Adhikarana १ (१-२) · Śloka २
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Show commentary
पूर्वपादे ह्यामलकरसायनान्युक्तानि, इहाप्यामलकरसायनानि सन्तीति प्राणकामीयमनन्तरमुच्यते| प्राणकामशब्दमधिकृत्य कृतमिति प्राणकामीयम्||१-२||
Adhikarana २ (३) · Śloka ३
प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्|
अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च|
सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसङ्क्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, न सन्धीयतेऽस्थिषु मज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति|
तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||
Show commentary
निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन, किंवा देववत् सर्वदा प्रबुद्धो निद्रारहितो भवति| तन्द्रालक्षणं तन्त्रान्तरे- “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः| निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत्” (सु.शा.अ.४) इति| अबद्धमांसम् अनिबिडमांसम्| उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम्| एवञ्जातीयश्च पूर्वनिपातानियमोऽप्रतिबन्धेन चरकेऽस्ति, स मयूरव्यंसकादिपाठाद्द्रष्टव्यः| अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति| रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह- सर्वे इत्यादि| तिलस्तु अचूर्णितस्तिलः, पललं तिलचूर्णम्| अतोनिमित्तमिति ग्राम्याहारादिकारणकम्| शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः|| ३||
Adhikarana ३ (४-६) · Śloka ६
आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकम्, अतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन, अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन; अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत्; तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्|
अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, अप्रतिहतगतिः स्त्रीषु, अपत्यवान् भवतीति||४||
भवतश्चात्र- बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||
(इत्यामलकघृतम्)|
Show commentary
एकैकशः शतपाकमित्यर्थः| एकैकपाकसाधनं पृथक् कर्तव्यं; तेन त्रिशतधा पाको भवति| अत्र च कल्कोपलेपादिनोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं, वचनबलात्| सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वम्, अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशमर्हति| यथोक्तेन विधिनेति कुटीप्रावेशिकेन| गिरिसारः लोहम्||४-६||
Adhikarana ४ (७) · Śloka ७
आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्, तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां सन्नीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः|
तस्योत्तरकालमग्निबलसमां मात्रां खादेत्, पौर्वाह्णिकः प्रयोगो नापराह्णिकः, सात्म्यापेक्षश्चाहारविधिः|
अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||७||
(इत्यामलकावलेहः)|
Show commentary
पलाशतरुणः तरुणपलाशः; अनेन बालवृद्धपलाशवर्जनमुच्यते| क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि भवति तथा कर्तव्यमिति दर्शयति| चतुर्भागः पादः| समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तमित्यर्थः||७||
Adhikarana ५ (८) · Śloka ८
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्; तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत्; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||८||
(इत्यामलकचूर्णम्)|
Show commentary
वर्षान्ते वर्षाकालान्ते||८||
Adhikarana ६ (९) · Śloka ९
विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः||९||
(इति विडङ्गावलेहः)|
Show commentary
यावदाशीरिति आशीः फलश्रुतिः; तेन ‘तद्वर्षान्ते’ इत्यादिग्रन्थोक्तविधिविधानं दर्शयति||९||
Adhikarana ७ (१०) · Śloka १०
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||१०||
(इत्यामलकावलेहोऽपरः)|
Show commentary
पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः||१०||
Adhikarana ८ (११) · Śloka ११
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्यसञ्जातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्युद्धरेत्, तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत्, चूर्णीकृतानि वा पिबेत् पयसा, मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्|
संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||११||
(इति नागबलारसायनम्)|
Show commentary
धन्वनीति जाङ्गलदेशे| कर्षणं हलादिना| अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि| तपसि माघे| तपस्ये इति फाल्गुने| चले सुमुहूर्त इति इन्द्रे मुहूर्ते| आम्नमात्रमिति पलपरिमाणम्||११||
Adhikarana ९ (१२) · Śloka १२
बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः|
स्वरसानामलाभे त्वयं स्वरसविधिः- चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम्||१२||
Show commentary
पुनर्नवान्ता दश षड्विरेचनशताश्रितीये “अमृताऽभया धात्री मु(यु)क्ता श्रेयसी श्वेताऽतिरसा मण्डूकपर्णी स्थिरा पुनर्नवा” (सू.अ.४) इति सर्वा वयःस्थापनोक्ताः| नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः| बलादीनां स्वरसेनैव विधानम्| नागबलावद्भोजनादिकं ज्ञेयम्| स्वरसालाभेऽनुकल्पमाह- स्वरसानामित्यादि|| १२||
Adhikarana १० (१३) · Śloka १३
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे सङ्गृह्य यवपल्ले माषपल्ले वा निधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरः|
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषाऽन्तर्मुखमभ्यज्य|
तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः|
प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः|
जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः|
तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||
(इति भल्लातकक्षीरम्)|
Show commentary
शुचिः ज्येष्ठः, शुक्रस्तु आषाढः, सह आग्रहायणः, सहस्यः पौषः| एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ उद्धृतमात्रं न प्रयोज्यं, किन्तु यथोक्त एव काले शीतगुणयुक्ते| मुखदाहपरिहारार्थं सर्पिषाऽन्तर्मुखमभ्यज्येति| नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य| सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसम्पिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः, सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव| सहस्रसङ्ख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति, तेन पुनरावृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः, यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसङ्ख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः| अन्ये त्वत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति; तच्च व्याख्यानं नातिसङ्गतम्| किञ्च सहस्रद्वयस्य तत्रोपयोगो विहितः, अत्र सहस्रपर्यन्तः प्रयोगः; तेन व्याधिविषयोऽन्य एव स प्रयोगः, अयं तु रसायनविषयः||१३||
Adhikarana ११ (१४) · Śloka १४
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत्; तेषां यः स्वरसः कुम्भं प्रपद्येत, तमष्टभागमधुसम्प्रयुक्तं द्विगुणघृतमद्यात्; तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१४||
(इति भल्लातकक्षौद्रम्)|
Show commentary
पिष्टस्वेदनं तत्, यत्रस्थं पिष्टकमुपस्वेद्यते; तदुपरि यत् पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यम्, अन्यथोपरिस्थभल्लातकतापाच्च्युतः स्नेहो नाधो याति||१४||
Adhikarana १२ (१५) · Śloka १५
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण||१५||
(इति भल्लातकतैलम्)|
Show commentary
भल्लातकतैलमिति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः||१५||
Adhikarana १३ (१६) · Śloka १६
भल्लातकसर्पिः , भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं, भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति||१६||
Show commentary
भल्लातकसर्पिरित्यादयो दशप्रयोगाः| अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः| यदुक्तं जतूकर्णे- “भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि” इति| एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन, क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः, गुडलवणयोस्तु संस्कारः संयोगो वा| लवणे संस्कारपक्षे हि लवणसमं भल्लातकमन्तर्धूमदग्धं ग्राह्यम्| अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति| इह सक्तुप्रयोगोऽद्रवोत्तरत्वादिविशेषकर्मणा भेदनीयः||१६||
Adhikarana १४ (१७-२२) · Śloka २२
भवन्ति चात्र- भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च|
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः|
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||
(इति भल्लातकविधिः)|
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||
तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः|
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
Show commentary
अग्निसमानीति दाहस्फोटकर्तृतया| सम्भृत्येति निष्पाद्य||१७-२२||
Adhikarana १५ (२३) · Śloka २३
तत्र श्लोकः- रसायनानां संयोगाः सिद्धा भूतहितैषिणा|
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
Show commentary
पादानुसङ्ग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः; तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः, अपरे तु व्याहृता व्यक्ता एव||२३||
Adhikarana पुष्पिका · Śloka २
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||
Show commentary
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||