Adhikarana मद्यजदाहलक्षणम् (१) · Śloka १
अथ दाहनिदानम्|
त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्छितः |
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||१||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मदात्ययेऽपि दाहो भवत्यतः सप्तप्रकारं दाहमाह; तत्र मद्यजमाह– त्वचमित्यादि| पानोष्मा पा.| मद्यपानकुपितपित्तस्यौष्ण्यं; समानोष्मेति पाठान्तरमयुक्तं, सुश्रुते पानात्यये श्लोकस्यास्य पाठात्| पित्तजोऽप्ययं हेतुभेदात् पृथक् पठितः||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मदात्यये दाहो भवतीत्यतो मदात्ययानन्तरं दाहनिदानारम्भः| मद्यजदाहमाह– त्वचमित्यादि| पानोष्मा मद्यपानकुपितपित्तोष्मा, स त्वचं प्राप्तो घोरं दाहं प्रकर्षेण कुरुत इत्यर्थः| कीदृशः पित्तरक्ताभ्यामभिवर्धितः| अन्ये ‘समानोष्मा’ इति पाठान्तरं पठन्ति| तन्न युक्तं, सुश्रुते पानात्यये श्लोकस्यास्य पाठात्| पित्तजोऽप्ययं हेतुभेदात्पृथक् पठितः||१||
Adhikarana रक्तजदाहलक्षणम् (२-३) · Śloka २
कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ध्रुवम् |
स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ||२||
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते |
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रक्तजमाह– कृत्स्नेत्यादि| स उष्यते समीपस्थेनेव वह्निना तप्यते, ‘सन्धूप्यत’ इति पाठान्तरे सन्धूपनवद्वेदनामनुभवति| ताम्राभ इति गात्रे| लोहगन्धाङ्गवदन इति लोहस्येव गन्धोऽङ्गे वदने च यस्य स तथा||२-३||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तजमाह– कृत्स्नेत्यादि| उद्रिक्तं वृद्धं रक्तं कृत्स्नदेहानुगं सत् ध्रुवं सन्दहति, पुरुषस्तेन ऊष्यते समीपस्थेन वह्निनेव तप्यते| सञ्चूष्यते इति पाठान्तरे आचूषणवद्वेदनामनुभवति| ताम्राभ इति ताम्राभगात्रः| लोहस्येव गन्धोऽङ्गे वदने च यस्य स तथा|२-३|–
Adhikarana पित्तजदाहलक्षणम् (३) · Śloka ३
पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ||३||
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तजमाह– पित्तेत्यादि| पित्तज्वरसमः पित्तज्वरलिङ्गयुक्तः, पित्तज्वरे त्वामाशयदुष्ट्यादयोऽधिका इति भेदः| स चाप्यस्य विधिरिति पित्तज्वरचिकित्सा||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजमाह– पित्तज्वरेत्यादि| पित्तज्वरे अरत्यामाशयदुष्ट्यादयोऽधिका इति भेदः, अन्यानि समानलक्षणानि| स चाप्यस्य विधिरिति पित्तज्वरोक्तचिकित्सेत्यर्थः||३||
Adhikarana तृष्णानिरोधजदाहलक्षणम् (४) · Śloka ४
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् |
सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ||४||
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते |
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तृष्णानिरोधजमाह– तृष्णेत्यादि| तेजःसमुद्धतं पित्तोष्मा वृद्ध इत्यर्थः| निष्कृष्य निःसार्य||४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तृष्णानिरोधजमाह– तृष्णेत्यादि| तृष्णाविधारणादब्धातौ रसे क्षीणे सति, तेजः समुत्थितं पित्तोष्मा वृद्ध इत्यर्थः| स बाह्याभ्यन्तरं देहं प्रदहेत्| मन्दचेतसः विसञ्ज्ञस्य| निष्कृष्य निःसार्य कम्पते||४||–
Adhikarana रक्तपूर्णकोष्ठजदाहलक्षणम् (५) · Śloka ५
असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात् सुदुःसहः ||५||
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अवगाढशस्त्रप्रहारजनितरक्तपूर्णकोष्ठजमाह– असृज इत्यादि| न चोक्तरक्तजेनास्य पौनरुक्त्यं, कृत्स्नदेहानुगमिति वचनात् कारणभेदाच्च| असृजः पूर्णकोष्ठस्येति ‘पूरणगुणसुहितार्थ’ इत्यादिना ज्ञापकेन कर्तरि षष्ठी, रक्तेन पूरितकोष्ठस्येत्यर्थः| कोष्ठशब्देन हृदयादयो गृह्यन्ते| यदाह सुश्रुतः– “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते||” (सु. चि. अ. २) इति||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अवगाढशस्त्रप्रहारजनितरक्तपूर्णकोष्ठजमाह– असृज इत्यादि| असृजः रुधिरस्येति “पूरणगुणसहित” इत्यादिना ज्ञापकेन कर्तरि षष्ठी; रक्तेन पूरितकोष्ठस्येत्यर्थः| कोष्ठशब्देन हृदयादयो गृह्यन्ते| यदाह सुश्रुतः– “स्थानान्यामाग्निपाक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते||” इति| न चोक्तरक्तजे नास्य पौनरुक्त्यं, ‘कृत्स्नदेहानुगम्’ इति वचनात्, कारणभेदाच्चेति||५||
Adhikarana धातुक्षयजदाहलक्षणम् (६) · Śloka ६
धातुक्षयोत्थो यो दाहस्तेन मूर्छातृडर्दितः |
क्षामस्वरः क्रियाहीनः स सीदेद्भृशपीडितः ||६||
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
धातुक्षयजमाह– धात्वित्यादि| धातवो रसादयः| क्रियाहीनो निश्चेष्टः; किंवा भृशपीडितो दाहेन क्रियाहीनश्चिकित्साहीनो यदि भवेत्तदा सीदेन्म्रियेत इत्यर्थः||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
धातुक्षयजमाह– धात्वित्यादि| धातवो रसादयः, तेषां क्षयेण यो दाहो भवति तेन धातुक्षयजदाहेन| क्षामस्वरो दुर्बलस्वरः, क्रियाहीनो निश्चेष्टः, भृशपीडितो दाहेन चिकित्साहीनो यदि भवेत्तदा सीदेन्म्रियत इत्यर्थः||६||
Adhikarana क्षतजदाहलक्षणं, मर्माभिघातजदाहलक्षणं, दाहानामसाध्यलक्षणं च (७-८) · Śloka ८
क्षतजोऽनश्नतश्चान्नं शोचतो वाऽप्यनेकधा |
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्छाप्रलापवान् ||७||
मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः |
सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ||८||
(सु. उ. तं. अ. ४७) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षतजमाह– क्षतज इत्यादि| मर्माभिघातजमाह– मर्मेत्यादि| मर्माणि शिरोहृदयबस्त्यादीनि| जेज्जटस्तु सप्तत्वमन्यथा गणयति– ‘त्वचं प्राप्त’ इत्यादिना प्रथमः, ‘कृत्स्नदेहानुगं रक्तम्’ इत्यत्र रक्तस्थाने पित्तं पठित्वा एतदादिना ‘स चाप्यस्य विधिः स्मृतः’ इत्यन्तेन पैत्तिको द्वितीयः, तृष्णानिरोधजस्तृतीयः, ‘असृजः पूर्णकोष्ठस्य’ इति चतुर्थः, धातुक्षयजः पञ्चमः, षष्ठस्य तु क्षतजस्य लक्षणं पठति– “क्षतजोऽनश्नतश्चान्नं शोचतश्चाप्यनेकधा| तेनान्तर्दह्यतेऽत्यर्थं तृष्णादाहप्रलापवान्|” इति, मर्माभिघातजस्तु सप्तम इति||७-८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मर्माभिघातजमाह– मर्मेत्यादि| मर्माणि हृदयशिरोबस्त्यादीनि| ‘स चासाध्यतमः स्मृतः’ इत्यत्रान्ये ‘सोऽसाध्यः सप्तमो मतः’ इति पठन्ति| जेज्जटस्तु सप्तत्वमन्यथा गणयति– त्वचं प्राप्त इत्यादिना प्रथमः, ‘कृत्स्नदेहानुगं रक्तम्’ इत्यत्र रक्तस्थाने पित्तं पठित्वा एतदादिना ‘स चाप्यस्य विधिः स्मृतः’ इत्यन्तेन पैत्तिको द्वितीयः, तृष्णानिरोधजस्तृतीयः, ‘असृजः पूर्णकोष्ठस्य’ इति चतुर्थः, धातुक्षयजः पञ्चमः, षष्ठस्य क्षतजस्य लक्षणं पठति– “क्षतजेनाश्नतश्चान्नं शोचतो वाऽप्यनेकधा| तेनाङ्गं दह्यतेऽत्यर्थं तृष्णादाहप्रलापवान्||” इति| अस्यार्थः– पूर्वमसृजः पूर्णकोष्ठस्येत्यादिना कोष्ठस्थेन रक्तेन दाहमभिधायेदानीं प्रकारान्तरेणाह– क्षतजेन रक्तेन, अनश्नतो भोजनं कुर्वतः, शोकं कुर्वतो वाऽपि नरस्यान्यो दाहो रक्तेन भवतीति सम्बन्धः, तेन दाहेनाभ्यन्तरं दह्यते, तृष्णामूर्छाप्रलापवान् ‘नरो भवति’ इति शेषः| मर्माभिघातजस्तु सप्तमः| सर्वेषामपि दाहानामवस्थायां वर्जनीयत्वमाह– सर्व इति| सर्व एव हि ‘दाहा’ इति शेषः| शेषं सुगमम्||७-८||
Adhikarana पुष्पिका · Śloka १९
इति श्रीमाधवकरविरचिते माधवनिदाने दाहनिदानं समाप्तम् ||१९||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां दाहनिदानं समाप्तम्||१९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे निदानव्याख्याने दाहनिदानम्||१९||