Skip to content

५५. क्षुद्ररोगनिदानम्

Adhikarana अजगल्लिकालक्षणम् (१) · Śloka

अथ क्षुद्ररोगनिदानम् | स्निग्धाः सवर्णा ग्रन्थिता नीरुजो मुद्गसन्निभाः | कफवातोत्थिता ज्ञेया बालानामजगल्लिकाः ||१|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विसर्पादीनामक्षुद्रहेतुलक्षणचिकित्सितानामभिधानेन क्षुद्रहेतुलक्षणचिकित्सितानां क्षुद्ररोगाणां पारिशेष्यात् क्षुद्ररोगनिदानम्| ननु, यदि क्षुद्रत्वमेषां हेतुलक्षणचिकित्साल्पत्वेन तर्हि अग्निरोहिणीवल्मीकादीनां त्रिदोषजत्वेन हेत्वादिबाहुल्यात् कथं क्षुद्रत्वं? नैवं, बाहुल्येन तावत्, छत्रिणो गच्छन्तीतिवत्; किंवा अवान्तरभेदविरहः क्षुद्रत्वं, येनात्र वक्तव्यानामजगल्लिकादीनां न दोषदूष्यादिकृतभूरिसङ्ख्याभेदेन व्रणज्वरादिवान्निर्देशः, किन्तु प्रत्येकं स्तोकसङ्ख्ययाऽभिधानं तेषाम्| अन्यस्त्वाह– क्षुद्रशब्दोऽल्पे रौद्रे च वर्तते, तेन यथायोग्यं सर्वत्र व्यवस्था दृश्यते; रौद्रे क्षुद्रशब्दो यथा– “क्षुद्रा मृगा यत्र शान्ताश्चेरुरन्यैः समं मृगैः|” इति| क्षुद्राणां बालानां रोगाः क्षुद्ररोगा इति केचित्| एवमप्यजगल्लिकाहिपूतनादीनामेव परिग्रहो न त्वन्येषाम्| सङ्क्षेपेण चतुश्चत्वारिंशद्विकारानत्र वक्तव्यान् क्रमेण दर्शयति– स्निग्धेत्यादि| भोजे तु मूषिकाकर्णमुष्ककोशफलार्शःप्रभृतयोऽधिकविकाराः पठ्यन्ते, ते च सुश्रुते विकारस्यानन्त्यादनुमता एव| बालानामिति प्रायोभावित्वादुक्तं, तेनाबालानामपि दृश्यमानाः सङ्गच्छन्ते||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

क्षुद्ररोगाणां मसूरिकारम्भकत्वादतोऽनन्तरं क्षुद्ररोगनिदानारम्भः| क्षुद्रा लघवः, तिलकालकाभिप्रायेण, अग्निरोहिणीवल्मीकप्रभृतीनामभिप्रायेण क्षुद्राः तीक्ष्णाः; अन्यस्त्वाह– क्षुद्रशब्दः स्वल्पे रौद्रे च प्रवर्तते, तेन यथायोग्यं सर्वत्र व्यवस्था दृश्यते, रौद्रे च क्षुद्रशब्दो यथा– “अपि क्षुद्रा मृगा यत्र शान्ताश्चेरुः समं मृगैः” इति| क्षुद्राणां बालानां रोगाः क्षुद्ररोगा इति केचित्| अथवा पूर्वाचार्यपठिता पारिभाषिकीयं सञ्ज्ञा, क्वाथपाक्यसञ्ज्ञावत्| एषां सङ्क्षेपेण चतुश्चत्वारिंशद्विकारा अत्र वक्तव्याः क्रमेण दर्शयति| तेष्वजगल्लिकामाह– स्निग्धेत्यादि| सवर्णा शरीरसमवर्णा, ग्रथिताकारत्वेन व्यवस्थिता, प्रायेण बालानामन्येषामप्यजगल्लिका भवति||१||

Adhikarana यवप्रख्यालक्षणम् (२) · Śloka

यवाकारा सुकठिना ग्रथिता मांससंश्रिता | पिडका कफवाताभ्यां यवप्रख्येति सोच्यते ||२|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

यवप्रख्यामाह– यवाकारेत्यादि| यवाकारेति यववन्मध्ये स्थूला||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

यवप्रख्यामाह– यवाकारेत्यादि| यववन्मध्ये स्थूला अन्तर्निम्ना||२||

Adhikarana अन्त्रालजीलक्षणम् (३) · Śloka

घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् | अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ||३|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अन्त्रालजीमाह– घनामित्यादि| अन्त्रालजी स्नायुगता भोजवचनादवगन्तव्या| यदुक्तम्– “श्लेष्मानिलौ श्रितौ स्नायुं पिडकां परिमण्डलाम्| दुष्टौ जनयतोऽवक्त्रामल्पपूयामकण्डुराम्|| आमोदुम्बरसङ्काशां विद्यादन्त्रालजीं तु ताम्||” इति||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अन्त्रालजीमाह– अन्त्रालजी बहिर्वक्ररहिता| अन्तर्मुखी स्नाय्वाश्रिता च| यदुक्तं भोजेन– “कफानिलौ श्रितौ स्नायुं पिडकां परिमण्डलाम्| दुष्टौ जनयतोऽवक्त्रामल्पपूयामकण्डुराम्| आमोदुम्बरसङ्काशां विद्यादन्त्रालजी तु ताम्||” इति||३||

Adhikarana विवृतालक्षणम् (४) · Śloka

विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम् | विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ||४|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विवृतामाह– विवृतास्यामित्यादि| पित्तेनाधिकपाकाद्विवृतमुखतायां विवृतासञ्ज्ञा||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विवृतामाह– विवृतास्यामित्यादि| पित्तेनाधिकपाकाद्विवृतमुखतया विवृतेति सञ्ज्ञा||४||

Adhikarana कच्छपिकालक्षणम् (५) · Śloka

ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोपमाः | कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः ||५|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कच्छपिकालक्षणमाह– ग्रथिता इत्यादि| दारुणाः कठिनाः| मध्योन्नतत्वेन पर्यन्ताल्पत्वेन च कच्छपिकासञ्ज्ञा||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कच्छपिकामाह– ग्रथिता इत्यादि| दारुणाः कठिनाः, मध्ये उन्नतत्वेन पर्यन्ते नतत्वेन च कच्छपिकासञ्ज्ञा||५||

Adhikarana वल्मीकलक्षणम् (६-७) · Śloka

ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः | ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ||६|| मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताग्रैः | वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वल्मीकलक्षणमाह– ग्रीवांसेत्यादि| वल्मीकवदित्यनेन प्रचुरशिखरत्वेन समुच्छ्रितत्वं दूरावगाढमूलत्वं च ख्याप्यते| अत एव चिकित्सायामवगाढमूलशोधनार्थमग्निक्षाराभ्यां चिकित्सेदित्युक्तम्||६-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वल्मीकमाह– ग्रीवेत्यादि| वल्मीकवदित्यनेन प्रचुरशिखरित्वमुच्छ्रितत्वं दूरावगाढमूलत्वं च ख्याप्यते, अत एव चिकित्सायामवगाढमूलशोधनाय ‘अग्निक्षाराभ्यामुपचरेत्’ इत्युक्तम्| निष्प्रत्यनीकमसाध्यम्||६-७||

Adhikarana इन्द्रविद्धालक्षणम् (८) · Śloka

पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम् | इन्द्रविद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ||८|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इन्द्रविद्धामाह– पद्मकर्णिकवदित्यादि| पद्मकर्णिकवन्मध्ये इति पद्मवराटवत्||८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इन्द्रविद्धामाह– पद्मेत्यादि| पद्मकर्णिकावत् मध्ये पिडकाभिः युक्ताम्||८||

Adhikarana गर्दभिकालक्षणम् (९) · Śloka

मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् | रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् ||९||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गर्दभिकामाह– मण्डलमित्यादि| गर्दभिका यद्यपि समानतन्त्रे न पठ्यते, तथाऽपि सर्वत्र सुश्रुतेऽभिधीयते; अविगीतपाठेन व्यवस्थितैव||९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

गर्दभिकामाह– मण्डलमित्यादि| वृत्तं वर्तुलम्| उत्सन्नमुन्नतम्||९||

Adhikarana पाषाणगर्दभलक्षणम् (१०) · Śloka १०

वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः | स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ||१०||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पाषाणगर्दभलक्षणमाहट्ठ वातेत्यादि| स्थिरः कठिनः, पाषाणवत् काठिन्यात् पाषाणगर्दभः| पाषाणगर्दभः लोके ‘गलवट्ट’ इति ख्यातः||१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पाषाणगर्दभमाह– वातेत्यादि| स्थिरः कठिनः||१०||

Adhikarana पनसिकालक्षणम् (११) · Śloka ११

कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् | स्थिरां पनसिकां तां तु विद्याद्वातकफोत्थिताम् ||११||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पनसिकामाह– कर्णस्येत्यादि| एषा भोजे ‘समन्ततः’ इति वचनात् कर्णस्य बहिरपि भवतीति केचिद्व्याचक्षते| यदुक्तम्– “कफवातौ प्रकुपितौ मांसमाश्रित्य कर्णयोः| समन्ततः परिस्तब्धां कुरुतः पिडकां स्थिराम्|| विषमां दाहसंयुक्तां विद्यात् पनसिकां तु ताम्|” इति| तत्तु न सम्यक्, समन्तत इत्यस्य कर्णाभ्यन्तर एवोपपन्नत्वात्| दृश्यते बाह्यरन्ध्रे शालूकाकारेयमिति केचित्| अस्यां वातकफजायां भोजे दाहपाठो विकृतिविषमसमवायादधिष्ठानभूतरक्तप्रभावाद्वाऽवगन्तव्यः||११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पनसिकामाह– कर्णस्येत्यादि| भोजे ‘समन्ततः’ इति वचनात् कर्णस्य बहिरपि भवतीति व्याचक्षते| यदुक्तम्– “कफवातौ प्रकुपितौ मांसमाश्रित्य कर्णयोः| समन्ततः परिस्रावां कुरुतः पिडकां स्थिराम्|| विषमां दाहसंयुक्तां विद्यात्पनसिकां तु ताम्|” इति||११||

Adhikarana जालगर्दभलक्षणम् (१२) · Śloka १२

विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् | दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः ||१२|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

जालगर्दभलक्षणमाह– विसर्पवदित्यादि| अपाकवानिति ईषत्पाकवान्, पित्तकृतत्वेन सर्वथा पाकाभावस्यायुक्तत्वादिति चक्रः; किन्तु पाकरहित एवायमुपलभ्यते [ पित्तादित्युद्भूतपित्तात्, तेन भोजोक्तं पित्तोल्बणदोषत्रयजन्यत्वमस्याविरुद्धं भवति| स यदाह– “पित्तोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः| श्यावं रक्तं तनुं शोथमपाकं बहुवेदनम्|| विसर्पिणं सदाहं च तृष्णाज्वरसमन्वितम्| विसर्पमाहुस्तं व्याधिमपरे जालगर्दभम्||” इति| जतुकर्णस्त्वाह– “ पित्ताधिकस्तत्र तीव्रदाहो रक्तपाको विसर्पज्वरकरो जालगर्दभः|” इति| अयमग्निवात इति ख्यातो विकारः||१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

जालगर्दभमाह– अपाकवानित्यादि| ईषत्पाकवान्, पित्तकृतत्वेन; सर्वथा पाकाभावस्यायुक्तत्वादिति चक्रः; किन्तु पाकरहित एवायमुपलभ्यते, तेन भोजक्तं पित्तोल्बणदोषत्रयजन्यत्वमस्याविरुद्धं भवति| स यदाह– “पित्तोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः| श्यावं रक्तं तनुं शोथमपाकं बहुवेदनम्|| विसर्पिणं सदाहं च तृष्णाज्वरसमन्वितम्| विसर्पमाहुस्तं व्याधिमपरे जालगर्दभम्|” इति||१२||

Adhikarana इरिवेल्लिका-कक्षालक्षणम् (१३-१४) · Śloka १४

पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् | सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ||१३|| बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् | पित्तप्रकोपसम्भूतां कक्षामित्यभिनिर्दिशेत् ||१४|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इरिवेल्लिकालक्षणमाह– पिडकामित्यादि| सर्वात्मिकां सर्वलिङ्गामिति सर्वात्मिकां सर्वदोषजाम्| सर्वात्मिकामित्यनेनैव सर्वलिङ्गत्वे सिद्धे पुनः सर्वलिङ्गामिति वचनं विकृतिविषमसमवायारब्धलिङ्गव्यतिरेकेण प्रत्येकदोषलिङ्गयुक्ततां ख्यापयति||१३-१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इरिवेल्लिकामाह– पिडकामित्यादि| उत्तमाङ्गस्थां शिरोगताम्| सर्वात्मिकामित्यनेनैव सर्वलिङ्गत्वं सिद्धं, पुनः सर्वलिङ्गामिति ग्रहणं विकृतिविषमसमवायारब्धलिङ्गव्यतिरेकेण प्रत्येकदोषलिङ्गयुक्ततां ख्यापयति| कक्षामाह– बाह्वित्यादि| कक्षामिति नामतः प्रसिद्धाम्||१३-१४||

Adhikarana गन्धमालालक्षणम् (१५) · Śloka १५

एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् | त्वग्गतां पित्तकोपेन गन्धमालां प्रचक्षते ||१५|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गन्धमालामाह– एकामित्यादि| एकामेतादृशीमिति कक्षोक्तैककृष्णस्फोटसदृशीम्||१५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

गन्धमालानाम्नीमाह– एकामित्यादि| स्फोटसदृशीम्||१५||

Adhikarana अग्निरोहिणीलक्षणम् (१६-१७) · Śloka १७

कक्षभागेषु ये स्फोटा जायन्ते मांसदारणाः | अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ||१६|| सप्ताहाद्वा दशाहाद्वा पक्षाद्वा हन्ति मानवम् | तामग्निरोहिणीं विद्यादसाध्यां सर्वदोषजाम् ||१७|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अग्निरोहिणीलक्षणमाह– कक्षेत्यादि| सप्ताहाद्वा दशाहाद्वेत्यभिधानमसाध्यत्वख्यापकमनुपक्रमाद्बोद्धव्यम्| उपक्रमात् पुनरियं साध्यैव, अत एवास्याश्चिकित्साभिधानं; चरकेणाप्यग्निरोहिणीं प्रत्यभिहितम्– “सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्यारम्भेण वा पुनः||” (च. सू. अ. १८) इति| तन्त्रान्तरमपि– “पित्तरक्तोत्कटा दोषाः प्रदीप्ताङ्गारसन्निभान्| कक्षभागेषु कुर्वन्ति तीव्रदाहरुजाज्वरान्|| मांसावदारणान् स्फोटान् ये हन्युरनुपक्रमात्| पक्षाद्दशाहादर्वाग्वा सा ज्ञेया वह्निरोहिणी||” इति| वातपित्तकफाधिक्याद्यथाक्रमं सप्ताहादिविकल्पः||१६-१७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अग्निरोहिणीमाह– कक्षेत्यादि| अस्यामसाध्यत्वमनुक्रमाद्बोद्धव्यम्, उपक्रमात्पुनरियं साध्या; अत एवास्याश्चिकित्साभिधानं चरकेणाप्यग्निरोहिणी प्रत्यभिहितम्– “सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः||” इति| तन्त्रान्तरमपि– “रक्तपित्तोत्कटा दोषाः प्रदीप्ताङ्गारसन्निभान्| कक्षाभागेषु कुर्वन्ति तीव्रदाहरुजाज्वरान्|| मांसावदारणान् स्फोटान् ये हन्युरनुपक्रमात्| पक्षाद्दशाहादर्वाग्वा सा ज्ञेया वह्निरोहिणी||” इति| वातपित्तकफाधिक्याद्यथाक्रमं सप्ताहादिविकल्पः; तेन वाताधिकैः सप्ताहात् पित्ताधिकैर्दशाहात्कफाधिकैः पक्षादित्यूह्यम्||१६-१७||

Adhikarana चिप्प-कुनखलक्षणम् (१८-१९) · Śloka १९

नखमांसमधिष्ठाय वायुः पित्तः च देहिनाम् | कुर्वते दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ||१८|| तदेवाल्पतरैर्दोषैः परुषं कुनखं वदेत् ||१९|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

चिप्पमाह– नखेत्यादि| तं व्याधिं चिप्पमिति चिप्पमङ्गुलीवेष्टकमिति ख्यातम्| चरके त्वक्षतनामायं विकारः| यदुक्तम्– “रोगोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदोषी भृशदाहपाकः|” (च. चि. अ. १२) इति||१८-१९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

चिप्पमाह– नखमांसेत्यादि| तन्त्रान्तरेऽङ्गुलीवेष्टकमिति ख्यातम्| चरके त्वक्षतनामायं विकारः| यदुक्तम्– “रोगोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदोषाद्भृशदाहपाकः|” इति| अन्ये तु “तमेवाक्षतरोगाख्यं तथोपनखमित्यपि” इत्यधिकं ग्रन्थमधीयते| तदेव चिप्यमिति| सुगमम्||१८-१९||

Adhikarana अनुशयीलक्षणम् (२०) · Śloka २०

गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् | पादस्यानुशयीं तां तु विद्यादन्तःप्रपाकिनीम् ||२०|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अनुशयीलक्षणमाह– गम्भीरामित्यादि| गम्भीरामित्यन्तःपाकेन| अल्पसंरम्भामित्यल्पशोथाम्||२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अनुशयीमाह– गम्भीरामित्यादि| अन्तःपाकेन गम्भीराम्| अल्पसंरभामिति स्वल्पशोथाम्| “कफादन्तःप्रपाकान्तां विद्यादनुशयीं भिषक्” इति केचन पाठं पठन्ति; तदा उपरिस्थितां मस्तके स्थितामिति व्याचक्षते||२०||

Adhikarana विदारिकालक्षणम् (२१) · Śloka २१

विदारीकन्दवद्वृत्ता कक्षावङ्क्षणसन्धिषु | विदारिका भवेद्रक्ता सर्वजा सर्वलक्षणा ||२१|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विदारीलक्षणमाह– विदारीत्यादि| ‘विदारिका भवेद्रक्ता सर्वजा सर्वलक्षणा’ इत्यत्र केचिदसर्वजा, असर्वलक्षणेति उभयत्रापि नञः प्रयोगमिच्छन्ति; तेनासर्वजा इति सर्वदोषैः सन्निपतितैर्न भवति, असर्वलक्षणेति सन्निपातलक्षणरहितेत्यर्थः| तेन प्रत्येकदोषद्वन्द्वजत्वेन षड्विधा सन्निपातमात्रेण न भवतीति वाक्यार्थः| किन्त्वयं पक्षो यद्यभिमतः स्यादाचार्यस्य, तदा व्यक्त्यर्थं ‘षड्विधा द्व्येकदोषजा’ इति पदं कृतं स्यात्; किञ्च बहुप्रपञ्चत्वेन क्षुद्रत्वासङ्गतिश्च| अपरे ‘ सर्वजा सर्वलक्षणा’ इति पठन्ति; तदपि न सङ्गतं, सर्वैर्दोषैर्न भवति अथ सर्वदोषलक्षणा भवति हन्त तर्हि लिङ्गिनमन्तरेण लिङ्गप्रादुर्भावप्रसङ्गः| अन्ये तूत्तरपद एव नञः प्रयोगात् ‘सर्वजाऽसर्वलक्षणा’ इति वदन्ति; तत्र यदि सर्वेषां लक्षणानि सर्वलक्षणानि तान्यविद्यमानानि यस्यामिति, तदा कथं लिङ्गमन्तरेण लिङ्गिनः परोक्षस्य परिच्छेदोदयः| अथ सर्वाणि च तानि लक्षणानि अविद्यमानानि यस्यामिति, सन्निपातजत्वेऽप्यसम्पूर्णलक्षणेत्यर्थः| एतदपि न सङ्गतं, यद्ययं पक्षोऽभीष्टः स्यात्तदाऽसर्वलक्षणेति न वक्तव्यमत्र स्यात्, सर्वत्र न्यायस्यास्य समानत्वात्; हेत्वनुरूपकोपबलेन हि सर्वत्र सर्वार्धाल्पलिङ्गसङ्गतिः; असम्पूर्णलक्षणत्वेन दोषाणां हीनबलत्वं समवृद्धानामनारम्भकत्वं वा शक्यमेवास्मिन् पक्षे वक्तुं, किन्तु तन्नाद्रियन्ते; ततश्चोभयत्रापि नञः प्रयोगं विना ‘सर्वजा सर्वलक्षणा’ इति पाठो युक्तः| सर्वजेत्यभिधायापि सर्वलक्षणेति वचनमिरिवेल्लिकायामिव प्रकृतिसमसमवायजन्यवातादिलक्षणदर्शनार्थं, तेन विकृतिविषमसमवायजन्यासाध्यत्वादिलक्षणानि न भवन्ति| अस्मिन्नपि पाठे सर्वजा सर्वैरेकादिप्रकारैर्वातादिभिर्जन्यते, एवं सर्वलक्षणेति वक्तुं पार्यते, किन्तु क्षुद्ररोगत्वाद्दोषभेदेन गणना न युक्ता| चरके त्वियं कफमारुतजा पठ्यते| यदुक्तम्– “ज्वरान्विता वङ्क्षणकक्षसन्धौ वर्तिर्निरर्तिः कठिना मता या| विदारिका सा कफमारुताभ्याम्|” (च. चि. अ. १२) इति| तेनात्राप्यल्पपित्तयुक्तकफवातजत्वेन सर्वजत्वं ज्ञेयम्| यथा– ज्वरयोगेनाल्पपित्तत्वम्| यदुक्तम्– “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना|” (वा. चि. अ. १) इति, “विदारीमिति तां विद्यात् सर्वजां सर्वलक्षणाम्|” इति पाठान्तरे न कश्चिद्व्याख्यानप्रपञ्चः||२१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विदारिकालक्षणमाह– विदारीत्यादि| सर्वजा सर्वलक्षणेत्यत्र केचिदसर्वजा असर्वलक्षणेत्युभयत्रापि नञः प्रयोगमिच्छन्ति, तेनासर्वजेति सर्वैर्दोषैः सन्निपतितैनं भवति, असर्वलक्षणेति सन्निपातलक्षणरहितेत्यर्थः| तेन प्रत्येकदोषद्वन्द्वजत्वेन षड्विधा न सन्निपातमात्रेण भवतीति वाक्यार्थः| किन्त्वयं यदि पक्षोऽभिमत आचार्यस्य स्यात्, तदा व्यक्त्यर्थं षड्विधा द्व्येकदोषजेति पदं कृतं स्यात्| किञ्च, बहुप्रपञ्चत्वेन क्षुद्रत्वासङ्गतिश्च| अपरे “ (अ)सर्वजा सर्वलक्षणा” इति पठन्ति, तदपि न सङ्गतं न सर्वैर्दोषैर्भवतीति| अथ सर्वदोषलक्षणा भवति हन्त तर्हि लिङ्गिनमन्तरेण लिङ्गप्रादुर्भावप्रसङ्गः| अन्ये तु उत्तरपद एव नञः प्रयोगात् “सर्वजा (अ)सर्वलक्षणा” इति पठन्ति| तत्र यदि सर्वेषां लक्षणानि सर्वलक्षणानि तान्यविद्यमानानि यस्यामिति; तदा कथं लिङ्गमन्तरेण लिङ्गिनः परोक्षस्य परिच्छेदोदयः| अथ सर्वाणि च तानि लक्षणानि च तानि अविद्यमानानि यस्याम्| सन्निपातजत्वेऽप्यसम्पूर्णलक्षणेत्यर्थः| एतदपि न सङ्गतं, यद्यप्ययं पक्षोऽभीष्टः स्यात्तदा असर्वलक्षणेति न वक्तव्यमत्र स्यात्, सर्वत्र न्यायस्य समानत्वात्| तदुक्तम्– “दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणाः|” इति| हेत्वनुरूपकोपबलेन हि सर्वत्र सर्वार्धाल्पलिङ्गसङ्गतिः| असम्पूर्णलक्षणत्वेन दोषाणां हीनबलत्वं समवृद्धानामनारम्भकत्वं वा शक्यमेवास्मिन्पक्षे वक्तुं, किन्तु तन्नाद्रियन्ते, ततश्चोभयत्रापि नञः प्रयोगं विना “सर्वजा सर्वलक्षणा” इति पाठो युक्तः| सर्वजेत्यभिधायापि सर्वलक्षणेति वचनमिरिवेल्लिकायामिव प्रकृतिसमसमवायजन्यवातादिलक्षणदर्शनार्थं, तेन विकृतिविषमसमवायजन्यासाध्यत्वादिलक्षणानि न भवन्ति| अस्मिन्नपि पाठे सर्वजा सर्वैरेकादिप्रकारैर्वातादिभिर्जन्यते, एवं सर्वलक्षणेति च वक्तुं पार्यते, किन्तु क्षुद्ररोगत्वाद्दोषभेदेन गणना न युक्ता| चरके त्वियं कफमारुतजा पठ्यते| यदुक्तम्– “ज्वरान्विता वङ्क्षणकक्षसन्धौ वर्तिर्निरर्तिः कठिना मता वा| विदारिका सा कफमारुताभ्याम्” इति| तेनात्राप्यल्पपित्तयुक्तकफवातजत्वेन सर्वजत्वं ज्ञेयम्| ज्वरयोगेनाल्पपित्तत्वं चरके द्रष्टव्यम्| यदुक्तम्– “ऊष्मा पितादृते नास्ति ज्वरो नास्त्यूष्मणा विना” इति| “विदारीमिति तां विद्यात्सर्वजां सर्वलक्षणाम्” इति पाठान्तरे न कश्चिद्व्याख्यानप्रसङ्गः||२१||

Adhikarana शर्करार्बुदलक्षणम् (२२-२४) · Śloka २४

प्राप्य मांससिरास्नायूः श्लेष्मा मेदस्तथाऽनिलः | ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् ||२२|| स्रवत्यास्रावमनिलस्तत्र वृद्धिं गतः पुनः | मांसं संशोष्य ग्रथितां शर्करां जनयेत्ततः ||२३|| दुर्गन्धि क्लिन्नमत्यर्थं नानावर्णं ततः सिराः | स्रवन्ति रक्तं सहसा तं विद्याच्छर्करार्बुदम् ||२४|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शर्करामाह– प्राप्येत्यादि| इयमेव शर्करार्बुदस्य हेतुः| अस्यां कफानिलौ दोषौ, मांससिरास्नायुमेदांसि दूष्याणि| अनिलस्तत्र वृद्धिं गत इति पूर्वमेव तावद्वृद्धोऽनिलो धातुक्षयेण वृद्धिमतिशयेन गतो मांसं विशोष्य काठिन्यात् शर्करातुल्यां शर्करां जनयति अतः शर्करायास्तुल्यं शर्करार्बुदं भवति| दुर्गन्धि क्लिन्नमित्यादिना शर्करोत्पन्नं शर्करार्बुदलक्षणं, शर्करार्बुदं च शर्करावस्थैवेत्येक एवायं विकारः; तेन न सङ्ख्यातिरेकः| नानावर्णमिति घृतमेदोवसावर्णं रक्तम्| तत इति शर्करार्बुदादेव| भोजेऽपि पठ्यते– “तमेव भिन्नं दुर्गन्धं घृतमेदोनिभं सिराः| स्रवन्ति स्रावमनिशं तदा स्याच्छर्करार्बुदम्||” इति| तमेवेति ग्रन्थिम्||२२-२४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

शर्करामाह– प्राप्येत्यादि| अस्यां कफानिलौ दोषौ, मांससिरास्नायुमेदांसि दूष्याणि, अनिलस्तत्र वृद्धिं गत इति पूर्वमेव तावद्वृद्धोऽनिलो धातुक्षयात् पुनर्वृद्धिमतिशयं गतः मांसं विशोष्य काठिन्यात् शर्करातुल्यां शर्करां जनयति| शर्करा पाषाणकर्करः| शर्करार्बुदमाह– दुर्गन्धीत्यादि| शर्करार्बुदं शर्करैर्वार्बुदत्वेनावस्थितेत्येक एवायं विकारः, तेन न सङ्ख्यातिरेकः| नानावर्णमिति घृतमेदोवसावर्णं युक्तम्, तत इति शर्करार्बुददेशे, अत्र सप्तम्यर्थे पञ्चमी, भोजेऽपि पठ्यते– “तमेव भिन्नं दुर्गन्धं घृतमेदोनिभं सिराः| स्रवन्ति स्रावमनिशं तदा स्याच्छर्करार्बुदम्||” इति| तमेवेति ग्रन्थिम्||२२-२४||

Adhikarana पाददारीलक्षणम् (२५) · Śloka २५

परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः | पादयोः कुरुते दारीं पाददारीं तमादिशेत् ||२५|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पाददारीमाह– परिक्रमणशीलस्येत्यादि| परिक्रमणं पादविहरणं, दारी दारणमात्रं, विपादिकाकुष्ठं तु पिडका सविदारणेति भेदः||२५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पाददारीमाह– परिक्रमणशीलस्येत्यादि| पादविहरणशीलस्य दारी विदरणमात्रं, विपादिकाकुष्ठं तु पिडकानां विदरणमिति भेदः||२५||

Adhikarana कदरलक्षणम् (२६) · Śloka २६

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः | ग्रन्थिः कोलवदुत्सन्नो जायते कदरं हि तत् ||२६|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कदरमाह– शर्करोन्मथित इत्यादि| कदरं कोलाष्ठीति ख्यातम्| ‘कोलवत्’ इत्यस्य स्थाने ‘कीलवत्’ इति पाठान्तरम्| कदरं हस्तेऽपि भवति| तथाच भोजः– “हस्तयोः पादयोश्चापि गम्भीरानुगतं खरम्| मांसकीलं जनयतः कुपितौ कफमारुतौ|| सशल्यमिव तं देशं मन्यते तेन पीडितः| शर्कराकदरं केचिन्मन्यन्ते वातकण्टकम्||” इति| कोलवदिति बदरवत्||२६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कदरमाह– शर्करेत्यादि| पादे शर्करा घटकर्परखण्डादयः, ताभिरुन्मथिते पीडिते कण्टकादिभिर्वा क्षते कोलवदुत्सन्नो ग्रन्थिर्जायते, तत्कदरं नाम; ‘कोलवत्’ इति स्थाने ‘कीलवत्’ इति पाठान्तरम्| कदरं हस्तेऽपि भवति| यदुक्तं भोजेन– “हस्तयोः पादयोश्चापि गम्भीरानुगतं खरम्| मांसकीलं जनयतः कुपितौ कफमारुतौ|| सशल्यमिव तं देशं मन्यते तेन पीडितः| शर्कराकदरं केचिन्मन्यन्ते वातकण्टकम्||” इति| कोलवत् बदरवत्||२६||

Adhikarana अलसलक्षणम् (२७) · Śloka २७

क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ | दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ||२७|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अलसकलक्षणमाह– क्लिन्नेत्यादि| अयं कफरक्तजो विकारः ‘पाकुया’ इति ख्यातः| अत्र कण्डूः कफस्य, दाहरुजे रक्तस्य||२७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अलसकलक्षणमाह– क्लिन्नेत्यादि| अयं च कफरक्तजो विकारः; तत्र कण्डूः कफस्य, दाहरुजे रक्तस्य||२७||

Adhikarana इन्द्रलुप्तलक्षणम् (२८-२९) · Śloka २९

रोमकूपानुगं पित्तं वातेन सह मूर्छितम् | प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ||२८|| रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः | तदिन्द्रलुप्तं खालित्यं रुह्येति च विभाव्यते ||२९|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इन्द्रलुप्तस्य लक्षणमाह– रोमकूपेत्यादि| एतत्त्रिभिर्दोषैः सशोणितैः स्वभावान्नियतकालव्यापारैर्भवति| एतच्च स्त्रीणां न भवतीति विदेहवचनाद्व्याख्यानयन्ति| यदुक्तम्– “अत्यन्तसुकुमाराङ्ग्यो रजो दुष्टं स्रवन्ति च| अव्यायामरता यस्मात्तस्मान्न खलितिः स्त्रियाः||” इति| अव्यायामाद्वातपित्तयोरकोपेन नातिरोमच्युतिः, रजःस्रावेण च स्रोतोऽवरोधाभावाच्च्युतानामपि रोम्णां पुनर्विरोहः; किन्तु स्त्रीष्वपि खलितिदर्शनात् प्रायिकं विदेहवचनम्| खालित्यं रुह्येति च तस्य पर्यायकथनम्| तथाच भोजः– “तदिन्द्रलुप्तमित्याहुः खल्लीं रुह्यां च केचन|” इति| कार्तिकस्त्वाह– “इन्द्रलुप्तं श्मश्रुणि भवति, खालित्यं शिरस्येव, रुह्या च सर्वदेहे|” इति| आगमस्त्वत्र नास्ति||२८-२९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इन्द्रलुप्तमाह– रोमेत्यादि| एतत्त्रिभिर्दोषैः सशोणितैः स्वभावान्नियतकालव्यापारैर्भवति, मूर्छितं वृद्धिगतं, प्रच्यावयति पातयति| ततोऽन्येषामसम्भव इति अन्येषां रोम्णामप्रादुर्भावः| एतच्च स्त्रीणां न भवति विदेहवचनादिति व्याख्यानयन्ति, यदुक्तम्– “अत्यन्तसुकुमाराङ्ग्यो रजो दुष्टं स्रवन्ति च| अव्यायामरता यस्मात्तस्मान्न खलितिः स्त्रियाः||” इति| खल्वी रुह्यां च केचन इति| खालित्यं रुह्येति च तस्य पर्यायकथनम्| कार्तिकस्त्वाह– “इन्द्रलुप्तं श्मश्रुणि भवति, खालित्यं शिरस्येव, रुह्या च सर्वदेहे” इति| आगमस्त्वत्र नास्ति||२८-२९||

Adhikarana दारुणकलक्षणम् (३०) · Śloka ३०

दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते | कफमारुतकोपेन विद्याद्दारुणकं तु तम् ||३०|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

दारुणलक्षणमाह– दारुणेत्यादि| दारुणेति कठिना| कफमारुतकोपेनेति यद्यप्युक्तं तथापि पित्तरक्तानुबन्धोऽप्यत्र द्रष्टव्यः| तथाहि विदेहः– “यदत्र पटलाभासं सरुजस्कं शिरस्त्वचि| परुषं जायते जन्तोस्तस्य रूपं विशेषतः|| तोदैः समन्वितं वातात् सकण्डूगौरवं कफात्| सपिपासं सदाहार्तिरागं पित्तास्रजं तथा||” इति| अत्र वचने सदाहरागं च पित्तात्, सार्ति तु रक्तात्, अर्तिर्हि रक्तजाऽपि भवति| यदुक्तम्– “रक्तं हि व्यम्लतां याति तच्चेन्नास्ति न चास्ति रुक्|” इति| दारुणं ‘रुक्खी’ इति लोके||३०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दारुणमाह– दारुणेत्यादि| प्रपाट्यते पुटपुटायते, कफमारुतकोपेनेति यद्यप्युक्तं, तथापि पित्तरक्तानुबन्धोऽप्यत्र द्रष्टव्यः| तथाहि विदेहः– “यदत्र पटलाभासं सरुजस्कं शिरस्त्वचि| परुषं जायते जन्तोस्तस्य रूपं विशेषतः|| तोदैः समन्वितं वातात्सकण्डूगौरवं कफात्| सपिपासं सदाहार्तिरागं पित्तास्रजं तथा||” इति| अत्र वचने सदाहरागं च पित्तात्, सार्ति तु रक्तात्, अर्तिर्हि रक्तजाऽपि भवति| दारुणकं ‘रुक्खी’ इति लोके||३०||

Adhikarana अरूंषिकालक्षणम् (३१) · Śloka ३१

अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्ध्नि तु | कफासृक्क्रिमिकोपेन नृणां विद्यादरूंषिकाम् ||३१|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अरूंषिकामाह– अरूंषीत्यादिना| अरूंषीति व्रणाः||३१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अरूंषिकामाह– अरूंषीत्यादि| नृणां पुरुषाणां कफाऽसृक्क्रिमिकोपेन मूर्धनि मस्तके बहुवक्त्राणि तथा बहुक्लेदानि, अरूंषीति व्रणा भवन्ति, तामरूंषिकां विद्यात्||३१||

Adhikarana पलितलक्षणम् (३२) · Śloka ३२

क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः | पित्तं च केशान् पचति पलितं तेन जायते ||३२|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पलितमाह– क्रोधेत्यादि| शरीरोष्मेति देहाग्निः| पित्तं चेति पित्तमपि शिरोगतं पलितहेतुः| ननु, पित्तमेवाग्निः, तत्र तत्र पित्तस्य पाचकत्वेनाभिधानात्; यदुक्तवान् सुश्रुतः– “ न पाकः पित्तादृते” (सु. सू. अ. १७) इति, तथा– “पित्ते तस्मिन् पाचकोऽग्निरिति सञ्ज्ञा” (सु. सू. अ. २१) इति, तथा स एव– “न खलु पित्तव्यतिरेकेणान्योऽग्निरुपलभ्यते, आग्नेये तु पित्ते दहनपचनदारणादिष्वभिवर्तमानेऽग्निदुपचारः क्रियते अन्तरग्निरिति, क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पश्यामः न खलु पित्तव्यतिरेकेणान्योऽग्निः|” (सु. सू. अ. २१) इति; चरकाचार्योऽप्याह– “दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्| प्रभाप्रसादौ मेधा च पित्तकर्माविकारजम्|” (च. सू. अ. १८) इति; पाकस्यान्यथानुपपत्त्या चाग्नेरङ्गीकारः; किञ्च मन्देऽग्नौ पित्तकरमरीचादिद्रव्योपयोगादग्नेर्वृद्धिः, पित्तप्रतिकूलशीतमधुरादिद्रव्योपयोगाच्चोपशम उपलभ्यते; यदि हि पित्ताद्भिन्नोऽग्निः स्यात्तदा पित्तस्य वृद्धिह्रासानुविधानमस्यानुपपन्नं स्यात्, न हि तुहिनकरमण्डले हिमभाजि अहिमोपलम्भः, अतुहिनमण्डले अहिमभाजि भगवति भास्करे अभिमतहिमोपलम्भः, यद्यतो भिन्नं तत्ततो भेदेनोपलभ्यते, यथा सागरादजगरः, न चैवं पित्तादग्निः, तत् कुतः पित्तादग्नेः पृथगुपादानमिति? अत्र प्रत्यभिधीयते– न तावदन्तरग्निः पित्तादभिन्नः, भेदसाधकप्रमाणस्य भूयः सद्भावात्; तथाह्यभेदे “समदोषः समाग्निश्च” (सु. सू. अ. १५) इत्यत्र, “समप्रकोपौ दोषाणां सर्वेषामग्निसंश्रयौ” इत्यत्र च दोषपदलब्धत्वादग्नेः पृथगुपादानमसङ्गतं; तीक्ष्णः पित्तेन चेति स्वात्मनि क्रियाविरोधादसङ्गतं; यत् पुनः “न खलु पित्तव्यतिरेकेणान्योऽग्निः” इत्याद्युक्तं तद्भेदमेव साधयति, उपचाराभिधानात्; न ह्यभेदे उपचारः सम्भवति| यदप्यग्नेः पित्तवृद्धिह्रासानुविधानमभिहितं तदप्रयोजकं, भेदेऽपि समानत्वेन तदुपपत्तेः| यथा कफवृद्धिह्रासकरसौम्याग्नेयद्रव्याभ्यां शुक्रस्य वृद्धिह्रासौ दृष्टौ, न च कफशुक्रयोरैक्यं; किञ्च घृतं पित्तशमनमग्नेश्च दीपनं, पित्तस्य सञ्चयादौ नाग्नेर्वृद्धिः; पेयादिकं चाग्निकरं, न पित्तकृत्; ततश्च पित्ताद्विलक्षणोऽन्तरग्निः| स च द्रवतेजःसमुदायात्मकस्य पित्तस्य तेजोभागो न बहिरनलवद्भस्माङ्गाराकारः, समुदायतश्च समुदायी अन्य एव करचरणादिभ्य इव शरीरम्; अत्यन्तभेदेन चाग्रहणं तस्य नित्यसंश्लेषणशालित्वात्| पित्तस्य तेजोंऽशः एव पाच(व)कः, तदाह भोजः– “दृढमुष्णोचितं ह्येतत् पित्तोष्मा पचतीति यत्| मूर्छितो रसवीर्याभ्यां समानव्यानसंहितः||” इत्यारभ्य, “तस्मात् तेजोमयं पित्तं पित्तोष्मा यः स पक्तिमान्| स कायाग्निः स कायोष्मा स पक्ता स च जीवनः||” इति| पित्तैकदेशत्वात्तेजसि पित्तोपचारमाश्रित्य सुश्रुतेनोक्तम्– “ न पाकः पित्तादृते|” इति, तथा “न खलु पित्तव्यतिरेकेणान्योऽग्निः|” इति| एवमन्यदप्यग्नेरभेदसाधकं वचनं समाधेयम्| ननु, यदि तीक्ष्णः पित्तेनेत्युक्तं, तत् कथं पित्तेनैवाग्नेः प्रशमनमभिधीयते| यदुक्तं चरके– “कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्| आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्||” (च. चि. अ. १५) इति; उच्यते– यदा कटुकेन रूक्षोष्णेन पित्तं वृद्धं भवति, तदा तेजोभागरूपायाः पित्तस्यावस्थाया उल्बणत्वात्तीक्ष्णः पित्तेनेति सङ्गतं; यदा अम्ललवणेन स्निग्धोष्णेन कफानुगमनभाजा वृद्धं पित्तं तदा पित्तस्य द्रवावस्थाया उद्रिक्तत्वात् निर्वापणमग्नेरुक्तमिति| जतुकणेऽप्युक्तम्– “कुपितेन वायुना दीपस्येवाग्नेर्निर्वापणं, पित्तेनोष्णजलवत्, कफेनाम्बुवत्|” इति| ततश्च युक्तमग्नेः पृथगुपादानमिति| अग्निश्च पित्तगतत्वेन क्रोधकृतो भवत्येव, क्रोधेन पित्तकोपात्; शोकश्रमाभ्यां तु जनितवातेन शरीरोष्मणोऽपि विक्षेपणात् शिरोगतत्वं, तेनानिलोऽपि लभ्यते, पित्तं च साक्षादुपात्तं, चकारेण श्लेष्माऽपि केशशुक्लताकरो गृह्यते| एतेन दोषत्रयसहितशरीरोष्मा पलितहेतुरिति वाक्यार्थश्चरकोक्तार्थेन सह संवादी भवति| यदाह– “तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वा तु कुर्यात् खलितं नरस्य| किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरित्प्रभत्वं च शिरोरुहाणाम्||” (च. चि. अ. २) इति| एतच्चाकालजपलितव्यापकं लक्षणम्| कालजे तु क्रोधादिग्रहणं कारणान्तरोपलक्षणं, तेन वयःपरिणामकृतश्चोष्मा दोषत्रययुक्तः कालजपलितहेतुः, अन्यथा कालजपलितस्य सङ्ग्रहो न स्यात्| किंवा कालजं स्वाभाविकत्वादेव नोच्यते| अन्ये तु पित्तगतश्चेच्छरीरोष्मा तत् किमुभयोरुपादानेनेत्यभिधाय शरीरोष्मा पित्तं चेति कर्तृद्वयमाचक्षते; तेन नात्रैकस्मिन् विषये समुच्चयः, किं तर्हि विषयभेदात्| कर्तृद्वयं; तत्र शरीरोष्मा वैकृतं पलितं करोति, पित्तं च प्राकृतं पित्तप्रकृतेः पलितं करोति| यदुक्तम्– “पित्तप्रकृतिरकालजवलीपलितयुक्तश्च भवति” इति| एवं स्वाभाविकजरापलितमपि पित्तेनैवास्य हेतोः क्लृप्तत्वात्| न चोष्मकृतत्वेन पलितस्यादोषजत्वप्रसङ्गः, ऊष्मणः पित्तधर्मत्वेन पित्तेऽन्तर्भावात्||३२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पलितमाह– क्रोधेत्यादि| क्रोधादिकृतेन शरीरोष्मणा शिरोगतेन वैकृतं पित्तेन वयःकृतं तु प्राप्तेनेत्यर्थः| अन्ये तु पित्ताग्न्योर्भेदवादिन उभाभ्यां मन्यन्ते कालजलक्षणम्, अन्येऽपि त्रिभिरेव दोषैः स्यादिति कथयन्ति| शोकश्रमाभ्यां जनितवातेन शरीरोष्मणो विक्षेपाच्छिरोगतत्वं, तेनानिलोऽपि लभ्यते, पित्तं च साक्षादुपात्तं, चकारेण श्लेष्मापि केशशुक्लताकारको गृह्यते| एतेन दोषत्रयसहितः शरीरोष्मा पलितहेतुरिति वाक्यार्थः| यदाह चरकः– “तेजोनिलाद्यैः सह केशभूमिं दग्ध्वा तु कुर्या| खलतिं नरस्य| किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरित्प्रभत्वं च शिरोरुहाणाम्||” इति||३२||

Adhikarana युवानपिडकालक्षणम् (३३) · Śloka ३४

शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः | युवानपिडका यूनां विज्ञेया मुखदूषिकाः ||३३|| (सु. नि. अ. १३) |३४|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

युवानपिडकालक्षणमाह– शाल्मलीत्यादि| युवानपिडका लोके ‘वरण्डका’ उच्यते| यूनामाननपिडका युवानपिडका, पृषोदरादित्वान्नकारलोपः; एषा च यूनामेव, मुख एव, स्वभावात्||३३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

यौवनपिडकामाह– शाल्मलीत्यादि| एषा स्वभावाद्यूनामेव मुखे भवति| मुखे दूषका मुखकान्तिहारकाः, युवानपिडकाः यूनामाननपिडकाः| पृषोदरादित्वान्नकारस्य लोपः||३३||

Adhikarana पद्मिनीकण्टकलक्षणम् (३४) · Śloka ३४

कण्टकैराचितं वृत्तं मण्डलं पाण्डुकण्डुरम् | पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ||३४|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पद्मिनीकण्टकमाह– कण्टकैरित्यादि| तदाख्यमिति पद्मिनीकण्टकाख्यम्||३४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पद्मिनीकण्टकमाह– कण्टकैरित्यादि| पद्मिनीकण्टकसदृशैः कण्टकैराचितं वृत्तादिलक्षणं यन्मण्डलं भवति, तत्तदाख्यमिति पद्मिनीकण्टकाख्यम्||३४||

Adhikarana जतुमणिलक्षणम् (३५) · Śloka ३५

सममुत्सन्नमरुजं मण्डलं कफरक्तजम् | सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिस्तु सः ||३५|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

जतुमणिमाह– सममित्यादि| समं मसृणम्| उत्सन्नमुद्गतम्| अयं ‘जटुल’ इति लोके प्रसिद्धः| कफरक्तजमिति प्राधान्येनोक्तं, तेन– चरकोक्तं त्रिदोषजत्वमप्यस्योपपन्नं भवति| यदुक्तं तेन– “कृष्णः स्निग्धो जतुमणिर्ज्ञेयो वातोत्तरैस्त्रिभिः| अरुजं त्वपरैरुक्तं लक्ष्मेत्याहुर्भिषग्वराः||” इति| सहजं लक्ष्म चैकेषामिति एकेषामाचार्याणां मतेन सहजं लक्ष्म लक्षणं स्त्रीपुंसयोरङ्गभेदेन शुभाशुभफलप्रदं भवति| सहजं शरीरेण सह जातं जन्मकालप्रवृत्तमित्यर्थः||३५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

जतुमणिमाह– सममित्यादि| समं मसृणम्, उत्सन्नमुद्गतम्| अयं ‘जटुल’ इति लोके प्रसिद्धः| कफरक्तजमिति प्राधान्येनोक्तं, तेन चरकेणोक्तं त्रिदोषजत्वप्यस्य भवति| यदुक्तं तेन– “कृष्णः स्निग्धो जतुमणिर्ज्ञेयो वातोत्तरैस्त्रिभिः| अरुजं त्वपरैरुक्तं लक्ष्मेत्याहुर्भिषग्वराः” इति| एकेषामाचार्याणां मते सहजं लक्ष्म लक्षणं स्त्रीपुंसयोरङ्गभेदेन शुभफलप्रदं भवति| सहजं शरीरेण सह जातं जन्मकालप्रवृत्तमित्यर्थः||३५||

Adhikarana मषकलक्षणम् (३६) · Śloka ३६

अवेदनं स्थिरं चैव यस्मिन् गात्रे प्रदृश्यते | माषवत्कृष्णमुत्सन्नमनिलान्मषकं तु तत् ||३६|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मषकलिङ्गमाह– अवेदनमित्यादि| स्थिरं कठिनमिति गयदासः; अचलमिति युक्तं, भोजे मृद्विति पाठात्| मषकमादिशेदिति माषशब्दात् “इवे प्रतिकृतौ” इति कन्, नैरुक्त्येन च विधिना ह्रस्वत्वम्| अत्र चकारेण कफमेदसी समुच्चीयेते| तथा च भोजः– “वातेरिते त्वचि यदा दूष्येते कफमेदसी| श्लक्ष्णं मृदु सवर्णं च कुरुतो मषकं वदेत्||” इति||३६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मषकमाह– अवेदनमित्यादि| स्थिरमचलं भोजे मृद्विति पाठात्| अत्र चकारेण कफमेदसी समुच्चीयेते| तथाच भोजः– “वातेरिते त्वचि यदा दूष्येते कफमेदसी| श्लक्ष्णं मृदु सवर्णं च कुरुते मषकं वदेत्||” इति||३६||

Adhikarana तिलकालकलक्षणम् (३७) · Śloka ३७

कृष्णानि तिलमात्राणि नीरुजानि समानि च | वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ||३७|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तिलकालकलक्षणमाह– कृष्णानीत्यादि| ‘वातपित्तकफोच्छोषात्’ इति पाठे वातपित्ताभ्यां हेतुभ्यां कफस्योच्छोषः शोषणं तस्मात्| अन्ये चरकं दृष्ट्वा ‘वातपित्तासृगुच्छोषात्’ इति पठन्ति| तथाच चरकः– “यस्य पित्तं प्रकुपितं शोणितं प्राप्य शुष्यति| तिलका विप्लवा व्यङ्गा नीलिका चास्य जायते||” (च. सू. अ. १८) इति; अस्मिन् वचने वातोऽप्यवगन्तव्यः, तेनापि शोषस्य क्रियमाणत्वात्| अन्येऽपि तन्त्रान्तरं दृष्ट्वा ‘वातपित्तकफोत्सेकात्’ इति पठन्ति| उत्सेकादित्युद्रेकात्| तथाहि तन्त्रान्तरम्– “मारुतः पित्तमादाय कफरक्तसमाश्रितः| चिनोति तिलमात्राणि त्वचि ते तिलकालकाः||” इति; किन्त्वस्मिन्नपि तन्त्रे कफरक्तसमाश्रित इत्यनेन कफरक्तयोराश्रितवातेन पित्तसहितेनोच्छोषादेव तिलकालके कार्ष्ण्यस्य सम्भवोऽवगम्यते, ततश्च ‘वातपित्तकफोच्छोषात्’ इति पाठो युज्यते| ‘वातपित्तरसोद्रेकात्’ इति पाठान्तरम्||३७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तिलकालकलक्षणमाह– नीलानीत्यादि| शरीरत्वक्समानि नोद्गतानीत्यर्थः| वातपित्तकफोद्रेकादित्यत्र “वातपित्तकफोच्छोषात्” इति पाठे वातपित्ताभ्यां हेतुभ्यां कफस्योच्छोषः शोषणं, तस्मात्| अन्ये तु “वातपित्तासृगुच्छोषात्” इति पठन्ति| तत्र वातपित्ताभ्यां रक्तस्य शोषादित्यर्थः| अत एव तिलकालके कार्ष्ण्यं; तथाच चरकः– “यस्य पित्तं प्रकुपितं शोणितं प्राप्य शुष्यति| तिलका विप्लवो व्यङ्गा नीलिका चास्य जायते||” इति| अस्मिन् वचने वातोऽप्यवगन्तव्यः, तेनापि शोषस्य क्रियमाणत्वात्| अन्ये तन्त्रान्तरं दृष्ट्वा “वातपित्तकफोत्सेकात्” इति पठन्ति| उत्सेकादिति उद्रेकात्| तथाहि तन्त्रान्तरे– “मारुतः पित्तमादाय कफरक्तसमाश्रितः| चिनोति तिलमात्राणि त्वचि ते तिलकालकाः||” इति||३७||

Adhikarana न्यच्छलक्षणम् (३८) · Śloka ३८

महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम् | नीरुजं मण्डलं गात्रे न्यच्छमित्यभिधीयते ||३८|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

न्यच्छलिङ्गमाह– महद्वेत्यादि| असितं कृष्णम्| ‘नीरुजं मण्डलम्’ इत्यस्य स्थाने ‘सहजं मण्डलम्’ इति केचित् पठन्ति, तेन जन्मकालप्रवृत्तं न्यच्छमिच्छन्ति, अत एव न्यच्छस्य पर्याये लाञ्छनमिति तैः पठ्यते| यथा– “न्यच्छं लाञ्छनमुच्यते” इति| लाञ्छनं लक्षणम्| अत्र भोजवचनात् पित्तरक्तान्वितो वायुः कारणम्| यदाह– “रक्तपित्तान्वितो वायुस्त्वक्प्रदेशाश्रितो यदा| जनयेन्मण्डलं कृष्णं श्यावं वा न्यच्छमादिशेत्||” इति| अत्र श्यावत्वपक्षे मुखेतरदेश एव सम्भवेन बहुलत्वेन व्यङ्गाद्भेदोऽवगन्तव्यः||३८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

न्यच्छमाह– महदित्यादि| श्यावं शुक्लानुविद्धं कृष्णवर्णम्, असितं कृष्णं, ‘नीरुजं मण्डलम्’ इत्यस्य स्थाने ‘सहजं मण्डलम्’ इति केचित् पठन्ति, तेन जन्मकालप्रवृत्तं न्यच्छमिच्छन्ति, न्यच्छस्य पर्यायो लाञ्छनमिति तैः पठ्यते| अभिधाने– ‘न्यच्छं लाञ्छनमुच्यते’ इति| अत्र भोजवचनात् पित्तरक्तान्वितो वायुः कारणम्, यदाह– ‘रक्तपित्तान्वितः’ इत्यादि||३८||

Adhikarana व्यङ्गलक्षणम् (३९) · Śloka ३९

क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः | मुखमागत्य सहसा मण्डलं विसृजत्यतः ||३९|| नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् | (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

व्यङ्गलिङ्गमाह– क्रोधायासेत्यादि| श्यावमिति शुक्लानुविद्धकृष्णवर्णम्| अस्य ‘छ्यावक’ इति ‘मेछेता’ इति च लोके ख्यातिः||३९||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्यङ्गमाह– क्रोधेत्यादि| श्यावं शुक्लानुविद्धकृष्णवर्णम्| ‘मुखछाई’ इति लोके||३९||–

Adhikarana नीलिकालक्षणम् (४०) · Śloka ४०

कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः ||४०||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

नीलिकालक्षणमाह– कृष्णमेवङ्गुणमित्यादि| एवङ्गुणमिति नीरुजतनुकमण्डलधर्मम्| व्यङ्गोक्तदोषोऽत्रापि बोद्धव्यः, सम्मूर्छनविशेषात्तु नीलत्वकारी| कृष्णन्यच्छादतिकृष्णत्वेन भिन्ना नीलिका, व्यङ्गनीलिकयोस्तु व्यक्त एव भेदः– श्यावो व्यङ्गः, कृष्णा नीलिका; भोजे तु नीलिका गात्र एवोक्ता| यदुक्तम्– “मारुतः क्रोधहर्षाभ्यामूर्ध्वगो मुखमाश्रितः| पित्तेन सह संयुक्तः करोति वदनत्वचि|| नीरुजं तनुकं श्यावं व्यङ्गं तमिति निर्दिशेत्| कृष्णमेवङ्गुणं गात्रे नीलिकां तां विनिर्दिशेत्||” इति||४०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

नीलिकामाह– कृष्णमित्यादि| एवङ्गुणमिति नीरुजं तनुकं मण्डलधर्मकम्| व्यङ्गोक्तो दोषोऽत्रापि बोद्धव्यः; सम्मूर्छनविशेषात्तु नीलत्वकारी| कृष्णन्यच्छादतिनीलत्वेन भिन्ना नीलिका, व्यङ्गनीलिकयोस्तु व्यक्त एव भेदः– श्यावो व्यङ्गः, कृष्णा नीलिका; भोजे तु नीलिका गात्र एवोक्ता| यदुक्तम्– “मारुतः क्रोधहर्षाभ्यामूर्ध्वगो मुखमाश्रितः| पित्तेन सह संयुक्तः करोति वदनत्वचि|| नीरुजं तनुकं श्यावं व्यङ्गं तमिति निर्दिशेत्| कृष्णमेवङ्गुणं गात्रे नीलिकां तां विनिर्दिशेत्||” इति||४०||

Adhikarana परिवर्तिकालक्षणम् (४१-४३) · Śloka ४३

मर्दनात् पीडनाद्वाऽति तथैवाप्यभिघाततः | मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ||४१|| तदा वातोपसृष्टत्वात्तच्चर्म परिवर्तते | मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ||४२|| सरुजां वातसम्भूतां तां विद्यात् परिवर्तिकाम् | सकण्डूः कठिना वापि सैव श्लेष्मसमुत्थिता ||४३|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मेढ्रगताभिघातजे रोगत्रये परिवर्तिकामाह– मर्दनादित्यादि| पीडनाद्वाऽतीत्यतिशब्दो मर्दनपीडनाभ्यां सह सम्बध्यते| अतियोगादेव ते वातं कोपयतः| सर्वतश्चरन्निति व्यानः, ‘सर्वतश्चरः’ इति पाठे स एवार्थ| परिवर्तत इति सर्वतो विवर्तते| कोष इति चर्मकोषः| परिवर्तिकेति वृतधातोः “रोगाख्यायां ण्वुल् बहुलम्” इति ण्वुल् (वृत-णक-आप्)| एवमवपाटिकायां च बोद्धव्यम्| अस्यां वातजायामपि पित्तानुबन्धाद्दाहपाकौ भवतः, कफसम्बन्धस्तु ‘सकण्डूः कठिना वापि’ इत्यादिनाऽभिहितः| भोजेऽप्युक्तम्– “मणेरधो मेढ्रचर्म व्यानस्तु परिवर्तयेत्| सशूलतोददाहाद्यैर्विज्ञेया परिवर्तिका|| श्लैष्मिकी कठिना स्निग्धा कण्डूमत्यल्पवेदना|” इति||४१-४३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

लिङ्गपरिवर्तिकामाह– मर्दनादित्यादि| अतिशब्दो मर्दनपीडनाभ्यां प्रत्येकमभिसम्बध्यते| अतियोगादेव ते वातं कोपयतः| “ सर्वतश्चरन्” इति पाठे स एवार्थः| परिवर्तत इति सर्वतो विवर्तते| कोष इति चर्मकोषः| परिवर्तिकाख्योऽयम्| अस्यां वातजायां पित्तानुबन्धाद्दाहपाकौ भवतः, कफसम्बन्धात् कण्डूः कठिना वा| यदुक्तं भोजे– “मणेरधो मेढ्रचर्म व्यानस्तु परिवर्तयेत्| सशूलतोददाहाद्यैर्विज्ञेया परिवर्तिका| श्लैष्मिकी कठिना स्निग्धा कण्डूमत्यल्पवेदना||” इति||४१-४३||

Adhikarana अवपाटिकालक्षणम् (४४) · Śloka ४४

अल्पीयःखां यदा हर्षाद्बलाद्गच्छेत् स्त्रियं नरः | हस्ताभिघातादपि वा चर्मण्युद्वर्तिते बलात् ||४४|| यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् | (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अवपाटिकामाह– अल्पीयःखामित्यादि| अल्पीयःखामित्यल्पतरं खं योनिमुखं यस्याः सा तथा, कन्या हि अनार्तवा अल्पीयःखा भवति| अत्र हेत्वन्तरं हस्ताभिघातादपि वेति| उद्वर्तित इति ऊर्ध्वं वर्तिते| यस्यावपाट्यत इति स्वयमेव विदीर्यते| एषा च पृथक् दोषत्रयेणानुबध्यते| तथा च भोजः– “मर्दनादभिघाताद्वा कन्यायोनिप्रपीडनात्| लक्ष्यते यदि मेढ्रस्य चर्म दर्भैरिव क्षतम्|| ज्ञेयाऽवपाटिका सा तु पृथग्दोषैः समन्विता| वातात् सा परुषा रूक्षा शूलनिस्तोदकारिणी|| पित्तात् सदाहा रक्ताद्वा दाहतृष्णासमन्विता| श्लैष्मिकी कठिना स्निग्धा कण्डूमत्यल्पवेदना||” इति||४४||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अवपाटिकामाह– अल्पीयःखामित्यादि| अल्पतरं खं योनिमुखं यस्याः सा तथा, कन्या ह्यनार्तवा अल्पीयःखा भवति| हस्ताभिघातादिति हेत्वन्तरम्| उद्वर्तित इति ऊर्ध्वं वर्तिते| यस्यावपाट्यत इति स्वयमेव विदीर्यते| एषा पृथग्दोषत्रयेणानुबध्यते| तथाच भोजः– “मर्दनाभिघाताद्वा कन्यायोनिप्रपीडनात्| लक्ष्यते यदि मेढ्रस्य चर्म दर्भैरिव क्षतम्|| ज्ञेयाऽवपाटिका सा तु पृथग्दोषैः समन्विता| वातात्सा परुषा रूक्षा शूलनिस्तोदकारिणी|| पित्तात्पीता सरक्ता वा दाहतृष्णासमन्विता| श्लैष्मिकी कठिना स्निग्धा कण्डूमत्यल्पवेदना||” इति||४४||–

Adhikarana निरुद्धप्रकशलक्षणम् (४५-४७) · Śloka ४७

वातोपसृष्टे मेढ्रे वै चर्म संश्रयते मणिम् ||४५|| मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च | निरुद्धप्रकशे तस्मिन् मन्दधारमवेदनम् ||४६|| मूत्रं प्रवर्तते जन्तोर्मणिर्विव्रियते न च | निरुद्धप्रकशं विद्यात् सरुजं वातसम्भवम् ||४७|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

निरुद्धप्रकशमाह– वातोपसृष्ट इत्यादि| संश्रयत इति समग्रं श्रयते, अत्रैव नीयत इत्यर्थः| अवपाटिका त्वरूढा चर्मसङ्कोचान्निरुद्धप्रकशो भवतीति ब्रुवते, सन्निरुद्धगुदवत् स्वतन्त्रोऽपि भवतीति शक्यते वक्तुं; निरुद्धप्रकाश इत्यस्मिन्नर्थे निरुद्धप्रकशः, नैरुक्तेन च रूपसिद्धिः| मूत्रस्रोतः सङ्कुचितचर्मपीडनेन मणेः स्वल्पद्वारत्वान्मूत्रस्रोतो रुणद्धि| अवेदनमित्यस्य स्थाने सवेदनमिति केचित्| अत्र भोजाभिप्रायेण व्याचक्षते– एकदा निरुद्धे स्रोतसि सवेदनमन्यदा तु प्रकाशे मूत्रं मन्दधारं प्रवर्तते, मणिश्च नावदीर्यते मूत्रेणेति| तथा च भोजः– “मेढ्रान्ते चर्मणि यदा मारुतः कुपितो भृशम्| द्वारं रुणद्धि स शनैः प्रकाशश्च मुहुर्भवेत्|| मूत्रं मूत्रयते कृच्छ्रात् प्रकाशस्तु यदा भवेत्| वातोपसृष्टमेढ्रस्तु मणिर्न च विदीर्यते|| निरुद्धं च प्रकाशं च व्याधिं विद्यात् सुदारुणम्||” इति| सुश्रुते तु निरुद्धप्रकाशत्वात् निरुद्धप्रकशः| मणिर्विव्रियते न चेति मणिर्विवृतो न भवति||४५-४७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

निरुद्धप्रकशमाह– वातेत्यादि| वातदुष्टमेढ्रे चर्म संश्रयत इति समग्रं श्रयते, तत्रैव लीयत इत्यर्थः| चर्मसङ्कोचान्मूत्रस्रोतो रुध्यते, अवपाटिका दुरूढा चर्मसङ्कोचान्निरुद्धप्रकाशा भवतीति ब्रुवते| सन्निरुद्धगुदवत्स्वतन्त्रोऽपि भवतीति शक्यते वक्तुम्| निरुद्धप्रकाश इत्यस्मिन्नर्थे निरुद्धप्रकशः, नैरुक्तेन रूपसिद्धिः| अवेदनमित्यस्य स्थाने सवेदनमित्यन्ये भोजभिप्रायेण व्याचक्षते| एकदा निरुद्धस्रोतसि सवेदनम्, अन्यदा तु प्रकाशे मूत्रं मन्दधारं प्रवर्तते| मणिश्च विदार्यते मूत्रेणेति शेषः| तथाच भोजः– “मेढ्रान्ते चर्मणि यदा मारुतः कुपितो भृशम्| द्वारं रुणद्धि स शनैः प्रकाशश्च मुहुर्भवेत्|| मूत्रं मूत्रयते कृच्छ्रात्प्रकाशस्तु यदा भवेत्| वातोपसृष्टमूत्रस्तु मणिर्न च विदीर्यते| निरुद्धं च प्रकाशं च व्याधिं विद्यात्सुदारुणम्||” इति||४५-४७||

Adhikarana सन्निरुद्धगुदलक्षणम् (४८-४९) · Śloka ४९

वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः | निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च ||४८|| मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति | सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदारुणम् ||४९|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मूत्रमार्गरोधकनिरुद्धप्रकाशानन्तरं पुरीषमार्गरोधकं सन्निरुद्धगुदमाह– वेगसन्धारणादित्यादि| तस्येति गुदस्य| ‘महत्स्रोत’| इति पाठे तु महत्स्रोतो गुदविवरं, निरुद्धप्रकाशवदत्रापि चर्मसङ्कोचात् सन्निरुद्धगुदम्||४८-४९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निरुद्धगुदमाह– वेगेत्यादि| महत्स्रोतो गुदविवरं निरुद्धप्रकशवदत्रापि चर्मसङ्कोचान्निरुद्धगुदम्||४८-४९||

Adhikarana अहिपूतनलक्षणम् (५०-५१) · Śloka ५१

शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् | स्विन्ने वाऽस्नाप्यमाने वा कण्डू रक्तकफोद्भवा ||५०|| कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते | एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ||५१|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अहिपूतनमाह– शकृन्मूत्रेत्यादि| अपान इति गुदे, स्विन्ने स्वेदवति, अस्नाप्यमाने अक्रियमाणक्षालने; स्वेदमलक्लेदादेव कण्डूर्भवतीत्यर्थः| एकीभूतमिति अपानं व्रणैः सहैकीभूतम्| अहिपूतनं च बालानामेव भवति, भोजे पुनरिदं दुष्टस्तन्यपानादपि भवतीति पठितम्| यदुक्तम्– “दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन च| कण्डूदाहरुजावद्भिः पिडकैश्च समाचिता|| सम्भवन्ति यथादोषं दारुणा ह्यहिपूतना||” इति||५०-५१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अहिपूतनमाह– शकृदित्यादि| अपाने गुदे, स्विन्ने स्वेदवति, अस्नाप्यमाने अक्रियमाणप्रक्षालने, स्वेदमलक्लेदादेव कण्डूर्भवति| ततः स्फोटः जायते| एकीभूतमिति अपानं व्रणैः सहैकीभूतम्, अहिपूतनं बालानामेव भवति, भोजे पुनरिदं दुष्टस्तन्यपानादपि भवतीति पठितम्| यदुक्तम्– “दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन च| कण्डूदाहरुजावद्भिः पिडकैश्च समाचिता|| दारुणा च यथादोषं सम्भवत्यहिपूतना|” इति||५०-५१||

Adhikarana वृषणकच्छूलक्षणम् (५२-५३) · Śloka ५३

स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः | यदा प्रक्लिद्यते स्वेदात् कण्डूं जनयते तदा ||५२|| कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते | प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ||५३|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अहिपूतनासमानहेतुलिङ्गतया गुदाश्रयं गुदभ्रंशमुल्लङ्घ्यानन्तरं वृषणकच्छूमाह– स्नानोत्सादनहीनस्येत्यादि| एषा च निदानविशेषात् प्रायो वृषणभावित्वात् विशिष्टचिकित्सोपयोगित्वाच्च कुष्टोक्तकच्छूतो भेदेन पठ्यते||५२-५३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अहिपूतनासमानलिङ्गहेतुतया, गुदाश्रयं गुदभ्रंशमुल्लङ्घ्यानन्तरं वृषणकण्डूमाह– स्नानेत्यादि| उत्सादनमाहरणवस्त्रम्| एषा च स्नानोत्सादनहीनत्वनिदानविशेषात्प्रायो वृषणभावित्वाद्विशिष्टचिकित्सायोगित्वाच्च कुष्ठोक्तकण्डूतो भिन्ना||५२-५३||

Adhikarana गुदभ्रंशलक्षणम् (५४) · Śloka ५४

प्रवाहणातीसाराभ्यां निर्गच्छति गुदं बहिः | रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् ||५४|| (सु. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गुदभ्रंशलिङ्गमाह– प्रवाहणेत्यादि| प्रवाहणं प्रकर्षेण कुन्थनम्| ‘वाह प्रयत्ने’ इत्यस्य रूपम्| प्रवाहणेनातिवेगोदीरणेन वातकोपः, अतीसारेण तु धातुक्षयात्; यदि वा प्रवाहणेनातीसारेण चाधोगतमारुतत्वेन गुदनिर्गमो रूक्षादिदेहस्य||५४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

गुदभ्रंशमाह– प्रवाहणेत्यादि| प्रवाहणं प्रकर्षेण कुन्थनं, हृत्कण्ठबलेन वायोरानयनम्| ‘वाह प्रयत्ने’ इत्यस्य रूपम्| प्रवाहणेन वातकोपः, अतिसारे तु धातुक्षयात्| यदि वा प्रवाहणातिसारेणैव अधोगतमारुतत्वेन गुदनिर्गमो रूक्षादिदेहस्य; अयं वातकोपजः||५४||

Adhikarana वराहदंष्ट्रलक्षणम् (५५) · Śloka ५५

सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रवेदनः | कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ||५५||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वराहदंष्ट्रलिङ्गमाह– सदाह इत्यादि| अयं ‘वराहदाढ’ इति लोके प्रसिद्धः||५५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सूकरदंष्ट्रमाह– सदाहेत्यादि| सूकरदंष्ट्राकारत्वेन सूकरदंष्ट्रकः विसर्पलिङ्गः ‘वराहदाढ’ इति लोके प्रसिद्धः| इति क्षुद्ररोगाश्चत्वारिंशदुक्ताः||५५||

Adhikarana पुष्पिका · Śloka ५५

इति श्रीमाधवकरविरचिते माधवनिदाने क्षुद्ररोगनिदानं समाप्तम् ||५५||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां क्षुद्ररोगनिदानं समाप्तम्||५५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां क्षुद्ररोगनिदानम्||५५||