Adhikarana उन्मादनिरुक्तिः (१) · Śloka १
अथोन्मादनिदानम् |
मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः |
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ||१||
(सु. उ. तं. अ. ६२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मदात्यये ‘उन्मादमिव चापरम्’ इत्यनेन उन्मादसङ्कीर्तनमुन्मादसादृश्यं चोक्तं, तथा मदात्ययेऽपि दाहो भवतीति स्वल्पवक्तव्यतया दाहमभिधायोन्मादारम्भः, तस्य निरुक्तिमाह– मदयन्तीत्यादि| मदयन्ति मनोविभ्रमं कुर्वन्ति, उन्मार्गमागता विमार्गमागता मनोवहाधमनीरनुप्राप्ताः| उद्गता वृद्धाः, अथवा ऊर्ध्वं हृदयं गताः, एतेनोत्पूर्वेणैव दोषाणां वृद्धत्वं विमार्गगत्वं च दर्शितम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मदात्यये ‘उन्मादमिव चापरम्’ इत्यनेनोन्मादसङ्कीर्तनमुन्मादसादृश्यं चोक्तं, तथा मदात्यये दाहो भवतीति तुल्यलक्षणतया दाहमभिधायोन्मादारम्भः, तस्य निरुक्तिमाह– मदयन्तीत्यादि| यस्माद्दोषा मदयन्ति मनोविभ्रमं कुर्वन्ति, अतोऽयं मानसो व्याधिरुन्माद इति कीर्त्यत इति सम्बन्धः| कीदृशाः? उद्गता वृद्धाः, अथवा ऊर्ध्वं हृदयं गताः, उन्मार्गमागता विमार्गगाः, मनोवहधमनीरनुप्राप्ताः, तेन ततः पूर्वेणैव दोषाणां वृद्धत्वं विमार्गगत्वं च दर्शितम्||१||
Adhikarana उन्मादभेदाः (२-३) · Śloka ३
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः |
मानसेन च दुःखेन स च पञ्चविधो मतः ||२||
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् |
स चाप्रवृद्धस्तरुणो मदसञ्ज्ञां बिभर्ति च ||३||
(सु. उ. तं. अ. ६२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रकारभेदमाह– एकैकश इत्यादि| मानसेन च दुःखेनेति शोकादिना| स चेति षड्विधोऽपि| अत्राप्रवृद्धपदमुपादायापि तरुणपदप्रयोगं कुर्वता सुश्रुतेन स्वतन्त्रोऽपि दोषजनितो मदो भवतीति दर्शितम्| अत एव चरके विधिशोणितीयाध्याये (च. सू. अ. २४) उन्मादात् पृथगेव पठितः सनिदानचिकित्सित इति||२-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य सङ्ख्यामाह– एकैकश इत्यादि| वातेन पित्तेन श्लेष्मणा सर्वश इति सन्निपातेन, अत्यर्थमूर्छितैः अतिप्रवृद्धैः, मानसेन तु दुःखेनेति शोकादिना, विषात् षष्ठो भवति| स चाप्रवृद्ध इति स च विकारः, यावत् प्रवृद्धो वृद्धिं गतो न भवति, यावच्च तरुणस्तावन्मद इति सञ्ज्ञां बिभर्ति, मद इति कथ्यत इत्यर्थः| सुश्रुते स्वतन्त्रोऽपि दोषजनितो मदो भवतीति व्याख्यातम्| अत एव चरके विधिशोणितीयाध्याये उन्मादात्पृथगेव पठितः स निदानचिकित्सित इति||२-३||
Adhikarana उन्मादसामान्यनिदानम् (४) · Śloka ४
विरुद्धदुष्टाशुचिभोजननि प्रधर्षणं देवगुरुद्विजानाम् |
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ||४||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सामान्यहेतुमाह– विरुद्धेत्यादि| दुष्टं गरसहितमन्नादि| प्रधर्षणं ‘धृष’ प्रधर्षणे, इत्यस्मात् प्रधर्षणमभिभवः| भयहर्षपूर्वो मनोऽभिघात इति भयहर्षाभ्यां मनसोऽभिभवः; भयहर्षपूर्व इति भयं हर्षो द्वौ वा पूर्वं यस्य स तथा; पूर्वशब्दोऽत्र कारणवाची, चकारोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, तेन कामक्रोधलोभादयोऽपि कारणमिति जेज्जटः; अन्ये त्वाहुः– क्रोधादिभिरपि भयहर्षपूर्वक एव भवतीति तेन तौ निर्दिष्टौ| विषमाश्च चेष्टा इति विषमाङ्गन्यासबलवद्विग्रहादय उन्मादहेतव इति योज्यम्||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य सामान्यहेतुमाह– विरुद्धेत्यादि| दुष्टं गरदुष्टमन्नादि, अशुचि भोजनं चाण्डालादिस्पृष्टं, प्रधर्षणं निन्दाद्यभिभवनं, मनोभिघात इति भयहर्षाभ्यां मनोभिभवः, भयहर्षपूर्व इति भयहर्षौ पूर्वौ यस्व स तथा| पूर्वशब्दोऽत्र कारणवाची, चकारोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, तेन कामक्रोधलोभादयोऽपि कारणमिति जेज्जटः| अन्ये त्वाहुः– क्रोधादिभिरपि भयहर्षपूर्वक एव भवतीति, तेन तौ निर्दिष्टाविति| विषमाश्चेष्टा इति विषमाङ्गन्यासबलवद्विग्रहादयः, उन्मादहेतुरिति योज्यम्||४||
Adhikarana उन्मादसम्प्राप्तिः (५) · Śloka ५
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य |
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ||५||
(च. चि. अ. १) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्प्राप्तिमाह– तैरित्यादि| तैरुक्तहेतुभिः| अल्पसत्त्वस्य अल्पसत्त्वगुणस्येति चक्रः; जेज्जटस्त्वाह– सत्त्वं मनः, तस्य चाल्पत्वं रजस्तमोभ्यामावृतत्वेनाल्पज्ञानजनकत्वात्| मला वातादयः| बुद्धेर्निवासं हृदयमित्यनेन हृदयस्याश्रयस्य दुष्ट्या तदाश्रितज्ञानस्यापि दुष्टिर्भवतीति दर्शयति| स्रोतांसि मनोवहानीति हृदयाश्रिता दश धमन्यः; एतच्च विशेषेण बोध्यं, निखिलदेहस्रोतसामेव मनोऽधिष्ठानत्वेन चरके दर्शितत्वात्| अधिष्ठाय व्याप्येत्यर्थः||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सम्प्राप्तिमाह– तैरित्यादि| तैरुक्तहेतुभिरल्पसत्त्वस्य नरस्य मला वातादयः प्रदुष्टाः सन्तो बुद्धेर्निवासं हृदयं प्रदूष्य मनोवहानि स्रोतांसि अधिष्ठाय व्याप्य आशु चेतः प्रमोहयन्ति| अल्पसत्त्वस्याल्पसत्वगुणस्येति चक्रः; जेज्जटस्त्वाह– सत्त्वं मनः, तस्य चाल्पत्वं रजस्तमोभिभूतत्वेनाल्पज्ञानजनकत्वात्| बुद्धेर्निवासं हृदयमित्यनेन हृदयमाश्रिता धमन्यः, एतच्च विशेषेण बोध्यं, निखिलदेहस्रोतसामेव मनोधिष्ठानत्वेन चरके दर्शितत्वात्| अधिष्ठाय व्याप्य||५||
Adhikarana उन्मादसामान्यलक्षणम् (६) · Śloka ६
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च |
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ||६||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सामान्यरूपमाह– धीविभ्रम इत्यादि| एतत् सामान्यं पूर्वरूपमिति जेज्जटः, सामान्यरूपमिति चक्रः| धीविभ्रमो भ्रान्तज्ञानत्वम्| सत्त्वपरिप्लवो मनसश्चञ्चलत्वम्| अधीरता कातरत्वम्| अबद्धवाक्त्वमसम्बद्धवचनत्वम्| लिङ्ग्यतेऽनेनेति लिङ्ग, तेन पूर्वरूपं रूपं चेति व्याख्यातम्||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूर्वरूपमाह– धीत्यादि| धीविभ्रमो भ्रान्तज्ञानत्वं, सत्त्वपरिप्लवो मनसश्चञ्चलत्वम्| अन्ये सत्त्वगुणस्येति| पर्याकुला दृष्टिरिति आकुलाबलोकनम्| अधीरता कातरत्वम्| अबद्धवाक्त्वं असम्बद्धवचनत्वम्| हृदयं शून्यमित्यन्तं धीविभ्रमत्वादि सामान्यलक्षणमेवाह||६||
Adhikarana वातिकोन्मादस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (७-८) · Śloka ८
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः |
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ||७||
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि |
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ||८||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजमाह– रूक्षेत्यादि| विरेकशब्देनात्र वान्तिरप्यभिधीयते, विरेचयति देहान्मलं पृथक्करोतीति व्युत्पत्त्या| अस्थानहासेत्यादि अस्थानेऽविषये हासोऽस्थानहासः; एवमस्थानशब्दः स्मितादिषु प्रयोज्यः| स्मितमीषद्धासः| अङ्गविक्षेपो विरुद्धचेष्टा| जीर्णे बलमिति जीर्णे आहारे व्याधेर्बलं भवति||७-८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिकमाह– रूक्षेत्यादि| एतद्वातिकोन्मादलक्षणम्| रूक्षाल्पशीतान्नैर्भोज्यैः| विरेकशब्देनात्र वान्तिरप्यभिधीयते, विरेचयति देहान्मलं पृथक् करोतीति व्याख्यानात्| धातुक्षयो रसादिधातुक्षयः| एतैर्दुष्टो वायुश्चिन्ताशोकादिदुष्टं हृदयं मनः प्रविश्य बुद्धिं स्मृतिं च शीघ्रमुपहन्ति| अनुभूतार्थस्मरणं स्मृतिः| अस्थानहास्यं अविषये हास्यम्| एवमस्थानशब्दः स्मितादिषु योज्यः| स्मितमीषद्धासः, अङ्गविक्षेपणं विरुद्धचेष्टा, पारुष्यं रौक्ष्यं, कार्श्यं कृशता, अरुणवर्णता ईषद्रक्तवर्णता, जीर्णे बलमिति जीर्णे आहारे व्याधेर्बलं भवतीत्यर्थः||७-८||
Adhikarana पैत्तिकोन्मादस्य निदानादिपूर्वकं लक्षणम् (९-१०) · Śloka १०
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् |
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ||९||
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम् ||१०||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तजमाह– अजीर्णेत्यादि| अशीतैरिति उष्णैः| उन्मादमत्युग्रमिति अत्युग्रं तीव्रवेगम्, ‘उन्मादयत्युग्रम्’ इति पाठान्तरे उग्रं यथा भवति तथा उन्मादं जनयति| अनात्मकस्य अनात्मवतः| पूर्ववदिति चिन्तादिदुष्टहृदयस्य बुद्ध्यादिकमुपहत्येत्यादिसम्प्राप्त्या| कुर्यादिति वक्ष्यमाणं लिङ्गमिति शेषः| अत्र पक्षे किं तल्लिङ्गमित्याह– अमर्षेत्यादि– अमर्षोऽसहिष्णुत्वं, न तु रोषः; तस्य वक्ष्यमाणत्वात्| संरम्भ आरभटी; विनग्नभावो नग्नत्वम्| सन्तर्जनं परित्रासनम्, अतिद्रवणं पलायनम्, औष्ण्यं गात्रस्य; ‘औष्ठ्यम् इति पाठान्तरे विकृतौष्ठत्वम्| प्रच्छायशीतान्नजलाभिलाष इति छायायां शीतयोरन्नजलयोरभिलाषः||९-१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकमाह– अजीर्णेत्यादि| अजीर्णादिभिश्चितं सञ्चयतां गतम्| उदीर्णवेगं पित्तं पूर्ववत् चिन्तादिदुष्टहृदयस्य बुद्ध्यादिकमुपहन्ति| अजीर्णमविदग्धम्, अशीतैः उष्णैः, उग्रं तीव्रं यथा भवति तथा उन्मादं जनयति| अनात्मकस्य अनात्मवतः| अमर्षं असहिष्णुत्वं, संरम्भ आरभटी, हस्तपादादिविक्षेपणमित्यन्ये| विनग्नभावो वस्त्रादित्यागः| सन्तर्जनं परित्रासनं भर्त्सनमपरस्येत्यर्थः| अभिद्रवणं पलायनम्| औष्ण्यं गात्रस्य, ‘औष्ठ्यम्’ इति पाठान्तरं, तत्र विकृतौष्ठत्वम्| चोषो दाहविशेषः| प्रच्छायेत्यादि छायायाः शीतयोश्चान्नजलयोरभिलाषः| पीता च भाः पीतवर्णता||९-१०||
Adhikarana श्लैष्मिकोन्मादस्य निदानादिपूर्वकं लक्षणम् (११-१२) · Śloka १२
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रदुष्टः |
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम् ||११||
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा |
छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्ल्यं च कफात्मके स्यात् |
(च. चि. अ. ९) ||१२||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कफजमाह– सम्पूरणैरित्यादि| मन्दविचेष्टितस्य आयासशून्यस्य| सम्पूरणैर्भोजनादिभिः, कफो दुष्ट इति सम्बन्धः| सोष्मा सपित्तः| कफेनापि क्रियमाण उन्मादोऽवश्यं सपित्तेन क्रियते व्याधिमहिम्ना, यथा मूर्छा| अन्ये त्वाहुः– केवलकफेनापि क्रियते, सोष्मपदेन तु द्वन्द्वजोऽपि भवतीति सूच्यते| अन्ये त्वाहुः– ऊष्मशब्देन शक्तिरुच्यते, तेनोत्कृष्टशक्तिकः कफ इत्यर्थः| मर्मणीति हृदये| विकारमुन्मादम्| वागित्यादि नारीविविक्तप्रियतेति नारीप्रियता विजनप्रियता च| बलं च भुक्ते इति ‘व्याधेः’ इति शेषः| नखादीत्यादिशब्देन त्वङ्मूत्रनेत्रादीनां ग्रहणम्||११-१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लैष्मिकमाह– सम्पूरणैरित्यादि| मन्दविचेष्टितस्य आयासशून्यस्य; सम्पूरणैरतिभोजनादिभिः कफो दुष्ट इति सम्बन्धः| सोष्मा सपित्तः| कफेनापि क्रियमाण उन्मादोऽवश्यं सपित्तेन क्रियते व्याधिमहिम्ना, यथा मूर्छा| अन्ये त्वाहुः– केवलेनापि कफेन स क्रियते, सोष्मपदेन तु द्वन्द्वजोऽपि भवतीति सूच्यते| अन्ये त्वाहुः– ऊष्मशब्देन शक्तिरुच्यते, तेनोत्कृष्टशक्तिकः कफ इत्यर्थः| मर्मणि हृदये| चित्तं प्रमोहयन् बुद्धिं स्मृतिं चोपहत्य विकारमुन्मादम्| वाक्चेष्टितं मन्दम्| अल्पम् अरोचकता| नारीविविक्तप्रियता नारीप्रियता, विजनप्रियता च| निद्राबाहुल्यं तथा छर्दिः, लालास्रावश्च बलं च भुङ्क्ते नाशयति, ‘व्याधेः’ इति शेषः| नखनेत्रादीनां शौक्ल्यम्||११-१२||
Adhikarana सान्निपातिकोन्मादस्य निदानादिपूर्वकं लक्षणम् (१३) · Śloka १३
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात् |
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः ||१३||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सान्निपातिकमाह– य इत्यादि| सर्वैः समस्तैरिति सर्वैरिति कृत्वाऽपि यत् समस्तैरिति करोति तेनैवं बोधयति– वातादयोऽनेकैः स्वनिदानैः कुपिता उन्मादं जनयन्ति, नतु प्रत्येकमेकनिदानकुपिताः| विरुद्धभैषज्यविधिर्विवर्ज्य इति अयमभिसन्धिः– त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका क्रिया कार्या, सा च परस्परविरोधिनी, त्रिदोषहरं च किञ्चिदेव द्रव्यमामलक्यादि, तत्तु नात्र यौगिकं “न हि सर्वाणि सर्वत्र यौगिकानि भवन्ति” इति वचनात्| ननु, यद्येवं तदा सर्व एव हि त्रिदोषजविकारा असाध्याः भवेयुरित्यत उक्तम्– तादृगिति| कोऽप्ययं सम्प्राप्तिविशेषो रोगविशेषो वा, येनायं विरुद्धभैषज्यविधिर्न तु सर्व इत्यर्थः| अन्ये त्वाहुः– सर्वैः समस्तैर्हेतुभिर्यैः कृतः स एवासाध्यः, न त्वल्पहेतुकृत इति||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सान्निपातिकमाह– य इत्यादि| सन्निपातग्रहणेनैव सर्वात्मकत्वं लब्धं पुनः सर्वैरिति यद्ग्रहणं कृतं तद्रजस्तमोग्रहणार्थं, तेन रजस्तमोमिलितैरित्यर्थः; तेन वातादयो रजस्तमोभिः मनोदोषैर्मिलिताः समस्तैश्च निदानैः कुपिता उन्मादं जनयन्ति| सर्वाणि रूपाणि सर्वदोषलक्षणानि बिभर्ति| तादृगिति तादृशः| कोऽप्येष त्रिदोषसम्प्राप्तिविशेषो रोगविशेषो वा, येनायं विरुद्धभैषज्यविधिर्विवर्ज्यः; विरुद्धभैषज्यविधिरिति कोऽर्थः? त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका क्रिया कार्या, सा च परस्परविरोधिनी, त्रिदोषहरं च किञ्चिदेव द्रव्यमामलकादि, तच्च नात्र यौगिकमित्यर्थः||१३||
Adhikarana शोकादिजोन्मादस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (१४) · Śloka १४
चोरैर्नरेन्द्रपुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसङ्क्षयाद्वा |
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतमो मनसो विकारः ||१४||
चित्रं ब्रवीति च मनोऽनुगतं विसञ्ज्ञो गायत्यथो हसति रोदिति चापि मूढः |
(सु. उ. तं. अ. ६२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शोकादिजमाह– चोरैरित्यादि| क्षते उपहते, प्रियया रिरंसोः कामुकस्य अप्राप्तया प्रियया क्षते मनसीति सम्बन्धः| तस्य लक्षणमाह– चित्रमित्यादि| चित्रं विविधम्| मनोऽनुगतं गोप्यमपि| विसञ्ज्ञो विपरीतज्ञानः, अत एव मूढः||१४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मनोदुःखजमाह– चौरैरित्यादि| नरेन्द्रपुरुषैः नृपाधिकारिभिः, अरिभिः, अन्यैरिति सिंहगजादिभिः, वित्रासितस्य क्रोधशस्त्रादिभिः; द्रव्यविनाशात् पुत्रादिमरणाद्वा, तथा रिरंसोः कामुकस्य प्रियाया अप्राप्त्या, गाढं क्षते मनसीति सम्बन्धः| तस्य रूपमाह– चित्रमित्यादिना| चित्रं विविधं मनोऽनुगतं गोप्यमपि ब्रवीति| विसञ्ज्ञो विपरीतज्ञानः, अत एव मूढः||१४||–
Adhikarana विषजोन्मादलक्षणम् (१५) · Śloka १५
रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेद्विसञ्ज्ञः ||१५||
(सु. उ. तं. अ. ६२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विषजमाह– रक्तेक्षण इत्यादि| हतबलेन्द्रियभा इति हतं बलमिन्द्रियाणि भाश्च यस्य स तथा| भा दीप्तिः||१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तेक्षण इत्यादि| हतं बलमिन्द्रियाणि भाः शरीरदीप्तिश्च यस्य स तथा| श्यावाननः कृष्णमुखः विषजनितोन्मादेन||१५||
Adhikarana उन्मादस्यासाध्यलक्षणम् (१६) · Śloka १६
अवाञ्ची वाऽप्युदञ्ची वा क्षीणमांसबलो नरः |
जागरूको ह्यसन्देहमुन्मादेन विनश्यति ||१६||
(सु. उ. तं. अ. ६२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यलक्षणमाह– अवाञ्चीत्यादि| अवाञ्ची अधोमुखः, उदञ्ची ऊर्ध्वमुखः, अत एवान्ये ‘अवाङ्मुखस्तून्मुखो वा’ इति पठन्ति| जागरूकोऽनिद्रः||१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यलक्षणमाह– अवाञ्चीत्यादि| अवाञ्ची अवाङ्मुखः, उदञ्ची ऊर्ध्वमुखः| ‘अवाङ्मुखस्तून्मुखो वा’ इति केचित्पठन्ति| क्षीणं मांसं बलमोजश्च यस्य स तथा| जागरूकः गतनिद्रः||१६||
Adhikarana भूतोन्मादसामान्यलक्षणम् (१७) · Śloka १७
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः |
उन्मादकालोऽनियतश्च तस्य भूतोत्थमुन्मादमुदाहरेत्तम् ||१७||
(च. चि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
भौतिकोन्मादस्य सामान्यलक्षणमाह– अमर्त्यवागित्यादि| अमर्त्या अमनुष्या अनुचिता वा वागादयो यस्य स तथा| विक्रमः पराक्रमः, वीर्यं शक्तिः, चेष्टा शारीरिकी क्रिया| ज्ञानादिविज्ञानबलादिभिरिति उपलक्षणे तृतीया| ज्ञानं तत्त्वज्ञानं, विज्ञानं शिल्पादिज्ञानं; किंवा ज्ञानं शास्त्रज्ञानं, विज्ञानं तदर्थनिश्चयः; आदिशब्देन स्मृत्यादीनां ग्रहणं, तेषां बलम्| अनियत इति न वातजादिवदाहारजीर्णादिकालवत् कालनियमः| नियत इति पाठे तु वक्ष्यमाणनियततिथ्यादीनां ग्रहणं “देवग्रहाः पौर्णमास्यां” इत्यादि| भूतशब्देनात्र सर्व एव वक्ष्यमाणा देवदयोऽभिधीयन्ते||१७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
भूतजमुन्मादमाह– अमर्त्यवागित्यादि| अमर्त्यानाममनुष्याणामनुचिता वागादयो यस्य स तथा| विक्रमः पराक्रमः, वीर्यं शक्तिः, चेष्टा शरीरक्रिया| ज्ञानादिविज्ञानबलादिभिरिति उपलक्षणे तृतीया| ज्ञानं तत्वज्ञानं, विज्ञानं शिल्पादिज्ञानं, किंवा ज्ञानं शास्त्रं, विज्ञानं तदर्थनिश्चयः| आदिशब्देन स्मृत्यादीनां ग्रहणं, तेषां बलम्| अनियत इति कदाचिन्मध्याह्ने, कदाचित्प्रदोषे, न तु वातादिजवदाहारजीर्णादिकालनियमः, तं भूतोत्थमुन्मादं कथयेत्| ‘नियता’ इति पाठे तु वक्ष्यमाणनियततिथ्यादीनां ग्रहणं, देवग्रहाः पौर्णमास्यामित्यादि| भूतशब्देनात्र सर्वे वक्ष्यमाणा देवादयोऽभिधीयन्ते||१७||
Adhikarana देवजुष्टलक्षणम् (१८) · Śloka १८
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रीरवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ||१८||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
देवजुष्टमाह– सन्तुष्ट इत्यादि| अतिदिव्यमाल्यगन्ध इति अतिमात्रो दिव्यमाल्यस्येव गन्धो यस्य स तथा| निस्तन्द्रीः अनिद्रः| अवितथं सत्यम्| विदेहेऽपि “निःस्वप्नं सत्यसंस्कृतभाषिणम्” इति पठितम्| ब्रह्मण्यो ब्राह्मणानुरक्तः| देवजुष्टो देवग्रहपीडितः| देवग्रहणेन गणमातृकादयोऽपि ग्राह्याः| विदेहेऽपि पठ्यते “क्रोधनः स्रस्तसर्वाङ्गो लालाफेनाविलाननः| निद्रालुः कम्पनो मूको गणमातृभिरर्दितः||” इति||१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
देवजुष्टमाह– सन्तुष्ट इत्यादि| सन्तुष्टः सन्तोषवान्| शुचिः स्नानाचमनादिना| अतिमात्रं दिव्यमाल्यस्येव गन्धो यस्य स तथा| निस्तन्द्रीः निद्रारहितः, अवितथं सत्यं संस्कृतं च प्रभाषत इति| विदेहेऽप्युक्तम्– “निःस्वप्नं सत्यसंस्कृतभाषणम्” इति| तेजस्वी तेजोयुक्तः, स्थिरनयनः निमेषरहितः, वरदाता यतः ब्रह्मण्यः ब्राह्मणानुरक्तः| देवभूतजुष्टः देवग्रहपीडितः| देवग्रहणेन गणमातृकादयो ग्राह्याः| यदुक्तं विदेहे– “क्रोधनः स्तब्धसर्वाङ्गो लालाफेनाविलाननः| निद्रालुः कम्पनो मूको गणमातृभिरर्दितः” इति||१८||
Adhikarana असुरजुष्टलक्षणम् (१९) · Śloka १९
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ||१९||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
देवशत्रुजुष्टमाह– संस्वेदीत्यादि||१९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असुरजुष्टमाह– संस्वेदीत्यादि| यः संस्वेदी स्वेदवान्, ब्राह्मणगुरुदेवानां निन्दकः, जिह्माक्षः कुटिलदृष्टिः, विमार्गदृष्टिः, श्रुतिधर्मनिन्दकः; अन्नं शालिमांसादि, पानं क्षीरमद्यादि, तैः सन्तुष्टो न भवति| दुष्टात्मा पापबुद्धिः| एवंविधो देवशत्रुजुष्टो भवति||१९||
Adhikarana गन्धर्वाविष्टलक्षणम् (२०) · Śloka २०
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||२०||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
गन्धर्वाविष्टमाह– हृष्टेत्यादि| पुलिनं तोयोज्झितं तटम्, अन्तरं मध्यं विशेषो वा| स्वाचारोऽनिन्दिताचारः| प्रियेत्यादि प्रियाणि परि सर्वतो गीतगन्धमाल्यानि यस्य स तथा| नृत्यन्नित्यादि चारु (यथा भवति तथा) नृत्यन्नल्पशब्दं यथा भवति तथा प्रहसतीति योज्यम्||२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
गन्धर्वाविष्टमाह– हृष्टात्मेत्यादि| हृष्टात्मा चिन्तादिरहितः सन्तुष्टात्मा| पुलिनं नद्यादितटं, वनमुद्यानं, तयोरन्तरं मध्यं, तद्विशेषात् सेवत इति| स्वाचारः अनिन्दिताचारः| प्रियाणि परि समन्ततोभावेन गीतगन्धमाल्यानि यस्य स तथा| नृत्यन्नित्यादि चारु यथा भवति तथा नृत्यन्; अल्पशब्दो यथा भवति तथा प्रहसन्निति योज्यम्||२०||
Adhikarana यक्षाविष्टलक्षणम् (२१) · Śloka २१
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||२१||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
यक्षाविष्टमाह– ताम्राक्ष इत्यादि| प्रियेत्यादि प्रियं शोभनं, तनु सूक्ष्मं रक्तं च वस्त्रं धर्तुं शीलं यस्य स तथा||२१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
यक्षजुष्टमाह– ताम्राक्ष इत्यादि| ताम्राक्षो रक्तनेत्रः| प्रियं शोभनं तनु सूक्ष्मं रक्तवस्त्रं धर्तुं शीलं यस्य स तथा| गम्भीरः अनाकुलितान्तःकरणः, द्रुतगतिः उत्तालगतिः; अल्पवाक् अल्पभाषी, सहिष्णुः सहनशीलः| कस्मै किं ददामीत्येवं वदति||२१||
Adhikarana पितृजुष्टलक्षणम् (२२) · Śloka २२
प्रेतानां स दिशति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः ||२२||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पितृजुष्टमाह– प्रेतानामित्यादि| प्रेतानां मृतपितॄणां, सम्बन्धमात्रविवक्षया न चतुर्थी| दिशति ददाति| संस्तरेषु कुशपत्रादिरचितास्तरणेषु| अपसव्यवस्त्रो वामोत्तरीयः| मांसेप्सुरित्यादि| एतदभिधानप्रयोजनं यस्मिन् यस्येच्छा भवति तस्य तेनैव बलिर्दातव्यः; एवमन्यत्रापि द्रष्टव्यम्| तद्भक्तः पितृभक्तः||२२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पितृग्रहजुष्टमाह– प्रेतानामित्यादि| प्रेतानां पितॄणां, सम्बन्धमात्रस्य विवक्षितत्वान्न चतुर्थी| दिशति ददाति, संस्तरेषु कुशपत्रादिरचितसंस्तरणेषु, पिण्डान् अन्नमयान्, शान्तात्मा शान्तस्वभावः, जलमपि चेति न परं दर्भसंस्तरेषु पिण्डान् अपसव्यवस्त्रो वामोत्तरीयो ददाति किन्तु जलमपि चेत्यर्थः| ‘अपसव्यहस्तः’ इति पाठे दक्षिणहस्तः| मांसेप्सुरित्यादि एतदभिधानप्रयोजनं यस्य यत्रेच्छा भवति तस्य तेनैव बलिर्दातव्यः| एवमन्यत्रापि द्रष्टव्यम्| पायसः क्षीरसिद्धास्तण्डुलाः, अभिकामोऽभिलाषुकः| तद्भक्तः पितृभक्तः; तद्भक्तः तिलादिभोजन इति डल्हणः||२२||
Adhikarana नागाविष्टलक्षणम् (२३) · Śloka २३
यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ विलिहति जिह्वया तथैव |
क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्ज्ञातव्यो भवति भुजङ्गमेन जुष्टः ||२३||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
नागाविष्टमाह– यस्त्वित्यादि| प्रसरति सर्पवदिति उरसा गच्छति| सृक्कण्यौ ओष्ठप्रान्तौ| सृक्कणीशब्द ईकारान्तोऽप्यस्तीत्युन्नेयम्||२३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सर्पग्रहजुष्टमाह– य इत्यादि| उर्व्यां भूमौ सर्पवदुरसा गच्छति, सृक्कण्यौ ओष्ठप्रान्तौ जिह्वया विलिहति| क्रोधालुः कोपनः, गुडादिप्रियः, भुजङ्गमग्रहेण जुष्टो ज्ञेयः||२३||
Adhikarana राक्षसाविष्टलक्षणम् (२४) · Śloka २४
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः ||२४||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
राक्षसाविष्टमाह– मांसेत्यादि| निशाविहारी निशायामेव भ्रमणशीलः| राक्षसशब्देन ब्रह्मराक्षसादयोऽपि ग्राह्याः| तथा राक्षसानन्तरं विदेहोऽपि पठति– “देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः| आत्मपीडाकरो हासी ब्रह्मराक्षससेवितः||” इति||२४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
राक्षसजुष्टमाह– मांसेत्यादि| विविधसुराविकाराः पैष्टीप्रभृतयः, भृशमतिशयेन लज्जारहितः, अतिनिष्ठुरः दयारहितः, विपुलबलः अन्नाद्विनाऽपि प्रभूतबलः, निशाविहारी निशायामेव भ्रमणशीलः, शौचद्विट् अशुचिः| राक्षसग्रहणेन ब्रह्मराक्षसादयोऽपि गृह्यन्ते| यतो राक्षसानन्तरं विदेहे पठ्यते– “देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः| आत्मपीडाकरो हासी ब्रह्मराक्षससेवितः” इति||२४||
Adhikarana पिशाचाविष्टलक्षणम् (२५) · Śloka २५
उद्धस्तः कृशपरुषो अचिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः ||२५||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पिशाचाविष्टमाह– उद्धस्त इत्यादि| उद्धस्त ऊर्ध्वबाहुः; ‘उद्वस्त्र’ इति पाठान्तरं न्याय्यं, विदेहेऽपि दिगम्बरपाठात्; उद्वस्त्रो नग्नः| परुषो रूक्षः| लोलः सर्वस्मिन्नन्ने पाने च सतृष्णः| ‘लोलुः’ इति पाठान्तरे स एवार्थः| व्याचेष्टन्निति विरुद्धमाचेष्टन्||२५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पिशाचजुष्टमाह– उद्धस्त इत्यादि| उद्धस्त ऊर्ध्वबाहुः| ‘उद्वस्त्रः’ इति पाठे उद्वस्त्रो नग्नः, विदेहेऽपि दिगम्बर इति पाठात्| कृशो निर्मांसः, परुषो रूक्षः, विरुद्धलापी विरुद्धभाषी| ‘अचिरप्रलापी’ इति पाठान्तरम्| दुर्गन्धः, अतिलोलः सर्वस्मिन्नन्नपाने सतृष्णः, अतिचपल इत्यन्ये; ‘अतिलोलुः’ इति पाठान्तरे अशनलोलुप इत्यर्थः| बह्वाशी प्रचुरभोक्ता| विजनं निर्जनस्थानं, हिमाम्बु शीताम्बु, तयोः सेवी, रात्रेः सेवी रात्रिविचारीत्यर्थः| ‘विजनवनान्तरोपसेवी’ इति पाठान्तरम्| व्याचेष्टन् विविधं चेष्टन्; ‘व्याचेष्टम्’ इति पाठान्तरे विरुद्धचेष्टं यथा भवति तथा भ्रमति||२५||
Adhikarana भूतोन्मादस्यासाध्यलक्षणम् (२६) · Śloka २६
स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रालुः पतति च कम्पते च यो हि |
यश्चाद्रिद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे ||२६||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्रिविधं हि हिंसाक्रीडापूजार्थं ग्रहा गृह्णन्ति| यदुक्तम्– “अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्| हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि च||” (सु. उ. तं. अ. ६०) इति| तत्र हिंसार्थं गृहीतोऽसाध्यो भवति, तस्य श्लोकार्धद्वयेन लक्षणमाह– स्थूलाक्ष इत्यादि| स्थूलाक्षो विकृतनेत्र इति जेज्जटः| द्रुतमटनो द्रुतगतिः, अत एव ‘त्वरितगतिः’ इति जेज्जटेन पठितम्| यश्चेत्यादि| पर्वतादिपतितः सन् यो गृह्यते सोऽप्यसाध्यः, नगो वृक्षः| सर्व एवोन्मादी त्रयोदशेऽब्दे देवतादिगृहीतोऽप्यसाध्यः| विदेहेऽधिकमप्यसाध्यलक्षणं पठ्यते– “मेढ्रप्रवृत्तः क्षतजः सास्राक्षः स्रुतनासिकः| रूक्षजिह्वः पूतिगर्भो हतवागतिदुर्बलः||” इत्यादि||२६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिविधं हि हिंसाक्रीडापूजार्थं ग्रहा गृह्णन्ति| यदुक्तम्– “अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्| हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि च” इति| अस्यार्थः भिन्नमर्यादं श्रुतिस्मृत्युदितकर्मणोऽन्यत्र कर्मणि प्रवृत्तं अभक्ष्यागम्याहिंसादिप्रवृत्तत्वात्| क्षतं सव्रणं, मांसशोणितप्रियत्वात्| अक्षतमपि शौचादिरहितम्| अत्र विहारशब्देन रतिरभिधीयते| सत्कारः पूजा| तत्र हिंसार्थं गृहीतोऽसाध्यो भवति| तस्य लक्षणमाह– स्थूलाक्ष इत्यादि| स्थूलाक्षो विवृतनेत्रः, विद्रुतगतिः, यश्चातिकम्पते सोऽसाध्यः| यश्चैतेभ्यः पतितः स्यात् सोऽप्यसाध्यः| अद्रिः पर्वतः, द्विरदो गजः, नगो वृक्षः| आदिग्रहणात् तटप्रासादादयो गृह्यन्ते सर्वत्रोन्मादादिति शेषः| एतेभ्यः पतितः स्यादित्यर्थः| त्रयोदशे वर्षे देवादिगृहीतोऽप्यसाध्यः| विदेहेऽधिकमप्यसाध्यलक्षणं पठितं यथा– “मेढ्रप्रवृत्तः क्षतजः सास्राक्षः स्रुतनासिकः| रूक्षजिह्वः पूतिगर्भो हतवागतिदुर्बलः” इत्यादि||२६||
Adhikarana देवादीनां ग्रहणकालः (२७-२८) · Śloka २८
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां, यक्षाश्च प्रतिपद्यथ ||२७||
पित्र्याः कृष्णक्षये हिंस्युः, पञ्चम्यामपि चोरगाः |
रक्षांसि रात्रौ, पैशाचाश्चतुर्दश्यां विशन्ति हि ||२८||
(सु. उ. तं. अ. ६०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
देवादीनां ग्रहणकालमाह– देवग्रहाः इत्यादि| पौर्णमास्यां पूर्णिमायाम्| कृष्णक्षयेऽमावास्यायाम्| प्रायोग्रहणादन्यत्रापि| तिथ्यभिधानप्रयोजनं लक्षणार्थं, तत्तिथौ बलिदानार्थं च||२७-२८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीं देवग्रहाणां ग्रहणकालमाह– देवग्रहा इत्यादि| देवग्रहाः पौर्णमास्यां पूर्णिमायां विशन्ति अनुप्रवेशं कुर्वन्ति| असुरा असुरग्रहाः| सन्ध्ययोरपीत्यपिशब्दः पादपूरणे; अन्ये अपिशब्दात् पौर्णमास्यामपि गृह्णन्तीति वर्णयन्ति| प्रायशोऽष्टम्यामिति प्रायःशब्दात् सन्ध्ययोरपि गन्धर्वा विशन्तीति लभ्यते| पित्र्याः पितृग्रहाः| कृष्णक्षये कृष्णपक्षक्षये, अमावास्यायामित्यर्थः| प्रायोग्रहणादन्यत्रापि| पञ्चम्यामपीत्यपिशब्दात् कृष्णक्षयेऽपि| उरगा नागग्रहाः| तिथ्यभिधानप्रयोजनं लक्षणार्थं, तेषां तिथौ बलिदानार्थं च| तथा चोक्तम्– “ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः| दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः||” इति||२७-२८||
Adhikarana आविशतां देवादीनामनुपलब्धौ दृष्टान्तः (२९-३०) · Śloka ३०
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करार्चिश्च यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः ||२९||
(सु. उ. तं. अ. ६०) |
प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ||३०||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ननु, यदि ग्रहाविष्टानां पुंसामुन्मादः स्यात्, तदा विशन्तो ग्रहाः कुतो न लक्ष्यन्ते? इत्यत आह– दर्पणादीनित्यादि| अस्मदादिदर्शनायोग्यत्वान्न दृश्यन्त इत्यर्थः| आदिशब्देन प्रकारवाचिनां जलतैलादीनां ग्रहणम्| छाया प्रतिकृतिः| शीतोष्णमिति कर्तृपदं, प्राणिन इति कर्मपदम्| स्वमणिमिति सूर्यकान्तम्| देहधृक् आत्मा, मन इति जेज्जटः| अनेकदृष्टान्तप्रयोजनं जेज्जटलिखितं तच्चात्रानुपयुक्तत्वेन विस्तरभयान्न लिखितम्| देवशब्देन चात्र देवस्यानुचरा देवसधर्माणो गृह्यन्ते, देवानां मनुष्यशरीरेणाशुचिना सम्बन्धाभावात्| यदाह सुश्रुतः– “न ते मनुष्यैः सह संविशन्ति न ते मनुष्यान् क्वचिदाविशन्ति| ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपेताः||” (सु. उ. तं. अ. ६०) इति||२९-३०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ननु, यदि ग्रहाविष्टानां पुंसामुन्मादः स्यात्, तदा विशन्तो ग्रहाः कुतो न लक्ष्यन्ते? इत्यत आह– दर्पणादीनित्यादि| अस्मदादिदर्शनायोग्यत्वान्न दृश्यन्ते| आदिशब्देन प्रकारवाचिना जलतैलादीनां ग्रहणम्| छाया प्रतिकृतिः| शीतोष्णमिति कर्तृपदं, प्राणिन इति कर्मपदम्| स्वमणिमिति सूर्यकान्तम्| देहधृक् अत्मा, मन इति जेज्जटः| अनेकदृष्टान्तप्रयोजनं जेज्जटेन निश्चितं, तच्चात्रानुपयुक्तत्वेन लिखितं विस्तरभयाच्च| ननु भूतैः शरीरेऽनुप्रवेशः क्रियते न तु शरीरिणि, तत्कथं शरीरिण इत्यभिधानं न विरुध्यते? उच्यते– शरीरिशब्देनात्र शरीरमभिप्रेतं, स्थानिनि स्थानोपचारात्; यथा– मञ्चाः क्रोशन्तीति| यथा छायाशीतोष्णादयो दर्पणप्राणिप्रभृतीन् विशन्तो न दृश्यन्ते तद्वद्ग्रहा इत्यर्थः| देवादिशब्देनात्र देवस्यानुचरा देवसधर्माणो गृह्यन्ते, देवादीनां मनुष्यशरीरेणाशुचिना सम्बन्धाभावात्| यदाह सुश्रुतः– “न ते मनुष्यैः सह” इत्यादि||२९-३०||
Adhikarana ग्रहाणां तीव्रतपादिप्रभाववत्ताकथनम् (३१-३३) · Śloka ३३
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||३१||
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||३२||
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽऽविशन्ति ||३३||
Hide commentary
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीं ग्रहाणां तीव्रतपादि यमादियुक्तां प्रभाववत्तां सुश्रुतोक्तेन श्लोकत्रयेण दर्शयितुमाह– तपांसीत्यादि| तपस्तापनलक्षणमुपवासादि, व्रतानि शास्त्रोदितविधिना भोजनादिनियमनानि, कर्म कायवाङ्मनसां सुचरितम्| गुणास्तथाष्टाविति अणिमा १, महिमा २, लघिमा ३, प्राकाम्यं ४, प्राकाश्यम् ५, ईशित्वं ६, वशित्वं ७, यत्र कामावसायित्वं ८, चेति| अन्ये तु– “आवेशश्चेतसो ज्ञानमर्थानां शब्दनक्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||” इत्यष्टविधमैश्वर्यमाहुः| तेषु ग्रहेषु एते गुणा नित्याः, न कादाचित्काः, व्यस्ता द्वित्रिचत्वार इत्यादि; समस्ताः सर्वे; यो यस्य प्रभाव इति यथाप्रभावं; तत्र व्यस्ता गुणा असुरादिग्रहाणां, समस्ता देवग्रहाणाम्| अथ ते नियमादियुक्ताश्चेत् कथमशुचिं देहमाविशन्ति, न कथञ्चन, अत एवाह– नेत्यादि| ते देवादयो मनुष्यैः सह न विशन्ति न एकीभवन्तीत्यर्थः| न वा मनुष्यान् मानुषदेहान्, क्वचिदप्यनुप्रविशन्तीत्यर्थः| ये पुनर्वैद्या ‘आविशन्ति’ इति मोहादज्ञानात् प्रवदन्ति, ते वैद्या भूतविद्याविषयात्तज्ज्ञानादपोह्या अपसारणीयास्त्याज्या इत्यर्थः| के तर्हि गृह्णन्तीत्याह– तेषामिति तेषां देवादीनां परिचारकाः प्रेष्याः, कर्मकरा इत्यर्थः| कोट्यः शतलक्षप्रमाणाः, अयुतं दशसहस्रम्, एतेन कोटिघ्नं शतलक्षप्रमाणगुणितं यत् सहस्रं तादृशैः दशभिः सहस्रैरत्रायुतं बोद्धव्यं; तेषां पद्मं, पद्मं चतुर्दशबिन्दुकं, तदेव सङ्ख्या येषां ते तथा| सुभीमा अत्यर्थं भयानकाः| निशाविहारा रात्रौ भ्रमणशीलाः||३१-३३||
Adhikarana पुष्पिका · Śloka २०
इति श्रीमाधवकरविरचिते माधवनिदान उन्मादनिदानं समाप्तम्||२०||
||२०||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामुन्मादनिदानं समाप्तम्||२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामुन्मादनिदानम्||२०||