Skip to content

३०. मूत्रकृच्छ्रनिदानम्

Adhikarana मूत्रकृच्छ्रनिदानं, सम्प्राप्तिश्च (१-२) · Śloka

अथ मूत्रकृच्छ्रनिदानम् | व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात् | आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ||१|| पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ | मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ||२|| (च. चि. अ. २६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयबस्तयः प्रधानानि| तत्र हृदयगतविकारानभिधाय बस्तिगतविकारानाह– व्यायामेत्यादि| मूत्रकृच्छ्राणीति मूत्रस्य कृच्छ्रेण महता दुःखेन प्रवृत्तिः| अष्टाविति दोषैः पृथक् त्रीणि, सन्निपातेनैकं, शल्यजपुरीषजशुक्रजाश्मरीजानीत्येकैकानि| ननु, शर्कराजं मूत्रकृच्छ्रं सुश्रुतेन पठितं; तच्चात्र सङ्ग्रहेऽपि पठितम्– “अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे|” इत्यादिना, तत् कथमष्टौ? नव प्राप्नुवन्ति| उच्यते– शर्करा अश्मरीभेद एव| यदाह दृढबलः– “एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती|” (च. चि. अ. २६) इति| अतोऽश्मरीजेनैव शर्कराजग्रहणमिति मन्यमानो दृढबलः अष्टावित्यपठत्||१-२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयबस्तयः प्रधानानि, हृदयस्य प्रधानमर्मत्वाद्बस्तेरपि मर्मत्वात्, अतो हृद्रोगानन्तरं बस्तिव्याधित्वान्मूत्रकृच्छ्रारम्भः| तस्य हेतुमाह– व्यायामेत्यादि| तीक्ष्णौषधं राजिकादियुक्तं, मद्यप्रसङ्गोऽतिमद्यसेवा| नृत्येत्यादि पृष्ठयानात् अश्वादिपृष्ठयानात्, अन्ये– नित्यद्रुतपृष्ठयानादिति पठन्ति| नित्यं शीघ्रं तुरगादिगमनम्| आनूपाः सजलप्रदेशचारिणो मत्स्यादयः, अध्यशनं भुक्तस्योपरिभोजनम्| मूत्रकृच्छ्राणीति मूत्रस्य कृच्छ्रेण महता दुःखेन प्रवृत्तिः| अष्टाविति दोषैस्त्रीणि, सन्निपातेनैकं, शल्यजं, पुरीषजं, शुकजमश्मरीजमित्यष्टौ| तस्य सम्प्राप्तिपूर्वकं लक्षणमाह– पृथगिति| पृथक् भिन्नाः, अथ सर्वैः स्वैर्हेतुभिः कुपितास्ततो बस्तौ मूत्राशये कोपं प्राप्य यदा मूत्रमार्गे मेढ्रं परिपीडयन्ति, तदा नरः कष्टेन मूत्रयतीत्यर्थः||१-२||

Adhikarana वातज-पित्तज-कफज-सन्निपातज-शल्याभिघातज-शकृत्प्रतिघातज-अश्मरीज-शुक्रजमूत्रकृच्छ्रलक्षणम् (३-८) · Śloka

तीव्रार्तिरुग्वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् | पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ||३|| बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे | सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ||४|| (च. चि. अ. २६) | मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा | मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ||५|| वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत् | शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ||६|| आध्मानं वातशूलं च मूत्रसङ्गं करोति च | अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहरेत् ||७|| (सु. उ. तं. अ. ५९) | शुक्रे दोषैरुपहते मूत्रमार्गे विधाविते सशुक्रं मूत्रयेत् कृच्छ्राद्बस्तिमेहनशूलवान् ||८||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मूत्रकृच्छ्रस्य वातजादिभेदेन लक्षणान्याह– तीव्रेत्यादि| सलिङ्गस्य समेढ्रस्य| सपिच्छं पिच्छिलम्| कृच्छ्रतमं कष्टसाध्यम्| कृच्छ्रं मूत्रकृच्छ्रम्| मूत्रवाहिष्विति मूत्रवहस्रोतःसु| अश्मरीहेतु तत्पूर्वमिति अश्मरीहेत्विति लक्ष्यपदं, तत्पूर्वमिति लक्षणपदं, तत्पूर्वमश्मरीपूर्वकम्||३-८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातजमाह– तीव्रेत्यादि| तीव्रा मारणात्मिका, वङ्क्षणे ऊरुवृषणमेढ्राणामन्तरालसन्धौ, स्वल्पं स्तोकं, मुहुर्वारंवारं, वातात् कृच्छ्रम्| पैत्तिकमाह– पीतमित्यादि| इह पित्तात् कृच्छ्रे पीतादिलिङ्गं मूत्रं मुहुर्मूत्रयति, ‘नर’ इति शेषः| पीतं सरक्तं वर्णद्वयं न्यूनाधिकपित्तप्रकोपात्| श्लैष्मिकमाह– बस्तेरित्यादि| बस्तेः सलिङ्गस्य मेहनयुक्तस्य बस्तेः गुरुत्वशोथौ भवतः| सपिच्छं पिच्छिलं भवति| त्रिदोषजमाह– सर्वाणीत्यादि| सर्वाणि सर्वदोषलिङ्गानि, तत् कृच्छ्रं त्रिदोषजं कृच्छ्रतमं कष्टसाध्यम्| शल्यजमाह– मूत्रेत्यादि| मूत्रवहस्रोतःसु शल्येन क्षतेषु सत्सु अथवा अभिहतेषु पीडितेषु तदाघातात् भृशं दारुणं तीव्रं मारणात्मकम्| पुरीषजमाह– शकृत इत्यादि| पुरीषस्य प्रतीघातात् अवरोधात् विगुणीभूतो दूषितो वायुः आध्मानं वातशूलं च कुर्यात्, मूत्रनाशं च कुर्यात्, ततो मूत्रकृच्छ्रं च जायते| अश्मरीजमाह– अश्मरीहेतु मूत्रकृच्छ्रमिति तस्य कृच्छ्रस्य अश्मर्येव कारणम्| शुक्रजमाह– शुक्र इत्यादि| मूत्राशये स्रवणव्यथायुक्तः ‘पुरुष’ इति शेषः||३-८||

Adhikarana मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोः समानताऽवान्तरभेदश्च (९-१२) · Śloka १२

अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे | विशेषणं शर्करायाः शृणु कीर्तयतो मम ||९|| पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना | विमुक्तकफसन्धाना क्षरन्ती शर्करा मता ||१०|| हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः | तया भवति मूर्छा च मूत्रकृच्छ्रं च दारुणम् ||११|| मूत्रवेगनिरस्ताभिः प्रशमं याति वेदना | यावदस्याः पुनर्नैति गुडिका स्रोतसो मुखम् ||१२|| (सु. उ. तं. अ. ५९) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोः समानतामवान्तरभेदं चाह– अश्मरीत्यादि| अश्मरी शर्करा चैवेत्यनन्तरं ‘एते’ इत्यध्याहार्य ‘तुल्यसम्भवलक्षणे’ इत्यनेन द्विवचनान्तेन सम्बन्धनीयं, यथा– “तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी|” इत्यादिवत्| तुल्यः सम्भव उत्पत्तिकारणं लक्षणं च ययोस्ते तथा, “तुल्ये सम्भवलक्षणैः” इति पाठान्तरे तुल्ये सदृशे, कैरित्यत उक्तम्– सम्भवलक्षणैरिति; ‘तुल्या सम्भवलक्षणैः’ इति पाठान्तरे स एवार्थः| विशेषणं विशेषः| तमेव विवृणोति– पच्यमानेत्यादि| कफसन्धानं कफेनावयवसंश्लेषः; कफ एव वा सन्धानं कफसन्धानं, सन्धीयतेऽनेनेति व्युत्पत्त्या| तेन पित्तपाकवातशोषौ सन्धानविमोक्षहेतुत्वेनोक्तौ| क्षरन्तीति बस्तितः| चरके हि– “स्याच्छर्करा मूत्रपथात् क्षरन्ती|” (च. चि. अ. २६) इत्येवं पठितम्| कुक्षौ शूलमिति सम्बन्धः| तया शर्करया इति||९-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोर्नवत्वसङ्ख्यानिरासार्थं समानत्वमवान्तरभेदं चाह– अश्मरीत्यादि| अश्मरी च शर्करा च एते उभे तुल्यसम्भवलक्षणे तुल्यः सम्भव उत्पत्तिः लक्षणं च ययोस्ते तथा, समाननिदानलिङ्ग इत्यर्थः| कीर्तयतः कथयतो मम शर्कराया विशेषणं शृणु| पित्तेन पच्यते वायुना शोष्यते, सन्धानं कफेनावलम्बनं संश्लेषः, अथवा कफ एव सन्धानं सन्धीयतेऽनेनेति व्युत्पत्त्या; एतेन पवनाद्विशोषणात् पित्तवातौ सन्धानरूपस्य कफस्य शोषत्वेन तौ शर्कराया हेतुत्वेनोक्तौ, पित्तेन पाचिता, वायुना शोषिता, श्लेष्मणा सन्धिता अश्मरी; ताभ्यां विमुक्तसन्धाना शर्करा क्षरन्ती सती शर्करारूपा, क्षरन्तीति बस्तितः| एतावता हेतुलक्षणत्वेन एक एव रोगः सन्धानाभावात् क्रियाभेदः, अतो मूर्छा च मूत्रकृच्छ्रे द्वे अपि कारणे| तस्य उपद्रवानाह– हृदित्यादि| शूलं कुक्षाविति सम्बन्धः| तया शर्करया||९-१२||

Adhikarana पुष्पिका · Śloka ३०

इति श्रीमाधवकरविरचिते माधवनिदाने मूत्रकृच्छ्रनिदानं समाप्तम् ||३०||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूत्रकृच्छ्रनिदानं समाप्तम्||३०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां मूत्रकृच्छ्रनिदानम्||३०||