Skip to content

६४. मूढगर्भनिदानम्

Adhikarana गर्भस्य स्रावपातयोर्निदानपूर्वकं पूर्वरूपम् (१) · Śloka

अथ मूढगर्भनिदानम् | भयाभिघातात्तीक्ष्णोष्णपानाशननिषेवणात् | गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

योनिस्थानविकारानुवृत्तेः स्त्रीरोगनिदानारम्भः| तत्र गर्भपातनिदानमाह– भयाभिघातादित्यादि| एतच्चोपलक्षणं, तेनान्येऽपि सुश्रुतोक्ता ग्राम्यधर्मयानवाहनपतनस्खलनादयो बोद्धव्याः| पततीति स्रंसमाने, तेन स्रावपातयोरपि सशूलं रक्तदर्शनं भवति, एतत्तु पूर्वरूपमिति दर्शयति||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ स्त्रीविकाराधिकारात्स्त्रीरोगनिदानम्| तत्र गर्भपातहेतुमाह– भयेत्यादि| एतच्चोपलक्षणम्| तेनान्येऽपि सुश्रुतोक्ता ग्राम्यधर्मयानवाहनपतनस्खलनादयो ग्राह्याः| पततीति स्रंसमाने, सशूलं रक्तदर्शनं भवतीति पूर्वरूपकथनम्||१||

Adhikarana गर्भस्रावगर्भपातयोः कालभेदः (२) · Śloka

आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविद्रवः | ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ||२|| (सु. नि. अ. ८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

एतयोः कालभेदमाह– आचतुर्थादित्यादि| गर्भविद्रव इति अनतिघनावयवत्वेन विशेषेण द्रवरूपतया गर्भविद्रवो भण्यते; स्रावो नातिघनत्वात्, पातस्तु घनत्वात्| यत्तु भोजेऽभिहितम्– “आतृतीयात्ततो मासाद्गर्भः स्रवति शोणितम्| ऊर्ध्वं सङ्घातभूतस्तु गर्भः पतति योषिताम्||” इति| सङ्घातभूतः कोमलाङ्गः, पिण्डितावस्थ इत्यर्थः| अत एव सुश्रुते चतुर्थमासेऽप्यदृढत्वात् स्रावः कथितः| स्थिरशरीरस्येति कठिनशरीरावयवस्य| पञ्चमषष्ठयोरिति सप्तमे अनुगुणजनने जीवदर्शनायोक्तं, विगुणजनने तु सप्तमादिमासेष्वपि गर्भपातः| अन्ये तु पञ्चमषष्ठयोरेव पातः, सप्तमादिषु दोषवैगुण्याद्धि प्रसव इति आचार्यप्रामाण्याद्व्यवहाराच्च मन्यन्ते||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

स्रावपातयोरिदानीं कालनियममाह– आचतुर्थादित्यादि| अनतिघनावयवत्वेन विशेषेण द्रवरूपतया गर्भविद्रवो भण्यते| यदुक्तं भोजे– “आतृतीयात्ततो मासाद्गर्भः स्रवति शोणितम्| ऊर्ध्वं सङ्घातभूतस्तु गर्भः पतति योषिताम्||” इति| तच्चतुर्थे मासि संयावरूपतया अनभिव्यक्तदृष्टाङ्गतया सुश्रुतेन स्रावपक्षे निक्षिप्तम्| स्थिरशरीरस्येति कठिनशरीरावयवस्य| पञ्चमषष्ठयोरिति सप्तमे अनुगुणजनने जीवनदर्शनायोक्तिः| विगुणजनने तु सप्तमादिमासेष्वपि पातः| सप्तमादिषु तु दोषवैगुण्याद्धि प्रसव इति आचार्यप्रामाण्याद्व्यवहाराच्च मन्यन्ते||२||

Adhikarana गर्भस्याकालपाते निदानपूर्वको दृष्टान्तः (३) · Śloka

गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन |३|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गर्भस्याकालपाते निदानपूर्वकं दृष्टान्तमाह– गर्भोऽभिघातेत्यादि| पक्वं द्रुमादिवेति दृष्टान्तेनैव दर्शयति– यथा वृन्तलग्नं पक्वफलमभिघातेनाकाल एव पतति, तथोक्तहेतुभिरकाले गर्भपातः|३|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

गर्भस्याचिरपातं सदृष्टान्तमाह– गर्भ इत्यादि| पूर्णसर्वावयवस्तु प्रसवः समुचिते काले|३|–

Adhikarana उचितप्रसवकाले मूढगर्भस्य स्थितिः (३) · Śloka

मूढः करोति पवनः खलु मूढगर्भं शूलं च योनिजठरादिषु मूत्रसङ्गम् ||३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उचितप्रसवकाले यथा मूढो गर्भः स्यात्तदाह– मूढः करोतीत्यादि| मूढो व्यासक्तगतिः, शूलं च योनिजठरादिषु ‘करोति’ इति शेषः; मूत्रसङ्गमित्यत्र करोतीति सम्बध्यते||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

यथा मूढो गर्भो भवति तदाह– मूढ इत्यादि| मूढो व्यासक्तगतिः, मूढगर्भं करोति, योनिजठरादिषु शूलं च करोति, मूत्रसङ्गं च करोतीति सम्बध्यते||३||

Adhikarana मूढगर्भस्याष्टविधा गतिः (४-५) · Śloka

भुग्नोऽनिलेन विगुणेन ततः स गर्भः सङ्ख्यामतीत्य बहुधा समुपैति योनिम् | द्वारं निरुध्य शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्तितकुब्जदेहः ||४|| एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः | पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियं ह्यपरा चतुर्धा ||५||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विगुणानिलत्वादसङ्ख्येयत्वेऽपि विशिष्टा अष्टौ गतीराह– भुग्नोऽनिलेनेत्यादि| भुग्नो विगुणीकृतः| बहुधेति कथितप्रकारादप्यधिकं दर्शयति| द्वारं निरुध्य शिरसेत्येकः प्रकारः, शिरसा विपुलेन द्वारं योनिमुखं पिधाय लग्नो भवतीत्यर्थः| जठरेण कश्चिदित्यपरः, जठरेणोदरेण योनिद्वारं पिधाय सक्तो भवतीत्यर्थः| कश्चित् शरीरपरिवर्तितकुब्जदेह इति शरीरपरिवर्तनेन कुब्जदेहः कश्चित् सक्तो भवति, अनेनान्तःकुब्जपृष्ठकुब्जयोः परिग्रहः| एकेनेति बाहुना, अयं चतुर्थः| तिर्यग्गत इति अर्गलायमानः| कश्चिदवाङ्मुखोऽन्य इति ग्रीवाभङ्गादधः संलग्नः| पार्श्वापवृत्तगतिरिति पार्श्वभङ्गेन विगुणीकृतः; पार्श्वनत इति यावत्| एतीति स्वस्थानादपैति, तथैवेति अवाङ्मुखः सन्| सुश्रुतेऽप्यष्टधा गतिरेव पठ्यते| यथा– “कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रपद्यते, कश्चिदाभुग्नैकसक्थिरेकेन सक्थ्ना, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः, कश्चिदुदरपृष्ठपार्श्वानामन्यतमेन योनिद्वारं पिधायावतिष्ठते, अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना, कश्चिदाभुग्नशिरा बाहुद्वयेन, कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः, कश्चिदेकेन सक्थ्ना योनिमुखमभिप्रपद्यते अपरेण पायुम्|” (सु. नि. अ. ८) इति||४-५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विगुणानिलयोगादसङ्ख्येयां गतिमाह– भुग्न इत्यादि| भुग्नो विपरीतीकृतः, बहुधेति उक्तप्रकारादधिकम्| तत्र व्यवहारयोग्यानष्टौ प्रकारानाह– द्वारमिति| विपुलेन शिरसा योनिमुखं पिधाय लग्नो भवति, इत्येकः प्रकारः| अपरो ध्मातेन जठरेणोदरेण योनिकुब्जमुखं पिधाय सक्तो भवतीति द्वितीयः प्रकारः| कश्चित् शरीरपरिवर्तनेन विपरीतवर्तनेन देहः सक्तो भवति, अनेन चान्तःकुब्जपृष्ठकुब्जयोः परिग्रहः, अयं तृतीयः प्रकारः| कश्चिदेकेन बाहुना इति चतुर्थः प्रकारः| अपरो बाहुद्वयेनेति पञ्चमः प्रकारः| पार्श्वापवृत्तगतिरिति पार्श्वभङ्गेन विगुणीकृतः पार्श्वनत इति यावत्| एतीति स्वस्थानादपैति| तथैवेत्यवाङ्मुखः सन्, एवमष्टधा गतिर्भवति| गर्भस्य चतुरः प्रकारान् पुनराह– अप्यपराश्चतुर्धा इत्यादि| सङ्कीलकादिभेदेन अपरा वक्ष्यमाणाश्चतुःप्रकाराः||४-५||

Adhikarana मूढगर्भस्यापरा चतुःप्रकारा गतिः (६) · Śloka

सङ्कीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनिम् | सङ्गी च यो भवति कीलकवत् स कीलो दृश्यैः खुरैः प्रतिखुरं स हि कायसङ्गी | गच्छेद्भुजद्वयशिराः स च बीजकाख्यो योनौ स्थितः स परिघः परिघेण तुल्यः ||६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इत्यष्टविधा गतीः प्रदर्श्य चतुःप्रकारेण ये गतिविशेषाः कथितास्तानाह– सङ्कीलक इत्यादि| सम्यक् कीलवत् सङ्कीलकः, स्वार्थे कन्| तेनोर्ध्वबाहुचरणशिरोभिः कीलकवल्लग्नो योन्यां सङ्कीलकः| पृष्ठेन योन्यां तथैतद्विपरीतेन दृश्यैः हस्तपादशिरोभिः प्रतिखुरः खुरसाधर्म्यात्; खुरशब्देन हस्तपादावुच्येते| गच्छेद्भुजद्वयशिरा इति भुजद्वयोपहितं शिरो यस्य स तथाभूतः सन् यो गच्छेत् स बीजकः कायसङ्गी| भोजेऽप्येता गतयः पठ्यन्ते| तथाहि– “ऊर्ध्वबाहुशिरःपादो रुन्ध्याद्योनिमुखं तु यः| प्रतिकीलोपमस्थित्या स च कीलकसञ्ज्ञितः|| अधस्तात् पार्श्वतो वाऽपि तथैवाकुञ्चितोऽपि वा| यो निःसृत्य मुखं योनेर्ज्ञेयः प्रतिखुरस्तु सः|| योनिद्वारात्तु निर्गच्छेद्यश्चैकः सशिरोभुजः| तमाहुर्बीजकं नाम मूढगर्भचिकित्सकाः|| योनिमावृत्य यस्तिष्ठेत् परिघो गोपुरं यथा| तथाऽन्तर्गर्भमायान्तं विद्यात् परिघसञ्ज्ञितम्||” इति||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तानाह– सङ्कीलक इत्यादि| ऊर्ध्वबाहुचरणशिरोभिः कीलितैः योन्यां कायलग्नः सङ्कीलकः| योनिमिति योनिं प्रतिखुरैरिति खुरसाधर्म्यात्खुरशब्देन हस्तपादा उच्यन्ते, तेन हस्तपादैः बहिर्गतैः प्रतिखुर उच्यते, स प्रतिखुरः कायसङ्गी निरुद्धकायो भवति| बीजकमाह– गच्छेदित्यादि| भुजद्वयोपहितं शिरो यस्य स तथाभूतः सन् यो गच्छेत् स बीजकः| परिघमाह– यो योनिमावृत्य तिष्ठेत्स परिघः| परिघेण तुल्य इति| परिघोऽर्गलादण्डः| भोजेऽप्येता गतयः पठ्यन्ते– “ऊर्ध्वबाहुशिरःपादो रुजन्योनिमुखं तु यः| प्रतिकीलोपमः स्थित्वा सङ्कील इति सञ्ज्ञितः|| अधःपार्श्वगतो वापि तथैवाकुञ्चितोऽपि वा| यो निःसृत्य मुखं योनेर्ज्ञेयः प्रतिखुरस्तु सः|| योनिद्वारात्तु निर्गच्छेद्यश्चैकांसशिरोभुजः| तमाहुर्बीजकं नाम मूढगर्भचिकित्सकाः| योनिमावृत्य यस्तिष्ठेत्परिघो गोपुरं यथा| तथाऽन्तर्गर्भमायान्तं विद्यात्परिघसञ्ज्ञितम्||” इति||६||

Adhikarana असाध्यमूढगर्भगर्भिण्योर्लक्षणम् (७) · Śloka

अपविद्धशिरा या तु शीताङ्गी निरपत्रपा | नीलोद्गतसिरा हन्ति सा गर्भं स च तां तथा ||७|| (सु. नि. अ. ८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यमूढगर्भगर्भिण्योर्लक्षणमाह– अपविद्धशिरा या त्वित्यादि| अपविद्धशिरा शिरो धारयितुमशक्तेत्यर्थः, अवनतशिरा इति गदाधरः| निरपत्रपा लज्जाशून्या| नीलोद्गतसिरा इति नीलवर्णा उद्गताः सिराः कुक्षौ यस्याः सा तथा| स चेति गर्भः||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यमूढगर्भगर्भिण्योर्लक्षणमाह– अपविद्धेत्यादि| अपविद्धशिराः शिरो धारयितुमशक्ता| अवनतशिरा इति गदाधरः| निरपत्रपा लज्जारहिता| नीलोद्गतसिरेति नीला उद्गगताः सिराः कुक्षौ यस्याः सा तथा, सा गर्भं हन्ति स चेति गर्भस्तामित्यर्थः||७||

Adhikarana अन्तर्मृतगर्भलक्षणम् (८) · Śloka

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता | भवेदुच्छ्वासपूतित्वं शूनताऽन्तर्मृते शिशौ ||८|| (सु. नि. अ. ८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मृतगर्भलक्षणमाह गर्भास्पन्दनमित्यादि| अस्पन्दनं निश्चलत्वं, जीवतो गर्भस्यावयवचलनं भवति| आवीनां प्रणाशः प्रसववेदनानामभावः; अथवा आवीशब्देन प्रसवलिङ्गान्युच्यन्ते, तानि च मूत्रकफप्रसेकादीनि, तेषां नाशः| शूनतेति उच्छूनता, अन्तर्गतस्य मूढगर्भस्याध्मापनेन||८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ गर्भिणीरक्षार्थं मृतस्य मूढगर्भस्य परिपीड्याकर्षणार्थं लक्षणमाह– गर्भेत्यादि| गर्भास्पन्दनं गर्भस्याऽचलत्वम्| आवीनां प्रणाश इति प्रसववेदनानामभावः, अथवा आवीशब्देन प्रसवलिङ्गानि भण्यन्ते, तानि च मूत्रकफप्रसेकादीनि, तेषां नाशः| शूनतेति उद्धतता, मृतस्य गर्भस्याध्मापनेन||८||

Adhikarana मानसागन्तुदुःख-व्याधिभेदेन द्विविधो गर्भमरणहेतुः (९) · Śloka

मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः | गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च निपीडितः ||९|| (सु. नि. अ. ८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्यान्तर्गतस्य मानसागन्तुदुःखव्याधिभेदेन द्विविधं मरणहेतुमाह– मानसागन्तुभिरित्यादि| उपतापैः दुःखैः||९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्यान्तर्मृतस्य मानसागन्तुदुष्टव्याधिभेदेन द्विविधं हेतुमाह– मानसेत्यादि| उपतापैरिति दुःखैः, तथागन्तुभिरपि पीडितः||९||

Adhikarana अपरमसाध्यगर्भिणीलक्षणम् (१०-११) · Śloka ११

योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च | हन्युः स्त्रियं मूढगर्भां यथोक्ताश्चाप्युपद्रवाः ||१०|| वायुः प्रकुपितः कुर्यात् संरुध्य रुधिरं स्रुतम् | सूताया हृच्छिरोबस्तिशूलं मक्कल्लसञ्ज्ञकम् ||११||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अपरमसाध्यगर्भिणीलक्षणमाह– योनिसंवरणमित्यादि| योनिसंवरणं तन्त्रान्तरपठितो रोगः| तथाहि– “वातलान्यन्नपानानि ग्राम्यधर्मं प्रजागरम्| अत्यर्थं सेवमानाया गर्भिण्या योनिमार्गगः|| मातरिश्वा प्रकुपितो योनिद्वारस्य संवृतिम्| कुरुते रुद्धमार्गत्वात् पुनरन्तर्गतोऽनिलः|| निरुणद्ध्याशयद्वारं पीडयन् गर्भसंस्थितिम्| निरुद्धवदनोच्छ्वासो गर्भश्चाशु विपद्यते|| बद्धां संरुद्धहृदयां नाशयत्याशु गर्भिणीम्| योनिसंवरणं विद्याद्व्याधिमेनं सुदारुणम्|| अन्तकप्रतिमं घोरं नारभेत चिकित्सितम्|” इति| सङ्गः कुक्षाविति योनिसंवरणे प्रतिनिवृत्तो वायुर्गर्भाशयं यदा निरुणद्धि तदा गर्भः कुक्षौ सक्तो भवति| स उच्यते– सङ्गः कुक्षाविति| मक्कल्लो रक्तमारुतजः शूलविशेषः| यद्यपि प्रसूतायाः शूलं मक्कल्लमुक्तं सुश्रुते– “ प्रजातायाश्चोत्तरकालं तीक्ष्णैरविशोधितं रक्तं मक्कल्लं करोति|” (सु. शा. अ. १०) इति, तथाऽपि प्रजातायाश्चेति चकारेणाप्रजाताया अपि शूलं मक्कल्लमिति| यथोक्ताश्चाप्युपद्रवा इति यथोक्ता ये ये उक्तास्ते पुनराक्षेपकश्वासादयः||१०-११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अपरमसाध्यगर्भिणीलक्षणमाह– योनीत्यादि| योनिसंवरणे सति प्रतिनिवृत्तो वायुर्गर्भाशयद्वारं यदा रुणद्धि, तदा गर्भः कुक्षौ सक्तो भवति स उच्यते– सङ्गः कुक्षाविति| मक्कल्लो रक्तमारुतजः शूलविशेषः| योनिसंवरणं तन्त्रान्तरे रोगविशेषः| यथा “वातलान्यन्नपानानि ग्राम्यधर्मं प्रजागरम्| अत्यर्थं सेवमानायां गर्भिण्या योनिमार्गगः|| मातरिश्वा प्रकुपितो योनिद्वारस्य संवृतिम्| कुरुते रुद्धमार्गत्वात्पुनरन्तर्गतोऽनिलः| निरुणद्ध्याशयद्वारं पीडयन् गर्भसंस्थितम्| निरुद्धवदनोच्छ्वासो गर्भश्चाशु विपद्यते|| विपन्नः शूनसर्वाङ्गः सर्वाण्येवायनानि च| बद्धां संरुद्धहृदयां नाशयत्याशु गर्भिणीम्|| योनिसंवरणं नाम व्याधिमेनं सुदारुणम्| अन्तकप्रतिमं घोरं नारभेत चिकित्सितम्||” इति| यथोक्ताश्चाप्युपद्रवास्ते च पुनराक्षेपककासश्वासादयः| “पूतिगन्धि तथा स्वेदो जिह्वा तालु च शुष्यति| वेपते भ्राम्यति तथा जीवितं चोपरुध्यते|| एतैर्लिङ्गैर्विजानीयान्मूढगर्भं चिकित्सकः||” मक्कल्लमाह– वायुः प्रकुपित इत्यादि| यद्यपि प्रसूतायाः शूलं मक्कल्लमुक्तम्| यदुक्तं सुश्रुते– “प्रजातायाश्चोत्तरकालं तीक्ष्णैरवशोषितं रक्तं मक्कलं करोति” इति, तथापि प्रजातायाश्चेति चकारेणाप्रजाताया अपि शूलं मक्कल्लमिति||१०-११||

Adhikarana पुष्पिका · Śloka ६४

इति श्रीमाधवकरविरचिते माधवनिदाने मूढगर्भनिदानं समाप्तम् ||६४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां मूढगर्भनिदानं समाप्तम्||६४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां मूढगर्भनिदानम्||६४||