Skip to content

६६. स्तनरोगनिदानम्

Adhikarana स्तनरोगसम्प्राप्तिः (१) · Śloka

अथ स्तनरोगनिदानम् | सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः | प्रदूष्य मांसरुधिरं स्तनरोगाय कल्पते ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सूतिकारोगाधिकारात् स्तनरोगा उच्यन्ते| पारिभाषिकस्तनरोगसम्प्राप्तिमाह– सक्षीरौ वाऽपीत्यादि| सक्षीरौ गर्भवत्याः, अदुग्धौ वेति दोहदायोगेन प्रसूतायाः, स्तनौ प्राप्येति विवृतधमनीमुखेनाविश्य, स्तनरोगशब्देन ‘स्तनकोप’ इति प्रसिद्धो रोग उच्यते||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सूतिकारोगाधिकारात्स्तनरोगा उच्यन्ते| पारिभाषिकस्तनरोगसम्प्राप्तिमाह– सक्षीरावित्यादि| गर्भवत्याः सक्षीरौ | अदुग्धौ वेति दोहदायोगेन प्रसूतायाः| स्तनौ प्राप्येति विवृतधमनीमुखेन प्रविश्य| स्तनरोगशब्देनात्र ‘स्तनकोप’ इति प्रसिद्धो रोग उच्यते||१||

Adhikarana स्तनरोगाणां लक्षणम् (२) · Śloka

पञ्चानामपि तेषां हि रक्तजं विद्रधिं विना | लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ||२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तेषां वातपित्तकफसन्निपातागन्तुजानामतिदेशेन लक्षणमाह– पञ्चानामपीत्यादि| एतत् सुबोध्यम्| आगन्तुस्तनरोगोऽभिघातेन शल्येन च| रक्तजस्यासम्भवो व्याधिस्वभावात्||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तेषां वातकफपित्तसन्निपातागन्तुजानामतिदेशेन लक्षणमाह– पञ्चानामित्यादि| सुगमम्||२||

Adhikarana पुष्पिका · Śloka ६६

इति श्रीमाधवकरविरचिते माधवनिदाने स्तनरोगनिदानं समाप्तम् ||६६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां स्तनरोगनिदानं समाप्तम्||६६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां स्तनरोगनिदानम्||६६||