Skip to content

२१. अपस्मारनिदानम्

Adhikarana अपस्मारसम्प्राप्तिः, सामान्यलक्षणं च (१) · Śloka

अथापस्मारनिदानम् | (चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः | कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते) | तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः | अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मनोदुष्टिसाधर्म्यात् समानचिकित्स्यत्वादुन्मादानन्तरमपस्मारारम्भः| तस्य निरुक्तिः सुश्रुतेन कृता– ‘‘स्मृतिर्भूतार्थविज्ञानमपस्तत्परिवर्जनम्| अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्||’’ (सु. उ. तं. अ. ६१) इति| स्मृतिश्च ज्ञानोपलक्षणं, तेनानुभवागमोऽपि बोध्यः| तस्य सामान्यलक्षणमाह– तमःप्रवेश इत्यादि| तमःप्रवेशोऽन्धकारप्रवेश इव ज्ञानाभाव इत्यर्थः| संरम्भो नेत्रविकृतिः, हस्तपादादिक्षेपणादिकं च||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मनोदुष्टिसाधर्म्यात् समानचिकित्स्यत्वादुन्मादानन्तरमपस्मारारम्भः| तस्य निरुक्तिः सुश्रुतेन कृता– “स्मृतिर्भूतार्थविज्ञानमपस्तत्परिवर्जनम्| अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्” इति| स्मरणाभावो जलादौ प्रवेशादिभिः| सुश्रुतदपस्मारस्य निदानं लिख्यते– “मिथ्यादियोगीन्द्रियार्थकर्मणामभिसेवनात्| विरुद्धमलिनाहारविहारकुपितैर्मलैः|| वेगनिग्रहशीलानामहिताशुचिभोजिनाम्| रजस्तमोभिभूतानां गच्छतां च रजस्वलाम्|| तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्| चेतस्यभिहते पुंसामपस्मारोऽभिजायते||” इति| अस्यार्थः– मिथ्यादियोगेयुक्तानामिन्द्रियार्थानां कर्मणां चातिसेवनादिति ज्ञेयं; तत्रेन्द्रियाणां श्रवणस्पर्शनदर्शनरसनघ्राणानामर्था विषयाः शब्दस्पर्शरसरूपगन्धाः, तेषां मिथ्यादिसेवनात्| तत्र पुरुषेष्टविनाशादिश्रवणं मिथ्यायोगः, पटहादीनामतिशब्दश्रवणमतियोगः, सर्वशोऽश्रवणमयोगः; अभिघातभूताशुचिसंस्पर्शो मिथ्यायोगः, अतिमात्रशीतोष्णादीनां स्पृश्यानां स्नानाभ्यङ्गादीनां चातिसेवनमतियोगः, तथा सर्वशोऽसेवनमयोगः; तथा अतितेजसामतिदर्शनमतियोगः, सर्वथाऽनवलोकनमयोगः, सूक्ष्मादिदर्शनं मिथ्यायोगः; रसानामत्यादानमतियोगः, अनादानमयोगः, तथा अयोग्यरसानामादानं मिथ्यायोगः; तथा पूत्याद्याघ्राणं मिथ्यायोगः, अतितीक्ष्णादिगन्धाघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः; तथा कायिककर्मणो सेवनं मिथ्यायोगः, अतिसेवनमतियोगः, सर्वशोऽसेवनमयोगः; तथा वाचिककर्मणः परुषानृतादिवचनं मिथ्यायोगः, अतिवचनादिकश्चातियोगः, सर्वशो मौनमयोगः; तथा मानसकर्मणः शोकादि चिन्तनं मिथ्यायोगः, अतिमात्रचिन्तनादिकमतियोगः, सर्वशोऽचिन्तनमयोगः| मलिनाहारः पूतिद्विष्टामेध्यपर्युषिताहारः, विहारोऽपि मलिनो दृष्टादृष्टार्थः स्मृतिषु विज्ञातव्य इति| वाग्भटत्सम्प्राप्तिर्लिख्यते– “उन्मादवत्प्रकुपितैश्चित्तदेहगतैर्मलैः| हते सत्त्वे हृदि व्याप्ते सञ्ज्ञावाहिषु खेषु च|| तमोविशन्मूढमतिर्बीभत्साः कुरुते क्रियाः| दन्तान् खादन्वमन्फेनं हस्तौ पादौ च विक्षिपन्|| पश्यन्न सन्ति रूपाणि प्रस्खलन् पतति क्षितौ| विजिह्माक्षिभ्रुवो दोषवेगेऽतीते प्रबुध्यते|| कालान्तरेण स पुनश्चैवमेव विचेष्टते|” इति| तस्य सामान्यलक्षणमाह– तम इत्यादि|| तमःप्रवेशोऽन्धकारप्रवेश इव ज्ञानाभाव इत्यर्थः| संरम्भो नेत्रविकृतिर्हस्तपादादिविक्षेपणं च|| तमः प्रवेशादिलक्षणो घोरोऽपस्माराख्यो गदो ज्ञेयः| स चतुर्विध इति वातात्पित्तात्कफात्सन्निपाताञ्चतुर्विध इति विधानं द्वन्द्वजप्रतिषेधार्थं, द्वन्द्वजाभावस्तु व्याधिस्वभावात्||१||

Adhikarana अपस्मारपूर्वरूपम् (२) · Śloka

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढता | निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ||२|| (सु. उ. तं. अ. ६१) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– हृत्कम्प इत्यादि| शून्यता हृदयस्यैव| ध्यानं जिह्मायनम्| अत्र मूर्छा मनोमोहः, प्रमूढता इन्द्रियमोहः||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

प्राग्रूमाह– हृदित्यादि| तस्मिन्नपस्मारे भविष्यति सति हृत्कम्पादीनि पूर्वरूपाणि भवन्ति| शून्यता हृदयस्यैव| ध्यानं जिह्मायनम्| अत्र मूर्छा मनोमोहः, प्रमूढता इन्द्रियमोहः||२||

Adhikarana वातिकापस्मारलक्षणम् (३) · Śloka

कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि | परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ||३|| (च. चि. अ. १०) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातिकलक्षणमाह– कम्पत इत्यादि| श्वसिति खरश्वासो भवति| रूपाणीति प्राणिनः, ‘नीलो मामनुधावति’ इति सुश्रुतवचनात्, एवं पैत्तिके “पीतो मामनुधावति” इति, एवं श्लैष्मिके “श्वेतो मामनुधावति” (सु. उ. तं. अ. ६१) इति||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातापस्मारलक्षणमाह– कम्पते इत्यादि| अनिलात् तथा दन्तान् दशति, तथा फेनमुद्वमति, तथा श्वसिति खरश्वासो भवति, परुषारुणकृष्णानि रूपाणि पश्येत्; रूपाणीति पुरुषाः प्राणिनः, ‘नीलो मामनुधावति’ इति सुश्रुतवचनात्; एवं पैत्तिकेऽपि ‘पीतो मामनुधावति’ इति श्लैष्मिके”– शुक्लो मामनुधावति” इति||३||

Adhikarana पैत्तिकापस्मारलक्षणम् (४) · Śloka

पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शकः | सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः ||४|| (च. चि. अ. १०) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिकलक्षणमाह– पीतेत्यादि| पीतासृग्रूपदर्शक इति पीतलोहितवर्णसमस्तवस्तुदर्शी| सतृष्णेत्यादि सतृष्णश्चासावुष्णश्चेति सतृष्णोष्णः, सतृष्णोष्णश्चासावनलव्याप्तलोकदर्शी चेति समासः||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पैत्तिकमाह– पीतेत्यादि| पैत्तिकः पित्तापस्मारयुक्तः पुरुषः पीतफेनाङ्गवक्त्राक्षो भवति| पीतासृग्रूपदर्शन इति पीतलोहितवर्णसमस्तवस्तुदर्शनः| सतृष्णेत्यादि सतृष्णश्चासावुष्णश्चेति सतृष्णोष्णः, सतृष्णोष्णश्चासावनलव्याप्तलोकदर्शी चेति समासः||४||

Adhikarana श्लैष्मिकापस्मारलक्षणम् (५) · Śloka

शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः | पश्येछुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ||५|| (च. चि. अ. १०) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिकलक्षणमाह– शुक्लेत्यादि| हृष्टाङ्गजो हृष्टरोमा| चिरादित्यनेनैव वातपित्तयोरचिरेण वेगमोक्ष इति सूचयति||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लैष्मिकलक्षणमाह– शुक्ल इत्यादि| श्लैष्मिको नरः शुक्लफेनाङ्गवक्त्राक्षो भवति| शीतहृष्टाङ्गज इति शीतः शीतगात्रः| तथा हृष्टाङ्गजो हृष्टरोमा| चिरादित्यनेन वातपित्तयोरचिरेण वेगमोक्ष इति सूचयति| कृष्णपीतशुक्लदर्शनं वातादीनां प्रभावो न तु पैशाचादिकं रूपमभिप्रेतम्||५||

Adhikarana सान्निपातिकापस्मारलक्षणम् अपस्मारस्यासाध्यलक्षणं च (६-७) · Śloka

सर्वैरेतैः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः | अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ||६|| (च. चि. अ. १०) | प्रतिस्फुरन्तं बहुशः क्षीणं प्रचलितभ्रुवम् | नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सान्निपातिकलक्षणमाह– सर्वैरित्यादि| स चेति स सान्निपातिकः क्षीणस्यैकदोषजोऽप्यसाध्यः| एवमनवश्च बोध्यः| प्रस्फुरन्तं प्रकम्पन्तम्| नेत्राभ्यां च विकुर्वाणमिति नेत्राभ्यां विकृतिमासादयन्तम्||६-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निपातजमाह– सर्वैरित्यादि| एतैः सर्वैस्त्रिभिः समस्तैश्च लिङ्गैस्त्रिदोषजः सान्निपातिको ज्ञेयः| स चेति सान्निपातिकः| क्षीणस्यैकदोषजोऽप्यसाध्यः| एवमनवश्च बोध्यः| असाध्यमाह– विस्फुरन्तमिति| विस्फुरन्तं प्रकम्पन्तम्| ‘बहुशोऽप्यपस्मरन्तं तु’ इति पाठान्तरं; बहुशो बहून् वारानपस्मरन्तमपस्मारवेगवन्तम्| क्षीणं ‘पुरुषम्’ इति शेषः| नेत्राभ्यां च विकुर्वाणमिति नेत्राभ्यां विकृतिमासादयन्तम्| इत्थम्भूतं पुरुषमपस्मारवेगाद्युपद्रवसहितमपस्मारो विनाशयेदिति सम्बन्धः||६-७||

Adhikarana अपस्मारप्रकोपकालः (८-९) · Śloka

पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः | अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ||८|| (च. चि. अ. १०) | देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् | शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ||९|| (सु. उ. तं. अ. ६१) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अपस्मारप्रकोपकालमाह– पक्षादित्यादि| पक्षात् पैत्तिकः, द्वादशाहाद्वातिकः, मासात् श्लैष्मिकः| द्वादशाहानन्तरं पक्षे वक्तव्ये तत्पूर्वं पक्षाभिधानं, तेनातोऽधिककालेनापि वेगं करोतीत्याहुः| किञ्चिदथान्तरमिति उक्तकालेभ्योऽर्वागपि दोषतारतम्यादिति| ननु, वेगं कृत्वा अपस्मारारम्भको दोषोऽस्त्येव तत् कुतः सर्वदा वेगं न कुरुते? द्वादशाहादिष्वेव कुरुत इत्याह– देवे वर्षतीत्यादि| अयमभिसन्धिः– तेजोऽवनीपवनपयःसनाथं विद्यमानमपि बीजं कालविशेष एवाङ्कुरं जनयति, कालविशेषस्य अपि सहकारित्वात्; तथा गतस्याप्यपस्मारस्य पुनरुद्भवः सम्भवति| शरदीति तत्कालोचितबीजाभिप्रायेण, तेन कानिचिद्बीजानि वर्षास्वपि भवन्तीति| अयं च न्यायः चातुर्थिकज्वरादिष्वपि बोध्यः||८-९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातादिजनितापस्मारवेगदिननियमलक्षणमाह– पक्षादित्यादि| मला वातादयः कुपिताः सन्तः अपस्माराय पक्षादथ वा द्वादशाहान्मासाद्वा वेगं कुर्वन्ति| पक्षात्पैत्तिकः, द्वादशाहाद्वातिकः, मासात् श्लैष्मिकः; द्वादशाहादनन्तरं पक्षे वक्तव्यो यत्पक्षाभिधानं प्रथमं तेनातोऽधिककालेऽपि वेगं करोतीत्याहुः| किञ्चिदथान्तरमिति उक्तकालेभ्योऽर्वागपि दोषतारतम्यादिति| ननु, वेगं कृत्वा अपस्मारारम्भको दोषोऽस्त्येव तत्कुतः सर्वदा वेगं न कुरुते द्वादशाहादिष्वेव कुरुत इत्यत आह– देव इत्यादि| अयमभिसन्धिः– तेजोऽवनीपवनतोयसनाथं विद्यमानमपि बीजं कालविशेष एवाङ्कुरं जनयति, कालविशेषस्यापि सहकारित्वात्; तथाऽऽगतस्याप्यपस्मारस्य पुनरुद्भवः सम्भवति| शरदीति तत्कालनियतबीजाभिप्रायेण, तेन कानिचिद्वर्षादिष्वपि जनयन्तीति| अयं न्यायश्चातुर्थिकज्वरादिष्वपि बोध्य इति| अथ डल्लणाभिप्रायः– यथा वर्षत्यपि देवे भूमावुप्तानि कानिचिद्बीजानि शरद्येव प्रविरोहन्ति, तथा सर्वरोगबीजानां वातादीनां कदाचित् कस्यचिदपस्मारादिव्याधिविशेषस्य निदानादिसङ्गमेऽपि सन्दूष्यादिसमुदायेनैव समुद्भवो भवतीत्यर्थः| अन्ये त्वन्यथा व्याख्यानयन्ति– ननु, सञ्चयादिक्रमेणोपयोगो दोषाणां तदा पुनः कथमल्पेनैव कालेन तद्विकारोद्गमः स्यादित्यत्राह– देवेऽवर्षतीत्यादि| अवर्षत्यपि देवे यथा शरत्काले भूमौ स्तिमितत्वात् कानिचिद्बीजानि प्ररोहन्त्येव, तथा अल्पेनापि कालेन शरीरस्था दोषाः किञ्चिदुपचिता विकारं जनयन्तीति||८-९||

Adhikarana पुष्पिका · Śloka २१

इति श्रीमाधवकरविरचिते माधवनिदानेऽपस्मारनिदानं समाप्तम् ||२१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामपस्मारनिदानं समाप्तम्||२१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामपस्मारनिदानम्||२१||