Adhikarana कर्णशूलस्य सम्प्राप्तिपूर्वकं लक्षणम् (१) · Śloka १
अथ कर्णरोगनिदानम् |
समीरणः श्रोत्रगतोऽन्यथाचरन् समन्ततः शूलमतीव कर्णयोः |
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ||१||
(सु. उ. तं. अ. २०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मुखरोगे जिह्वाश्रयरोगोऽभिहितः, जिह्वा चेन्द्रियाधिष्ठानम्, अत इन्द्रियाधिष्ठानदुष्टिसाम्यात् कर्णरोगनिदानमुच्यते; कर्णशब्देन च कर्णशष्कुल्यवच्छिन्नमदृष्टोपगृहीतं श्रोत्रमुच्यते, तत्र यद्यप्येकदेशगतो रोगस्तथाऽप्यवयवेऽपि समुदायोपचारतः कर्णव्यपदेशः| तत्र कर्णशूलं कष्टत्वात् प्रागाह– समीरण इत्यादि| अत्रानयैव सम्प्राप्त्याऽर्थतो निदानसञ्चयाद्याक्षिप्तं; यतो निदानात् सञ्चयः, सञ्चयात् प्रकोपः, प्रकोपात् प्रसरः, प्रसरात् स्थानसंश्रयः, ततो व्यक्तिः, ततो भेद इति| कर्णशूलस्य च कष्टत्वं मूर्छाद्युपद्रवयोगात्| यदाह विदेहः– “मूर्छा दाहो ज्वरः कासो हृल्लासो वमथुस्तथा| उपद्रवाः कर्णशूले भवन्त्येते मरिष्यतः||” इति| अन्यथाचरन्निति प्रतिलोमं चरन्| दोषैरिति कफपित्तरक्तैः; रक्तेऽपि रुजाकर्तृत्वात् सामान्येन दोषव्यपदेशः| यथास्वमावृत इति स्वनिदानकुपितदोषैर्यथास्वीयलक्षणैरावृतो न तु कोपितैर्वायुना; “एकः प्रकुपितो दोषः सर्वानेव प्रकोपयेत्” इति न्यायात्; यतः स्वतन्त्रकुपिता दोषाः संसर्गभाजो भवन्ति, परतन्त्रकुपितास्त्वनुबन्धरूपा भवन्ति; अथवा यथास्वमिति शूलविशेषणं, यथास्वीयमित्यर्थः| दुराचार इति दुःखेनाचर्यते इति दुराचरः||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मुखरोगे जिह्वाश्रया रोगा अभिहिताः, जिह्वा चेन्द्रियाधिष्ठानम्, अत इन्द्रियाधिष्ठानदुष्टिसाम्यात्कर्णरोगनिदानमुच्यते| कर्णशब्देन कर्णशष्कुल्यवच्छिन्नमदृष्टोपगृहीतं श्रोत्रमुच्यते| अत्र यद्यप्येकदेशे रोगः, तथाऽप्यवयवेऽपि समुदायोपचारात्कर्णरोगव्यपदेशः| अत्र कर्णशूलं कष्टसाध्यत्वात्प्रागाह– समीरण इत्यादि| अत्रानयैव सम्प्राप्त्याऽर्थतो निदानसञ्चयाद्याक्षिप्तं बोद्धव्यम्| यतो निदानात् सञ्चयः, सञ्चयात् प्रकोपः, प्रकोपात्प्रसरः, प्रसरात् स्थानसंश्रयः, ततो व्यक्तिः, ततो भेद इति| कर्णशूलस्य च कष्टत्वं मूर्छाद्युपद्रवयोगात्| यदाह विदेहः– “मूर्छा दाहो ज्वरः कासः कुत्साऽन्ने वमथुः सतृट्| उपद्रवाः कर्णशूले भवन्त्येते मरिष्यतः||” इति| श्रोत्रगतः श्रोत्रं शष्कुलीपरिच्छिन्नमाकाशः, समीरणो वायुः, श्रोत्रगतः श्रोत्रप्राप्तः, अन्यथा चरन्निति प्रतिलोमं चरन् विमार्गग इति वा; चरन् समन्ततः कर्णयोरतीव शूलं करोतीति सम्बन्धनीयम्| कथम्भूतो वायुः? दोषैरिति पित्तकफरक्तैः, रक्तेऽपि रुजादिकर्तृत्वेन दोषसाम्याद्दोषव्यपदेशः| यथास्वमावृत इति यथास्वमत्र स्वस्य दोषस्यानतिक्रमेण यथास्वं, तेन स्वनिदानकुपितैर्दोषैर्यथात्मीयलक्षणावृतो न तु कुपितेन वायुना कोपितैः, अथ वा यथास्वमिति शूलविशेषणं, यथात्मीयमित्यर्थः| स तथाविधो रोगः कर्णशूलः कथितः| किंविशिष्टः? दुरासदो दुर्वारः, ‘दुराचरः’ इति पाठे दुःखेन चर्यते उपचर्यत इति दुराचरः||१||
Adhikarana कर्णनाद-बाधिर्यलक्षणम् (२-३) · Śloka ३
कर्णस्रोतः स्थिते वाते शृणोति विविधान् स्वरान् |
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ||२||
यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति |
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||३||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णनादमाह– कर्णस्रोतःस्थित इत्यादि| यदा कर्णस्रोतसि विविधप्रकारेणावस्थितो वायुर्भवति तदा तस्य विविधाभिहननादुक्तविविधशब्दश्रवणं, भेरीमृदङ्गशङ्खानामित्युपलक्षणं, तेन भृङ्गारादिशब्दश्रवणं च भवति| यदुक्तं विदेहे– “शिरोगतो यदा वायुः श्रोत्रयोः प्रतिपद्यते| तदा तु विविधान् शब्दान् समीरयति कर्णयोः|| भृङ्गारक्रौञ्चनादं वा मण्डूककाकयोस्तथा| तन्त्रीमृदङ्गशब्दं वा सामतूर्यस्वनं तथा|| गीताध्ययनवंशानां निर्घोषं क्ष्वेडनं तथा| अपामिव पतन्तीनां शकटस्येव गच्छतः|| श्वसतामिव सर्पाणां सदृशः श्रूयते स्वनः|” इति||२-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णनादमाह– कर्णेत्यादि| भेरीमृदङ्गशङ्खानामित्युपलक्षणं, तेन भृङ्गारादिशब्दग्रहणं च भवति| यदुक्तं विदेहे– “शिरोगतो यदा वायुः श्रोत्रयोः प्रतिपद्यते| तदा तु विविधाञ्छब्दान्समीरयति कर्णयोः|| भृङ्गारक्रौञ्चनादं वा मण्डूककाकयोस्तथा| तन्त्रीमृदङ्गशब्दं वा सामतूर्यस्वनं तथा|| गीताध्ययनवंशानां निर्घोषं क्ष्वेडनं तथा| अपामिव पतन्तीनां शकटस्येव गच्छतः|| श्वसतामिव सर्पाणां सदृशः श्रूयते स्वनः|” इति| प्रणादस्यापीडाकरत्वेऽपि रोगाख्या, तिलकालकवन्मनोदुःखजनकत्वात्| बाधिर्यमाह– यदेत्यादि| शब्दवहं स्रोतः कर्णशष्कुलीपरिच्छिन्नमाकाशं, तद्गतवातजनितमत्र बाधिर्यम्, अपिशब्दाद्रक्तपित्तावरणयोरुपग्रह इति||२-३||
Adhikarana कर्णक्ष्वेडलक्षणम् (४) · Śloka ४
वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम् |
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ||४||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णक्ष्वेडमाह– वायुरित्यादि| क्ष्वेडमेव व्याकरोति– वेणुघोषोपमं स्वनमिति| ननु, कर्णनादात् कथमस्य भेदः? उच्यते– कर्णनादे केवलानिलजे नानाशब्दान् शृणोति, अत्र तु वेणुशब्दमेव नियमेन; तथाऽयं पित्तादिसंसृष्टवातजन्य इति| तथाह विदेहः– “मारुतः कफपित्ताभ्यां संसृष्टः शोणितेन च| कर्णक्ष्वेडं सञ्जनयेत् क्ष्वेडनं वेणुघोषवत्||” इति||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णक्ष्वेडमाह– वायुरित्यादि| ननु? कर्णनादकर्णक्ष्वेडयोः को भेदः? उच्यते– कर्णनादे केवलानिलजे नानाशब्दान् शृणोति, अत्र तु वेणुशब्दमेव नियमेन, तथाऽयं पित्तादिसंसृष्टवातजन्यः| तथाच विदेहः– “मारुतः कफपित्ताभ्यां संसृष्टः शोणितेन च| कर्णक्ष्वेडं सञ्जनयेत्क्ष्वेडनं वेणुघोषवत्||” इति||४||
Adhikarana कर्णस्रावलक्षणम् (५) · Śloka ५
शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः |
स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्तितः ||५||
(सु. उ. तं. अ. २०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णस्रावमाह– शिरोऽभिघातादित्यादि| स्रवेद्धि पूयमित्युपलक्षणं, तेन रक्तजले च स्रवत इति मन्तव्यं, शिरोऽभिघातजलमज्जनमात्रेण पूयस्यासम्भवात्; अथवा प्रपाकादिति सर्वत्र सम्बध्यते; तर्हि न पाकात् पृथक् स्राव उक्तः, सर्वत्र पाकस्याविशिष्टत्वादिति कार्तिकः| ननु, पाकात् विद्रधेः स्रावसम्भवोऽस्तु, विद्रधौ तु वातेतरदोषस्यापि सम्भवात् कथमनिलार्दित इत्युक्तम्? उच्यते– अतिस्रावेणात्रानिलकोपादनिलार्दितत्वं बोद्धव्यम्||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णस्रावमाह– शिरोऽभिघातादित्यादि| अत्र पूयमित्युपलक्षणं, तेन रक्तजले च स्रवत इति मन्तव्यम्| अत्र प्रपाकादिति सर्वत्र सम्बध्यते, तर्हि न पाकात्पृथक् स्राव उक्तः स्यात्, सर्वत्र पाकस्याविशिष्टत्वादिति कार्तिकः| ननु, पाकाद्विद्रधेः स्रावसम्भवोऽस्तु, विद्रधौ तु वातेतरदोषस्यापि सद्भावात्तत्कथमनिलार्दित इत्युक्तं? उच्यते, अतिस्रावेणात्रानिलकोपादनिलार्दितत्वं बोद्धव्यम्| शिरोऽभिघातात्, अथवा जले निमज्जतः, अथवा विद्रधेः कर्णविद्रधेः प्रपाकादनिलार्दितः श्रवणः पूयं स्रवेत्, स कर्णसंस्रावाख्यो रोग उक्तः||५||
Adhikarana कर्णगूथक-कर्णप्रतिनाहलक्षणम् (६-७) · Śloka ७
मारुतः कफसंयुक्तः कर्णकण्डूं करोति च |
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ||६||
स कर्णगूथो द्रवतां गतो यदा विलायितो घ्राणमुखं प्रपद्यते |
तदा स कर्णप्रतिनाहसञ्ज्ञितो भवेद्विकारः शिरसोऽर्धभेदकृत् ||७||
(सु. उ. तं. अ. २०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णप्रतिनाहमाह– स कर्णगूथो द्रवतामित्यादि| विलायित इति स्नेहस्वेदाभ्यां विलीनीकृतः सन्| घ्राणमुखमिति द्वन्द्वत्वादेकवद्भावः, तेन घ्राणं च मुखं च प्रतिपद्यते इत्यर्थः| अन्ये ‘घ्राणमुखात्’ इति पठन्ति, तदा घ्राणमुखात् नासासकाशात् प्रतिपद्यते गच्छतीत्यर्थः| अयं कफजो विकारः; अथवा कर्णगूथशोषे मारुतपित्तव्यापारात्त्रयाणामपि सम्बन्धोऽस्ति, तेन सन्निपातजोऽयं; तथाच विदेहः– “कफाद्वा मारुताद्वाऽपि सन्निपातेन वा पुनः|” इति| शिरसोऽर्धभेदकृदिति अर्धावभेदशिरोरोगकृत्||६-७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णकण्डूमाह– मारुत इत्यादि| सुगमम्| कर्णगूथमाह– पित्तेत्यादि| सुगमम्| कर्णप्रतिनाहमाह– स इत्यादि| यदा स कर्णगूथो विलायित इति स्नेहस्वेदाभ्यां विलीनीकृतो द्रवतां गतः सन्| घ्राणमुखमिति द्वन्द्वैकवद्भावः, तेन घ्राणं मुखं च प्रतिपद्यत इत्यर्थः| अन्ये ‘घ्राणमुखाद्’ इति पठन्ति, तदा घ्राणमुखात्सकाशात्प्रतिपद्यते गच्छतीत्यर्थः| तदा स कर्णप्रतिनाहसञ्ज्ञितो विकारो भवेत्| अयं कफजो विकारः; अथवा कर्णगूथशोथे मारुतपित्तव्याख्यापारात्तयोरप्यत्र सम्बन्धोऽस्ति, तेन सन्निपातजोऽयम्| तथाहि विदेहः– “कफाद्वा मारुताद्वाऽपि सह पित्तेन वा पुनः|” इति| शिरसोऽर्धभेदकृदिति अर्धावभेदशिरोरोगकृत्||६-७||
Adhikarana क्रिमिकर्णकलक्षणम् (८) · Śloka ८
यदा तु मूर्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः |
तद्व्यञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः क्रिमिकर्णको गदः ||८||
(सु. उ. तं. अ. २०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्रिमिकर्णकमाह– यदा तु मूर्छन्तीत्यादि| मूर्छन्ति उच्छ्रिता भवन्ति| जन्तवः क्रिमयः| क्रिमिमूर्छनं च मांसशोणितकोथे सति ज्ञेयं, तदन्तरेण क्रिमीणामसम्भवात्| अपत्यानीति डिम्भकान्| तद्व्यञ्जनत्वादिति क्रिमिलक्षणत्वात्| श्रवणो निरुच्यते इति क्रिमिकर्णको गद इति आश्रयाश्रितयोरभेदोपचाराच्छ्रवणः क्रिमिकर्णको गदो भण्यते| श्रवणशब्दः पुंलिङ्गोऽप्यस्तीत्यस्मादेव निर्देशात् प्रतीयते| अयं विकारस्त्रिदोषजो मन्तव्यः| तथा च निमिः– “श्लेष्मपित्तजलोन्मिश्रे कोथे शोणितमांसजे| मूर्छन्ति जन्तवस्तत्र कृष्णास्ताम्राः सितारुणाः|| भक्षयन्तीव ते कर्णं कुर्वन्तो विविधा रुजः| क्रिमिकर्णं तु तं विद्यात् सन्निपातप्रकोपजम्||” इति||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कृमिकर्णकमाह– यदेत्यादि| मूर्छन्ति उच्छ्रिता भवन्ति, जन्तवः कृमयः, कृमिमूर्छनं च मांसशोणितकोथे सति ज्ञेयं, तमन्तरेण कृमीणामसम्भवात्| अपत्यानि डिम्भकान् सूक्ष्मकृमीनिति यावत्| मक्षिका मम्मणाख्या नीलवर्णाः| आद्यैर्ग्भिषभिर्विदेहादिभिः, तद्व्यञ्जनत्वादिति कृमिलक्षणत्वात्, आश्रयाश्रितयोरभेदोपचारात् श्रवणः कृमिकर्णको गदो भण्यते| श्रवणशब्दः पुंल्लिङ्गोऽप्यस्तीत्यस्मादेव निर्देशात्प्रतीयते| अयं विकारस्त्रिदोषजो मन्तव्यः| तथाच निमिः– “श्लेष्मपित्तजलोन्मिश्रे कोथे शोणितमांसजे| जायन्ते जन्तवस्तत्र कृष्णास्ताम्राः सितारुणाः|| भक्षयन्तीव ते कर्णं कुर्वन्तो विविधा रुजः| कृमिकर्णं तु तं विद्यात्सन्निपातप्रकोपजम्||” इति||८||
Adhikarana कर्णप्रविष्टपतङ्गकीटादिलक्षणम् (९-१०) · Śloka १०
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि |
अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ||९||
कर्णो निस्तुद्यते तस्य तथा फरफरायते |
कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना ||१०||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णप्रविष्टपतङ्गकीटादिलिङ्गमाह– पतङ्गा इत्यादि| शतपद्य इति कारण्डिकाः| निष्पन्दे इति स्थिरे||९-१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णप्रविष्टकीटपतङ्गादिलिङ्गमाह– पतङ्गा इत्यादि| शतपद्यः कारण्डिकाः| निस्तुद्यते प्राजनेनेव| अन्यत् सुगमम्||९-१०||
Adhikarana कर्णविद्रधिलक्षणम् (११) · Śloka ११
क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः |
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ||११||
(सु. उ. तं. अ. २०) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णविद्रधिमाह– क्षताभिघातप्रभवस्त्वित्यादि| क्षतप्रभवोऽभिघातप्रभवश्च, क्षताभिघातप्रभवयोरागन्तुकत्वादेकत्वम्, एवं वातादिजस्यापि दोषजत्वादेकत्वम्| सरक्तपीतारुणमस्रमास्रवेदिति अस्रमास्रावं, सरक्तपीतारुणवर्णत्वं चास्रावस्य वातपित्तकफसम्भवात्||११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णविद्रधिमाह– क्षतेत्यादि| क्षतप्रभवश्चाभिघातप्रभवश्च, क्षताभिघातप्रभवयोरागन्तुकत्वादैक्यम्| एवं वातादिजस्यापि दोषजत्वादेकत्वम्| क्षतविद्रधेर्लक्षणमाह– सेत्यादि| अस्रं आस्रावं, रक्तपीतारुणवर्णत्वं चास्रावस्य वातपित्तरक्तसम्भवत्वात्| धूमायनं धूमोद्वमनमिव वेदनाविशेषः, चोष आचूष्यत इव वेदनाविशेषः| दोषविद्रधेर्लक्षणं तैरेव ज्ञातव्यम्||११||
Adhikarana कर्णपाकलक्षणम् (१२) · Śloka १२
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् |
कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ||१२||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णपाकलक्षणमाह– कर्णपाक इत्यादि| कोथविक्लेदकृदिति कोथः पूतिभावः, विक्लेद आर्द्रता| ननु, कर्णगूथलक्षणे पित्तेन शोषणमुक्तं, तत्कथमार्द्रता? नैवम्, एवंविकारजनककर्मसहकारिणा द्रवांशोद्रिक्तेन पित्तेनार्द्रता, तत्र त्वेतद्विपरीतत्वेन शोषः||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णपाकलक्षणमाह– कर्णेत्यादि| कोथविक्लेदकृदिति कोथः पूतिभावः, विक्लेद आर्द्रता| कर्णविद्रधिपाकात्, अथवा अम्बुपूरणात् कर्णपाको जायते| ननु, कर्णगूथलक्षणे पित्तेन शोषणमुक्तं, तत्कथमार्द्रता? मैवम्, एतद्विकारजनककर्मसहकारिणा द्रवांशोद्रिक्तेन पित्तेनार्द्रता, तत्र त्वेतद्विपरीतेन शोषः||१२||
Adhikarana पूतिकर्णलक्षणम् (१३) · Śloka १३
पूयं स्रवति पूति वा स ज्ञेयः पूतिकर्णकः |१३|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूतिकर्णलक्षणमाह– पूयमित्यादि| पूयं स्रवति वा पूतीति क्रियाविशेषणं, वाशब्दोऽत्र समुच्चये; तेनावेदनत्वं, सवेदनत्वं वा, घनस्रावित्वं च समुच्चीयते| घनस्रावनियमाच्च कर्णस्रावादस्य भेदः| तथाचोक्तं सुश्रुते– “स्रोतःस्थिते श्लेष्मणि पित्ततेजसा विलीयमाने भृशसम्प्रतापिते| अवेदनो वाऽथ सवेदनो वा घनं स्रवेत् पूति च पूतिकर्णः||” इति| (सु. उ. तं. अ. २०)| पूतिमान् कर्णः पूतिकर्णः|१३|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूतिकर्णलक्षणमाह– पूयमित्यादि| पूतीति क्रियाविशेषणं, वाशब्दोऽत्र समुच्चये; तेनावेदनत्वं सवेदनत्वं वा, घनस्रावित्वं च समुच्चीयते| घनस्रावनियमाच्च कर्णस्रावादस्य भेदः| तथाचोक्तं सुश्रुते– “ श्रोतःस्थिते श्लेष्मणि पित्ततेजसा विलीयमाने भृशसम्प्रतापिते| अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत्पूति च पूतिकर्णः||” इति| (सु. उ. तं. अ. २०)| पूतिमान् कर्णः पूतिकर्णकः|१३|–
Adhikarana कर्णगतशोथार्बुदार्शसां लक्षणम् (१३) · Śloka १३
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः ||१३||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इदानीं सङ्ख्यापूरणार्थं कर्णगतशोथार्बुदार्शसामतिदेशेन लक्षणमाह– कर्णशोथेत्यादि| कर्णशोथाश्चत्वारो वातपित्तकफरक्तजत्वेन; एवमर्शश्चतुर्विधं, सहजसन्निपातजार्शसोः सन्निपातागन्तुजशोथयोश्चात्रासम्भूतिराधारप्रभावात्| अर्बुदं च सप्तविधं वातपित्तकफरक्तमांसमेदःसिरानिमित्तभेदात्; सिराजस्य वातजावरुद्धस्यात्र पृथग्गणनं शालाक्यसिद्धान्तसंवादादिति कार्तिकः| यथा सुश्रुते एव कर्णरोगानन्तरम्– “दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽर्शांसि तथैव शोथान्| शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु||” (सु. उ. तं. अ. २२) इति| नासारोगेऽभिधास्यति, तथेहापि युज्यते; तेन रक्तजस्य पित्तसमानलिङ्गत्वात् पित्तजेऽन्तर्भावः, तथाऽऽगन्तुजस्यापि रक्तपित्तलिङ्गत्वात् पित्तज एवान्तर्भावः; तेन शोथः सन्निपातजोऽत्र अगणनीयः, एवं सहजरक्तजयोर्दोषज एवान्तर्भावात् सन्निपातजमर्शोऽपृथग्गणनीयम्, अर्बुदं च सन्निपातजं सप्तमिति, एवमेभिः सहाष्टाविंशतिः सुश्रुतोक्ताः कर्णरोगा भवन्ति||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णगतशोफार्बुदार्शसामतीतावेक्षणेन लक्षणमाह– कर्णेत्यादि| यद्यपि शोफादयः प्राङ्निर्दिष्टाः, तथापि कर्णरोगसङ्ग्रहार्थं साध्यासाध्यविभागार्थं च पुनर्निर्दिष्टाः कर्णशोफाश्चत्वारः, वातपित्तकफरक्तजत्वेनेति; एवमर्शश्चतुर्विधम्| सहजसन्निपातजार्शसोः सन्निपातजागन्तुजशोफयोश्चात्रासम्भूतिराधारश्च प्रभावात्| अर्बुदं च सप्तविधं वातपित्तकफरक्तमांसमेदःसिरानिमित्तभेदात्; सिराजन्यस्य वातजावरुद्धस्यात्र पृथग्दर्शनं शालाक्यसिद्धान्तसंवादादिति कार्तिकः| यदाह सुश्रुत एव कर्णरोगानन्तरम्– “दोषैस्त्रिभिस्तैः पृथगेकशश्च भूयात्तथाऽर्शांसि तथैव शोफान्| शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं स्यात्||” (सु. उ. तं. अ. २२) इति| नासारोगेऽभिधास्यति, तथेहापि युज्यते; तेन रक्तजस्य पित्तलिङ्गत्वात् पित्तजेऽन्तर्भावः, आगन्तुजस्यापि रक्तपित्तलिङ्गत्वात् पित्तज एवान्तर्भावः; तेन शोफः सन्निपातजोऽत्रागणनीयः, एवं सहजरक्तजयोर्दोषज एवान्तर्भावात् सन्निपातजमर्शसोऽपृथग्गणनीयम्, अर्बुदं च सन्निपातजं सप्तमिति, एवमेभिः सहाष्टाविंशतिः सुश्रुतोक्ताः कर्णरोगा भवन्ति||१३||
Adhikarana कर्णरोगस्य वातजादिभेदेन लक्षणानि (१४-१५) · Śloka १५
नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात् |
शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् ||१४||
वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफाच्च |
सर्वाणि रूपाणि च सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः ||१५||
(च. चि. अ. २६) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इदानीं चरकोक्तं कर्णरोगचतुष्टयं वातपित्तकफसन्निपातजभेदादाह– नादोऽतिरुगित्यादि| अश्रवणमिति अशब्दश्रुतिः| वैश्रुत्यमिति विरुद्धश्रवणम्||१४-१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीं चरकोक्तकर्णरोगचतुष्टयं वातपित्तकफसन्निपातजभेदादाह– नाद इत्यादि| सुगमम्| वैश्रुत्येति वैश्रुत्यं विरुद्धं श्रवणं, स्रुतिः स्रावः, स्निग्धा स्यात्||१४-१५||
Adhikarana परिपोटकलक्षणम् (१६) · Śloka १६
सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रवर्धिते |
कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान् |
कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ||१६||
(सु. चि. अ. २५) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कर्णावयवत्वात् कर्णपाल्यास्तद्विकारानाह– सौकुमार्यादित्यादि| सौकुमार्याद्धेतोश्चिरं वर्धनेन त्यक्ते सहसा च वर्धयितुमारब्धे कर्णे शोथः, परिपोटवान् मनाक्त्वगवदरणवानित्यर्थः||१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कर्णावयवत्वात् कर्णपाल्यास्तद्विकारानाह– सौकुमार्यादित्यादि| सौकुमार्याद्धेतोश्चिरोत्सृष्टे श्चिरंवर्धनेन परित्यक्ते सहसा च वर्धयितुमारब्धे कर्णे शोफः, परिपोटक इति परिपोटवान् मनाक्त्वगवदरणवानित्यर्थः| अथ डल्लनाभिप्रायः– कर्णे चिरोत्सृष्टे बहुकालमुपेक्षिते सहसा झटिति प्रवर्धिते सति सौकुमार्यात् पाल्यां शोफः सरुगित्यादिलक्षणयुक्तः स्यात् स वातात् परिपोटको रोगः स्यात्; चिरोत्सृष्टत्वे सौकुमार्यं हेतुः||१६||
Adhikarana उत्पातलक्षणम् (१७) · Śloka १७
गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि |
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजान्वितः ||१७||
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः |
(सु. चि. अ. २५) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उत्पातलक्षणमाह– गुर्वित्यादि| श्यावत्वं व्याधिप्रभावात्, पित्तरक्तयोः श्यावत्वाजनकत्वात्; किंवा वातानुबन्धादत्र श्यावत्वम्||१७||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उत्पातलक्षणमाह– गुर्वित्यादि| श्यावत्वं व्याधेः प्रभावात्, पित्तरक्तयोः श्यावत्वजनकत्वाभावात्; किञ्च वातानुबन्धादत्र श्यावत्वम्||१७||–
Adhikarana उन्मन्थकलक्षणम् (१८-२०) · Śloka २०
कर्णं बलाद्वर्धयतः पाल्यां वायुः प्रकुप्यति ||१८||
कफं सङ्गृह्य कुरुते शोथं स्तब्धमवेदनम् |
उन्मन्थकः सकण्डूको विकारः कफवातजः ||१९||
संवर्ध्यमाने दुर्विद्धे कण्डूपाकरुजान्वितः |
शोथो भवति पाकश्च त्रिदोषो दुःखवर्धनः ||२०||
(सु. चि. अ. २५) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उन्मन्थकमाह– कर्णमित्यादि| स्तब्धत्वं वातकृतं, कण्डूः कफात्, इति वातकफलिङ्गम्||१८-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उन्मन्थकमाह– कर्णमित्यादि| कर्णं बलाद्वर्धयतः पाल्यां वायुः कोपं याति, स वायुः कुपितः सन् कफं सङ्गृह्य स्तब्धं तथा अवेदनं शोफं कुरुते, स कफवातजः उन्मन्थकाख्यो रोगः स्यात्| स किंलक्षणः? सकण्डूकः कण्डूयुक्तः, स्तब्धत्वं वातकृतं, कण्डूः कफादिति वातकफलिङ्गम्| दुःखवर्धनमाह– संवर्धमान इत्यादि| कर्णे दुर्विद्धे दैवकृतच्छिद्रमतिक्रम्य विद्धे संवर्धमाने सति कण्ड्वादियुक्तः शोफो भवति, पाकश्चात्र दोषत्रयोत्थः| दुःखवर्धनात् दुःखवर्धनको नाम रोगः||१८-२०||
Adhikarana परिलेहीलक्षणम् (२१-२२) · Śloka २२
कफासृक्क्रिमयः क्रुद्धाः सर्षपाभा विसर्पिणः |
कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजान्विताः ||२१||
कफासृक्क्रिमिसम्भूतः स विसर्पन्नितस्ततः |
लिहेत् सशष्कुलीं पालीं परिलेहीति स स्मृतः ||२२||
(सु. चि. अ. २५) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
परिलेहीमाह– कफासृगित्यादि| स विसर्पन्निति स इति पिडकात्मको विकार; ‘विसर्पान्वितः’ इति पाठान्तरे विसर्पेणान्वितः| लिहेदिति निर्मांसीं करोति आच्छादयेद्वा||२१-२२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
परिलेहीमाह– कफेत्यादि| लिहेदिति निर्मांसीं करोति उत्सादयति वा, ‘सविसर्पान्वितः’ इति पाठान्तरे विसर्पेणान्वितः||२१-२२||
Adhikarana पुष्पिका · Śloka ५७
इति श्रीमाधवकरविरचिते माधवनिदाने कर्णरोगनिदानं समाप्तम् ||५७||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां कर्णरोगनिदानं समाप्तम्||५७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां कर्णरोगनिदानम्||५७||