Adhikarana मुखरोगनिदानम् (१) · Śloka १
अथ मुखरोगनिदानम् |
आनूपपिशितक्षीरदधिमत्स्यातिसेवनात् |
मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः ||१||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रोगगणत्वसामान्यान्मुखरोगनिदानमुच्यते– आनूपेत्यादि| मुखरोगाश्च पञ्चषष्टिर्भवन्ति| यदाह भोजः– “दन्तेष्वष्टावोष्ठयोश्च मूलेषु दश पञ्च च| नव तालुनि जिह्वायां पञ्च सप्तदशामयाः| कण्ठे त्रयः सर्वसरा एकषष्टिश्चतुःपरा||” इति||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रोगगणत्वसामान्यान्मुखरोगारम्भः– आनूपेत्यादि| मुखरोगाः पञ्चषष्टिर्भवन्ति| यदुक्तं भोजे– “दन्तेष्वष्टावोष्ठयोश्च मूलेषु दश पञ्च च| नव तालुनि जिह्वायां पञ्च सप्तदशामयाः|| कण्ठे त्रयः सर्वसरा एकषष्टिश्चतुःपराः||” इति||१|
Adhikarana वातजौष्ठरोगलक्षणम् (२) · Śloka २
कर्कशौ परुषौ स्तब्धौ सम्प्राप्तानिलवेदनौ |
दाल्येते परिपाट्यते ओष्ठौ मारुतकोपतः ||२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तत्राष्टावोष्ठगतानाह– वातिकलक्षणमाह– कर्कशावित्यादि| दाल्येते इति विदार्येते| परिपाट्येते इति किञ्चिदवदीर्णत्वचौ भवत इत्यर्थः||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्राष्टावोष्ठगतान्निर्दिशति– कर्कशावित्यादि| कर्कशौ शाकपत्रसदृशौ, परुषौ रूक्षौ, स्तब्धौ निश्चलौ| सम्प्राप्तानिलवेदनावित्यत्र “कृष्णौ तीव्ररुजान्वितौ” इति पाठान्तरम्| दाल्येते इति विदार्येते, द्विधा भवत इवेत्यर्थः| परिपाट्येते इति किञ्चिदवदीर्णत्वचौ भवत इत्यर्थः||२||
Adhikarana पित्तजौष्ठरोगलक्षणम् (३) · Śloka ३
चीयेते पिडकाभिश्च सरुजाभिः समन्ततः |
सदाहपाकपिडकौ पीताभासौ च पित्ततः ||३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पैत्तिकलक्षणमाह– चीयेते इत्यादि| सरुजाभिरिति पित्तकृतरुजान्विताभिः| यद्येवं सदाहपाकपिडकाविति किमर्थमुच्यते? पूर्वेणैव गतार्थत्वात्| नैवं, पक्षान्तरप्रतीत्यर्थं पुनरुच्यते| अयमर्थः– कदाचित् पित्तरुजान्वितबहुपिडकाचितावोष्ठौ, कदाचित् दाहपाकान्वितपिडकाचितौ वा भवतः; अन्यस्त्वाह– अनतिभिन्नार्थत्वादव्यक्तशब्दार्थत्वाच्च दाहपाकातिशयदर्शनार्थं पिडकानुवादः||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकमाह– चीयेते इत्यादि| सरुजाभिः पित्तकृतरुजाभिः पित्तकृतरुजाचिताभिः, दाहपाकावपि पित्तकृतौ, तत्कथमुच्यते सदाहपाकपिडकाविति? नैवं, दाहपाकातिशयदर्शनार्थं पिडकानुवाद इति||३||
Adhikarana कफजौष्ठरोगलक्षणम् (४) · Śloka ४
सवर्णाभिश्च चीयेते पिडकाभिरवेदनौ |
भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ||४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कफजमाह– सवर्णाभिरित्यादि| सवर्णाभिरिति ओष्ठसमानवर्णाभिः| अवेदनौ ईषद्वेदनौ||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लैष्मिकमाह– सवर्णाभिरित्यादि| ओष्ठसमानवर्णाभिः, अवेदनौ ईषद्वेदनौ||४||
Adhikarana सन्निपातजौष्ठरोगलक्षणम् (५) · Śloka ५
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च |
सन्निपातेन विज्ञेयावनेकपिडकाचितौ ||५||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सान्निपातिकलक्षणमाह– सकृदित्यादि| सकृदिति कदाचिद्विकृतिवशादेवं भवति| अनेकपिडकाचिताविति वातादिवेदनान्वितबहुपिडकौ, अनेकवर्णपिडकाचितावित्यन्ये| अनेकाश्च वर्णा वातादीनां कृष्णपीतश्वेताः, अत्र पक्षे सकृत्कृष्णावित्यादिपिडकातोऽन्यत्र कल्पनीयम्||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सान्निपातिकमाह– सकृदित्यादि| कदाचिद्विकृतिवशादेवं भवति| अनेकपिडकाचिताविति वातादिवेदनाचितबहुपिडकौ, अनेकवर्णपिडकान्वितावित्यन्ये||५||
Adhikarana रक्तजौष्ठरोगलक्षणम् (६) · Śloka ६
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ |
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ||६||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रक्तजमाह– खर्जूरेत्यादि| खर्जूरफलवर्णाभिरित्यनेन वर्णमात्रेणैव साधर्म्यं प्रतिपाद्यते, यदि तु सर्वात्मना साधर्म्यमभीष्टं स्यात्, तदा ‘खर्जूरफलतुल्याभिः’ इत्येवोच्येत| रक्तोपसृष्टाविति रक्तदूषितौ||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तजमाह– खर्जूरेत्यादि| खर्जूरफलवर्णाभिरित्यनेन वर्णमात्रेणैव साम्यम्, नतु सर्वात्मना, अन्यथा खर्जूरफलतुल्याभिरित्येवोच्येत| रक्तोपसृष्टाविति रक्तदूषितौ||६||
Adhikarana मांसजौष्ठरोगलक्षणम् (७) · Śloka ७
गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुद्गतौ |
जन्तवश्चात्र मूर्छन्ति नरस्योभयतो मुखात् ||७||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मांसजमाह– गुरू स्थूलावित्यादि| जन्तवश्चात्र मूर्छन्तीति क्रिमयोऽप्यत्र उच्छ्रिता भवन्ति| उभयतो मुखादिति मुखविवरमपेक्ष्योभयभागयोः, सृक्कणीप्रदेशयोरिति यावत्| मुखादिति ल्यब्लोपे पञ्चमी| ‘उभयतोमुखा’ इति पाठान्तरे उभयसृक्कणीभागो मुखमाश्रयो येषां ते तथा| द्विमुखा इत्यन्ये||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मांसजमाह– गुरुस्थूलावित्यादि| मुखविवरमपेक्ष्योभयभागयोः सृक्किणीप्रदेशयोरिति यावत्| ‘उभयतोमुखाः’ इति पाठान्तरं, तत्र द्विमुखाः जन्तवः क्रिमयोऽप्यत्र मूर्छन्ति उच्छ्रिता भवन्तीत्यर्थः||७||
Adhikarana मेदोजौष्ठरोगलक्षणम् (८) · Śloka ९
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू |
अच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ||८||
(सु. नि. अ. १६) |
तयोर्व्रणो न संरोहेन्मृदुत्वं च न गच्छति |९|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मेदोजमाह– सर्पिर्मण्डप्रतीकाशावित्यादि| सर्पिर्मण्डप्रतीकाशाविति सर्पिर्मण्डो घृतस्योपरितनस्वच्छभागः| तत्प्रतीकाशौ तत्सदृशौ| तयोरिति तादृशयोः||८||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मेदोजमाह– सर्पिरित्यादि| सर्पिर्मण्डो घृतस्योपरितनः स्वच्छो भागः, तत्प्रतीकाशौ तत्सदृशौ| तयोरित्यादि तादृशयोः||८||–
Adhikarana अभिघातजौष्ठरोगलक्षणम् (९) · Śloka १०
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः ||९||
ग्रथितौ च तथा स्यातामोष्ठौ कण्डूसमन्वितौ |१०|
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अभिघातजमाह– क्षतजाभावित्यादिना| अत्र कफरक्तयोरप्यनुबन्धो बोद्धव्यः| यदुक्तं भोजे– “क्षतावभिहतौ वाऽपि रक्तावोष्ठौ सवेदनौ| भवतः सपरिस्रावौ कफरक्तप्रदूषितौ||” इति| वायुरप्यत्राभिघाताल्लभ्यते, अयं चाभिघातजशोथात् यथोक्तलक्षणकारणभेदेन तथा वातिकौष्ठप्रकोपादपि कफरक्तरूपहेतुभेदयोगाद्भिद्यते||९||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अभिघातजमाह– ओष्ठावित्यादि| पर्यवदीर्येते पाट्येते खण्डीक्रियेते| अत्र कफपित्तयोरनुबन्धो ज्ञातव्यः| यदुक्तं भोजे– “क्षतावभिहतौ चापि रक्तावोष्ठौ सवेदनौ| भवतः सपरिस्रावौ कफरक्तप्रदूषितौ||” इति| वातजः केवलः स्वकारणकुपितः, अत्र तु वायुरभिघाताल्लभ्यते; तयोरयमेव भेदः| एवमष्टावोष्ठगताः||९||–
Adhikarana शीतादलक्षणम् (१०-११) · Śloka ११
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते |
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ||१०||
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् |
शीतादो नाम स व्याधिः कफशोणितसम्भवः ||११||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तमूलगतान् पञ्चदश व्याकरोति| शीतादमाह– शोणितमित्यादि| दन्तवेष्टेभ्य इति दन्तबन्धनमांसेभ्यः| अकस्मादिति अभिघातादिनिमित्तं विना| ‘शीर्यन्त’ इत्यस्य स्थाने, ‘पच्यन्त’ इति गदाधरः, व्याचष्टे च– ‘स्वयम्’ इति शेषः| पचन्ति च परस्परमित्यन्योन्यं पचन्ति, पाकोष्मदूषितशोणितसञ्चरणेन||१०-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तमूलगतान् पञ्चदश व्याकरोति– शोणितमित्यादि| यस्य दन्तवेष्टेभ्यः दन्तबन्धनमांसेभ्यः, अकस्मादिति अभिघातादिनिमित्तं विना, रक्तं प्रवर्तते; दन्तमांसानि दुर्गन्धीनि ईषदसितानि क्लेदयुक्तानि मृदूनि च भवन्ति, तथा शीर्यन्ते गलन्ति, ‘शीर्यन्त’ इत्यस्य स्थाने ‘पच्यन्ते’ इति गदाधरः, व्याचष्टे च ‘स्वयम्’ इति शेषः| पचन्ति च परस्परमिति| अन्योन्यं च पचन्ति, पाकोष्मदूषितशोणितसंवरणेन| स शीतादो नाम व्याधिरिति||१०-११||
Adhikarana दन्तपुप्पुटलक्षणम् (१२) · Śloka १२
दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान् |
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ||१२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तपुप्पुटकमाह– दन्तयोरित्यादि| अयं च दन्तयोस्त्रिष्वित्यभिधानात् द्वित्रिदन्तनियतः; कफरक्तजत्वेऽपि शौषिराद्भिन्नोऽयं, रुजालालास्रावाभावात्||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तपुप्पुटकमाह– दन्तयोरित्यादि| दन्तयोर्द्वयोः त्रिषु वाऽनियतः कफरक्तजः, शौषिराद्भिन्नोऽयं रुजालालाभावात्||१२||
Adhikarana दन्तवेष्टलक्षणम् (१३) · Śloka १३
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च |
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ||१३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तवेष्टमाह– स्रवन्तीत्यादि| स्रवन्ति पूयरुधिरमित्यत्र ‘दन्तमूलानि’ इति शेषः| चला दन्ता भवन्ति चेति चकारेण पचन्ति चेति द्रष्टव्यम्||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तवेष्टमाह– स्रवन्तीत्यादि| अत्र ‘दन्तमूलानि’ इति शेषः| चला दन्ता भवन्तीति चेति चकारेण पचन्ति इति द्रष्टव्यं, स व्याधिर्दन्तवेष्टो विज्ञेयः||१३||
Adhikarana शौषिरलक्षणम् (१४) · Śloka १४
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः |
लालास्रावी स विज्ञेयः शौषिरो नाम नामतः ||१४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शौषिरलिङ्गमाह– श्वयथुरित्यादि| नामत इति प्रसिद्धितः||१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शौषिरमाह– श्वयथुरित्यादि| दन्तमूलेषु श्वयथुः पीडावान् कफरक्तोत्थो लालास्रावी स शौषिरो नाम नामतः प्रसिद्ध इति||१४||
Adhikarana महाशौषिरलक्षणम् (१५) · Śloka १५
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते |
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसञ्ज्ञितः ||१५||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
महाशौषिरलिङ्गमाह– दन्ता इत्यादि| तालु चाप्यवदीर्यत इत्यत्र चकारेण दन्ता ओष्ठौ चाप्यवदीर्यन्ते इति बोद्धव्यम्| सप्तरात्राच्चायं मारकः| यदाह भोजः– “सदाहो दन्तमूलेषु शोथः पित्तकफानिलात्| जातः कफं क्षपयति क्षीणे तस्मिंस्तु शोणितम्|| विवृद्धमनिशं दन्तान् ताल्वोष्ठमपि दारयेत्| महाशौषिर इत्येतत् सप्तरात्रान्निहन्त्यसून्||” इति| यस्मिन् शौषिरे एवमपि भवति, स महाशौषिर इति गदाधरः||१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
महाशौषिरमाह– दन्ता इत्यादि| यस्मिन् व्याधौ वेष्टेभ्यो दन्ताश्चलन्ति, तालु चाप्यवदीर्यत इति अत्र चकारेण दन्तावोष्ठौ चाप्यवदीर्येते इति व्याख्यानयन्ति| सप्तरात्राच्चायं मारकः| यदाह भोजः– “सदाहो दन्तमूलेषु शोफः पित्तकफानिलात्| जातः कफं क्षपयति क्षीणे तस्मिन्सशोणितम्|| विवृद्धमनिशं दन्तास्ताल्वोष्ठमपि दारयत्| महाशौषिर इत्येतत्सप्तरात्रान्निहन्त्यसून्||” इति| सर्वजः सर्वदोषजः| यस्मिन् शौषिरे एवमपि भवति, स महाशौषिर इति गदाधरः||१५||
Adhikarana परिदरलक्षणम् (१६) · Śloka १६
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् |
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ||१६||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
परिदरमाह– दन्तमांसानीत्यादि| दन्तमांसस्य परिदारणात् परिदरसञ्ज्ञा||१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
परिदरमाह– दन्तेत्यादि| यस्मिन् मांसानि शीर्यन्ते, ष्ठीवति चाप्यसृगिति रोगी लोहितं थूत्करोतीत्यर्थः| स व्याधिः परिदरो ज्ञेयः| कथम्भूतः? पित्तासृक्कफजः| दन्तमांसपरिदारणात्परिदरसञ्ज्ञा||१६||
Adhikarana उपकुशलक्षणम् (१७) · Śloka १७
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च |
यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ||१७||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उपकुशलक्षणमाह– वेष्टेष्वित्यादि| ताभ्यामिति दाहपाकाभ्याम्| सोपकुश इति निर्देशोऽसिद्धत्वानित्यत्वात् साधुः, तेन स उपकुश इत्यर्थः||१७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उपकुशलक्षणमाह– वेष्टेष्वित्यादि| वेष्टेषु दन्तवेष्टनमांसेषु दाहः पाकश्च स्यात्| ताभ्यामिति दाहपाकाभ्यां दन्ताश्चलन्ति| ( अघट्टिता अचालिताः शोणितं स्रवन्ति, मन्दरुजः रक्ते स्रुते सति, ते तस्याध्मायन्ते मुखं पूति च भवति|) ताभ्यामित्यत्र ‘तेभ्य’ इति पाठे, तेभ्यो दन्तवेष्टेभ्यः| सोपकुश इति निर्देशोऽसिद्धत्वात्साधुः, तेनोपकुश इत्यर्थः||१७||
Adhikarana वैदर्भलक्षणम् (१८) · Śloka १८
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् |
चला भवन्ति दन्ताश्च स वैदर्भोऽभिघातजः ||१८||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वैदर्भलिङ्गमाह– घृष्टेष्वित्यादि| संरम्भ इति शोथः, वेदनापाकौ वा||१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वैदर्भलिङ्गमाह– घृष्टेष्वित्यादि| दन्तमूलेषु दन्तमांसेषु दन्तकाष्ठादिना| घृष्टेषु सत्सु महान् संरम्भो जायते, संरम्भ इति शोफः वेदनापाकौ वा, दन्ताश्च चला भवन्ति, स व्याधिरभिघातजो वैदर्भाख्यः||१८||
Adhikarana खलिवर्धनलक्षणम् (१९) · Śloka १९
मारुतेनाधिको दन्तो जायते तीव्रवेदनः |
खलिवर्धनसञ्ज्ञोऽसौ जाते रुक् च प्रशाम्यति ||१९||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
खलिवर्धनलिङ्गमाह– मारुतेनेत्यादि| जाते रुक् च प्रशाम्यतीति उत्थिते अधिके दन्ते प्रभावाद्वेदनाया अभावः||१९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
खलिवर्धनलिङ्गमाह– मारुतेनेत्यादि| मारुतेन वायुना तीव्रवेदनोऽधिको दन्तो जायते| रुक् प्रशाम्यतीति उत्थितेऽधिकदन्ते प्रभावाद्वेदनाया अभावः| असौ विकारः खलिवर्धनसञ्ज्ञः||१९||
Adhikarana कराललक्षणम् (२०) · Śloka २०
शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः |
करालान् विकटान् दन्तान् करालो न स सिध्यति ||२०||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कराललक्षणमाह– शनैरित्यादि| करालन् विषमान्| करालस्तु सुश्रुतेऽनुक्तोऽधिकः सङ्ग्रहकारेण पठितः, तेन सुश्रुतोक्तपञ्चदशसङ्ख्याहानिः||२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कराललक्षणमाह– शनैःशनैरित्यादि| वायुर्दन्तसमाश्रितः सन् शनैःशनैर्दन्तान् करालन्विषमान् विकटान् कुरुते, स व्याधिः कराल न सिद्ध्यति| करालस्तु सुश्रुतेऽनुक्तोऽधिकः सङ्ग्रहकारेण पठितः, तेन न सुश्रुतोक्तपञ्चदशसङ्ख्याहानिः||२०||
Adhikarana अधिमांसलक्षणम् (२१) · Śloka २१
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः |
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः |२१|
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अधिमांसकमाह– हानव्य इत्यादि| अधिमांसक इति सञ्ज्ञायां कन्| हानव्य इति हनुकुहरे| पश्चिम इत्यवसानजे, अन्तजे इति यावत्|२१|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अधिमांसकमाह– हानव्य इत्यादि| हनुभवे, पश्चिम इति अवसानजे, अन्तज इति यावत्|२१|–
Adhikarana दन्तनाडीलक्षणम् (२१) · Śloka २१
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ||२१||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पञ्च दन्तनाडीराह– दन्तेत्यादि| नाड्यः पञ्च ज्ञेया यथेरिता इति नाडीनिदाने यथोक्ता वातपित्तकफसन्निपातागन्तुनिमित्तास्तथा दन्तमांसगता अपि नाड्यः| एताश्च नाडीव्रणसमानलक्षणा अपि शालाक्यसिद्धान्तेन सङ्ख्यापूरणाय चिकित्साभेदाच्च पुनरुक्ताः||२१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पञ्च दन्तनाडीराह– नाड्यः पञ्च ज्ञेया यथेरिता इति नाडीनिदाने यथोक्ता वातपित्तकफसन्निपातागन्तुनिमित्तजाः, तथा दन्तमूलगता अपि नाड्यः| एताश्च नाडीव्रणसमानलक्षणा अपि शालाक्यसिद्धान्तेन सङ्ख्यापूरणाय चिकित्सितभेदाच्च पुनरुक्ताः| तासां मध्ये त्रिलिङ्गा नाडी असाध्या||२१||
Adhikarana दालनलक्षणम् (२२) · Śloka २२
दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते |
दालनो नाम स व्याधिः सदागतिनिमित्तजः ||२२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तगतानष्टौ प्राह– दालनमाह– दीर्यमाणेष्वित्यादि| सदागतिनिमित्तज इति सदागतिर्वायुः, तस्मान्निमित्ताज्जात इति| सदागतिनिमित्तत इति वक्तव्ये सदागतिनिमित्तज इति यत् कृतं तद्बलवद्धेतुजन्यवातकृतत्वबोधनार्थमिति कार्तिकः, केवलवातजत्वख्यापनार्थमित्यन्ये ||२२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तगतानष्टौ प्राह, तत्र दालनमाह– दीर्यमाणेष्वित्यादि| दन्तेषु दीर्यमाणेष्विव दाल्यमानेष्विव भृशं रुजा भवति, स दालनो नाम व्याधिः| कथम्भूतः? सदागतिनिमित्तज इति सदागतिर्वायुः, तस्मान्निमित्ताज्जातः; सदागतिनिमित्त इति वक्तव्ये सदागतिनिमित्तज इति यत् कृतं, तद्बलवद्धेतुजवातकृतत्वबोधनार्थमिति कार्तिकः, केवलवातजत्वख्यापनार्थमित्यन्ये| असाध्योऽयं व्याधिः||२२||
Adhikarana क्रिमिदन्तलक्षणम् (२३) · Śloka २३
कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः |
अनिमित्तरुजो वाताद्विज्ञेयः क्रिमिदन्तकः ||२३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्रिमिदन्तकमाह– कृष्णच्छिद्र इत्यादि| कृष्णच्छिद्र इति दुष्टरक्तजक्रिमिकृतशोथपाकद्वारेण कृष्णच्छिद्र इत्यर्थः| अन्ये ‘कृष्णश्चित्र’ इति पठन्ति; चित्र इति चित्रवान्, अर्शआदित्वादच्| स्रावीति दन्तमूलेषु स्रावो बोद्धव्यः, दन्तानां नीरसत्वेन स्रावाभावात्| अनिमित्तरुज इति अवघट्टनादिनिमित्तं विनैव महारुजत्वेन रुजावानिति कार्तिकः||२३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कृमिदन्तकमाह– कृष्णेत्यादि| कृष्णः कृष्णदन्तकः, छिद्र इति छिद्रवान्, अर्शआदित्वादच्| कृमिकृतच्छिद्रत्वात्सच्छिद्रदन्त इत्यर्थः| चलश्चलदन्तः| स्रावी तु दन्तमूलेषु स्रावो बोद्धव्यः, दन्तानां नीरसत्वेन स्रावाभावात्| ससंरम्भः सश्वयथुः| अनिमित्तरुज इति अवघट्टनादिनिमित्तं विनैव महारुजत्वेन रुजावानिति, स तथाविधो वातात्कृमिदन्तको ज्ञेयः||२३||
Adhikarana भञ्जनकलक्षणम् (२४) · Śloka २४
वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते |
कफवातकृतो व्याधिः स भञ्जनकसञ्ज्ञितः ||२४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
भञ्जनकलक्षणमाह– वक्त्रमित्यादि| वक्त्रं वक्रमिति दन्तभङ्गकारिणा दोषेण वक्त्रस्यापि वक्रत्वम्||२४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तभञ्जनलक्षणमाह– वक्त्रमित्यादि| यस्मिन् रोगे दन्तभङ्गकारिणा दोषेण वक्त्रस्यापि वक्रत्वं भवेत् दन्तभङ्गश्च भवेत्| जायते इत्यत्र ‘तीव्ररुक्’ इति पाठान्तरम्| स व्याधिर्भञ्जनक इति ख्यातः| कथम्भूतः? कफवातकृतः| असाध्योऽयं व्याधिः||२४||
Adhikarana दन्तहर्षलक्षणम् (२५) · Śloka २५
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः |
पित्तमारुतकोपेन दन्तहर्षः स नामतः ||२५||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तहर्षलक्षणमाह– शीतेत्यादि| “शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च| यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात्||” (सु. नि. अ. १६) इति श्लोकान्तरं केचित् पठन्ति| तत्र दन्तहर्षस्य वातजत्वेऽपि उष्णासहत्वं व्याधिप्रभावात्, कफरक्तावृतत्वाद्वा बोद्धव्यम्||२५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तहर्षमाह– शीतेत्यादि| यस्य द्विजा दन्ताः शीतस्य भक्ष्यस्य प्रवातस्य प्रचण्डवातस्याम्लस्यासहा अक्षमा भवन्ति, स नामतः प्रसिद्धितः कफमारुतकोपेन दन्तहर्षो ज्ञेयः| भक्ष्य इत्यत्र “रूक्षः” इति पाठान्तरम्||२५||
Adhikarana दन्तशर्करालक्षणम् (२६) · Śloka २६
मलो दन्तगतो यस्तु पित्तमारुतशोषितः |
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ||२६||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दन्तशर्करालक्षणमाह– मल इत्यादि| ‘शर्करेव खरस्पर्शा’ इत्यस्य स्थाने ‘सा दन्तानां गुणहरी’ इति क्वचित् पठ्यते, दन्तानां गुणस्य शुक्लत्वदृढत्वादिकस्य हरणशीला||२६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दन्तशर्करालक्षणमाह– मल इत्यादि| यो दन्तगतो मलः कफमारुतशोषितो भवति सा दन्तशर्करा| तथा च वाग्भटः– “अधावनान्मलो दन्ते कफवातेन शोषितः| पूतिगन्धः स्थिरीभूतः शर्करा साऽप्युपेक्षिता||” इति| शर्करेव खरस्पर्शेत्यत्र स्थाने “सा दन्तानां गुणहरी” इति क्वापि पठ्यते, दन्तानां गुणस्य शुक्लदृढत्वादिकस्य हरणशीला||२६||
Adhikarana कपालिकालक्षणम् (२७) · Śloka २७
कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा |
कपालिकेति विज्ञेया सदा दन्तविनाशिनी ||२७||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कपालिकालक्षणमाह– कपालेष्वित्यादि| कपालेष्विवेति मलसहितदन्तावयवेषु काठिन्यात् कपालतुल्येषु; दन्तमल एव कठिने कपालप्राये दीर्यमाणे सैव शर्करा कपालिका| सदेति बाल्यादौ| अत्रावकाशे हनुमोक्षः सुश्रुते दन्तदेशसामीप्याद्दन्तपीडनाच्च पठितः, स इह सङ्ग्रहकारेण मुख्यदन्तगतत्वाभावान्न पठितः, पठितस्तु हनुग्रहसञ्ज्ञया वातव्याधौ भोजवचनात्| यदुक्तम्– “वाताभिघाताज्जन्तोर्हि हनुसन्धिर्विमुच्यते| निरस्तजिह्वः कृच्छ्रेण भाषितं तत्र गच्छति|| सम्यक् तमनिलव्याधिं हनुमोक्षं विनिर्दिशेत्|” इति||२७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कपालिकालक्षणमाह– कपालेष्वित्यादि| दन्तानां कपालेषु मलसहितदन्तावयवेषु काठिन्यात्कपालतुल्येषु दीर्यमाणेषु सैव शर्करा कपालिका ज्ञेया| दन्तमूलः स च कठिने कपालप्राये दीर्यमाणे इति डल्लनः| सदेति बाल्यादौ| दन्तविनाशिनी| “दलन्ति दन्तवल्कानि यदा शर्करया सह” इति केचित्पठन्ति, तत्रापि स एवार्थः||२७||
Adhikarana श्यावदन्तक-दन्तविद्रधिरोगलक्षणम् (२८-२९) · Śloka २९
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः |
श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ||२८||
(सु. नि. अ. १६) |
दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः |
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ||२९||
Hide commentary
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्यावदन्तकमाह– य इत्यादि| यो दन्तोऽसृग्विमिश्रेण पित्तेनाशेषतो दग्धः तथा श्यावतामथवा नीलतां गतो भवति, स श्यावदन्तको ज्ञेयः| श्यावदन्तक इति सञ्ज्ञायां कन्| असाध्योऽयं व्याधिः| अत्रावकाशे हनुमोक्षः सुश्रुते दन्तदेशसामीप्याद्दन्तपीडनाच्च दन्तरोगः पठितः, स इह सङ्ग्रहकारेण मुख्यदन्तगतत्वाभावान्न पठितः, पठितस्तु सङ्ग्रहे हनुग्रहसञ्ज्ञया वातव्याधौ भोजवचनात्| यदुक्तम्– “वाता(भारा)भिघाताज्जन्तोर्हि हनुसन्धिर्विमुच्यते| निरस्तजिह्वः कृच्छ्रेण भाषितं तत्र गच्छति| सम्यक् तमनिलव्याधिं हनुमोक्षं विनिर्दिशेत्||” इति||२८-२९||
Adhikarana वातजजिह्वारोग-पित्तजजिह्वारोग-कफजजिह्वारोगलक्षणम् (३०) · Śloka ३०
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा |
पित्तेन दह्यत्युपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च |
कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ||३०||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्प्रति जिह्वागतानाह– जिह्वाऽनिलेनेत्यादि| स्फुटितेति मनाग्विदीर्णा| प्रसुप्तेति सुप्तेव, रसस्यानवबोधात्| शाकच्छदनप्रकाशेति शाकतरुपत्रवत् कण्टकाचितेत्यर्थः; शाको मरुजद्रुमः| पैत्तिककण्टकलक्षणे दह्यतीति आत्मनेपदानित्यत्वात् साधु| अयं च रोगो जाडीति ख्यातः||३०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सम्प्रति जिह्वागतान्निर्दिशति| तत्र वातकण्टकानाह– जिह्वेत्यादि| अनिलेन जिह्वा स्फुटितेति मनाग्विदीर्णा भवेत्, तथा सुप्तेति सुप्तेव रसस्यानवबोधादचेतनेत्यर्थः| शाकच्छदनप्रकाशेति शाकतरुपत्रवत्कण्टकचितेत्यर्थः| शाको मरुजद्रुमः| पैत्तिककण्टकलक्षणमाह– पित्तेनेत्यादि| पित्तेन जिह्वा परिदह्यते| दह्यतीति आत्मनेपदस्यानित्यत्वात् साधुः| तथा सरक्तैः कण्टकैर्व्याप्ता| अयं च रोगो नाडीति ख्यातः| ‘पित्तात्सदाहैरुपचीयते तु दीर्घैरिति पाठान्तरे पित्ताज्जिह्वा एवंविधैः कण्टकैर्व्याप्यते| कफकण्टकानाह– कफेनेत्यादि| कफेन दूषिता जिह्वा गुर्वी बहुला स्थूला शाल्मलिकण्टकाभैर्मांसोच्छ्रयैर्मांसाङ्कुरैश्चिता व्याप्ता भवतीति सम्बन्धः||३०||
Adhikarana अलासलक्षणम् (३१) · Śloka ३१
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससञ्ज्ञः कफरक्तमूर्तिः |
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ||३१||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अलासमाह– जिह्वेत्यादि| प्रगाढ इति प्रकर्षेण गाढो दारुण इत्यर्थः| तेन ‘जिह्वागतेष्वलासस्तु’ इत्यादिना अलासस्यासाध्यतोक्ता सूच्यते| कफरक्तमूर्तिरिति कफरक्ताभ्यां हेतुभ्यां लब्धमूर्तिः| कफरक्तज इत्यर्थः| जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः, भृशपाकेन पित्तम्, अतस्त्रिदोषजो ज्ञेयः; अत एवास्यानुपक्रमेणासाध्यत्वं, कफरक्तयोस्तु प्राधान्येनाभिधानम्| ‘अधोगतः’ इति पाठान्तरे जिह्वाया अधोगतः||३१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अलासमाह– जिह्वातल इत्यादि| यो जिह्वातले श्वयथुः, सोऽलासनामा विकारः, स तु शोफः प्रवृद्धो जिह्वां स्तम्भयति, जिह्वा मूले भृशं पाकं प्राप्नोति| प्रगाढ इति प्रकर्षेण गाढो दारुण इत्यर्थः| तेन जिह्वागतेष्वलासस्त्वित्यादिना अलासस्यासाध्यतोक्ता सूच्यते| कफरक्ताभ्यां लब्धमूर्तिः कफरक्तज इत्यर्थः, जिह्वास्तम्भेन तु वायुरप्यत्र बोद्धव्यः, भृशं पाकेन पित्तम्, अतस्त्रिदोषजोऽयम्, अत एवास्यानुपक्रमेणासाध्यत्वं, कफरक्तयोस्तु प्राधान्येनाभिधानम्| ‘अधोगतः’ इति पाठान्तरे जिह्वाया अधोगतः||३१||
Adhikarana उपजिह्विकालक्षणम् (३२) · Śloka ३२
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तमूलः |
लालाकरः कण्डुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ||३२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उपजिह्विकामाह– जिह्वाग्ररूप इत्यादि| सचोष इति चोषः साक्षादग्निसम्बन्धेनेवोपतापः, चोषश्चात्र रक्तयोनिना पित्तेन||३२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उपजिह्विकामाह– जिह्वेत्यादि| उन्नम्य ऊर्ध्वीकृत्य, एतेन जिह्वाया अधो भवतीत्युक्तं, जिह्वाग्ररूपः जिह्वाग्रसन्निभः, कफरक्तमूलः कफरक्तकारणम्| सचोष इति चोषः साक्षादग्निसम्बन्धेनोपतापः, चोषश्चात्र रक्तयोनिना पित्तेन, भिषग्भिः सा उपजिह्विका पठिता||३२||
Adhikarana कण्ठशुण्डीलक्षणम् (३३) · Śloka ३३
श्लेष्मासृग्भ्यां तालुमूले प्रवृद्धो दीर्घः शोथो ध्मातबस्तिप्रकाशः |
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ||३३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तालुगतानाह| कण्ठशुण्डीमाह– श्लेष्मासृग्भ्यामित्यादि| ध्मातबस्तिप्रकाश इति वायुपूरितचर्मपुटतुल्यः||३३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तालुगतानाह| तत्र गलशुण्डिकामाह– श्लेष्मेत्यादि| श्लेष्मरक्ताभ्यां तालुमूले प्रवृद्धस्तथा दीर्घः प्रलम्बः शोफः कण्ठशुण्डीति गलशुण्डीति नाम्नाऽयं व्याधिः पठितः| ध्मातबस्तिप्रकाश इति वायुपूरितचर्मपुटकतुल्यः||३३||
Adhikarana तुण्डिकेरीलक्षणम् (३४) · Śloka ३४
शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु |३४|
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तुण्डिकेरीलक्षणमाह– शोथ इत्यादि| प्रागुक्ताभ्यामिति श्लेष्मासृग्भ्याम्| तुण्डिकेरी वनकार्पासीफलं, तत्तुल्यशोथतया तुण्डिकेरी| तोददाहाभ्यामिह वातपित्तानुबन्धो ज्ञेयः|३४|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तुण्डिकेरीलक्षणमाह– शोफ इत्यादि| प्रागुक्ताभ्यामिति कफासृग्भ्यां, तुण्डिकेरी वनकार्पासीफलं, तत्तुल्यशोफतया तुण्डिकेरी| तोददाहाभ्यामत्र वातपित्तानुबन्धोऽस्ति|३४|–
Adhikarana अध्रुषलक्षणम् (३४) · Śloka ३४
मृदुः शोथो लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीव्ररुक् च ||३४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अध्रुषलक्षणमाह– मृदुरित्यादि| शोणितोत्थ इति रक्तसमुत्थः||३४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अध्रुषलक्षणमाह– मृदुः शोथ इत्यादि| स्तब्धादिलक्षणः शोथः अध्रुषो ज्ञेयः| अध्रुष इति छन्दोनुरोधात्| लोहितोत्थ इति रक्तसमुत्थः||३४||
Adhikarana कच्छपलक्षणम् (३५) · Śloka ३५
कूर्मोन्नतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु |३५|
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कच्छपलक्षणमाह– कूर्मोन्नत इत्यादि| अवेदन इत्यल्पवेदनः| अशीघ्रजन्मेति चिरजः|३५|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कच्छपलक्षणमाह– कूर्मेत्यादि| कूर्मोत्सन्नः कूर्मवदुन्नतः, अवेदन इत्यव्यथः, अशीघ्रजन्मेति चिरजः मन्दानुसारीत्यर्थः, अरक्तः पाण्डुरः|३५|–
Adhikarana ताल्वर्बुद-मांससङ्घातलक्षणम् (३५) · Śloka ३५
पद्माकारं तालुमध्ये तु शोथं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् ||३५||
दुष्टं मांसं नीरुजं तालुमध्ये कफाच्छूनं मांससङ्घातमाहुः |
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ताल्वर्बुदमाह– पद्माकारमित्यादि| पद्माकारमिति पद्मकर्णिकाकारम्| तथाच भोजः– “उपर्येव भवेन्नद्धो यथा पद्मस्य कर्णिका| पार्श्वतश्चाङ्कुरैर्दीर्घैर्नासा चाप्यवसीदति|| श्लेष्मरक्तसमुत्थानं तत्ताल्वर्बुदसञ्ज्ञितम्||” इति| रक्तजत्वाल्लोहितम्| प्रोक्तलिङ्गमिति पूर्वोक्तरक्तार्बुदतुल्यलिङ्गमित्यर्थः||३५||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ताल्वर्बुदमाह– पद्माकारमित्यादि| तालुमध्ये उक्तलिङ्गं शोफं रक्तार्बुदं विद्यात्| कथम्भूतं? पद्माकारं पद्मकर्णिकाकारम्| तथा च भोजः– “उपर्येव भवेन्मध्ये यथा पद्मस्य कर्णिका| पार्श्वतश्चाङ्कुरैर्दीर्घैर्नासा चाप्यवसीदति|| श्लेष्मरक्तसमुत्थानं तालुन्यर्बुदसञ्ज्ञितम्|” इति| प्रोक्तलिङ्गमिति पूर्वोक्तरक्तार्बुदस्य तुल्यलिङ्गम्| रक्तजत्वाल्लोहितम्| असाध्योऽयम्| मांससङ्घातमाह– दुष्टमित्यादि| अत्र केचित् “दुष्टं मांसं श्लेष्मणा नीरुजं वा ताल्वन्तःस्थम्|” इति पठन्ति||३५||–
Adhikarana तालुपुप्पुट-तालुशोष-तालुपाकलक्षणम् (३६-३७) · Śloka ३७
नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ||३६||
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासश्चोग्रस्तालुशोषोऽनिलाच्च |
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ||३७||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पुप्पुटमाह– नीरुगित्यादि| पुप्पुटस्तालुदेशे इति तालुपुप्पुटः| तालुशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः| “तालुशोषस्तु पित्तात्” इति केचित् पठन्ति, पित्तस्यापि शोषकत्वात्| केचित्तु वक्ष्यमाणं “पित्तं कुर्यात्” इति पदमत्रापि सम्बध्य श्वासश्चोग्र इति चकारं भिन्नक्रमेण योजयित्वा विभक्तिविपरिणामं च कृत्वा पित्तं तालुशोषं कुर्यादिति व्याचक्षते| किन्त्वयं भोजेऽपि वातादेव पठितः| यदुक्तम्– “तालुशोषो भवेद्वातात्” इत्यादि||३६-३७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तालुपुप्पुटमाह– नीरुगित्यादि| स्थायी स्थिरः, कोलमात्रः कोलसमः ‘पुप्पुट’ इति तालुनि देशे पुप्पुटः तालुपुप्पुटः, तालुशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः| तालुशोषमाह– शोष इत्यादि| तालुन्यत्यर्थं शोषः, तथा तालु दीर्यते, तथा उग्रः श्वासो भवति, सोऽनिलोत्थस्तालुशोषो ज्ञेयः| तालुशोषस्तु पित्तादिति केचित्पठन्ति, पित्तस्यापि शोषकारकत्वात्; किन्त्वयं भोजेऽपि वातादेव पठितः| तदुक्तम्– “तालुशोषो भवेद्वाताद्बाधिर्यं क्ष्वेडसंयुतम्” इति| वाग्भटेन तु वातपित्ताभ्यां तालुशोषः पठितः| तथाहि– “वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः” इति| तालुपाकमाह– पित्तमित्यादि| सुगमम्||३६-३७||
Adhikarana रोहिणीसम्प्राप्तिः (३८) · Śloka ३८
गलेऽनिलः पित्तकफौ च मूर्छितौ प्रदूष्य मांसं च तथैव शोणितम् |
गलोपसंरोधकरैस्तथाऽङ्कुरैर्निहन्त्यसून् व्याधिरियं हि रोहिणी ||३८||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कण्ठगतास्तु रोहिण्यादयः सप्तदशोच्यन्ते, तत्र पञ्चानां रोहिणीनां सामान्यसम्प्राप्तिमाह– गलेऽनिल इत्यादि| सर्वरोहिण्यः सन्निपातजाः, उत्कर्षाद्वातजादिव्यपदेशः| अन्ये तु “पृथक् समस्ताश्च तथैव शोणितं” इति पठित्वा सुश्रुते एकदोषजत्वमप्याहुः| भोजेऽप्युक्तम्– “ वातपित्तकफा रक्तमेकशः सर्वशोऽपि वा| कण्ठं यदा निषेवन्ते” इत्यादि| निहन्त्यसूनित्यनेन यद्यपि सामान्येनासाध्यत्वमुक्तं तथाऽपि सप्ताहादिना पृथग्दोषत्रयजानामनुपक्रमेणासाध्यत्वम्, एवं रक्तजाया अपि; सन्निपातजायास्तु जन्मनैवासाध्यत्वम्| तदुक्तं भोजेन– “तालुः शुष्यति कण्ठश्च वातेनायाम्यते यदा| कण्ठेऽस्यान्नं प्रसज्येत सप्ताहात् स जहात्यसून्|| उष्यते चुष्यते पित्तात् धूप्यते परिदह्यते| अङ्गारैरिव जह्यात् स प्राणानाशु चतुर्दिनात्||” इति| “कफादन्तर्बहिः शोथः श्वासः कण्ठश्च बाध्यते| यस्य सोऽसून् त्यजेद्रोगी त्र्यहाद्रोहिणिपीडितः|| लक्षणं पित्तरोहिण्या तुल्यं शोणितजन्मनः| सर्वदोषकृता या तु सर्वलिङ्गसमन्विता|| असाध्यां तां विजानीयाद्रोहिणीं सन्निपातजाम्| एषा सद्यो मारयति तिस्र आद्याः क्रियां विना||” इति क्वचित्| भोजे “अन्या सद्यो मारयति” इति पाठः, तदा रक्तजायामप्यसाध्यत्वमायाति; किन्त्वियं साध्यैव, यदुक्तम्– “लेख्याश्चतस्रो रोहिण्यः” (सु. सू. अ. २५) इति| तथा– “साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम्|” (सु. चि. अ. २२) इत्यनेन रक्तजाया अपि चिकित्सोक्ता| किञ्च गलगतेष्वेकैव रोहिणी सन्निपातजा “रोहिणी गले” इत्यनेनासाध्योक्ता| भोजे तु “तिस्र आद्याः क्रियां विना” इत्यभिधानं त्रिदोषजत्वेन प्राधान्यमभिप्रेत्य, खरनादेऽपि सन्निपातजाया एव सद्योमारकत्वमुक्तम्| यदाह– “सद्यस्त्रिदोषजा हन्ति त्र्यहाच्छ्लेष्मसमुद्भवा| पञ्चाहात् पित्तसम्भूता, सप्ताहात् पवनोत्थिता||” इति||३८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कण्ठगतास्तु रोहिण्यादयः सप्तदशोच्यन्ते, तत्र पञ्चानां रोहिणीनां सामान्येन सम्प्राप्तिमाह– गल इत्यादि| गलेऽनिलो वृद्धः, तथा पित्तकफौ मूर्छितौ विदग्धौ, मांसं प्रदूष्य तथा शोणितं प्रदूष्य , गलोपसंरोधकरैरङ्कुरैरसून्निहन्ति, अयं व्याधिः रोहिणीसञ्ज्ञो ज्ञेयः| सर्वा रोहिण्यः सन्निपातजाः, उत्कर्षात्तु वातजादिव्यपदेशः| अस्मिन् पाठे तु सङ्ख्या वातपित्तकफसम्बन्धिक्रियापदं च न विद्यते| तस्मादन्ये “गलेऽनिलः पित्तकफौ च मूर्छितौ पृथक्समस्ताश्च तथैव शोणितम्| प्रदूष्य मांसं गलरोधिनोऽङ्कुरान्सृजन्ति यान् साऽसुहरा तु रोहिणी||” इति पठित्वा सुश्रुते एकदोषजत्वमित्याहुः| पृथगिति तिस्रः, समस्तादेका, एका शोणितात्, एवं पञ्च रोहिण्यः| असुहराः प्राणहराः| भोजेऽप्युक्तम्– “वातपित्तकफा रक्तमेकशः सर्वशोऽपि वा| कण्ठं यदा निषेवन्ते प्रदूष्य चोर्ध्वमागताः|| अङ्कुराञ्जनयन्त्याशु जिह्वामूले समन्ततः| रोहिणीं तां विजानीयादाहुः पञ्चविधां तु ताम्||” इति||३८||
Adhikarana वातजादिभेदेन रोहिणीलक्षणानि (३९-४१) · Śloka ४१
जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधिनो ये |
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढयुक्ता ||३९||
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा तु |
स्रोतोविरोधिन्यचलोद्गता च स्थिराङ्कुरा या कफसम्भवा सा ||४०||
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोत्थिता च |
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ||४१||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजादिभेदेन रोहिणीलक्षणमाह– जिह्वेत्यादि| जिह्वासमन्तादिति जिह्वायाः सर्वत इत्यर्थः| वातात्मकोपद्रवगाढयुक्तेति वातात्मका उपद्रवाः कम्पविनामस्तम्भादयस्तैरतिशयमनुगताः| त्रिदोषजायामनिवार्यवीर्येति क्रिययाऽपि न निवार्यं वीर्यमस्याः, सद्योमारकत्वादित्यर्थः| त्रितयोत्थितेति दोषत्रयोत्थिता| पित्तलिङ्गातिदेशस्याव्यवहितत्वप्रतीत्यर्थं पित्तरोहिण्यनन्तरं रक्तजाया वक्तुमुचितायाः शेषेऽभिधानमितररोहिण्यपेक्षया सुखसाध्यत्वख्यापनार्थमिति केचित्||३९-४१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिकरोहिणीलक्षणमाह– जिह्वेत्यादि| ये मांसाङ्कुरा जिह्वासमन्ताद्भवन्ति ते भृशवेदनाः, तथा कण्ठनिरोधनाः, सा वातकृता रोहिणी प्रदिष्टा| जिह्वासमन्तादिति जिह्वायाः सर्वत्रेत्यर्थः| वातात्मकोपद्रवगाढयुक्तेत्यादि वातात्मका ये उपद्रवाः कम्पविनामस्तम्भादयः तैरतिशयमनुगताः| पित्तजामाह– क्षिप्रोद्गमेत्यादि| सुगमम्| त्रिदोषजामाह– गम्भीरेत्यादि| त्रिदोषलिङ्गा दोषत्रयलिङ्गयुक्ता, त्रितयोत्थितेति दोषत्रयोत्थिता| रक्तजामाह– स्फोटैरित्यादि| सुगमम्||३९-४१||
Adhikarana कण्ठशालूकलक्षणम् (४२) · Śloka ४२
कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः |
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ||४२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कण्ठशालूकलक्षणमाह– कोलेत्यादि| कण्टकशूकभूत इति कण्टकवत् शूकवच्च वेदनाजनकः, भूतशब्दः उपमानार्थे; किंवा कण्टकोपलक्षितः शूको जलशूकः, स इव भूतो जातः| कठिनगुडकतया शालूकसमत्वेन कण्ठशालूकम्| शालूकं जलोत्पलकन्दम्||४२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कण्ठशालूकलक्षणमाह– कोलेत्यादि| कण्टकशूकभूत इति कण्टकवत्कश्चिच्छूकवच्च वेदनाजनकः, भूतशब्द उपमाने; किंवा– कण्टकोपलक्षितः शूको जलशूकः, स इव भूतो जातः, कठिनगुडकतया पिशिताङ्कुरचितत्वात्| शालूकं जलोत्पलकन्दम्||४२||
Adhikarana अधिजिह्विकालक्षणम् (४३) · Śloka ४३
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादपि रक्तमिश्रात् |
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ||४३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अधिजिह्विकामाह– जिह्वाग्ररूप इत्यादि| जिह्वोपरिष्टादित्यनेन जिह्वातलजातामुपजिह्वां व्यावर्तयति| अपि रक्तमिश्रादिति न केवलात् कफाद्भवति, किन्तु रक्तमिश्रादेव कफादित्यर्थः| अप्यवधारणे| आगतपाकत्वेन पित्तमप्यत्र द्रष्टव्यम्||४३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अधिजिह्विकामाह– जिह्वाग्रेत्यादि| जिह्वोपरिष्टादित्यनेन जिह्वातलजातामुपजिह्वां व्यावर्तयति, जिह्वोपरिष्टादित्यत्र ‘जिह्वाप्रबन्धोपरि’ इति पाठान्तरे, जिह्वाप्रबन्धस्योपरि जिह्वामूलस्योपरिष्टादित्यर्थः| अपि रक्तमिश्रादिति| न केवलात् कफात् भवति, किन्तु रक्तमिश्रादेव कफादित्यर्थः| अप्यवधारणे| आगतपाकत्वेन पित्तमप्यत्र द्रष्टव्यम्||४३||
Adhikarana वलयलक्षणम् (४४) · Śloka ४४
बलाश एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य |
तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं वलयं वदन्ति ||४४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वलयमाह– बलाश एवेत्यादि| बलाशः कफः| अन्नगतिमिति अन्नस्य गतिर्येन स्रोतसा सोऽन्नगतिः अन्नवहमार्गः, अन्नस्य प्रवेशो वा| कफजोऽप्ययं प्रभावादसाध्यः||४४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वलयमाह– वलाश इत्यादि| बलाशः कफः| अन्नगतिमिति अन्नस्य गतिर्येन स्रोतसा सोऽन्नगतिरन्नवहस्रोतः अन्नप्रवेशो वा, तं निवार्य आयतमुन्नतं शोफं करोति, बुधास्तं सर्वथा अप्रतिवार्यवीर्यं विवर्जनीयं वलयाख्यं व्याधिं वदन्ति| कफजोऽप्ययं स्थानप्रभावात् स्वभावाच्चासाध्यः||४४||
Adhikarana बलासलक्षणम् (४५) · Śloka ४५
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् |
मर्मच्छिदं दुस्तरमेनमाहुर्बलाशसञ्ज्ञं निपुणा विकारम् ||४५||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
बलाशलिङ्गमाह– गल इत्यादि| मर्मच्छिदमिति प्राणायतनहृदयमर्मच्छिदम्||४५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
बलाशलिङ्गमाह– गले इत्यादि| प्रवृद्धौ श्लेष्मानिलौ श्वासरुजाभ्यामुपपत्रं सहितं शोफं कुरुतः, निपुणा धीमन्तः एनं विकारं बलाशसञ्ज्ञमाहुः| कथम्भूतं? मर्मच्छिदमिति, प्राणायतनहृदयमर्मच्छिदम्||४५||
Adhikarana एकवृन्दलक्षणम् (४६) · Śloka ४६
वृत्तोन्नतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च |
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलाशक्षतजप्रसूतः ||४६||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
एकवृन्दमाह– वृत्तोन्नत इत्यादि| अन्तःश्वयथुरिति गलस्यान्तर्मध्ये| सदाह इति मन्ददाहः, सहशब्द ईषदर्थे| अपाक्यमृदुरिति अपाकी ईषत्पाकी, अमृदुरीषन्मृदुः; अन्ये ‘ अपाकमृदुः’ इति पठन्ति, अपाकश्चासौ मृदुश्चेति अपाकमृदुः| बलाशक्षतजप्रसूत इति कफरक्तभव इत्यर्थः||४६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
एकवृन्दमाह– वृत्तेत्यादि| सदाहः मन्ददाहः, सहशब्द ईषदर्थे अपाकी ईषत्पाकी, अमृदुरीषन्मृदुः| अन्ये ‘अपाकमृदुः’ इति पठन्ति, अपाकश्चासौ मृदुश्चेति अपाकमृदुः| बलाशक्षतजप्रसूत इति कफरक्तभवः||४६||
Adhikarana वृन्दलक्षणम् (४७) · Śloka ४७
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति |
तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु ||४७||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वृन्दमाह– समुन्नतमित्यादि| वृन्दमेव पवनानुविद्धं सतोदं स्यात्| ननु, सप्तदश कण्ठगता उक्ताः; उक्तं हि– “सप्तदशामयाः कण्ठे” इति, वृन्देन सहाष्टादश स्युः? उच्यते– एकवृन्दस्यावस्थाविशेष एव वृन्दः, तुल्यस्थानाकृतितो न सङ्ख्यातिरेकः; यद्यप्येकवृन्दः कफरक्तजः, वृन्दस्तु पित्तरक्तजः पठितः, तथा वृन्दस्यैव सतोदत्वेन वातात्मकत्वमुक्तं, तथाऽप्येकवृन्दस्यावस्थाविशेषत्वेन वृन्दः सङ्गच्छत एव; यथा कामलायां तद्भिन्नहेतुलक्षणस्यापि हलीमकस्य सङ्ग्रहः, यथा वातमदात्ययेन ध्वंसकविक्षेपकयोरत्यन्ताभेदेऽपि स एव स्यान्न पुनस्तेन सङ्ग्रहः; भोजेऽप्ययमेकवृन्दज एव पठितः| यदाह– “श्लेष्मरक्तसमुत्थानमेकवृन्दं विभावयेत्| तुल्यस्थानाकृतिर्वृन्दो वृन्दजो रक्तपित्तजः||” इति| वृन्दज इत्येकवृन्दजः| गदाधरस्तु कारणभेदात् धर्मभेदाच्च उत्पन्नत्वेन चैककार्यकारणयोरभेदप्रसङ्गमभिधाय वृन्दशब्दं छन्दोऽनुरोधादादिलोपादेकवृन्द एव वर्णयति, तथाच सति समुन्नतमित्यादिना पित्तानुबन्धसहितबहुलरक्तकृतैकवृन्दस्य लक्षणमुच्यते, सतोदं पवनात्मकं चेत्यनेन च वातानुबन्धैकवृन्दलक्षणमिति व्याख्येयम्| परन्तु वृन्दजो वृन्द इति भोजवचनेनासङ्गतमिदं व्याख्यानम्||४७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वृन्दमाह– समुन्नतमित्यादि| ननु, सप्तदशकण्ठगता उक्ताः, उक्तं हि– “सप्तदशामयाः कण्ठे” इति, वृन्देन सहाष्टादश स्युः? उच्यते– एकवृन्दस्यावस्थाविशेष एव वृन्दः, तुल्यस्थानकृतिश्चातो न सङ्ख्यातिरेकः| भोजेऽप्ययमेकवृन्दज एव पठितः| यदाह– “श्लेष्मरक्तसमुत्थानमेकवृन्दं विभावयेत्| तुल्यस्थानाकृतिर्वृन्दो वृन्दजो रक्तपित्तजः||” इति| वृन्दजे इत्येकवृन्दज इति||४७||
Adhikarana शतघ्नीलक्षणम् (४८) · Śloka ४८
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः |
अनेकरुक् प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नी च शतघ्निरूपा ||४८||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शतघ्नीलक्षणमाह– वर्तिरित्यादि| अनेकरुगिति वातपित्तकफजतोददाहकण्ड्वादिवेदनान्वितेत्यर्थः| शतघ्निरूपेति अयःकण्टकाच्छन्ना महती शिला शतघ्नी, तत्तुल्या| प्राणहरीत्यसाध्या| भोजेऽप्युक्तम्– “शङ्कुनेव गले विद्धा शतघ्न्येषा न सिध्यति|” इति||४८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शतघ्नीलक्षणमाह– वर्तिरित्यादि| अनेकरुगिति वातपित्तकफजतोददाहकण्ड्वादिवेदनान्वितेत्यर्थः| शतघ्निरूपेति ‘अयःकण्टकसञ्छन्ना शतघ्नी महती शिला’ तत्तुल्या| प्राणहरीत्यसाध्या| भोजेऽप्युक्तम् “वातपित्तकफा दुष्टा मांसाङ्कुरसमाचिताम्| मध्यकण्टचयां वर्तिं जनयन्ति ह्युपेक्षिताः|| शङ्कुनेव गले विद्धा शतघ्न्येषा न सिध्यति|” इति||४८||
Adhikarana गलायुलक्षणम् (४९) · Śloka ४९
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिरुग्यः कफरक्तमूर्तिः |
संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गलायुसञ्ज्ञः ||४९||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
गलायुलक्षणमाह– ग्रन्थिरित्यादि| कफरक्तमूर्तिरिति कफरक्तजः| सक्तमिवेति लग्नमिव| अशनं भुक्तम्||४९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
गलायुलिङ्गमाह– ग्रन्थिरित्यादि| सक्तमिवेति लग्नमिव, अशनं भोजनं, संलक्ष्यते, स गलायुसञ्ज्ञो विकारः, स शस्त्रसाध्यः||४९||
Adhikarana गलविद्रधिलक्षणम् (५०) · Śloka ५०
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः |
स सर्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ||५०||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
गलविद्रधिलिङ्गमाह– सर्वमित्यादि| तस्यैव तुल्यः खलु सर्वजस्येति प्रागुक्तस्य विद्रधेः सन्निपातजस्य तुल्य इत्यर्थः| स च स्थानप्रभावेण सन्निपातज एव, चिकित्साभेदार्थं च पुनः पठितः||५०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
गलविद्रधिमाह– सर्वमित्यादि| तस्यैवेत्यादिप्रागुक्तविद्रधेः सन्निपातजस्य तुल्य इत्यर्थः| अयं च स्थानप्रभावेण सन्निपातज एव, चिकित्साभेदार्थं च पुनः पठितः||५०||
Adhikarana गलौघलक्षणम् (५१) · Śloka ५१
शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता |
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते तु ||५१||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
गलौघलक्षणमाह– शोथ इत्यादि| वायुगतेर्निहन्तेति अतिमहत्त्वादुदानवायुगतिरोधक इत्यर्थः||५१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
गलौघलक्षणमाह– शोफ इत्यादि| वायुगतेर्निहन्तेत्यादि| अतिमहत्त्वादुदानवायुगतिरोधक इत्यर्थः||५१||
Adhikarana स्वरघ्नलक्षणम् (५२) · Śloka ५२
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः |
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ||५२||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्वरघ्नलक्षणमाह– य इत्यादि| ताम्यमान इति मूर्छां गच्छन्, अथवा तमः पश्यन्| श्वसिति प्रसक्तमिति निरन्तरं श्वसिति| शुष्कविमुक्तकण्ठ इति शुष्को नीरसो विमुक्तश्चास्वाधीनः कण्ठो यस्य स तथा| अस्वाधीनता च किमपि गिलितुमशक्यतया बोद्धव्या| अनिलायनेष्विति अनिलमार्गेषु कफरुद्धेषु सत्सु, वायुगतस्रोतसोर्द्वित्वेऽपि बहुवचनं प्रतानबहुत्वात्| श्वसनादिति वातात्||५२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
स्वरघ्नलक्षणमाह– य इत्यादि| प्रसक्तमिति निरन्तरं निःश्वसिति, शुष्कविमुक्तकण्ठ इति शुष्को नीरसो विमुक्तश्चास्वाधीनः कण्ठो यस्य स तथा, अस्वाधीनता च किमपि गिलितुमशक्यतया बोद्धव्या| केषु सत्सु? अनिलायनेष्विति अनिलमार्गेषु कफोपदिग्धेषु कफरुद्धेषु सत्सु, वायुवहस्रोतसोर्द्वित्वेऽपि बहुवचनं प्रतानबहुत्वात्| स रोगः श्वसनात् वातात् स्वरघ्नो ज्ञेयः||५२||
Adhikarana मांसतानलक्षणम् (५३) · Śloka ५३
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण |
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ||५३||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मांसतानलिङ्गमाह– प्रतानवानित्यादि| प्रतानवानिति विस्तारवान्| सुकष्ट इति महादुःखप्रदायी; न तु कृच्छ्रसाध्यः, प्राणप्रणुदिति वचनात्; अथवा पाकतः कष्टसाध्यः, समस्तगलोपरोधे तु प्राणप्रणुत्| ‘स मांसतानः कथितोऽवलम्बी’ इत्यस्य स्थाने ‘स मांसतानेति बिभर्ति सञ्ज्ञाम्’ इति पाठान्तरे मांसतानेत्यत्र इतिशब्देन प्रातिपदिकार्थस्योक्तत्वाद्विभक्त्यभावः| ‘बिभर्ति सञ्ज्ञाम्’ इत्यस्य स्थाने ‘निरुणद्धि चेष्टाम्’ इति कार्तिकः| अस्मिन् व्याख्याने ‘स मांसतान’ इत्यस्यानन्तरं ‘ख्यात’ इति द्रष्टव्यम्||५३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मांसतानलिङ्गमाह– प्रतानेत्यादि| प्रतानवानिति विस्तारवान्, सुकष्टः महादुःखदायी नतु कृच्छ्रसाध्यः, प्राणप्रणुदिति वचनात्; अथवा पाकतः कष्टसाध्यः, समस्तगलोपरोधे तु प्राणप्रणुत्| अवलम्बी लम्बनशीलः||५३||
Adhikarana विदारीलक्षणम् (५४) · Śloka ५४
सदाहतोदं श्वयथुं सुताम्रमन्तर्गले पूतिविशीर्णमांसम् |
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ||५४||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विदारीलक्षणमाह– सदाहतोदमित्यादि| वदन इति स्वरूपपरमिदम्, अन्तर्गल इत्यनेनैव वदनशब्दस्य लब्धत्वात्| पार्श्वे विशेषात् स तु येन शेते इति स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन्नेव पार्श्वे विदारी भवतीत्यर्थः| विशेषग्रहणादन्यस्मिन् पार्श्वेऽपि सम्भवोऽस्याः| विदारीसञ्ज्ञा च मांसविदारणेन| भोजेऽप्युक्तम्– “पित्तेन जातो वदने विकारः पार्श्वे विशेषात् स तु येन शेते| स्नायुप्रतानप्रभवो विशेषाद्दाहप्रपाकप्रचुरो विदारी||” इति||५४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विदारीलक्षणमाह– सदाहेत्यादि| पूतिविशीर्णमांसं दुर्गन्धशटितमांसम्| वदन इति स्वरूपपरमिदं, अन्तर्गलमित्यनेनैव वदनसम्बन्धस्य लब्धत्वात्| पार्श्वे इत्यादि स पुरुषो येन पार्श्वेन विशेषात् बाहुल्येन शेते तस्मिन् पार्श्वे विशेषेण भवतीत्यर्थः; विशेषग्रहणादन्यपार्श्वेऽपि सम्भवोऽस्याः| विदारीसञ्ज्ञा च मांसविदारणेन, भोजेऽप्युक्तम्– “पित्तेन जातो वदने विकारः पार्श्वे विशेषात् स तु येन शेते| स्नायुप्रतानप्रभवो विशेषाद्दाहप्रपाकप्रचुरो विदारी||” इति||५४||
Adhikarana वातजसर्वसर(मुखपाक)-पित्तजसर्वसर(मुखपाक)– कफजसर्वसर(मुखपाक)लक्षणम् (५५) · Śloka ५५
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् |
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् |
अवेदनैः कण्डुयुतैः सवर्णैर्यस्याचितं चापि स वै कफेन ||५५||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सर्वसरास्त्रयोऽभिधीयन्ते– स्फोटैरित्यादिना| मुखगतोष्ठादिसप्तस्थानव्यापकतया सर्वसरत्वं ज्ञेयम्| स्फोटैरिति वदनमिति च उत्तरत्र सम्बन्धनीयम्| आचितं व्याप्तम्| सर्वसरा मुखपाका उच्यन्ते| केचिद्विदेहक्तरक्तजसर्वसरलक्षणं पठन्ति| यथा– “रक्तेन पित्तोदित एव चापि कैश्चित् प्रदिष्टो मुखपाकसञ्ज्ञः|” इति| अयं च पैत्तिक एवान्तर्भूत इति नेह दर्शित इति||५५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सर्वसरास्त्रयोऽभिधीयन्ते| तत्र वातजं सर्वसरमाह– स्फोटैरित्यादि| आचितं व्याप्तम्| मुखदन्तौष्ठादिसप्तस्थानव्यापकतया तेषां सर्वसरत्वं ज्ञेयम्| स्फोटैरिति वदनमिति चोत्तरत्र सम्बन्धनीयम्| पित्तजं सर्वसरमाह– रक्तैरित्यादि| सुगमम्| कफजसर्वसरमाह– अवेदनैरित्यादि| सुगमम्| सर्वसरा मुखपाका उच्यन्ते| केचिद्विदेहक्तरक्तजसर्वसरलक्षणं पठन्ति| तद्यथा– “रक्तेन पित्तोदित एव चापि कैश्चित्प्रदिष्टो मुखपाकसञ्ज्ञः|” इति| अयं च पैत्तिकसर्वसरे प्रदिष्ट एवेति नेह दर्शितः||५५||
Adhikarana ओष्ठप्रकोपादिष्वसाध्याः (५६-५९) · Śloka ५९
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः |
दन्तमूलेषु वर्ज्यौ च त्रिलिङ्गगतिशौषिरौ ||५६||
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः |
जिह्वारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ||५७||
स्वरघ्नो वलयो वृन्दो बलाशश्च विदारिका |
गलौघो मांसतानश्च शतघ्नी रोहिणी गले ||५८||
असाध्याः कीर्तिता ह्येते रोगा नव दशैव तु |
तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||५९||
(सु. नि. अ. १६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ओष्ठप्रकोपादिष्वसाध्यानाह– ओष्ठप्रकोपे वर्ज्याः स्युरित्यादि| त्रिलिङ्गगतिशौषिराविति त्रिदोषजनाडी त्रिदोषजश्च महाशौषिरोऽसाध्यः| रोहिणी गल इति त्रिदोषजा रोहिणी||५६-५९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यानाह– ओष्ठेत्यादि| ओष्ठजास्त्रयः, दन्तमूले द्वौ, दन्तभवेषु त्रयः, जिह्वागतेष्वेकः, तालुन्यप्येक एव, स्वरघ्नादयो नव गले, समुदायसङ्ख्या नवदशैवेति| त्रिलिङ्गगतिशौषिराविति त्रिदोषजनाडी त्रिदोषजश्च महाशौषिरोऽसाध्यः| बलाशः सह दारिणेति| विदार्या सह, छन्दोऽनुरोधाद्दारिणेति निर्देशः, रोहिणी गल इति त्रिदोषजा रोहिणी||५६-५९||
Adhikarana पुष्पिका · Śloka ५६
इति श्रीमाधवकरविरचिते माधवनिदाने मुखरोगनिदानं समाप्तम् ||५६||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां मुखरोगनिदानं समाप्तम्||५६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां मुखरोगनिदानम्||५६||