Skip to content

५४. मसूरिकानिदानम्

Adhikarana मसूरिकाया निदानपूर्विका सम्प्राप्तिः, पूर्वरूपं च (१-३) · Śloka

अथ मसूरिकानिदानम् | कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः | दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ||१|| क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः | जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ||२|| मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः | तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ||३|| त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते |४|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विस्फोटप्रभेदत्वात् प्रायेण तुल्यनिदानत्वाच्च मसूरिकानिदानम्| तस्या निदानपूर्विकां सम्प्राप्तिमाह– कट्वम्लेत्यादि| विरुद्धाध्यशनाशनैरिति विरुद्धैरन्नैरध्यशनैश्च, ‘विरुद्धाध्यशनेन तु’ इति पाठो वा| दुष्टनिष्पावशाकाद्यैरिति दुष्टं व्यापन्नमन्नं, निष्पावः शिम्बिबीजम्, आद्यशब्दान्मध्वालुकादिग्रहणम्| प्रदुष्टपवनोदकैरिति विषकुसुमादिसंस्पर्शात् प्रदुष्टः पवनस्तथोदकं च, तैः| क्रूरग्रहेक्षणाच्चेति शनैश्चरादयो देशक्षोभकराः क्रूरग्रहास्तेषामीक्षणात्| दुष्टरक्तेन सङ्गता इत्यनेन रक्तस्य कट्वम्लादिभिर्हेतुभिर्विशेषेण कोपं दर्शयति| अत एवोक्तं तन्त्रान्तरे– “पित्तं शोणितसंसृष्टं यदा दूषयति त्वचम्| तदा करोति पिडकाः सर्वगात्रेषु देहिनाम्|| मसूरमुद्गमाषाणां तुल्याः कोलोपमा अपि| मसूरिकास्तु ता ज्ञेयाः पित्तरक्ताधिका बुधैः||” इति||१-३||–

Adhikarana वातजमसूरिकालक्षणम् (४-५) · Śloka

स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ||४|| कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः | सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिः क्लमः ||५|| शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता |६|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातजामाह– स्फोटा इत्यादि| चिरपाका इति विकारप्रभावात्||४-५||–

Adhikarana पित्तजमसूरिकालक्षणम् (६-७) · Śloka

रक्ताः पीतासिताः स्फोटाः सदाहास्तीव्रवेदनाः ||६|| भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः | विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ||७|| मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः |८|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पित्तजामाह– रक्ता इत्यादि| ज्वरस्तीव्रः सुदारुण इति तीव्रश्चण्डवेगः, सुदारुणो बहुदुःखेनातिदुःसह||६-७||–

Adhikarana रक्तज-कफजमसूरिकालक्षणम् (८-१०) · Śloka १०

रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ||८|| कफप्रसेकः स्तैमित्यं शिरोरुग् गात्रगौरवम् | हृल्लासः सारुचिर्निद्रा तन्द्रालस्यसमन्विताः ||९|| श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः | मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः ||१०||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजामाह– रक्तजायामित्यादि| एते विकाराः पित्तलक्षणा इति पित्तजमसूरीलक्षणत्वेन उक्ताः| ‘ रक्ताः पीतासिताः स्फोटा’ इत्यादयो ये ये विकारास्ते रक्तजायां भवन्ति| अत्र कफजामनुक्त्वैव पित्तजाया अनन्तरं रक्तजाया उक्तिः पित्तलक्षणस्यातिदिष्टस्याव्यवहितत्वेन सुखग्रहणार्थं, रक्तरससमत्वात् रक्तमलत्वाद्वा पित्तस्य पित्तजामभिधाय अस्याः कथनं, सर्वत्र कृतस्य समर्थनाय||८-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रक्तजामाह– रक्तजायामित्यादि| एते विकाराः पित्तमसूरिकालक्षणत्वेन ये उक्ताः ‘रक्ताः पीतासिताः स्फोटाः’ इत्यादयो ये विकाराः ते रक्तजायां भवन्ति| कफजामाह– श्वेता इत्यादि| सुगमम्||८-१०||

Adhikarana त्रिदोषजमसूरिकालक्षणम् (११-१२) · Śloka १२

नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजाः | चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ||११|| कण्ठरोधारुचिस्तम्भप्रलापारतिसंयुताः | दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसञ्ज्ञिताः ||१२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सान्निपातिकलक्षणमाह– नीला इत्यादि| चिपिटविस्तीर्णा इति चिपिटः ‘चिउडा’ इति ख्यातः, तद्वद्विस्तृताः| चर्मसञ्ज्ञिता इति ‘चर्मदल’ इति ख्याताः||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निपातजामाह– नीला इत्यादि| नीलाश्चाषपक्षप्रतिमाः| चिपिटविस्तीर्णा इति चिपिटाश्चिउडा इति ख्याताः, तद्वद्वितताः| मध्ये निम्ना इत्युक्ते प्रान्तोन्नतत्वं ज्ञेयम्| प्रभूताः प्रचुराः कण्ठरोधः कण्ठग्रहः, प्रलापोऽबद्धभाषणं, दुश्चिकित्स्याः असाध्याः, चर्मसञ्ज्ञिता इति ‘ चामघांस’ इति ख्यातः||११-१२||

Adhikarana रोमान्तिकालक्षणम् (१३) · Śloka १३

रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः | कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः ||१३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मसूरिकायाः प्रकारं रोमान्तिकामाह– रोमकूपोन्नतिसमा इत्यादि| रागिण्य इति लोहिताः, ज्वरपूर्विका इति ज्वरपूर्वरूपाः||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मसूरिकायाः प्रकारान्तरं रोमान्तिकामाह– रोमेत्यादि| रोमकूपोच्छ्रायाः, रागिण्य इति लोहिताः, ज्वरपूर्विका इति ज्वरपूर्वरूपाः||१३||

Adhikarana रसादिसप्तधातुगतमसूरिकालिङ्गम् (१४-२३) · Śloka २३

तोयबुद्बुदसङ्काशास्त्वग्गतास्तु मसूरिकाः | स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ||१४|| रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः | साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च ||१५|| मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः | गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः ||१६|| मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः | घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ||१७|| सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् | क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ||१८|| मज्जोत्था भृशसम्मोहवेदनारतिसंयुताः | छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि ||१९|| भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः | पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः ||२०|| स्तैमित्यारतिसम्मोहदाहोन्मादसमन्विताः | शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि ||२१|| निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम् | दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ||२२|| त्वग्गता रक्तजाश्चैव पित्तजाः श्लेष्मजास्तथा | श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ||२३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रसादिसप्तधातुगतमसूरिकालिङ्गमाह– तोयबुद्बुदसङ्काशा इत्यादि| अत्र दुष्टदूष्यप्रभावात् तोयबुद्बुदसङ्काशादीनि दोषलक्षणानि च भवन्ति, दोषमन्तरेण दूष्यदुष्टेरभावात्; अत एव वक्ष्यति– “दोषमिश्राश्च सप्तैता द्रष्टव्या दोषलक्षणैः|” इति| त्वक्शब्देनात्र रसोऽभिधीयते, धातुगतप्रस्तावात्| त्वग्गताः साध्याः, अल्पदोषसम्बन्धाद्रक्तजाया अपि साध्यत्वेनाभिधानात्| मांसस्थाः कृच्छ्रसाध्याः, अत्यवगाढदोषदुष्टेः| मेदोजायां कश्चिदाभ्यो विनिस्तरेदित्यनेनात्यन्तकृच्छ्रसाध्यत्वं बोधयति, अस्थिमध्यस्थितत्वान्मज्ज्ञः| क्षुद्रा इत्यादिना अस्थिमज्जगतयोः समानं लिङ्गम्| मज्जोत्था इत्यत्र मज्जग्रहणादस्थ्नोऽपि ग्रहणम्, आधारत्वात्; अत एव वक्ष्यति– “भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः|” इति| मर्मधामानीति मर्मस्थानानि| पक्वाभा इत्यादिना शुक्रजाया लिङ्गम्| दृश्यते न तु जीवितमिति गम्भीरधातुगतदोषदुष्टेः शुक्रजाया असाध्यत्वम्| अस्य न्यायस्य समानतया अस्थिमज्जगतयोरप्यसाध्यत्वं बोद्धव्यम्||१४-२३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रसादिसप्तधातुगतमसूरिकाया लिङ्गमाह– तोयेत्यादि| अत्र दुष्टदूष्यप्रभावात्तोयबुद्बुदसङ्काशादीनि लक्षणानि दोषलक्षणानि च भवन्ति, दोषमन्तरेण दूष्यदुष्टेरभावात्| अत एव वक्ष्यति– “दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः|” इति| त्वक्शब्देनात्र रसो गृह्यते, धातुगतप्रस्तावात्| त्वग्गताः साध्याः, स्वल्पदोषसम्बन्धात्| रक्तजामाह– रक्तोत्था इत्यादि| अत्यर्थं चेन्न दुष्टा तदा साध्या| अत्रापि स्वल्पदोषानुबन्धत्वेन साध्यत्वम्| मांसस्थामाह– मांसस्था इत्यादि| मांसस्थाः कृच्छ्रसाध्याः, अत्यवगाढदोषदुष्टेः| मेदोगतामाह– मेदोजा इत्यादि| मृदवो मृदुस्पर्शाः, घोरज्वरपरीता इति दारुणज्वरो यतः| सम्मोह इन्द्रियाणाम्| कश्चिदाभ्यो विनिस्तरेदित्यनेनात्यन्तं कृच्छ्रसाध्यत्वं बोधयति| अस्थिमज्जगतामाह– क्षुद्रा इत्यादि| अत्र अस्थिमज्जागतयोः समानं लक्षणं ज्ञेयम्| मज्जोत्था इत्यत्र मज्जग्रहणादस्थ्नोऽपि ग्रहणमाधारत्वात्, क्षुद्राः तन्व्यः, गात्रसमाः शरीरसमवर्णाः, चिपिटाः चिउडाकाराः, अत एव वक्ष्यति– “भ्रमरेणेव विद्धानि भवन्त्यस्थीनि सर्वतः|” इति| मर्मधामानि मर्मस्थानानि हृदयादीनि| शुक्रगतामाह– पक्वाभा इत्यादि| पक्वाकारा अननुपक्वा| अन्ये ‘पङ्काभाः’ इति पठन्ति, तत्र कर्दमाभाः| श्लक्ष्णाः मसृणाः| चिह्नं दृश्यते न तु जीवितमिति| गम्भीरधातुगतदोषदुष्टेः शुक्रजायामसाध्यत्वं बोद्धव्यम्| धातुगतानां दोषजानामपि साध्यत्वमाह– त्वग्गता इत्यादि| रसगताः||१४-२३||

Adhikarana मसूरिकायाः साध्यासाध्यविचारः (२४-२६) · Śloka २६

वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः | कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् ||२४|| असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम् | प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः ||२५|| लोहजालसमाः काश्चिदतसीफलसन्निभाः | आसां बहुविधा वर्णा जायन्ते दोषभेदतः ||२६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातजा इत्यादि| वातजादयः सन्निपातोत्थान्ता असाध्याः| एतासां सम्मूर्छनविशेषजनितवक्ष्यमाणप्रवालादिवर्णयोगादसाध्यत्वं, तेनैतद्वर्णविरहे वातजायाश्चिकित्साविधिरप्युक्त उपपद्यत इति केचित्| अन्ये तु वातजादय एताः स्वरूपत एवासाध्याः, चिकित्सोक्तिस्तु वातजादीनां महात्ययनिषेधार्थं, लिङ्गान्तरसम्भवार्थं च तासां वक्ष्यामि लक्षणमित्युक्तमित्याहुः| तासामिति असाध्यवातजादीनाम्| लोहजालसमा इति जालं जालकं गुडकमिति यावत्, तद्वत्कृष्णवर्णाः| अतसीफलसन्निभा इति उमाफलवर्णतुल्यवर्णाः| अनुक्तवर्णान्तरसङ्ग्रहार्थमाह– आसां बहुविधा इत्यादि| दोषभेदत इति वातपित्तादिदोषविशेषात्, दुष्टिविशेषादित्यन्ये||२४-२६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कष्टसाध्या आह– वातजा इत्यादि| एता वातजादयः स्वरूपत एव कष्टसाध्याः, चिकित्सितोक्तिस्तु वातजाया महात्ययनिषेधार्थम्| असाध्या आह– असाध्या इत्यादि| तासामिति वातादीनाम्| दोषदूष्यसम्मूर्छनाद्विशेषवर्णत्वेन लक्षणमाह– प्रवालेत्यादि| लोहजालनिभाः लोहजालकं लोहगुलिकं, तद्वत्कृष्णवर्णाः, कश्चिदतसीफलतुल्यवर्णाः| अनुक्तवर्णान्तरसङ्ग्रहार्थमाह– आसामित्यादि| आसां मसूरिकाणां वर्णा बहुविधा जायन्ते| कथमित्याह– दोषभेदत इत्यादि| वातपित्तादिदोषविशेषात्, दुष्टिविशेषादित्यर्थः||२४-२६||

Adhikarana सर्वमसूरिकाया आवस्थिकं लक्षणम् (२७-२९) · Śloka २९

कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः | प्रलापश्चारतिर्मूर्छा तृष्णा दाहोऽतिघूर्णता ||२७|| मुखेन प्रस्रवेद्रक्तं तथा घ्राणेन चक्षुषा | कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् ||२८|| मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः | लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् ||२९||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सर्वमसूरिकाया आवस्थिकं लिङ्गमाह– कास इत्यादि| ज्वरस्तीव्रः सुदारुण इति, अत्र सुदारुण इति परेण सम्बध्यते, तेन सुदारुणः प्रलापः| अतिघूर्णता जिह्मायनम्| तथा घ्राणेन चक्षुषेत्यत्र रक्तं स्रवेदिति सम्बध्यते| श्वसितीति श्वासो भवति||२७-२९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तासामावस्थिकलक्षणमाह– कास इत्यादि| प्रमोह इन्द्रियाणाम्| ज्वरस्तीव्र इति तीव्रवेगः| सुदारुणो घोरः; अन्ये सुदारुण इति परेण सम्बध्यत इत्याहुः, तेन सुदारुणः प्रलापः| अतिघूर्णता जिह्मायनम्| तथा घ्राणेन चक्षुषेति अत्र रक्तं प्रस्रवेदिति सम्बध्यते| श्वसितीति श्वासो भवति||२७-२९||

Adhikarana मसूरिकाया असाध्यलक्षणम् (३०) · Śloka ३०

मसूरिकाभिभूतो यो भृशं घ्राणेन निःश्वसेत् | स भृशं त्यजति प्राणांस्तृषार्तो वायुदूषितः ||३०||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सामान्येनासाध्यत्वमाह– मसूरिकाभिभूतो य इत्यादि| घ्राणेन निःश्वसेदिति मुखव्यतिरेकेण घ्राणेनैव निःश्वसेत्, सर्ववाक्यानामवधारणफलत्वात्||३०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सामान्येनासाध्यतामाह– मसूरिकेत्यादि| यो मसूरिकाभिभूतो नरो भृशं घ्राणेन निःश्वसेदिति मुखव्यतिरेकेण घ्राणेनैव निःश्वसेत्, सर्ववाक्यानामवधारणत्वात्; तथा यः प्रदूषितो मसूरिकाभिः पीडितो नरो भृशं तृषार्तो भवति, स तथाविधो नरः प्राणांस्त्यजति||३०||

Adhikarana मसूरिकोपद्रवाः (३१) · Śloka ३१

मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके | तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ||३१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मसूरिकाया उपद्रवमाह– मसूरिकान्ते इत्यादि| दुश्चिकित्स्य इति दुःशब्दोऽयं निषेधे, तेन असाध्य इत्यर्थः||३१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मसूरिकाया उपद्रवमाह– मसूरिकान्त इत्यादि| कूर्परे जानुकूर्परे, मणिबन्धने घुटिकायाम्, अंसफलके पार्श्वयोरुपरि, दुश्चिकित्स्य इति असाध्य इत्यर्थः||३१||

Adhikarana पुष्पिका · Śloka ५४

इति श्रीमाधवकरविरचिते माधवनिदाने मसूरिकानिदानं समाप्तम् ||५४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां मसूरिकानिदानं समाप्तम्||५४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां मसूरिकानिदानम्||५४||