Skip to content

६५. सूतिकारोगनिदानम्

Adhikarana सूतिकारोगलक्षणम् (१) · Śloka

अथ सूतिकारोगनिदानम् | अङ्गमर्दो ज्वरः कम्पः पिपासा गुरुगात्रता | शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्रमप्राप्तत्वात् सूतिकारोगनिदानारम्भः– अङ्गमर्द इत्यादि| सूतिकारोगलक्षणमिति सूतिकारोग एव लक्षणम्, अङ्गमर्दादिव्यतिरिक्तस्य रोगस्यानभिधानात्| एतेऽङ्गमर्दादयः प्रायेण सूतिकाया भवन्तः सूतिकारोगत्वेन लक्ष्यन्ते इत्यर्थः||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सूतिकारोगलक्षणमाह– अङ्गमर्द इत्यादि| सूतिकारोग एव लक्षणम्, अङ्गमर्दादिव्यतिरिक्तस्य रोगस्यानभिधानात्| एतेनाङ्गमर्दादयः प्रायेण सूतिकाया भवन्तः सूतिकारोगत्वेन लक्ष्यन्त इत्यर्थः||१||

Adhikarana सूतिकारोगनिदानादयः (२-४) · Śloka

मिथ्योपचारात् सङ्क्लेशाद्विषमाजीर्णभोजनत् | सूतिकायाश्च ये रोगा जायन्ते दारुणास्तु ते ||२|| ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः | तन्द्रारुचिप्रसेकाद्याः कफवातामयोद्भवाः ||३|| कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाग्नितः | ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः ||४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सूतिकारोगनिदानमाह– मिथ्येत्यादि| सङ्क्लेशादिति सङ्क्लिश्यते उत्क्लिश्यते दोषोऽनेनेति सङ्क्लेशो दोषजनकमन्नम्| विषमाजीर्णभोजनादिति विषमभोजनादजीर्णभोजनाच्च| ज्वरातीसारादीनामङ्गमर्दादिभ्यः पृथक् पुनरुपादानं रोगाधिक्यं कृच्छ्रत्वमुपद्रवत्वं च ख्यापयितुम्| कफवातामयोद्भवाः इति तन्द्रारुचिप्रसेकाद्या इत्यस्य विशेषणम्| मन्यन्ते केचित्, अन्ये सर्वस्य ज्वरातिसारादेः| कफवातजे विकारे सति येषामुद्भवस्ते कफवातामयोद्भवाः ज्वरातीसारादयः कृच्छ्रसाध्या इत्यर्थः| ते सर्वे सूतिकानाम्नेति ते ज्वरातीसारादयः सर्वे सूतिकाभवत्वेनाश्रयाश्रितयोरभेदोपचारात् सूतिकानाम्नोच्यन्ते; ते चाप्युपद्रवाः ते उपद्रवाश्च भवन्ति उक्तानां रोगाणामन्यतमं प्रधानीकृत्य||२-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मिथ्योपचारादित्यादि| मिथ्योपचारादिभिः सूतिकाया ये रोगा जायन्ते| सङ्क्लेशादिति सङ्क्लिश्यते उत्क्लिश्यते दोषोऽनेनेति सङ्क्लेशो दोषजनकमन्नम्| विषमाजीर्णभोजनादिति विषमभोजनादजीर्णभोजनाच्च| ज्वरातीसारादीनामङ्गमर्दादिभ्यः पृथगुपादानं कृच्छ्रसाध्या इत्यर्थः| ते सर्वे सूतिकानाम्नेत्यादि| ज्वरातीसारादयः सर्वे सूतिकाभवत्वेनाश्रयाश्रितयोरभेदोपचारात्सूतिकानाम्नोच्यन्ते| ते चाप्युपद्रवा इति, ते उपद्रवाश्च भवन्ति रोगाणामन्यतमं प्रधानीकृत्य ||२-४||

Adhikarana पुष्पिका · Śloka ६५

इति श्रीमाधवकरविरचिते माधवनिदाने सूतिकारोगनिदानं समाप्तम् ||६५||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां सूतिकारोगनिदानं समाप्तम्||६५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाख्यायां सूतिकारोगनिदानम्||६५||