Skip to content

५८. नासारोगनिदानम्

Adhikarana अपीनस/पीनसलक्षणम् (१) · Śloka

अथ नासारोगनिदानम् | आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा | न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन | तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ||१|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इन्द्रियाधिकरणविकाराधिकारान्नासारोगनिदानम्| तत्रादावपीनसमाह– आनह्यत इत्यादि| आनह्यत इत्याबध्यते, वातशोषितकफेन| प्रक्लिद्यते आर्द्रीभवति| धूप्यतीति सन्तापमनुभवति; दिवादेराकृतिगणत्वात् धूप्यतीति रूपम्| गन्धरसानिति गन्धान् सुरभ्यसुरभीन्, आबद्धत्वेन नासायाः; नासारोगारम्भकदोषेण रसनाया अपि दुष्टेः रसान् मधुरादीन्न वेत्ति| तं चानिलश्लेष्मभवमिति वातकफजम्| ननु, अन्यत्र पित्तकफजोऽसदृशलिङ्गश्च पठ्यते; तद्यथा– “मस्तुलुङ्गोचितः श्लेष्मा यदा पित्ताद्विदह्यते| तदाऽसृक् पिच्छिलं नासा बहुसिंहाणकं स्रवेत्|| सकण्डूदाहपाकं च तं तु विद्यादपीनसम्|” इति, तत् कथं न विरोधः? नैवं, सम्प्राप्तिविशेषेणास्य तथाभाव इति कार्तिकः| तन्त्रान्तरप्रत्ययात् पित्तसम्बन्धो लिङ्गविशेषश्चात्र बोद्धव्य इत्यर्थः| गदाधरस्तु तत्संवादात् ‘अनलश्लेष्मभवम्’ इति पठित्वा श्लेष्मपित्तज एव न्याय्य इत्याह| प्रतिश्यायसमानलिङ्गमिति कफवातजप्रतिश्यायतुल्यलिङ्गम्||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इन्द्रियाधिकरणाधिकारान्नासारोगनिदानारम्भः| तत्रैकत्रिंशन्नासारोगाः, तत्रापीनसमाह– आनह्यत इत्यादि| आनह्यते आबध्यते, विशुष्यते वातशोषितकफेन, प्रक्लिद्यते आर्द्रीभवति, धूप्यति सन्तापमनुभवति, गन्धान् सुरभ्यसुरभीन्, आनद्धत्वेन नासायाः; नासारोगारम्भकदोषेण रसनायाश्च दुष्टेः| रसान् मधुरादीन्न वेत्ति| तं चानिलश्लेष्मभवमिति वातकफजं ब्रूयात्| नन्वन्यत्र पित्तश्लेष्मजोऽन्यादृशश्च पठ्यते, तद्यथा– “मस्तुलुङ्गोचितः श्लेष्मा यदा पित्ताद्विदह्यते| तदाऽसृक्पिच्छिलं नासा बहुसिंहाणकं स्रवेत्|| सकण्डूदाहपाकं च तं तु विद्याद्धि पीनसम्” इति, तत्कथं न विरोधः? मैवं, सम्प्राप्तिविशेषेणास्य तथाभाव इति कार्तिकः| तन्त्रान्तरप्रत्ययात् पित्तसम्बन्धो लिङ्गविशेषश्च बोद्धव्य इत्यर्थः| प्रतिश्यायसमानलिङ्गमिति कफवातजप्रतिश्यायतुल्यलिङ्गम्||१||

Adhikarana पूतिनस्यलक्षणम् (२) · Śloka

दोषैर्विदग्धैर्गलतालुमूले सम्मूर्छितो यस्य समीरणस्तु | निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ||२|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूतिनस्यमाह– दोषैरित्यादि| दोषैरिति पित्तकफरक्तैः, रक्तस्यापि दोषतुल्यरूपत्वाद्दोषत्वम्| विदग्धैरिति पित्तश्लेष्मणोः सरक्तयोरूष्मणा विरुद्धलवणाम्लरसपाकेन पूतिभावमापन्नैः| सम्मूर्छित इति उच्छ्रायं नीतः| निरेतीति समीरण एव, अन्यस्य कर्तृपदस्याभावात्| तं पूतिनस्यमिति नासिकाभवो नस्यः, पूतिर्नस्यो वायुर्यत्र तं पूतिनस्यम्| इहैव विदेहः– “कफपित्तमसृङ्मिश्रं सञ्चितं मूर्ध्नि देहिनाम्| विदग्धमूष्मणा गाढं रुजां कृत्वाऽक्षिशङ्खजाम्|| ततः प्रस्यन्दते घ्राणात् सरक्तं पूतिपीतकम्| पूतिनस्यं तु तं विद्याद् घ्राणकण्डूज्वरप्रदम्||” इति||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पूतिनस्यमाह– दोषैरित्यादि| दोषैः पित्तकफरक्तैः, रक्तस्यापि तुल्यदोषत्वाद्दोषत्वम्, अतो बहुवचनं; विदग्धैरिति पित्तश्लेष्मणोः सरक्तयोरूष्मणा विरुद्धलवणाम्लरसपाकेन पूतिभावमापन्नैः| सम्मूर्छित उच्छ्रायं नीतः, निरेति निर्गच्छति, समीरण एव, तं पूतिनस्यमिति नासिकाभवो नस्यः, पूतिर्नस्यो वायुर्यत्र| तथाच विदेहे– “कफपित्तमसृङ्मिश्रं सञ्चितं मूर्ध्नि देहिनाम्| विदग्धमूष्मणा गाढं रुजां कृत्वाऽक्षिशङ्खजाम्|| तेन प्रस्यन्दते घ्राणात्सरक्तं पूतिपीतकम्| पूतिनस्यं तु तं विद्याद् घ्राणकण्डूज्वरप्रदम्||” इति||२||

Adhikarana नासापाकलक्षणम् (३) · Śloka

घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः | तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ||३|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

नासापाकमाह– घ्राणाश्रितमित्यादि| अरूंषीति व्रणान्| यस्मिन् विकार इति यस्यां विकृतौ सत्याम्| व्यवस्येत् जानीयात्| विक्लेदः आर्द्रता, कोथः, पूतिभावः||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

नासापाकमाह– घ्राणाश्रितमित्यादि| अरूंषि व्रणान्, यस्मिन्निति यस्मिन्विकारे, दृष्टौ दर्शनं गतौ||३||

Adhikarana पूयरक्तलक्षणम् (४) · Śloka

दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः | नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ||४|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

दोषागन्तुजं पूयरक्तमाह– दोषैरित्यादि| विदग्धैरिति पित्तरक्ताधिकत्वाद्विरुद्धां परिणतिं प्राप्तैः, ललाटाभिघातेन वा पाकं प्राप्तैः| तैस्तरिति प्रहारपीडनादिभिः||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दोषागन्तुजं पूयरक्तमाह– दोषैरित्यादि| विदग्धैरिति पित्तरक्ताधिकत्वात् विरुद्धां गतिं प्राप्तैः ललाटाभिघातेन वा पाकं प्राप्तैः, तैस्तैरिति प्रहारपीडनादिभिः||४||

Adhikarana दोषजक्षवथुलक्षणम् (५) · Śloka

घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति | कफानुजातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः ||५|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्षवथुर्दोषागन्तुभेदाद्द्विविधो भवति; तत्र दोषजं प्रागाह– घ्राणाश्रित इत्यादि| मर्मणीति शृङ्गाटके, ‘नस्तकयोः’ इति पाठान्तरे नासापुटयोः, ‘तदाश्रितः सन्’ इति शेषः||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

क्षवथुर्दोषागन्तुभेदाद् द्विविधो भवति, तत्र दोषजमाह– घ्राणाश्रित इत्यादि| मर्मणि शृङ्गाटकाख्ये, ‘नस्तकयोः’ इति पाठान्तरे नासापुटयोः, तदास्थितः सन्निति शेषः||५||

Adhikarana आगन्तुजक्षवथुलक्षणम् (६) · Śloka

तीक्ष्णोपयोगादभिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा | सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुर्निरेति ||६|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आगन्तुजमाह– तीक्ष्णोपयोगादित्यादि| तीक्ष्णोपयोगाद्राजिकादितीक्ष्णद्रव्यभक्षणात्| भावान् कटूनिति कटूनि द्रव्याणि| अभिजिघ्रतो भृशं जिघ्रतः| अर्कनिरीक्षणाद्वा कफविलयनकरात्| तरुणास्थिमर्मणीति तरुणास्थि नासावंशास्थि तदेव मर्म तस्मिन् फणामर्मणीत्यर्थः, अभिघातादिना मर्मव्यथाजनकत्वात्; अथवा तरुणास्थ्नि च मर्मणि च शृङ्गाटके, द्वन्द्वैकवद्भावनिर्देशात्| उद्घाटिते चालिते| अन्य आगन्तुजः||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आगन्तुजमाह– तीक्ष्णेत्यादि| तीक्ष्णोपयोगात् राजिकादिभक्षणात्, भावान् कटूनिति कटुद्रव्याणि, अतिजिघ्रतो भृशं जिघ्रतः, अर्कनिरीक्षणाद्वा कफविलयनकरत्वाद्, अथवा सूत्रादिभिः, तरुणास्थिमर्मणीति तरुणास्थि नासावंशास्थि, तदेव मर्म, अभिघातादिना मर्मवद्व्यथाजनकत्वात्, उद्घाटितेऽर्धचालिते, अन्यः आगन्तुजः, दोषजागन्तुरेक एव गणनीयः||६||

Adhikarana भ्रंशथुलक्षणम् (७) · Śloka

प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु | प्राक्सञ्चितो मूर्धनि सूर्यतप्तस्तं भ्रंशथुं रोगमुदाहरन्ति ||७|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

भ्रंशथुमाह– प्रभ्रश्यत इत्यादि| प्रभ्रश्यते गलति| विदग्धो लवण इति स्वरूपाख्यानं, विदग्धत्वादेव कफस्य लवणत्वसिद्धेः| प्राक्सञ्चित इत्यनेन सञ्चयपूर्वकं कोपं दर्शयति, हेतुभूयस्त्वेन चयमन्तरेणापि कोपदर्शनात्| यदुक्तम्– “न केवलं चयं प्राप्य दोषाः कुप्यन्ति देहिनाम्| अन्यतोऽपि हि कुप्यन्ति हेतुबाहुल्यतो बलात्||” इति||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

भ्रंशथुमाह– प्रभ्रश्यत इत्यादि| विदग्धो लवण इति स्वरूपाख्यानं, विदग्धत्वादेव कफस्य लवणत्वसिद्धेः, ‘पित्ततप्त’ इति सुश्रुतपाठः||७||

Adhikarana दीप्तलक्षणम् (८) · Śloka

घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः | नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति ||८|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

दीप्तमाह– घ्राणे भृशमित्यादि| प्रदीप्तेवेति प्रज्वलितेव||८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दीप्तमाह– घ्राण इत्यादि| प्रदीप्तेवेति प्रज्वलितेव, विदेहेऽस्य लक्षणम्– “धूमायते यदा नासा चलत्कृष्यति दीप्यते| निश्चरेत्तम उच्छ्वासं तं व्याधिं दीप्तमादिशेत्||” इति||८||

Adhikarana प्रतीनाहलक्षणम् (९) · Śloka

उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम् |९| (च. चि. अ. २६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

प्रतीनाहमाह– उच्छ्वासमार्गमित्यादि|९|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

प्रतीनाहमाह– उच्छ्वासमार्गमित्यादि|९|–

Adhikarana नासास्रावलक्षणम् (९) · Śloka

घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत् स्रावमुदाहरेत्तम् ||९|| (च. चि. अ. २६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

नासास्रावमाह– घ्राणादित्यादि| दोष इति कफः||९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

नासास्रावमाह– दोष इति कफः| अस्य लक्षणं विदेहे– “स्रोतःशृङ्गाटके श्लेष्मा| चितः क्लेदित ऊष्मणा| विशेषात्स्यन्दते रात्रौ नासास्रावं तु तद्विदुः||” इति||९||

Adhikarana नासाशोषलक्षणम् (१०) · Śloka १०

घ्राणाश्रिते स्रोतसि मारुतेन गाढं प्रतप्ते परिशोषिते च | कृच्छ्राच्छ्वसेदूर्ध्वमधश्च जन्तुर्यस्मिन् स नासापरिशोष उक्तः ||१०|| (सु. उ. तं. अ. २२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

नासाशोषमाह– घ्राणाश्रिते स्रोतसीत्यादि| अत्र च वायुकृतस्रोतःशोषणेन तद्गतश्लेष्मशोषो बोद्धव्यः| प्रतप्त इत्यनेन पित्तमपि गम्यते, प्रतपनस्य पित्तमन्तरेणासम्भवात्| तथाच कश्चित् पठति– “घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च||” इति| प्रतप्त इत्यस्य स्थाने ‘प्रदीप्ते’ इति पाठान्तरे स एवार्थः| कृच्छ्राच्छ्वसेदूर्ध्वमधश्च यस्मिन्निति कष्टेनोच्छ्वासनिःश्वासौ करोति यत्रेत्यर्थः||१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

नासाशोषमाह– घ्राणेत्यादि| नासाशोषस्तु वायुकृतस्रोतःशोषणेन तद्गतश्लेष्मशोषो ज्ञेयः| प्रतप्त इत्यनेन च पित्तमपि गम्यते, प्रतपनस्य पित्तमन्तरेणासम्भवात्| प्रतप्त इत्यस्य स्थाने ‘प्रदीप्ते’ इति पाठान्तरे स एवार्थः| कृच्छ्राच्छ्वसितीति कष्टेनोच्छ्वसिति श्वासं करोति यत्रेत्यर्थः| वैदेहेऽस्य लक्षणम्– “वातपित्तौ यदा घ्राणकफरक्तं विशोषयेत्| तदा स्यादुच्छ्वसेन्नासा तस्य शुष्कं विधीयते|| भृशशुष्कावचूर्णेन नासाशोषं तु तं विदुः|” इति||१०||

Adhikarana पीनसस्यामपक्वलक्षणम् (११-१२) · Śloka १२

शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः | क्षामः ष्ठीवत्यथाभीक्ष्णमामपीनसलक्षणम् ||११|| आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति | स्वरवर्णविशुद्धिश्च परिपक्वस्य लक्षणम् ||१२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

चिकित्साभेदार्थं पीनसस्यामपक्वलक्षणमाह– शिरोगुरुत्वमित्यादि| तनुरघनः| स्वरः क्षाम इति अविस्पष्टं वचनम्| ष्ठीवत्यथाभीक्ष्णमिति मुहुर्मुहुर्नासिकया श्लेष्माणं निरस्यतीत्यर्थः| आमरसान्वितेन दोषेण शिरोगुरुत्वादयः| “आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति” इत्यादि पक्वलक्षणम्| आमलिङ्गैः शिरोगुरुत्वादिभिरन्वितः श्लेष्मा निमज्जतीति लीनो भवति| अयमर्थः– श्लेष्मा तावल्लीनो भवति, आमलिङ्गान्यपि लीनानि भवन्ति, तथाच ‘तनुत्वमामलिङ्गानाम्’ इति सुश्रुतः| ‘न सज्जति’ इति पाठान्तरे न सक्तो भवति, न तिष्ठतीति यावत्; तदाऽऽमलिङ्गान्वितः स्तोकेनामलिङ्गेनान्वितः| घनः स्त्यानः| खेषु नासारन्ध्रेषु, ‘स्थितः’ इति शेषः; व्यक्त्यपेक्षया बहुवचनम्| स्वरविशुद्धिः स्वरभेदाभावः, वर्णविशुद्धिः प्रकृतिसवर्णता||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

चिकित्साभेदार्थं पीनसस्यामपक्वलक्षणं कथयन्नाह– शिर इत्यादि| तनुः अघनः, स्वरः क्षामः अविस्पष्टवचनः, ष्ठीवेत्तथाऽभीक्ष्णमिति मुर्हुर्मुहुर्नासया श्लेष्माणं निरस्यतीत्यर्थः| पक्वलक्षणमाह– आमेत्यादि| आमलिङ्गैः शिरोगुरुत्वादिभिरन्वितः श्लेष्मा, निमज्जति लीनो भवतीति, अयमर्थः– श्लेष्मा विलीनो भवति, आमलिङ्गान्यपि, तथाच– “तनुत्वं चामलिङ्गानाम्” इति सुश्रुते| ‘न सज्जति’ इति पाठान्तरे न सक्तो भवति, न तिष्ठतीति यावत्| स्वरविशुद्धिः स्वरभेदाभावः, वर्णविशुद्धिः प्रकृतिवर्णता||११-१२||

Adhikarana प्रतिश्यायस्य निदानपूर्विका सम्प्राप्तिः (१३-१४) · Śloka १४

सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः | प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः | संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु ||१३|| (च. चि. अ. २६) | चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् | प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि ||१४|| (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

प्रतिश्यायः पञ्चविधो भवति, वातपित्तकफसन्निपातरक्तजभेदात्; तस्य निदानं द्विविधम्– एकं सद्योजनकं, तच्च बलवत्त्वेन चयं नापेक्षत एव; अपरं चयादिक्रमेण जनकं, चयादिक्रमोत्पन्नश्च दोषो गरीयान् सकलशरीरसम्भावनया बद्धमूलत्वात्| तत्र सद्योजनकनिदानपूर्विकां तस्य सम्प्राप्तिमाह– सन्धारणेत्यादि| सन्धारणं पुरीषादिवेगधारणं, रजो धूलिः, शिरोभितापः शिरोऽभितप्यते येन स शिरोभितापो धूमादिः; रजोधूमादयश्च नासाप्रविष्टाः सन्तो हेतवः| अतिस्वपनं दिवास्वपनमित्यर्थः| अवश्यया तुषारेण| संस्त्यानदोषे शिरसीति घनीभूतश्लेष्मणि शिरसि| सुश्रुतेनापि सद्योजनकं निदानं पठितं; तद्यथा– “नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः| सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्||” (सु. उ. तं. अ. २४) इति| चयादिक्रमेण जनकमपि दोषं दर्शयन्नाह– चयं गता इत्यादि| चयं गता इति सामर्थ्यात् स्वे स्वे स्थाने, “स्वस्थानवृद्धिर्दोषाणां चय इत्यभिधीयते|” इति वचनात्| तथैव शोणितमिति चयं गतम्| ननु, यदि स्वस्थानस्थिता दोषाः तत् कथं मूर्ध्नि प्रतिश्यायसम्भवः? इत्याह– प्रकुप्यमाणा विविधैः प्रकोपणैरिति| विविधैरिति बलवद्विग्रहदिवास्वप्नादिभिः| प्रकोपविशेषश्च प्रसरः| यदुक्तम्– “प्रकुपितानां पर्युषितकिण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति|” (सु. सू. अ. २१) इति| अत एव, “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्|” इत्यत्र प्रकोपमात्रमुपात्तम्| एतेन प्रसरेण शिरःसम्प्राप्ता दोषाः प्रतिश्यायकराः| अन्ये तु चयं गता मूर्धनीति यथास्थितमेव योजयन्ति, उदानवायोरूर्ध्वगतित्वाच्छिरस्यपि सम्भवात्, त्वक्सिराश्रितत्वात् पित्तासृजोः कफस्य च निसर्गतः शिरोवस्थितेः शिरसि चय इति| तत इति प्रकोपविशेषात् प्रसरादनन्तरम्| प्रतिश्याय इति वातं प्रति अभिमुखं श्यायो गमनं कफादीनां यत्र स प्रतिश्यायः| ‘शैङ्’ गतौ, इत्यस्य प्रयोगः| तथाच चरकः– “घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा| मारुताध्मातशिरसः श्यायते मारुतं प्रति||” (च. चि. अ. ८)||१३-१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

एवं नासारोगा दश श्रीकण्ठोक्ताः कथिताः| प्रतिश्यायः पञ्चविधो भवति, वातपित्तकफसन्निपातरक्तजभेदात्, तस्य सम्प्राप्तिमाह– सन्धारणेत्यादि| निदानं द्विविधम्– एकं सद्योजनकम्, अपरं चयादिक्रमजातं, तत्रेदं सद्योनिदानम्| सन्धारणं पुरीषादिवेगविधारणं, रजो धूलिः, शिरोभितापः शिरोऽभिताप्यते येन स शिरोभितापः धूमादिः, रजोधूमादयश्च नासाप्रविष्टाः प्रतिश्यायहेतवः, अतिस्वप्नं दिवास्वप्नमित्यर्थः| अवश्यया तुषारेण| संस्त्यानदोषे शिरसीति संहतकफे शिरसि| सुश्रुतेनापि सद्योजनकं निदानं पठितम्| तद्यथा– “नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः| सन्धारणं मूत्रपुरीषयोश्च सद्यःप्रतिश्यायनिदानमुक्तम्||” इति| चयादिक्रमजस्य निदानमाह– चयमित्यादि| चयं गताः इति स्वे स्वे स्थाने सञ्चयं प्राप्ताः “स्वस्थानवृद्धिर्दोषाणां चयः” इति वचनात्| मारुतादय इति वातपित्तश्लेष्माणः एते, तथैव शोणितमपि चयं गतं ततो मूर्ध्नि प्रतिश्यायकरं भवतीति योज्यम्| ननु, यदि स्वे स्वे स्थाने स्थिता दोषास्तत्कथं मूर्ध्नि प्रतिश्यायसम्भवः इत्याह– प्रकोप्यमाणा विविधैः प्रकोपणैरिति, बलवद्विग्रहादिक्रोधादिदिवास्वप्नादिभिश्च कोपनैः प्रकोप्यमाणाः; प्रकोपविशेषश्च प्रसरः| यदुक्तम्– “कुपितानां दोषाणां किण्वोदकपिष्टसमवाय इवोद्गतानां प्रसरो भवति” इति| अत एवाह– “चयप्रकोपोपशमाः पित्तादीनां यथाक्रमम्” इति| अत एव प्रकोपमात्रमुपात्तम्| एवं च प्रसरणस्थानसंश्रयेण शिरःसम्प्राप्ता दोषाः प्रतिश्यायकराः| अन्ये तु चयं गतो मूर्ध्नीति यथावस्थितमेव मन्यन्ते, उदानवायोरूर्ध्वगतित्वात्, शिरस्यपि वातसमुद्भवत्वात्| त्वक्सिरासृतत्वात्पित्तासृजोः कफस्य च निसर्गतः शिरोवस्थितेः शिरसि चय इति| अथवा सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सरक्ताः, सर्वत्रैतत्कार्यदर्शनात्| तत इति प्रकोपविशेषात् प्रसरादनन्तरम्| प्रतिश्याय इति वातं प्रति अभिमुखं श्यायो गमनं कफादीनां यत्र स प्रतिश्यायः| ‘श्यैङ्’ गतौ इत्यस्य प्रयोगः| तथा चरकः– “घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव च| मारुताध्मानशिरसः श्यायते मारुतं प्रति|| प्रतिश्यायस्ततो घोरो जायते देहकर्षणः|” इति||१३-१४||

Adhikarana प्रतिश्यायपूर्वरूपम् (१५) · Śloka १५

क्षवप्रवृत्तिः शिरसोऽतिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता | उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ||१५|| (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य पूर्वरूपमाह– क्षवप्रवृत्तिरित्यादि| उपद्रवाश्चाप्यपरे इति उपद्रवास्तत्कालभाविनो रोगाः, नतु पारिभाषिकाः पश्चात्कालभाविनः; ते च घ्राणधूमायनमन्थादयः| यदाह विदेहः– “पूर्वरूपाणि दृश्यन्ते प्रतिश्याये भविष्यति| घ्राणधूमायनं मन्थः क्षवथुस्तालुदारणम्|| कण्ठध्वंसो मुखस्रावः शिरसः पूरणं तथा|” इति| पुरःसरा इति पूर्वरूपाणि||१५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य पूर्वरूपमाह– क्षवेत्यादि| उपद्रवाः तत्कालभाविनो रोगाः| अपरे इति घ्राणधूमायनमन्थादयः| यदुक्तं विदेहे– “पूर्वरूपाणि दृश्यन्ते प्रतिश्याये भविष्यति| घ्राणधूमायनं मन्थः क्षवथुस्तालुदारणम्| कण्ठध्वंसो मुखस्रावः शिरसः पूरणं तथा||” इति| पुरःसरा इति पूर्वरूपाणि||१५||

Adhikarana वातज-पित्तज-कफजप्रतिश्यायलक्षणम् (१६-१९) · Śloka १९

आनद्धा पिहिता नासा तनुस्रावप्रसेकिनी | गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ||१६|| (सु. उ. तं. अ. २४) | क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च | भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके ||१७|| उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके | कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः ||१८|| सधूममग्निं सहसा वमतीव स मानवः | घ्राणात् कफः कफकृते शीतः पाण्डुः स्रवेद्बहुः | शुक्लावभासः शुक्लाक्षो भवेद्गुरुशिरा नरः ||१९|| कण्ठताल्वोष्ठशिरसां कण्डूभिरभिपीडितः | (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातादिप्रतिश्यायलिङ्गान्याह– आनद्धेत्यादि| आनद्धा विबद्धा| पिहिता सपिधानेव| निस्तोदः सूचिव्यधनवद्व्यथा| शङ्खयोरिति भ्रूपुच्छान्तयोः| सपीतक इति ईषत् पीतः| पित्तप्रतिश्यायवान् मानवः कृशो भवति| अतिपाण्डुर्धूसरः| उष्णाभिपीडित इति उष्णगुणेनाभिपीडित इत्यर्थः||१६-१९||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तेषु वातिकमाह– आनद्धेत्यादि| आनद्धा विबद्धा, आध्मानापूरितेवेति यावत्| पिहिता सपिधानेव, तथा गलताल्वोष्ठशोषादयो भवन्ति, निस्तोदः शूलव्यधनवद्व्यथा, शङ्खयोरिति भ्रूपुच्छान्तयोः| पैत्तिकमाह– सपीतक इत्यादि| ईषत्पीतकः| पित्तप्रतिश्यायवान्मानवः कृशो भवति| अतिपाण्डुर्धूसरः, उष्णाभिपीडित इति उष्णगुणेनाभिपीडितः| श्लैष्मिकमाह– सधूममित्यादि| शुक्लावभासः श्वेतवपुः, शूनाक्षः उच्छूननयनः||१६-१९||–

Adhikarana सन्निपातजप्रतिश्यायलक्षणम् (२०) · Śloka २०

भूत्वा भूत्वा प्रतिश्यायो यस्याकस्मान्निवर्तते ||२०|| सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः | (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सन्निपातजमाह– भूत्वेत्यादि| भूत्वा भूत्वा इति वीप्सया पुनः पुनः सम्भवं दर्शयति| अन्यतमदोषस्य कालादिनाऽनवधारितेन बलहानेर्निवृत्तिः, अकस्मात् प्रवृत्तिरपि असम्यङ्निवृत्तदोषस्य कालादिना बललाभात्| अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि, तथाऽपि सर्वप्रभवत्वात् प्रत्येतव्यानि| असाध्यश्चायं दुष्टतां गतः सन्, “नृणां दुष्टप्रतिश्यायस्त्वसाध्यः सर्वजः स्मृतः|” इति विदेहवचनात्||२०||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सान्निपातिकमाह– भूत्वेत्यादि| वीप्सया पुनःपुनः सम्भवं दर्शयति| अन्यतमदोषस्य कालादिनाऽनवधारितेन बलहानेर्निवृत्तिः, अकस्मात् प्रवृत्तिरपि, असम्यङ्निवृत्तदोषस्य कालादिना बललाभात्| अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि तथाऽपि सर्वप्रभवत्वात् प्रत्येतव्यानि| केचित् ‘सर्वप्रभवः स्मृतः’ इत्यस्याग्रेऽधिकं पादद्वयं पठन्ति, तच्च– “लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे” इति सर्वजे प्रतिश्याये सर्वेषां वातादीनां पीनसानां लिङ्गानि भवन्तीति योज्यम्| असाध्यश्चायं दुष्टतां गतः सन्– “नृणां दुष्टप्रतिश्यायस्त्वसाध्यः सर्वजः स्मृतः” इति विदेहवचनात्||२०||–

Adhikarana दुष्टप्रतिश्यायलक्षणम् (२१-२२) · Śloka २२

प्रक्लिद्यते पुनर्नासा पुनश्च परिशुष्यति ||२१|| पुनरानह्यते वाऽपि पुनर्विव्रियते तथा | निःश्वासो वाऽतिदुर्गन्धो नरो गन्धान् न वेत्ति च ||२२|| एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् | (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

एकदोषस्यापि दुरुपचाराद्दोषद्वयानुबन्धेन दुष्टतां गतस्य दोषत्रयसम्बन्धसाम्येन सन्निपातजानन्तरं लिङ्गमाह– प्रक्लिद्यते पुनर्नासेत्यादि| आनह्यत इति विबध्यते| विव्रियत इति विगतावरणा भवतीत्यर्थः| क्लेदशोषपिधानविवरणानि नैककालं भिन्नदोषजानि बोद्धव्यानि, तेन विरोधो नोद्भावनीयः| एवमिति इत्थम्भूतलिङ्गं दुष्टप्रतिश्यायं परस्परविरुद्धोपक्रमदोषसम्बन्धात् कृच्छ्रसाध्यं जानीयात्| अयं च पञ्चानामेवावस्थान्तरतया अनन्यत्वान्न षष्ठः| ननु, अवस्थान्तरत्वेऽपि अभिष्यन्दादधिमन्थ इव भिन्नो भविष्यति? न, तद्वद्वातादिजत्वेनानिर्देशात्||२१-२२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

एकदोषस्यापि दुरुपचाराद् दोषद्वयानुबन्धेन दुष्टिं गतस्य दोषत्रयसम्बन्धसाम्येन सन्निपातजानन्तरं दुष्टप्रतिश्यायलिङ्गमाह– प्रक्लिद्यत इत्यादि| आनह्यत इति विबध्यते, विव्रियत इति विगतावरणा भवति, क्लेदशोषपिधानविवरणानि नैककालं भिन्नदोषजानि बोद्धव्यानि, तेन विरोधो नोद्भावनीयः| इत्थम्भूतलिङ्गं दुष्टप्रतिश्यायं परस्परविरुद्धोपक्रमदोषसम्बन्धात् कृच्छ्रसाध्यं जानीयात्| अयं च पञ्चानामेवावस्थान्तरतयाऽनन्यत्वान्न षष्ठो गणनीयः| नन्ववस्थान्तरत्वेऽपि अभिष्यन्दादधिमन्थ इव भिन्नो भविष्यतीति? नैवं, तद्वद्वातादिजत्वेनानिर्देशात्||२१-२२||

Adhikarana रक्तजप्रतिश्यायलक्षणम् (२३-२४) · Śloka २४

रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्तते ||२३|| ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः | दुर्गन्धोच्छ्वासवदनो गन्धानपि न वेत्ति सः ||२४|| (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजलिङ्गमाह– रक्तज इत्यादि| उरोघातप्रपीडित इति उरोघातस्तन्त्रान्तरपठितलक्षणः, तेन प्रकर्षेण पीडितः| तद्यथा– “उरःक्षतमुरःस्तम्भः पूतिकर्णकफोरसः| सकासः सज्वरो ज्ञेय उरोघातः सपीनसः||” इति| अत्र पित्तप्रतिश्यायलिङ्गान्यपि बोद्धव्यानि, तुल्यत्वात् पित्तरक्तयोः| तथा च क्वचित् पठ्यते– “पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः|” इति||२३-२४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रक्तजप्रतिश्यायलिङ्गमाह– रक्तज इत्यादि| उरोघातः तन्त्रान्तरपठितलक्षणः, तेन प्रकर्षेण पीडितः, तद्यथा– “उरःक्षतमुरःस्तम्भः पूतिकर्णकफोरसः| सकासः सज्वरो ज्ञेय उरोघातः सपीनसः||” इति| अत्र पित्तप्रतिश्यायलिङ्गान्यपि बोद्धव्यानि, तुल्यत्वात्पित्तरक्तयोः| तथाच क्वचित्पठ्यते– “पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः” इति||२३-२४||

Adhikarana प्रतिश्यायस्यासाध्यलक्षणम् (२५-२६) · Śloka २६

सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः | दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति हि ||२५|| मूर्छन्ति चात्र क्रिमयः श्वेताः स्निग्धास्तथाऽणवः | क्रिमितो यः शिरोरोगस्तुल्यं तेनास्य लक्षणम् ||२६|| (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अप्रतिक्रियया कालान्तरेण सर्व एव दुष्टप्रतिश्याया भवन्ति, ते चासाध्या इत्याह– सर्व एवेत्यादि| मूर्छन्ति चात्र क्रिमय इति अत्रेति एषु, बहुवचनान्तात्त्रल्प्रत्ययविधिः; अन्ये तु प्रत्यासन्नत्वात् रक्तज एव क्रिमिमूर्छनं वदन्ति| श्वेता इति कफाधिकत्वात् प्रतिश्यायस्य सर्वत्र कफजा एव श्वेतक्रिमयो भवन्ति| ‘क्रिमितो यः शिरोरोगस्तुल्यं तेनास्य लक्षणम्’ इति क्रिमिजशिरोरोगेणेह तुल्यं लिङ्गं, तच्च “निस्तुद्यते यस्य शिरोऽतिमात्रम्” इत्यादिना वक्ष्यमाणम्||२५-२६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सर्व एव प्रतिश्याया अप्रतिक्रियमाणाः कालान्तरेण दुष्टतां यान्ति, ते चासाध्या भवन्तीत्यत आह– सर्व इत्यादि| अत्र एषु प्रतिश्यायेषु, बहुवचनान्तात्त्रल्| अन्ये तु प्रत्यासन्नत्वात् रक्तज एव क्रिमिमूर्छनं वदन्ति| श्वेत इति कफाधिकत्वात्| प्रतिश्याये सर्वत्र कफजा एव श्वेताः कृमयो भवन्ति| क्रिमिजो य इत्यादि क्रिमिजशिरोरोगेण तुल्यं लिङ्गमित्यर्थः| तल्लक्षणम्– “निस्तुद्यते यस्य शिरोऽतिमात्रम्” इत्यादि शिरोरोगनिदाने वक्ष्यमाणम्||२५-२६||

Adhikarana प्रवृद्धप्रतिश्यायजन्या विकाराः (२७) · Śloka २७

बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान् | शोथाग्निसादकासांश्च वृद्धाः कुर्वन्ति पीनसाः ||२७|| (सु. उ. तं. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अतः परमपरान् विकारान् प्रवृद्धाः प्रतिश्यायाः कुर्वन्ति, तानाह– बाधिर्यमित्यादि| घोरान्नयनामयानित्यभिधानादेवान्ध्ये लब्धे विशेषेण तत्करत्वप्रतिपादनार्थमान्ध्यग्रहणम्| अघ्रत्वमिति न जिघ्रतीत्यघ्रस्तस्य भावोऽघ्रत्वम्| ‘घ्रा’ गन्धोपादाने, इत्यस्मात् ‘सुपि स्थः’ इत्यत्र योगविभागात् कप्रत्ययः||२७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अतः परमपरान् यान् विकारान् प्रवृद्धाः प्रतिश्यायाः कुर्वन्ति तानाह– बाधिर्यमित्यादि| घोरनयनामयाभिधानादेवान्ध्ये लब्धे विशेषेण तत्करत्वप्रतिपादनार्थमान्ध्यग्रहणम्| अघ्रत्वमिति न जिघ्रतीत्यघ्रः, तस्य भावोऽघ्रत्वम्| ‘घ्रा’ गन्धोपादाने, इत्यस्मात् “सुपि स्थः” इत्यत्र “सुपि” इति योगविभागात्कप्रत्ययः||२७||

Adhikarana नासागतार्बुद-शोथार्शो-रक्तपित्तानां भेदानि (२८) · Śloka २८

अर्बुदं सप्तधा शोथाश्चत्वारोऽर्शश्चतुर्विधम् | चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ||२८||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सुश्रुते नासारोगा एकत्रिंशदुक्ताः, अत्राप्यपीनसमारभ्य प्रतिश्यायपर्यन्तेन पञ्चदशोक्ताः, शेषसङ्ख्यापूरणाय अपरान् षोडश नासारोगानाह– अर्बुदं सप्तधेत्यादि| एकैकदोषरक्तमांसमेदःसम्भवत्वेन षडर्बुदानि, शालाक्यसिद्धान्तेन सन्निपातजमधिकम्, एवं सप्त| तथाच विदेहः– “सर्वलिङ्गं रुजायुक्तमर्बुदं विद्धि सर्वजम्|” इति| शोथाश्चत्वारो वातपित्तकफसन्निपातजभेदात्, एवमर्शोऽपि चतुर्विधं, रक्तपित्तं चतुर्विधमपि तच्च रक्तपित्तत्वसामान्यादेकत्वेन गणनीयं, तेन न सङ्ख्यातिरेकः| अर्बुदादीनां तत्र तत्रोक्तानामत्राभिधानं शालाक्योक्तसङ्ख्यापूरणार्थमाश्रयप्रभावेणातिरिक्तलिङ्गादिख्यापनार्थं च||२८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सुश्रुते नासारोगा एकत्रिंशदुक्ताः| तत्र पीनसमारभ्य प्रतिश्यायपर्यन्तेन पञ्चदशोक्ताः, अपरान् षोडश सङ्ख्यापूरणाय नासारोगानाह– अर्बुदमित्यादि| वातपित्तकफशोणितमांसमेदोजत्वेन षड्विधमर्बुदं, शालाक्यसिद्धान्तेन, विदेहेन सन्निपातजमधिकमुक्तम्, एवं सप्त| शोथाश्चत्वारो वातपित्तकफसन्निपातभेदात् एवमर्शोऽपि चतुर्विधं, सहजरक्तजयोरर्शसोर्दोषजेऽन्तर्भावः| रक्तपित्तं चतुर्विधमपि रक्तपित्तत्वसामान्यादेकत्वेन गणनीयं, तेन न सङ्ख्यातिरेकः| अर्बुदादीनामुक्तानामप्यत्राभिधानं शालाक्योक्तसङ्ख्यापूरणाय, आश्रयप्रभावेणातिरिक्तलिङ्गादिख्यापनार्थं च| घ्राणार्शोऽर्बुदयोर्ग्रन्थान्तरे भेद उक्तः, तद्यथा– “शिरोललाटतालूनां गौरवं दुःखनिद्रता| अर्शसामर्बुदानां च दोषैः शेषाकृतिः समा|| अर्शांसि गोस्तनाकाराण्यर्बुदं कोलसम्मितम्|” इति||२८||

Adhikarana पुष्पिका · Śloka ५८

इति श्रीमाधवकरविरचिते माधवनिदाने नासारोगनिदानं समाप्तम् ||५८||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां नासारोगनिदानं समाप्तम्||५८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां नासारोगनिदानम्||५८||