एकैकस्यां त्वित्यादि| प्रपदं पादाग्रम्| कोष्ठगता आह- तिस्रः पायावित्यादि| गयी तु “एका मेढ्रे सेवन्यां च, द्वे अपरे वृषणयोः, स्फिचोर्द्वयोर्दश, तिस्रो वलिसञ्ज्ञका गुदे, द्वे बस्तिशिरसि, सप्तोदरफलके यकृदादिभिः सह, नाभ्यामेका, पृष्ठसन्धिनिविष्टाः पञ्च, पार्श्वयोः पञ्च दीर्घाः, दश वक्षसि, अक्षकांशौ प्रति सर्वतः सप्त, द्वे हृदि, एका आमाशये, द्वे अभ्यन्तरतः कोष्ठे” इति कोष्ठे षष्टिं पठति| वृद्धवाग्भटोऽपि कोष्ठे षष्टिमेवाह| ग्रीवां प्रत्यूर्ध्वगा आह- ग्रीवायामित्यादि| गयी तु “ग्रीवायां चतस्रः, एका कण्ठे, तथा काकलकेऽप्येका, तालुनि द्वे, रसनायां षट्, अधरयोर्द्वे, घोणायां च द्वे, द्वे कर्णयोः, प्रत्येकं हन्वोश्चतस्रः, अक्ष्णोर्द्वे, अलिके चतस्रः, मूर्धनि षट्-” इत्यूर्ध्वकाये चत्वारिंशत् पठति||३७-३८||

Adhikarana २७ (३९) · Śloka ३९

स्त्रीणां तु विंशतिरधिका | दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति, यौवने तासां परिवृद्धिः; अपत्यपथे चतस्रः- तासां प्रसृते अभ्यन्तरतो द्वे, मुखाश्रिते बाह्ये च वृत्ते द्वे, गर्भच्छिद्रसंश्रितास्तिस्रः, शुक्रार्तवप्रवेशिन्यस्तिस्र एव | पित्तपक्वाशययोर्मध्ये गर्भशय्या, यत्र गर्भस्तिष्ठति ||३९||

🔊 Audio coming soon

Show commentary

स्त्रीणामित्यादि| अधिकाया विंशतेर्विवरणमाह- दश तासामित्यादि| अपत्यपथे योनौ चतस्रः| चतसृणामेव विवरणमाह- तासामित्यादि| मुखाश्रिते योनिमुखाश्रिते| अभ्यन्तरतः प्रसृते इति योनेरभ्यन्तरतः प्रसारं प्राप्ते मूत्रस्रोतःस्वरूपे इत्यर्थः| बाह्ये निर्गते, वृत्ते वर्तुले, योनिकर्णिकास्रोतःपार्श्वद्वयगतत्वेन द्वे मांसपेश्यौ| गर्भच्छिद्रसंश्रिता इति गर्भमार्गमाश्रितास्तिस्र आवर्तत्रयरूपेण, तृतीये चावर्ते मत्स्यमुखाकारा गर्भशय्या (यत्र गर्भस्तिष्ठति ), तासां शुक्रार्तवप्रवेशिन्यश्च तिस्रः पेश्यः| का गर्भशय्येत्याह- पित्तपक्वाशययोरित्यादि||३९||

Adhikarana २८ (४०) · Śloka ४०

तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ||४०||

🔊 Audio coming soon

Show commentary

इदानीं तासां पेशीनां स्थानवशान्नानास्वरूपत्वमाह- तासामित्यादि| तासां पेशीनाम्| बहला बहुतराः, पेलवा अल्पाः, अणवः सूक्ष्माः, तद्विपरीताः स्थूलाः, पृथवो विस्तीर्णाः, वृत्ता वर्तुलाः, ह्रस्वा अदीर्घाः, दीर्घा आयताः, स्थिराः कठिनाः, मृदवः कोमलाः, श्लक्ष्णाः स्पर्शसुखाः, तद्विपरीताः कर्कशाः||४०||

Adhikarana २९ (४१) · Śloka ४१

भवति चात्र- पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः | स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ||४१||

🔊 Audio coming soon

Show commentary

केचित्तन्त्रकाराः स्त्रीणां मेढ्रमुष्काभावात्तदाश्रितानां पेशीनामन्यत्रावस्थानं पठन्ति; तन्मतमाह- भवति चात्रेत्यादि| लक्षणमुष्कजा इति लक्ष्यते ज्ञायते पुमाननेनेति लक्षणं लिङ्गं शिश्नमिति यावत्| फलं गर्भाशयः| ता इति पेश्यः| गयी तु, अमुं तन्त्रान्तरीयश्लोकं न पठति; किन्तु ‘एवमेतानि पञ्च पेशीशतानि’ इत्यत्र पुंसामिति पदं पठित्वा पुंसामेव पञ्चपेशीशतानि, स्त्रीणां तु तिसृभिरूनानि पञ्चशतानीति व्याख्याति| अत्रार्थे च भोजवाक्यं दृष्टान्तीकरोति| तथाच भोजवाक्यं- “पञ्चपेशीशतान्येव स्त्रीवर्जं विद्धि भूमिप| अतश्च तिस्रो हीयन्ते स्त्रीणां शेफसि मुष्कयोः”- इति||४१||

Adhikarana ३० (४२) · Śloka ४२

मर्मसिराधमनीस्रोतसामन्यत्र प्रविभागः ||४२||

🔊 Audio coming soon

Show commentary

परिशिष्टमर्मसिरादिव्याकरणं चास्तीति मन्यमान आह- मर्मेत्यादि| अन्यत्रेति प्रत्येकमर्मनिर्देशे सिरावर्णविभक्तौ धमनीव्याकरणे च||४२||

Adhikarana ३१ (४३-४४) · Śloka ४४

शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता | तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ||४३|| यथा रोहितमत्स्यस्य मुखं भवति रूपतः | तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ||४४||

🔊 Audio coming soon

Show commentary

गर्भशय्यामनन्तरमावर्तं प्रतिपादयितुमाह- शङ्खनाभ्याकृतिरित्यादि| तत्संस्थानामिति अल्पमुखामन्तर्महासुषिरामित्यर्थः||४३-४४||

Adhikarana ३२ (४५) · Śloka ४५

आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः | स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ||४५||

🔊 Audio coming soon

Show commentary

मूढगर्भोद्धरणार्थं तत्र गर्भस्थितिस्वरूपमाह- आभुग्न इत्यादि| आभुग्नः सङ्कुचिताङ्गः| स्वभावात् पूर्वकर्मापेक्षात् ||४५||

Adhikarana ३३ (४६) · Śloka ४६

त्वक्पर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः | शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ||४६||

🔊 Audio coming soon

Show commentary

इदानीं शल्यतन्त्रस्योत्कर्षं दर्शयन्नाह- त्वक्पर्यन्तस्येत्यादि||४६||

Adhikarana ३४ (४७-४८) · Śloka ४८

तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता | शोधयित्वा मृतं सम्यग्द्रष्टव्योऽङ्गविनिश्चयः ||४७|| प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टं च यद्भवेत् | समासतस्तदुभयं भूयो ज्ञानविवर्धनम् ||४८||

🔊 Audio coming soon

Show commentary

सर्वावयवपरिमाणं प्रत्यक्षलक्ष्यं संशयच्छेदनाय भवति, तस्मात्तदुपायं दर्शयन्नाह- तस्मान्निःसंशयमित्यादि||४७-४८||

Adhikarana ३५ (४९) · Śloka ४९

तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुषमावहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गमप्रकाशे देशे कोथयेत्, सम्यक्प्रकुथितं चोद्धृत्य, ततो देहं सप्तरात्रादुशीरबालवेणुबल्वजकूर्चानामन्यतमेन शनैः शनैरवघर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा ||४९||

🔊 Audio coming soon

Show commentary

कथं पुनः शास्त्रदृष्टं प्रत्यक्षतो दृश्यते? इत्याह- तस्मादित्यादि| समस्तगात्रमिति अङ्गहीने आगमोक्तावयवसङ्ख्याद्यप्रत्ययात्| विषोपहते विषज्वालाविशीर्णत्वगादिः स्यात्| दीर्घव्याधिपीडिते हि त्वगादिमानासम्भवः| मुञ्जाद्यवेष्टने मत्स्यादिभक्षितत्वादसम्पूर्णावयवता| अपञ्जरस्थे जलरयेण भ्रश्यति| प्रकाशे गृध्रादिभक्षणभयम्||४९||

Adhikarana ३६ (५०) · Śloka ५०

न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः | दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ||५०||

🔊 Audio coming soon

Show commentary

त्वक्पर्यन्तो देहश्चक्षुरिन्द्रियग्राह्यो न क्षेत्रज्ञ इत्याह- न शक्य इत्यादि| विभुरात्मा, स चक्षुषा द्रष्टुं न शक्यः, यतः सूक्ष्मतमः| दृश्यते ज्ञानचक्षुर्भिरिति सद्गुरूपदेशजज्ञानान्येव चक्षूंषि तैर्दृश्यते; तपांसि चान्द्रायणादीनि तानि चक्षूंषि दृष्टयस्तैरपि च||५०||

Adhikarana ३७ (५१) · Śloka ५१

शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः | दृष्टश्रुताभ्यां सन्देहमवापोह्याचरेत् क्रियाः ||५१||

🔊 Audio coming soon

Show commentary

शास्त्रतः प्रत्यक्षतश्च दर्शनं सन्देहापोहकारणं, तदाह- शरीरे चैवेत्यादि| अवापोह्य निराकृत्येत्यर्थः||५१||

Adhikarana पुष्पिका · Śloka

इति सुश्रुतसंहितायां शारीरस्थाने शरीरसङ्ख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ||५||

🔊 Audio coming soon

Show commentary

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने पञ्चमोऽध्यायः||५||