Adhikarana मूत्रकृच्छ्रनिदानं, सम्प्राप्तिश्च (१-२) · Śloka २
अथ मूत्रकृच्छ्रनिदानम् | व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात् | आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ||१|| पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ | मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ||२|| (च. चि. अ. २६) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयबस्तयः प्रधानानि| तत्र हृदयगतविकारानभिधाय बस्तिगतविकारानाह– व्यायामेत्यादि| मूत्रकृच्छ्राणीति मूत्रस्य कृच्छ्रेण महता दुःखेन प्रवृत्तिः| अष्टाविति दोषैः पृथक् त्रीणि, सन्निपातेनैकं, शल्यजपुरीषजशुक्रजाश्मरीजानीत्येकैकानि| ननु, शर्कराजं मूत्रकृच्छ्रं सुश्रुतेन पठितं; तच्चात्र सङ्ग्रहेऽपि पठितम्– “अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे|” इत्यादिना, तत् कथमष्टौ? नव प्राप्नुवन्ति| उच्यते– शर्करा अश्मरीभेद एव| यदाह दृढबलः– “एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती|” (च. चि. अ. २६) इति| अतोऽश्मरीजेनैव शर्कराजग्रहणमिति मन्यमानो दृढबलः अष्टावित्यपठत्||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयबस्तयः प्रधानानि, हृदयस्य प्रधानमर्मत्वाद्बस्तेरपि मर्मत्वात्, अतो हृद्रोगानन्तरं बस्तिव्याधित्वान्मूत्रकृच्छ्रारम्भः| तस्य हेतुमाह– व्यायामेत्यादि| तीक्ष्णौषधं राजिकादियुक्तं, मद्यप्रसङ्गोऽतिमद्यसेवा| नृत्येत्यादि पृष्ठयानात् अश्वादिपृष्ठयानात्, अन्ये– नित्यद्रुतपृष्ठयानादिति पठन्ति| नित्यं शीघ्रं तुरगादिगमनम्| आनूपाः सजलप्रदेशचारिणो मत्स्यादयः, अध्यशनं भुक्तस्योपरिभोजनम्| मूत्रकृच्छ्राणीति मूत्रस्य कृच्छ्रेण महता दुःखेन प्रवृत्तिः| अष्टाविति दोषैस्त्रीणि, सन्निपातेनैकं, शल्यजं, पुरीषजं, शुकजमश्मरीजमित्यष्टौ| तस्य सम्प्राप्तिपूर्वकं लक्षणमाह– पृथगिति| पृथक् भिन्नाः, अथ सर्वैः स्वैर्हेतुभिः कुपितास्ततो बस्तौ मूत्राशये कोपं प्राप्य यदा मूत्रमार्गे मेढ्रं परिपीडयन्ति, तदा नरः कष्टेन मूत्रयतीत्यर्थः||१-२||