Skip to content

१०. गर्भिणीव्याकरणशारीरम्

Adhikarana १ (१-२) · Śloka

अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Show commentary

धमनीव्याकरणे शुक्रार्तवस्रोतःसङ्कीर्तनाच्छुक्रार्तवमूलस्य गर्भस्य व्याकृतस्याश्रयभूता गार्भिणी व्याकर्तुं युज्यत इत्याह- अथात इत्यादि||१-२||

Adhikarana २ (३) · Śloka

गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत्, मलिनविकृतहीनगात्राणि न स्पृशेत्, दुर्गन्धदुर्दर्शनानि परिहरेत्, उद्वेजनीयाश्च कथाः, शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत, बहिर्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान् क्रोधमयशस्करांश्च भावानुच्चैर्भाष्यादिकं च परिहरेद्यानि च गर्भं व्यापादयन्ति, न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि सेवेत, न चायासयेच्छरीरं, पूर्वोक्तानि च परिहरेत्, शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधं च विदध्यात्, हृद्यं द्रवमधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत्, सामान्यमेतदाप्रसवात् ||३||

🔊 Audio coming soon

Show commentary

चैत्यं देवताधिष्ठितो वृक्षः, अन्ये बौद्धालयमाहुः| श्मशानं मृतमर्त्यदाहस्थानम्| पूर्वोक्तानि ऋतुमत्यां निषिद्धानि दिवास्वप्नादीनि| अपाश्रयोपेतं प्रतिवाहकसहितम्, असम्बाधमसङ्कटं, विदध्यात् कुर्यात्| हृष्टादिस्वरूपा नित्यं भवेत्| मलिनादि न स्पृशेदिति निषिद्धस्पर्शवर्जनं, दुर्गन्धदुर्दर्शनादिपरिहारेण निषिद्धगन्धरूपवर्जनम्, उद्वेजनीयाश्च कथा इत्यनेन निषिद्धश्रुतिवर्जनं, शुष्कपर्युषितेत्यादिना निषिद्धरसवर्जनं, बहिर्निष्क्रमणादिपरिहारेण कायक्रियानियमः, क्रोधादिपरिहारेण मनःक्रियानियमः, उच्चैर्भाष्यादिपरिहारेण वाग्विषयनियमः| यानि च गर्भं व्यापादयन्तीति गर्भावक्रान्तावुक्तानि ग्राम्यधर्मयानवाहनादीनि| विहारं नियम्याहारं नियमयन्नाह- हृद्यं द्रवमित्यादि| हृद्यमोजस्यत्वात्, द्रवं जीवनीयत्वात्, मधुरं सकलशरीरधातूनां सात्म्यत्वात्, उपयोजनीयम्| द्रवादीनामग्निमान्द्यहेतुत्वात्तत्प्रतीकारायाह- दीपनीयसंस्कृतमिति||३||

Adhikarana ३ (४) · Śloka

विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत; विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजयेत्, चतुर्थे दध्ना, पञ्चमे पयसा, षष्ठे सर्पिषेत्येके; चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं च भोजयेत्, पञ्चमे क्षीरसर्पिःसंसृष्टं , षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा, सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम्, एवमाप्यायते गर्भः; अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थं च वायोः, ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेत्, अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति, अत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवकालात्; एवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते ||४||

🔊 Audio coming soon

Show commentary

विशेषत इति अतिशयेनेत्यर्थः| परमतमाह- विशेषत इत्यादि| स्वमतमाह- चतुर्थे इत्यादि| पृथक्पर्ण्यादिः विदारिगन्धादिः||४||

Adhikarana ४ (५) · Śloka

नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ते तिथ्यादौ | तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोधतिन्दुकभल्लातकनिर्मितसर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कं समुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ||५||

🔊 Audio coming soon

Show commentary

तत्र तस्मिन् प्रसवावसरे| अरिष्टं सूतिकागृहम्, एवम्भूतं विधेयमिति सम्बन्धः||५||

Adhikarana ५ (६-७) · Śloka

जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने | सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ||६|| तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च ||७||

🔊 Audio coming soon

Show commentary

जात इत्यादि| सशूले जघने सशूलायां कट्याम्| प्रजायिनी प्रसवमाना| तत्रोपस्थितेत्यादि||६-७||

Adhikarana ६ (८) · Śloka

प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत्, ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्तितनखाः परिचरेयुरिति ||८||

🔊 Audio coming soon

Show commentary

अशङ्कनीया यासां लज्जाभयादिकं न करोति गर्भिणी||८||

Adhikarana ७ (९) · Śloka

अथास्या विशिखान्तरमनुलोममनुसुखमभ्यज्यानुब्रूयाच्चैतामेका - सुभगे प्रवाहस्वेति, नचाप्राप्तावी प्रवाहस्व, ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः, ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमाविशल्यभावात्; अकालप्रवाहणाद्बधिरं मूकं कुब्जं व्यस्तहनुमूर्ध्वाभिघातिनं कासश्वासशोषोपद्रुतं विकटं वा जनयति ||९||

🔊 Audio coming soon

Show commentary

अथास्या इत्यादि| विशिखान्तरम् अपत्यमार्गम्| अनुलोमं लोमानुकूलम्| अनुसुखं यथासुखम्| एतां गर्भिणीम्| एका उत्कृष्टा, अन्ये ‘त्वेका चतसृणां स्त्रीणां मध्ये’ इति व्याख्यानयन्ति| प्रवाहस्वेति निकुन्थनं कुरुः, ‘वाह’ प्रयत्ने, इत्यस्य धातोरात्मनेपदिनः प्रयोगः| आवी प्रसववेदना| ततो विमुक्ते गर्भनाडीप्रबन्ध इति गर्भनाडीनां प्रकृष्टो बन्धस्तस्मिन्| स्वस्थानाद्गर्भस्य निःसरणाय गमनं गर्भनिर्गमस्तस्मिन् गर्भनिर्गमे| प्रगाढमित्यत्र प्रवाहेथा इति सम्बध्यते| आविशल्यभावादिति शल्यग्रहणमपरासहितगर्भप्राप्त्यर्थम्| अकालेत्यादि| व्यस्तहनुं विघटितमुखसन्धिम्| ऊर्ध्वाभिघातिनम् ऊर्ध्वजत्रुगतरोगिणम्| उपद्रुतम् उपद्रवैर्व्याप्तम्| विकटम् अयथास्थाननिवेशितावयवम्||९||

Adhikarana ८ (१०) · Śloka १०

तत्र प्रतिलोममनुलोमयेत्, प्राञ्जलमाकर्षेत् ||१०||

🔊 Audio coming soon

Show commentary

तत्रेत्यादि| प्रतिलोमता चानेकप्रकारा मूढगर्भनिदानोक्तया दिशा ज्ञातव्या| अनुलोमयेदिति मूढगर्भचिकित्सितोक्तप्रकारेणेत्यर्थः| अप्रतिलोमं तु प्राञ्जलमाकर्षेत्||१०||

Adhikarana ९ (११) · Śloka ११

गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा, बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोः, धारयेत् सुवर्चलां विशल्यां वा ||११||

🔊 Audio coming soon

Show commentary

गर्भसङ्गे त्वित्यादि| हिरण्यपुष्पी कलिकारिका, सुवर्चला सूर्यभक्ता, विशल्या पाटला||११||

Adhikarana १० (१२) · Śloka १२

अथ जातस्योल्बं मुखं च सैन्धवसर्पिषा विशोध्य, घृताक्तं मूर्ध्नि पिचुं दद्यात्; ततो नाभिनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत्, तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् ||१२||

🔊 Audio coming soon

Show commentary

अथेत्यादि| उल्बं जरायुं, विशोध्य अपनीय; मुखं च विशोध्य निर्मलीकृत्य, तदपि मुखकण्ठगतजरायुकफापनयनेन| तदुक्तं- “जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते” (शा.२) इति| ब्रह्मदेवस्तु घृताक्तमिति पदं परित्यज्य पिचुं दद्यादित्यत्र ‘बलातैलाक्तमिति शेषः’ इति व्याख्याति| ततो नाभिनाडीमिति आयम्य आकृष्य, ग्रीवायां सम्यग्बध्नीयात् स्रावपरिहारार्थं; गयी तु ‘गर्भनाडीमष्टाङ्गुलमायम्य नातिगाढं नातिशिथिलमग्रे सूत्रेणाबध्य वर्धयित्वा कुष्ठतैलेन सिक्त्वाऽपत्यमाश्वास्य मधुसर्पिर्मिश्रमङ्गुल्याऽनामिकया कनकचूर्णं लेहयेत्’- इति पठति||१२||

Adhikarana ११ (१३) · Śloka १३

अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णमङ्गुल्याऽनामिकया लेहयेत्; ततो बलातैलेनाभ्यज्य, क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोषं यथाविभवं च ||१३||

🔊 Audio coming soon

Show commentary

अथ कुमारमित्यादि| आश्वास्य योनियन्त्रपीडनमूर्च्छितम्| अनन्तचूर्णं सुवर्णचूर्णं, तेन मिश्रं मध्वादि लेहयेत्| चूर्णप्रमाणं तु जातमात्रस्य गुञ्जामात्रम्| सर्वगन्धा एलादिकाः| यथाकालं कालानतिक्रमेण| कोष्णेन ईषदुष्णेन| यथादोषं दोषानतिक्रमेण| क्षीरिवृक्षकषायेण पित्तघ्नेन, सर्वगन्धोदकेन वा वातघ्नेन, विभवानतिक्रमेण रूप्यहेमतप्तेन वारिणा, कपित्थपत्रकषायेण वा स्नापयेत्| अत्र केषुचित् पुस्तकेषु तु “मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्णमङ्गुल्याऽनामिकया लेहयेत्”- इत्ययं पाठो दृश्यते, परमसौ टीकाकारैर्न व्याख्यातः| वृद्धवाग्भटेन त्वन्यथा प्राशनमभिहितं; यथा- “ऐन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रं कुशाभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण वा मेधायुर्बलजननं प्राशयेद् ब्राह्मीवचानन्ताशतावर्यन्यतमचूर्णं वा” (अ.सं.उ.१)- इति||१३||

Adhikarana १२ (१४-१५) · Śloka १५

धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् | चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते ||१४|| तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तमिश्रं मन्त्रपूतं त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, तृतीये च; ततः प्राङ्निवारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं पाययेत् ||१५||

🔊 Audio coming soon

Show commentary

मधुसर्पिर्मिश्रं सुवर्णचूर्ण कुतो लेहयितव्यमित्याह- धमनीनामित्यादि| अनन्तमिश्रम् अनन्तस्य सुवर्णस्य गुञ्जाप्रमाणेन मिश्रितम्| मधुसर्पिषश्च मानं वक्ष्यमाणं स्वपाणितलसम्मितं बोद्धव्यम्| तत इत्यादि| ततश्चतुर्थे दिवसे प्रातर्मध्याह्नादिलक्षणे मधुसर्पिः प्राशयेत्, तदनन्तरं चतुर्थदिवसस्य तृतीयकालमारभ्य पञ्चमादिदिवसेषु यथेष्टं स्तन्यपानं कारयेत्| कं? बालं; किंविशिष्टं? प्राङ्निवारितस्तन्यं; प्राक् पुर्वं निवारितं स्तन्यं यस्य तं; वृद्धवाग्भटे च “अनन्तामिश्रे मधुसर्पिषी” (अ.सं.उ.१) इति पाठः, तत्र चानन्ता दूर्वा व्याख्याता||१४-१५||

Adhikarana १३ (१६) · Śloka १६

अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत् | सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं गुडोदकेनोष्णेन पाययेत्, एवं द्विरात्रं त्रिरात्रं वा कुर्यादादुष्टशोणितात् | विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत्त्रिरात्रम् | ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद्बलमग्निबलं चावेक्ष्य | अनेन विधिनाऽध्यर्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधाना स्यात्, पुनरार्तवदर्शनादित्येके ||१६||

🔊 Audio coming soon

Show commentary

अथ सूतिकामित्यादि| वातहरौषधानि भद्रदार्वादीनि| उपचरेत् ‘पानपरिषेकादिभिः’ इति शेषः| सशेषदोषामित्यत्र दोषशब्दो रक्तवचनः| ततस्तृतीये चतुर्थे वा दिने विशुद्धे शोणिते विदारीगन्धादिक्वाथेन सिद्धां स्नेहबहुलां यवागूमग्निबलमवेक्ष्य क्षीरयवागूं वा पाययेत्| अध्यर्धमासं त्रीणि पक्षाणि||१६||

Adhikarana १४ (१७) · Śloka १७

धन्वभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहनित्या च स्यात्त्रिरात्रं पञ्चरात्रं वा बलवती ; अबलां यवागूं पाययेत्त्रिरात्रं पञ्चरात्रं वा | अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् ||१७||

🔊 Audio coming soon

Show commentary

धन्वेत्यादि| जाङ्गलदेशजातां तु सूतिकां बुभुक्षायुतां सात्म्यानुरोधेन घृतस्य तैलस्य वा मात्रामहःपरिणामिनीं पाययेत्| जीर्णे तु स्नेहे पूर्वोक्तौषधसाधितां मात्रया पेयां वा पाययेत्| स्नेहनित्या च स्यादभ्यङ्गादिषु| कियन्ति दिनानि घृततैलयोरन्यतरमात्रां पाययेदित्याशङ्क्याह- त्रिरात्रमित्यादि| बलवती बलयुक्ता सूतिका| बलहीनायाश्च किं कर्तव्यमित्याशङ्क्याह- अबलामित्यादि| यवागूमिति ‘पूर्वोक्तौषधसाधितां स्नेहयुक्ताम्’ इति शेषः| अत ऊर्ध्वमित्यादि| स्नेहपानयवागूपानाभ्यां प्रेरितत्रिरात्रपञ्चरात्रादूर्ध्वं स्निग्धेन पेयादिक्रमेण वह्नेर्बलस्य च बृंहणार्थं वातजयार्थं चोपचरेत्| अत्रार्थे वृद्धवाग्भटः- “अथ सूतिकां बलातैलेनाभ्यज्यात्, बुभुक्षितां च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धवचूर्णेन वा युक्तामहःपरिणामिनीं यथासात्म्यं स्नेहमात्रां पाययेत्, स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपञ्चमूलीक्वाथं वा; पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण, तथा न वायुरुदरे विकृतिमुत्पादयत्यनवकाशत्वात्, जीर्णे तु स्नेहे पूर्वौषधैरेव सिद्धां विदार्यादिगणक्वाथेन वा क्षीरेण यवागूं सुस्विन्नां द्रवां मात्रया पाययेत्” (अ.सं.शा.३)- इति||१७||

Adhikarana १५ (१८) · Śloka १८

प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत्, क्रोधायासमैथुनादींश्च परिहरेत् ||१८||

🔊 Audio coming soon

Show commentary

अपरमपि प्रसूतामधिकृत्य सामान्येन क्रियाविशेषमाह- प्रायशश्चेत्यादि| एनां स्त्रियं; परिषिञ्चेद् धारया, गर्भक्षोभकृतरक्तस्रावणार्थं वातजयार्थं च| आयासो व्यायामः, मैथुनं पुरुषसेवा, क्रोधादयः पञ्चदश आतुरोपद्रवचिकित्सितोक्ताः||१८||

Adhikarana १६ (१९-२०) · Śloka २०

मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते | स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् ||१९|| तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा | परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् ||२०||

🔊 Audio coming soon

Show commentary

उक्ताहाराचारव्यतिक्रमेण किं भवतीत्याह- मिथ्याचारादित्यादि| अत्यपतर्पणादिति असाध्यभवने हेतुः| तां प्रसूतां, देशकालौ परीक्ष्य व्याधिसात्म्येन कर्मणा नित्यमुपचरेदिति सम्बन्धः| अत्ययो विनाशः| गयी तु ‘देशकालौकव्याधिसात्म्येन कर्मणा’ इति पठित्वा देशादिभिः सह पृथक् सात्म्यशब्दं सम्बध्नाति; ओकसात्म्यमभ्याससात्म्यं, ओकशब्दोऽयम् ‘उच’ समवाय इत्यनेन धातुना व्युत्पादित इति व्याख्याति||१९-२०||

Adhikarana १७ (२१) · Śloka २१

अथापराऽपतन्त्यानाहाध्मानौ कुरुते, तस्मात् कण्ठमस्याः केशवेष्टितयाऽङ्गुल्या प्रमृजेत्, कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमिश्रैर्योनिमुखं धूपयेत्, लाङ्गलीमूलकल्केन वाऽस्याः पाणिपादतलमालिम्पेत्, मूर्ध्नि वाऽस्या महावृक्षक्षीरमनुसेचयेत्, कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत्, शालमूलकल्कं वा पिप्पल्यादिं वा मद्येन, सिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वाऽऽस्थापयेत्, एतैरेव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात्, स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत् ||२१||

🔊 Audio coming soon

Show commentary

अथापरेत्यादि| कृतवेधनः कोशातकः| ‘शालमूलकल्कं’ इत्यत्र ‘शालिमूलकल्कं’ इति केचित्||२१||

Adhikarana १८ (२२) · Śloka २२

प्रजातायाश्च नार्या रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोर्बस्तौ बस्तिशिरसि वा ग्रन्थिं करोति; ततश्च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च पक्वाशयः, समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम् | तत्र वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत्, यवक्षारचूर्णं वा सुखोदकेन पिप्पल्यादिक्वाथेन वा, पिप्पल्यादिचूर्णं वा सुरामण्डेन, वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं, पृथक्पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं, पुराणगुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेत्, अच्छं वा पिबेदरिष्टमिति ||२२||

🔊 Audio coming soon

Show commentary

प्रजाताया इत्यादि| प्रजातायाः प्रजननशोणितसञ्जनितशूलो मक्कल्लः; अवरुद्धरक्तपाकजनितो विद्रधिरपि मक्कल्लः, कार्ये कारणोपचारात्| मक्कल्लचिकित्सामाह- तत्रेत्यादि| जलं क्वाथम्| यवक्षारचूर्णं सुखोदकेन मन्दाग्नौ, कफप्रकृतीनां पिप्पल्यादिक्वाथेन, एवमन्येऽपि योगा दोषादीनवेक्ष्य योजनीयाः| अच्छं केवलम्| अरिष्टम् अभयारिष्टादिकम्||२२||

Adhikarana १९ (२३) · Śloka २३

अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, पीलुबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत्, मूर्ध्नि चास्याहरहस्तैलपिचुमवचारयेत्, धूपयेच्चैनं रक्षोघ्नैर्धूपैः, रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत्, तिलातसीसर्षपकणांश्चात्र प्रकिरेत्, अधिष्ठाने चाग्निं प्रज्वालयेत्, व्रणितोपासनीयं चावेक्षेत ||२३||

🔊 Audio coming soon

Show commentary

अथ बालमित्यादि| क्षौमं दुकूलम्| रक्षोघ्नैधूपैर्वचादिभिः| अधिष्ठाने सूतिकागारे| व्रणितोपासनीयं चावेक्षेतेति तेन प्राक्शीर्षशयनमजस्रदीपस्रग्दामादि सर्वमत्रापि तत्रोक्तं वेदितव्यम्||२३||

Adhikarana २० (२४) · Śloka २४

ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा ||२४||

🔊 Audio coming soon

Show commentary

तत इत्यादि| नक्षत्रनामेति नक्षत्रदेवताकृतं नामेत्यर्थः||२४||

Adhikarana २१ (२५-२७) · Śloka २७

ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्का(सा)मरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमलम्बोर्ध्वस्तनीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्मामामारोग्यबलवृद्धये बालस्य | तत्रोर्ध्वस्तनी करालं कुर्यात्, लम्बस्तनी नासिकामुखं छादयित्वा मरणमापादयेत् | ततः प्रशस्तायां तिथौ शिरःस्नातमहतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीं चोपवेश्य दक्षिणं स्तनं धौतमीषत्परिस्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् ||२५|| ‘चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिनः | भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ||२६|| पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने | दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ||२७||

🔊 Audio coming soon

Show commentary

तत इत्यादि| यथावर्णमिति ब्राह्मणस्य ब्राह्मणीं, क्षत्रियस्य क्षत्रियामित्यादि| धात्रीमुपेयात् स्तनदायिनीं समीपं गच्छेत्, ‘भिषक् बालग्राहको वा’ इति शेषः| श्यामा हि प्रायशः प्रचुरक्षीरा भवति| उक्तविपर्यासेन दोषस्य दिङ्मात्रं दर्शयन्नाह- तत्रेत्यादि| इतिशब्दोऽयमेवम्प्रकारे, तेनान्येऽपि दोषा एवम्प्रकाराः स्वयमप्यूह्य ज्ञातव्याः| अभिमन्त्रणमाह- चत्वार इत्यादि||२५-२७||

Adhikarana २२ (२८) · Śloka २८

अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधिजन्म भवति ||२८||

🔊 Audio coming soon

Show commentary

नियतधात्र्या अभावे दोषं दर्शयन्नाह- अतोऽन्यथेत्यादि||२८||

Adhikarana २३ (२९) · Śloka २९

अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः | तस्मादेवंविधानां स्तन्यं न पाययेत् ||२९||

🔊 Audio coming soon

Show commentary

कुत ईषत्परिस्रुतं स्तन्यं पाययेदित्याशङ्क्य तद्विपर्यये दोषं वक्तुमाह- अपरिस्रुत इत्यादि| उत्सुहितस्रोतस इति ऊर्ध्वपूरितस्रोतस इत्यर्थः| ‘उत्स्नुहितस्रोतस’ इति पाठे तु ऊर्ध्वं स्रुहितमुद्गीर्णं स्रोतो यस्येति समासः||२९||

Adhikarana २४ (३०) · Śloka ३०

क्रोधशोकावात्सल्यादिभिश्च स्त्रियाःस्तन्यनाशो भवति | अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्ययवगोधूमशालिषष्टिकमांसरससुरासौवीरकपिण्याकलशुनमत्स्यकशेरुकशृङ्गाटक- बिसविदारिकन्दमधुकशतावरीनालिकालाबूकालशाकप्रभृतीनि विदध्यात् ||३०||

🔊 Audio coming soon

Show commentary

क्रोधशोकेत्यादि| अवात्सल्यम् अममत्वम्| आदिशब्दाल्लङ्घनव्यायामादयः| अथास्या इत्यादि| नालिका शाकविशेषः, ‘नालिकेर’ इति क्वचित् पाठः||३०||

Adhikarana २५ (३१-३३) · Śloka ३३

अथास्याः स्तन्यमप्सु परीक्षेत; तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवतेऽवसीदति वा तच्छुद्धमिति विद्यात्, तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश्च भवति | न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूलविदग्धभक्तविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्; नाजीर्णौषधं च बालं, दोषौषधमलानां तीव्रवेगोत्पत्तिभयात् ||३१|| भवन्ति चात्र- धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा | दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ||३२|| मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः | दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः | भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ||३३||

🔊 Audio coming soon

Show commentary

अथास्याः स्तन्यमित्यादि| अवसीदति वेत्यत्रापि निषेधः सम्बन्धनीयः||३१-३३||

Adhikarana २६ (३४-३६) · Śloka ३६

अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते | मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ||३४|| निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत् | बस्तिस्थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति ||३५|| विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः | कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः ||३६||

🔊 Audio coming soon

Show commentary

व्याधिस्वरूपं प्रतिपादयितुमज्ञानां बालानां रोगज्ञानोपायमाह- अङ्गप्रत्यङ्गेत्यादि||३४-३६||

Adhikarana २७ (३७) · Śloka ३७

तेषु यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरसर्पिषा संयुक्तं विदध्यात्, धात्र्याश्च केवलं, क्षीरान्नादस्यात्मनि धात्र्याश्च पूर्ववत्, अन्नादस्य कषायादीनात्मन्येव न धात्र्याः ||३७||

🔊 Audio coming soon

Show commentary

तेषु च रोगेषु यथाविहितं यद्यदौषधं यत्र यत्र रोगे विहितं तत्तत्तत्र कुर्यात्| तदपि मृदु अतीक्ष्णम्, अच्छेदनीयं कफमेदसोरच्छेदकारि| मात्रया वक्ष्यमाणया| क्षीरसर्पिषा सह बालस्य क्षीरसर्पिःसात्म्यत्वात्; धात्र्याश्च केवलमेव न क्षीरयुक्तं नापि सर्पिर्युक्तमित्यर्थः| क्षीरान्नादस्य पूर्ववत् क्षीरसर्पिषा युक्तं, धात्र्यास्तु केवलमेव||३७||

Adhikarana २८ (३८) · Śloka ३८

तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्, कोलास्थिसम्मितां कल्कमात्रां क्षीरान्नादाय, कोलसम्मितामन्नादायेति ||३८||

🔊 Audio coming soon

Show commentary

तामेव मात्रां निर्दिशन्नाह- तत्र मासादूर्ध्वमित्यादि| अङ्गुलिपर्वद्वयग्रहणसम्मितामिति ‘क्षीराज्यालोडितौषधस्य’ इति शेषः| तन्त्रान्तरे चान्यथाऽभिहितं; यथा- “प्रथमे मासि जातस्य शिशोर्भेषजरक्तिका| अवलेह्या तु कर्तव्या मधुक्षीरसिताघृतैः|| एकैकां वर्धयेत्तावद्यावत् संवत्सरो भवेत्| तदूर्ध्वं माषवृद्धिः स्याद्यावत् षोडशकाब्दिकः”- इति||३८||

Adhikarana २९ (३९) · Śloka ३९

येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः | तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ||३९||

🔊 Audio coming soon

Show commentary

प्रकारान्तरेणौषधोपयोगमाह- येषां गदानामित्यादि||३९||

Adhikarana ३० (४०-४१) · Śloka ४१

एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे | स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ||४०|| न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ | विरेकबस्तिवमनान्यृते कुर्याच्च नात्ययात् ||४१||

🔊 Audio coming soon

Show commentary

ज्वरे विशेषमाह- एकमित्यादि| स्तन्यपायाहितं सर्पिः, ‘सात्म्याद्दत्तं’ इति वाक्यशेषः| इतराभ्यां क्षीरान्नादान्नादाभ्यां, यथार्थतो यथाप्रयोजनतः, हितं सर्पिरित्यर्थः| न चेत्यादि| अत्रेति ज्वरे| अत्ययादिति विनाशकारकाद्विकाराद्विनेत्यर्थः||४०-४१||

Adhikarana ३१ (४२) · Śloka ४३

मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् | तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ||४२|| पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा |४३|

🔊 Audio coming soon

Show commentary

तालुनि पतिते चिकित्सामाह- मस्तुलुङ्गक्षयादित्यादि| मस्तुलुङ्गोऽविलीनघृताकारा मस्तकमज्जा| मधुरकैः शृतमिति काकोल्यादिभिः पक्वम्| शीताम्बूद्वेजनमिति शीताम्बुचुलकैरासेचनात्त्रासनम्||४२||-

Adhikarana ३२ (४३-४४) · Śloka ४४

वातेनाध्मापितां नाभिं सरुजां तुण्डिसञ्ज्ञिताम् ||४३|| मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः | गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् | रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ||४४||

🔊 Audio coming soon

Show commentary

वातेनाध्मापितामित्यादि पानालेपनयोर्हितमित्यन्तं श्लोकद्वयं निबन्धकारैर्न पठितम्||४३-४४||

Adhikarana ३३ (४५) · Śloka ४५

क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पलीहरिद्राकुष्ठसैन्धवसिद्धं, क्षीरान्नादाय मधुकवचापिप्पलीचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधुकविडङ्गद्राक्षर्धिब्राह्मीसिद्धं ; तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति ||४५||

🔊 Audio coming soon

Show commentary

सर्पिःसात्म्यत्वाद्बालस्य स्वस्थेऽपि सर्पिरेव भेषजसिद्धं दर्शयन्नाह- क्षीरेत्यादि| पयस्या अर्कपुष्पी||४५||

Adhikarana ३४ (४६-४७) · Śloka ४७

बालं पुनर्गात्रसुखं गृह्णीयात्, न चैनं तर्जयेत्, सहसा न प्रतिबोधयेद्वित्रासभयात्, सहसा नापहरेदुत्क्षिपेद्वा वातादिविघातभयात्, नोपवेशयेत् कौब्ज्यभयात्, नित्यं चैनमनुवर्तेत प्रियशतैरजिघांसुः; एवमविहतमना ह्यभिवर्धते नित्यमुदग्रसत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाश्च भवति | वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्रहच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत् ||४६|| नाशुचौ विसृजेद्बालं नाकाशे विषमे न च | नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ||४७||

🔊 Audio coming soon

Show commentary

इदानीं बाले परिजनस्य करणीयं निर्दिशन्नाह- बालमित्यादि| अनुवर्तेत अनुकूलयेत्| प्रियशतैर्बालक्रीडनकदानादिभिरित्यर्थः| अजिघांसुरिति अहन्तुमिच्छुः सन्, ‘बालग्राहक’ इति शेषः| उक्तप्रकारानुकूलने फलमाह- एवमित्यादि| ‘पादपलताशून्यागार’ इत्यत्र केचित् ‘पादपलतानानागारनिम्नस्थानगृहच्छाया ’ इति पठन्ति| नाशुचावित्यादि| विषमे निम्नोन्नतप्रदेशे||४६-४७||

Adhikarana ३५ (४८) · Śloka ४८

क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा | दद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया ||४८||

🔊 Audio coming soon

Show commentary

स्त्रीस्तन्याभावे च क्षीरान्तरं निर्दिशन्नाह- क्षीरसात्म्यतयेत्यादि| आस्तन्यपर्याप्तेरिति यावत् स्तन्यस्य पुनः पर्याप्तिः परि समन्ततो भावेन प्राप्तिर्भवति, अथवा यावत् स्तन्यपानस्य योग्यता तावदित्यर्थः||४८||

Adhikarana ३६ (४९) · Śloka ४९

षण्मासं चैनमन्नं प्राशयेल्लघु हितं च ||४९||

🔊 Audio coming soon

Show commentary

अन्नदानकालमाह- षण्मासमित्यादि| गयी तु ‘षण्मासात्’ इति पठित्वा षण्मासादूर्ध्वमिति व्याख्याति||४९||

Adhikarana ३७ (५०) · Śloka ५०

नित्यमवरोधरतश्च स्यात् कृतरक्ष उपसर्गभयात्; प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ||५०||

🔊 Audio coming soon

Show commentary

नित्यमवरोधरत इति सततं परिजनावृतोऽन्तःपुरस्थो वा, कृतरक्षाक्रियो भवेत्| कुतः कारणादित्याह- उपसर्गभयात्| अस्यैवार्थस्य प्रयत्नकरणीयतां दर्शयन्नाह- प्रयत्नतश्चेत्यादि| रक्ष्या इति रक्षणीया इत्यर्थः||५०||

Adhikarana ३८ (५१) · Śloka ५१

अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसञ्ज्ञो भवति नखदशनैर्धात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्यूर्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठःक्रूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्बलो म्लानाङ्गो मत्स्यच्छुच्छ्रुन्दरिमत्कुणगन्धो यथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं, विस्तरेणोत्तरे वक्ष्यामः ||५१||

🔊 Audio coming soon

Show commentary

किं पुनर्ग्रहोपसर्गलक्षणं तदाह- अथ कुमार इत्यादि||५१||

Adhikarana ३९ (५२) · Śloka ५२

शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् ||५२||

🔊 Audio coming soon

Show commentary

तस्य कुमारस्य पुरुषार्थसाधनहेतुभूतां क्रियां निर्दिशन्नाह- शक्तिमन्तं चेत्यादि| शक्तिमन्तं विद्यार्जनक्लेशक्षमम्| यथावर्णमिति ब्राह्मणस्त्रयीं, राजन्यो दण्डनीतिं, वैश्यो वार्तामिति||५२||

Adhikarana ४० (५३) · Śloka ५३

अथास्मै पञ्चविंशतिवर्षाय षोडशदशवर्षां पत्नीमावहेत् पित्र्यधर्मार्थकामप्रजाः प्राप्स्यतीति ||५३||

🔊 Audio coming soon

Show commentary

विद्याग्रहणवद् परमपि कुमारस्य दृष्टादृष्टकारणसाधनभूतं निर्दिशन्नाह- अथास्मै इत्यादि| आवहेत् विदध्यात्| किमर्थमित्याह- पित्र्येत्यादि| पितुर्हितं कर्म पित्र्यं श्राद्धदानादि, धर्मः श्रुतिस्मृतिविहितं यज्ञाद्यनुष्ठानम्, अर्थः सुवर्णादिः, कामः स्वेषु विषयेष्विन्द्रियाणामानुकूल्यतः प्रवृत्तिः, प्रजाः पुत्रपौत्रादयः||५३||

Adhikarana ४१ (५४-५५) · Śloka ५५

ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् | यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ||५४|| जातो वा न चिरं जीवेज्जीवेद्वा दुर्बलेन्द्रियः | तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ||५५||

🔊 Audio coming soon

Show commentary

अप्राप्तपञ्चविंशतेरूनषोडशवर्षया सह संयोगे दोषं दर्शयन्नाह- ऊनषोडशवर्षायामित्यादि||५४-५५||

Adhikarana ४२ (५६) · Śloka ५६

अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत | पुरुषस्याप्येवंविधस्य त एव दोषाः सम्भवन्ति ||५६||

🔊 Audio coming soon

Show commentary

अतिवृद्धादिष्वपि गर्भाधाननिषेधमाह- अतिवृद्धायामित्यादि| पुरुषस्याप्येवंविधस्य गर्भाधानेऽनधिकार इति शेषः| कुतो गर्भाधाननिषेध इत्याह- त एवेत्यादि| एतेन कुक्षिस्थः स विपद्यत इत्यादिवाक्योक्ताः||५६||

Adhikarana ४३ (५७) · Śloka ५७

तत्र पूर्वोक्तैः कारणैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तदर्शनं च | तत्र शीतैः परिषेकावगाहप्रदेहादिभिरुपचरेज्जीवनीयशृतक्षीरपानैश्च | गर्भस्फुरणे मुहुर्मुहुस्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् | प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः, स्थानात् स्थानं च प्रक्रामति गर्भे कोष्ठे संरम्भः, तत्र स्निग्धशीताः क्रियाः | वेदनायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्टकारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत्; मूत्रसङ्गे दर्भादिसिद्धम्; आनाहे हिङ्गुसौवर्चललशुनवचासिद्धम् | अत्यर्थं स्रवति रक्ते कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मधुनाऽवलिह्यात्, यथालाभं न्यग्रोधादित्वक्प्रवालकल्कं वा पयसा पाययेत्, उत्पलादिकल्कं वा कशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसा, उदुम्बरफलौदककन्दक्वाथेन वा शर्करामधुमधुरेण शालिपिष्टं; न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रावयवं योन्यां धारयेत् | अथादृष्टशोणितवेदनायां मधुकदेवदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत्, तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा, बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा; एवमुपक्रान्ताया उपावर्तन्ते रुजो गर्भश्चाप्यायते | व्यवस्थिते च गर्भे गव्येनोदुम्बरशलाटुसिद्धेन पयसा भोजयेत् | अतीते लवणस्नेहवर्ज्याभिर्यवागूभिरुद्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत यावन्तो मासा गर्भस्य तावन्त्यहानि | बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेदरिष्टं वा | वातोपद्रवगृहीतत्वात् स्रोतसां लीयते गर्भः, सोऽतिकालमवतिष्ठमानो व्यापद्यते, तां मृदुना स्नेहादिक्रमेणोपचरेत्, उत्क्रोशरससंसिद्धामनल्पस्नेहां यवागूं पाययेत्, माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रम् | कालातीतस्थायिनि गर्भे विशेषतः सधान्यमुदूखल मुसलेनाभिहन्याद्विषमे वा यानासने सेवेत | वाताभिपन्न एव शुष्यति गर्भः, स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च, तं बृंहणीयैः पयोभिर्मांसरसैश्चोपचरेत् | शुक्रशोणितं वायुनाऽभिप्रपन्नमवक्रान्तजीवमाध्मापयत्युदरं, तं कदाचिद्यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते, तमेव कदाचित् प्रलीयमानं नागोदरमित्याहुः; तत्रापि लीनवत् प्रतीकारः ||५७||

🔊 Audio coming soon

Show commentary

इदानीं गर्भस्रावलक्षणानि सहेतुकानि सप्रतिकाराण्याह- तत्रेत्यादि| पूर्वोक्तैरिति मूढगर्भनिदानोक्तैर्ग्राम्यधर्मयानवाहनादिभिः| गर्भाशयादिशूलानि गर्भपातनिमित्तानिलजनितानि; रक्तदर्शनं चामगर्भान्वयं कृच्छ्रसाध्यम्| गयी तु गर्भस्रंसनेनार्तववहस्रोतोमुखविवृतेरार्तवक्षरणाद्रक्तदर्शनमित्याह| चिकित्सामाह- तत्रेत्यादि| जीवनीयानि काकोल्यादीनि| पृथक् पृथगवस्थाश्रितं चिकित्सितमाह- गर्भेत्यादि| उत्पलरक्तोत्पलेत्यादिरुत्पलादिः| प्रस्रंसमाने पतनाय किञ्चिच्चलति सदाहपार्श्वशूलादयो मूत्रसङ्गान्ता भवन्ति| कोष्ठे संरम्भ आमपच्यमानपक्वाशयादौ क्षोभः| स्थानं चेति चकारेण पूर्वोक्ताः शूलादयोऽपि| तेषु चिकित्सामाह- तत्रेत्यादि| स्निग्धशीताः सात्म्यतो न सर्वेषु| पार्श्वशूलादिषु चतुर्षु क्रियाविशेषं निर्दिशन्नाह- वेदनायामित्यादि| दर्भादिभिः सिद्धं तृणपञ्चमूलसिद्धम्| आनाहे लशुनसिद्धं पयो हिङ्गुसौवर्चलप्रक्षेपम्| अत्यर्थं स्रवति रक्ते असृग्दर इत्यर्थः| कोष्ठवदागारं कोष्ठागारं, तेन चरतीति कोष्ठागारिका गृहकारिका कीटविशेषः, तद्गृहमृत्तिका| औदकाः कन्दाः कसेरुशालुकनदीमाषकादयः| दृष्टशोणितायां रुजि चिकित्सां निर्दिश्यादृष्टशोणितायां चिकित्सां निर्दिशन्नाह- अथादृष्टशोणितेत्यादि| पयस्या अर्कपुष्पी| सिद्धं पयः ‘पाययेत्’ इति सम्बन्धः| अश्मन्तकः कर्बुदाराकारः| उपावर्तन्ते उपशमं यान्ति| गर्भश्चाप्यायते रक्तस्रुतिकर्शितः| ‘एवं क्षिप्रमुपक्रान्ते नीरुजाया उपावर्तते(न्ते) गर्भ आप्यायते च’ इति क्वचित् पाठः| तन्त्रान्तरे चोपविष्टकाख्योऽयं गर्भः कथितः| तथा च चरके- “यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति जातसारे गर्भे पुष्पदर्शनमन्यो वा योनिस्रावः, तस्या गर्भो वृद्धिं न प्राप्नोति निःस्रुतत्वात्, स कालान्तरमवतिष्ठते सस्पन्दश्च भवति, तमुपविष्टकमित्याचक्षते”- (च.शा.८) इति| व्यवस्थिते चेत्यादि| उदुम्बरशलाटुसिद्धेनेति उदुम्बरस्य कोमलैः फलैः पक्वेन क्षीरेण| क्षीरपाकस्तु तन्त्रान्तराभिहितो यथा- “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः”- इति| अतीते इत्यादि| अतीते पतित इत्यर्थः| उद्दालक आरण्यकोद्रवः, एतच्च यवागूदानं लङ्घनपूर्वम्| तथाच वाग्भटः- “आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम्| उपवासो घनोशीरगुडूच्यरलुधान्यकाः|| क्वथिताः सलिले पानं तृणधान्यादिभोजनम्” (वा.शा.२)- इति| बस्त्युदरशूलेष्वित्यादि| दीपनीयसंयुक्तं पञ्चकोलचूर्णसंयुक्तम्| अरिष्टम् अभयारिष्टादिकम्| उक्तरक्तपरिस्रुतिनिमित्तोपविष्टकप्रसङ्गेनापरां चिरकालस्थायिनीं गर्भविकृतिं दर्शयन्नाह- वातेत्यादि| लीयते श्लिष्यति; कुत इत्याह- स्रोतसां गर्भनिर्गममार्गाणां वातोपद्रवेण सङ्कोचादिना गृहीतत्वात्| व्यापद्यते विनश्यतीत्यर्थः| मृदुना अतीक्ष्णेन, तीक्ष्णस्य गर्भोपघातकत्वात्| स्नेहादिनेत्यत्रादिशब्दो न व्यवस्थावाची, तीक्ष्णस्वेदस्य वमनविरेचनयोश्च गर्भोपघातकत्वात्; अत आदिशब्दः प्रधानवाची, तेन स्नेहप्रधानानुक्रमेणेत्यर्थः| अन्ये पुनर्मृदुनेति अच्छपानवर्जितावचारणास्नेहेनेति मन्यन्ते| तामेवावचारणां निर्दिशन्नाह- उत्क्रोशरससंसिद्धामित्यादि| उत्क्रोशः कुररभेदः, अनल्पस्नेहां प्रभूतस्नेहाम्; अन्ये पुनरल्पस्नेहामिति पठन्ति तदसम्यक्, यवाग्वाः पवनावजयार्थमुपयुज्यमानत्वात् परतन्त्रदर्शनाच्च| तदुक्तं चरके- “यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूतसर्पिषा भोजयेत्” (च.शा.८) इति| बिल्वशलाटुसिद्धानिति बिल्वस्य कोमलफलैः सिद्धान्| एवं स्रोतसामवरोधहेतोर्वातस्योपशमविधिमुक्त्वा वातोपशममृदुभूतानां स्रोतसां विकासार्थं विधिं दर्शयन्नाह- कालातीत इत्यादि| लीन एवायं विधिः| वाताभिपन्न इत्यादि| वाताभिपन्नो गर्भः शुष्यति, नतु पुनर्लीनवन्मार्गावरोधात्तिष्ठति | गर्भशोषलक्षणं पुनः कुक्षेरपूरणं, वातशोषणेनैव विहतौजस्त्वाद्गर्भो मन्दमेव चलति| बृंहणीयैः पयोभिरिति बृंहणीयसंस्कृतैः क्षीरैरित्यर्थः| मांसरसैश्चेति चकाराल्लीनप्रतिकारसमुच्चयः| वृद्धकाश्यपेन शुष्कलक्षणमभिहितं यथा- “गर्भनाड्यास्त्ववहनादल्पत्वाद्वा रसस्य च| चिरेणाप्यायते गर्भस्तथैवाकालभोजनात्|| अकुक्षिपूरणं गर्भस्पन्दनं मन्दमेव च”- इति| अपरमपि वाताभिपन्नं गर्भं दर्शयन्नाह- शुक्रेत्यादि| शुक्रशोणितमिति वचनादसञ्जाताङ्गप्रत्यङ्गमेव, वायुनाऽभिप्रपन्नं वायुनोपरुद्धम्, अवक्रान्तजीवं जीवोपगतम्, अत एवाकुथितमवतिष्ठते| शुक्रार्तवावरोधको वायुरेवोदरमाध्मापयति; तदाध्मानं कदाचिद्यदृच्छया अनियतहेतुना, उपशान्तं लीनीभूतं दृष्ट्वा नैगमेषेण बालग्रहेणापहृतमिति वदन्ति| वाताभिपन्नमेव गर्भावस्थाविशेषं दर्शयन्नाह- तमेवेत्यादि| तमेव वाताभिपन्नमेव, पुनः पुनरनया वृत्त्या प्रविलीयमानमल्पीभवन्तं नागोदरमिति ब्रुवते| तत्रेति नागोदरे| अपिशब्दान्नैगमेषापहृतेऽपि लीनोक्तः प्रतीकारः||५७||

Adhikarana ४४ (५८-६२) · Śloka ६२

अत ऊर्ध्वं मासानुमासिकं वक्ष्यामः- ||५८|| मधुकं शाकबीजं च पयस्या सुरदारु च | अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ||५९|| वृक्षादनी पयस्या च लता सोत्पलसारिवा | अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ||६०|| बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम् | पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ||६१|| शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता | वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः | यथासङ्ख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ||६२||

🔊 Audio coming soon

Show commentary

शाको महावृक्षः कर्कशपत्रः, तस्य बीजम्| पयस्या अर्कपुष्पी, गयी तु पयस्यां क्षीरविदारीं क्षीरकाकोलीं वा ब्रूते| अश्मन्तकः कोविदारसदृशोऽम्लपत्रः ‘अम्ललोटक’ इति लोके| ताम्रवल्ली रामतरुणी, मञ्जिष्ठामपरे| लता प्रियङ्गुः| अनन्ता उत्पलसारिवा| पद्मा पद्मचारिणी, भार्गीमपरे| बृहत्यौ स्थूलफला चणकबृहती च| क्षीरिशुङ्गाः क्षीरिवृक्षाणां वटादीनामविकसिताः प्रवालाः| मधुपर्णी मधुयष्टिका| यथासङ्ख्यमिति प्रथममासमारभ्य सप्तममासान् यावदनुक्रमेणेत्यर्थः| पयोयुता इति चूर्णादिप्रयोगे एते योगाः पयसा युताः प्रयोज्या इत्यर्थः||५८-६२||

Adhikarana ४५ (६३-६५) · Śloka ६५

कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका | मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ||६३|| नवमे मधुकानन्तापयस्यासारिवाः पिबेत् | क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ||६४|| सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च | एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ||६५||

🔊 Audio coming soon

Show commentary

कपित्थेत्यादि| कपित्थादीनां मूलानि क्षीरसिद्धान्यष्टमे मासि, नवमे मधुकादयः सारिवान्ताः क्षीरसिद्धाः पिबेत्| पयस्या क्षीरविदारी| दशमे मासि शुण्ठीपयस्याभ्यां क्षीरपाककल्पनया सिद्धं क्षीरं हितं भवेत्, अथवा सक्षीराः शुण्ठ्यादयः प्रशस्यन्ते; वाग्भटेऽप्येतैः सिद्धं क्षीरं प्रतिपादितं; तथाच- “कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिका- | मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे|| नवमे सारिवानन्तापयस्यामधुयष्टिभिः| योजयेद्दशमे मासि क्षीरं सिद्धं पयस्यया|| अथवा यष्टिमधुकनागरामरदारुभिः”- (वा.शा.२) इति| गयदासेन चैते गर्भस्रावचिकित्सितयोगाः प्रागेव गर्भश्चाप्यायत इत्यनन्तरं पठिताः||६३-६५||

Adhikarana ४६ (६६) · Śloka ६६

निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं प्रसवमानाया नार्याः कुमारोऽल्पायुर्भवति ||६६||

🔊 Audio coming soon

Show commentary

इदानीं पूर्वगर्भजन्मनो या उत्तरगर्भजननावधिस्तामतिक्रम्य गर्भग्राहिण्या दोषं दर्शयन्नाह- निवृत्तेत्यादि| एतेन षड्भ्यो वर्षेभ्य ऊर्ध्वं ‘निवृत्तप्रसवा’ इत्युच्यते| षट्सु षडवयवेषु पञ्चचतुस्त्रिद्विवर्षेषु गर्भानुजननस्य जन्मकाल इति; कुतः पुनरस्याः कुमारोऽल्पायुर्भवति? उच्यते- गर्भाशययोन्यादिदोषेण हि निवर्तते प्रसवः; तत्र तच्छोधनक्रियामन्तरेणाहारविहारादिगुणमात्रेण यदृच्छयोपगृहीतगर्भाया योनिगर्भाशयादिष्वनिःस्फोटितदोषेषु जातोऽल्पायुरेवेति||६६||

Adhikarana ४७ (६७) · Śloka ६७

अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्दयेन्मधुराम्लेनान्नोपहितेनानुलोमयेच्च, संशमनीयं च मृदु विदध्यादन्नपानयोः, अश्नीयाच्च मृदुवीर्यं मधुरप्रायं गर्भाविरुद्धं च, गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुप्रायाः ||६७||

🔊 Audio coming soon

Show commentary

गर्भव्याघातकत्वेन निषिद्धाया वमनादिक्रियायाः क्वचिदत्ययकारिणि व्याधौ मृदुना द्रव्येण प्रतिप्रसवं निर्दिशन्नाह- अथ गर्भिणीमित्यादि| अत्यये विनाशहेतौ| अनुलोमयेच्चेति मधुराम्लेनान्नोपहितेनेति सम्बन्धः| आहारं नियमयन्नाह- अश्नीयाच्चेत्यादि| विहारमप्यस्य नियमयन्नाह- गर्भाविरुद्धा इत्यादि| यथायोगम् अहीनातिमिथ्यायोगेनेत्यर्थः||६७||

Adhikarana ४८ (६८-७०) · Śloka ७०

सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा | मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ||६८|| अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा | हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु ||६९|| चत्वारोऽभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्वपि | कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः ||७०||

🔊 Audio coming soon

Show commentary

इदानीं योगान्तरैः सह कुमारस्य सुवर्णचूर्णं निर्दिशन्नाह- सौवर्णमित्यादि| मत्स्याक्षको ब्राह्मी ‘पत्तूर’ इत्येके, अन्ये रक्तपुष्पमानूपं ‘मत्स्याक’ इति लोके प्रसिद्धमाहुः| अर्कपुष्पी पयस्या अर्कसदृशपयःपुष्पा लतैव, श्वेतदूर्वाविशेषां केचिदाहुः, वृक्षजातिमन्ये| कैडर्यः पर्वतनिम्बः| संवत्सरं यावदेते योगाः प्रयोज्याः; अन्ये द्वादशवर्षाण्याहुः| मात्रा उक्तैव| गयी तु प्राक्तनमात्राप्रतिपादकं वाक्यमपठित्वा मात्राज्ञानार्थं विश्वामित्रोक्तं वाक्यमभिदधति; यथा- ‘विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्| एतेनैव प्रमाणेन मासि मासि प्रवर्धितम्|| कोलास्थिमात्रं क्षीरादे दद्याद्भैषज्यकोविदः| क्षीरान्नादे कोलमात्रमन्नादे डुम्बरोपमम्”- इति||६८-७०||

Adhikarana पुष्पिका · Śloka १०

इति सुश्रुतसंहितायां शारीरस्थाने गर्भिणीव्याकरणं शारीरं नाम दशमोऽध्यायः ||१०|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां तृतीयं शारीरस्थानं समाप्तम् |

🔊 Audio coming soon

Show commentary

इति भिषग्वरश्रीडल्हणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने दशमोऽध्यायः समाप्तः||१०||