Skip to content

४८. विषोपयोगीयः

Adhikarana अथ विषोपयोगीयो नामाष्टचत्वारिंशोध्यायः अध्यायप्रतिज्ञा (१) · Śloka

अथातो विषोपयोगीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वक्रियाभिरसिध्यतो जङ्गमविषस्य प्रसङ्गेनान्येषामपि रोगविशेषाणामसिध्यतां स्थावरविषैकसाध्यत्वात् स्थावरविषस्य जङ्गमविषैकसाध्यत्वाच्च तदुपयोगमधिकृत्याध्याय आरभ्यते||१||

Adhikarana विषे प्रतिविषयोजना (२) · Śloka

विषे प्रतिविषं योज्यं मन्त्रतन्त्रैरसिध्यति| अतीते पञ्चमे वेगे सप्तमस्यानतिक्रमे| प्रभोर्निवेद्य प्रयतो नैव वाख्याय कस्यचित्||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मन्त्रैर्विषहरैस्तन्त्रैश्चौषधादिभिरसिध्यति विषे प्रतिविषं विजातीयं योज्यम्| स्थावरस्य जङ्गमं जङ्गमस्य स्थावरमित्यर्थः| कदेत्याह-पञ्चमं वेगेऽतीते अतिक्रान्ते सप्तमे अनतिक्रान्ते च सति| प्रभो राज्ञो निवेद्य उक्त्वा| यथा-अहमस्य विषेण मुमूर्षोस्तृणीकृतभूरिमन्त्रतन्त्रस्य जीवितनिराशबन्धुवर्गस्य अतिस्तोकमप्यनाशङ्क्यमानप्राणप्रत्यागमनस्य विषेण जीवितं प्रार्थयिष्य इति| एवमयमस्यायुःक्षयेऽपि वराकोऽयशसा न युज्यते| सिद्धे तु सुमहद्यश आसादयति| अथवा नैव कस्यचिदेवमाख्याय यद्ययमस्मै विषं योक्ष्यति तर्ह्यौषधमात्रव्याजेनापि सिद्धौ यश एव असिद्धौ त्वयशसः पूर्वस्मादिव विषात्प्रसङ्गो नेति|| २||

Adhikarana सिद्धमन्त्रत्वमावश्यकम् (३) · Śloka

सिद्धमन्त्रधरः कृत्वा धरणीबन्धमादितः| नहि मन्त्रसहायस्य विषं यात्यविधेयताम्||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सिद्धमन्त्रधरः सन्नादितो धरणीबन्धं प्रदेशरक्षां कृत्वा विषं योजयेत्| धरणीबन्धहेतुर्न हि मन्त्रसहायस्य भिषजो विषमविधेयतां यातीति|| ३||

Adhikarana स्थावरजङ्गमविषगुणविपर्यस्तता (४) · Śloka

श्लेष्मतुल्यगुणं प्रायः स्थिरमूर्ध्वगमं विषम्| प्रायः पित्तगुणैर्युक्तमधोगामि च जङ्गमम्| गुणैरिति विपर्यस्तैर्निहतस्ते परस्परम्| युञ्ज्यान्मूलविषं तस्माद्दष्टानां पानलेपयोः||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्थिरं स्थावरं विषं गुणैः श्लेष्मणस्तुल्यमूर्ध्वगमञ्च| जङ्गमं विषं पित्तेन गुणैस्तुल्यमधोगामि च| प्रायोग्रहणं विषयव्यभिचारसूचनार्थम् इत्यनेन प्रकारेण स्थावरजङ्गमे विषे यतो गुणैर्विपर्यस्तैः परस्परं विपरीते अतस्ते विषं परस्परं निहतः स्थावरेण जङ्गमं हन्यते जङ्गमेन च स्थावरमिति| तस्माद्धेतोर्दष्टानां पाने लेपे च मूलविषं युञ्ज्यात्|| ४||

Adhikarana विषपीते सर्पैः दंशनम् (५) · Śloka

विषपीतं च कुशलो दंशयेत् पवनाशिभिः| न विषप्रतिमं किञ्चिन्निर्विषीकरणं विषे||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कुशलश्च वैद्यः पवनाशिभिः सर्पैर्विषपीतं दंशयेत्| विषेऽन्यतरे देहस्थिते तद्विपरीतं विषप्रतिमं न किञ्चिदन्यन्निर्विषीकरणं विद्यते|| ५||

Adhikarana जङ्गमे मौलविषमात्रा (सर्पविषे) (६) · Śloka

चतुर्भिः षड्भिरष्टाभिर्हीनमध्योत्तमां यवैः| मात्रां विषस्य मौलस्य प्रयुञ्जीत यथायथम्||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यदा च जङ्गमे विषे मौलं विषं प्रयुज्यते तदा यथायथं जङ्गमापेक्षया हीनमध्याधिकां त्रिविधां मात्रां प्रयुञ्जीत| चतुर्भिर्यवैर्हीनमात्रा, षड्भिर्मध्यमा, अष्टाभिरुत्तमा इति सर्पदष्टे|| ६||

Adhikarana कीटवृश्चिकविषयोर्मौलमात्रान्तरम् (७) · Śloka

दष्टस्य द्वौ यवौ कीटैस्तिलमात्रं तु वृश्चिकैः| नैव त्वक्सृक्स्थे||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कीटैर्दष्टे तु द्वौ यवौ मूलविषस्य युञ्ज्यात्| वृश्चिकैर्दष्टे तिलमात्रम्| असृक्स्थिते विषे नैव विषान्तरं युञ्ज्यात्|| ७||

Adhikarana लूताविषे मौलविषं न पेयम् (८) · Śloka

पाने तु लूतादष्टस्य नेष्यते| प्रच्छाय लेपयेद्दंशं तस्य ज्ञात्वा सुनिश्चितम्| सविषे युक्तममृतं विषमेवाऽविषे विषम्| अबले चातिबलवद्व्यापन्नं च प्रयोगतः||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

लूतादष्टस्य पान एव विषं नेष्यते अपितु सुनिश्चितं लूतादंशं ज्ञात्वा प्रच्छाय लेपयेत्| सुनिश्चितत्वज्ञानाय हेतुः सविषे युक्तं विषममृतं भवति निर्विषे तु विषं विषमेवेति| तस्माद्यदि लूतादंशः साविषस्ततो विषलेपः| अन्यहेतुकाश्चेत् स्फोटादयो न विषलेपः कार्यः| यथायथं मात्रामिति यदुक्तं तदेवोपबृह्यते| अबले च विषे अतिबलं विषं विषमेव न त्वौषधम्| प्रयोगवशात्तु व्यापन्नं विषं विषमेव न त्वमृतम्|| ८||

Adhikarana अगदाधिकारः (९) · Śloka

सविषाविषशङ्कायामगदानुपयोजयेत्| अविरुद्धान् प्रयुक्तो हि निर्विषस्यागदोऽगदः| तद्वच्च सविषस्यापि क्रियाकालातिपाततः| जानीयाद्विषसद्भावं भिषक्तस्मात्प्रयत्नतः||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यत्र तु सविषो वा स्यादविषो वेत्याशङ्का तत्राविरुद्धानगदानुपयोजयेत् न तु विषम्| यतो निश्चितं निर्विषस्याऽगदो गदो व्याधिः| तद्वत् सविषस्यापि क्रियाकालातिपाते प्रयुक्त अगदो व्याधिः| तस्मात् भावाभावाभ्यां मात्रादिभिश्च यत्नतो विषसद्भावं जानीयात्|| ९||

Adhikarana प्रयोज्याप्रयोज्यमौलविषनिर्देशः (१०) · Śloka १०

साक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम्| वत्सनाभं च कर्मण्यं विषं स्निग्धं घनं गुरु| न जात्वन्यत्प्रयोक्तव्यं कालकूटं विशेषतः||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

साक्तुकादिकं विषं कर्मण्यं कर्मणि साधु स्निग्धादिगुणञ्च एभ्योन्यन्न जातु प्रयोक्तव्यम्| कालकूटं विशेषतो न प्रयोक्तव्यम्|| १०||

Adhikarana विषेऽवचारिते कृत्यम् (११) · Śloka ११

विषेऽवचारिते तीक्ष्णे पेयं घृतमनन्तरम्| सभार्ङ्गीदधिधूमोत्थशारिवातण्डुलीयकम्| अगारधूममञ्जिष्ठायष्ट्याह्वैर्वा समन्वितम्| लिह्याद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तीक्ष्णे विषेऽवचारिते अनन्तरमव्यवधानेन घृतं पेयम्| किम्भूतं घृतमित्याह-सभाङ्गर्यादिकमथवाऽगारधूमादिभिः समन्वितमथ वा अर्जुनत्वचं चूर्णितां मधुसर्पिर्भ्यां लिह्यात्|| ११||

Adhikarana विषप्रयोगाः (१२) · Śloka १२

क्षीरक्षौद्रघृतैर्युक्तं पीतं हन्ति विषं विषम्| ससिन्दुवारतगरं मृतसञ्जीवनं विषम्| शिरीषकुसुमं वक्रं विषमाखुविषापहम्| देवदारु नतं मांसी द्रामिलीबाकुची विषम्| कुष्ठं च पानलेपाभ्यां समस्तविषनाशनम्| मनश्शिलाञ्जनालैला सिन्दुवारामराह्वयम्| सरक्ता कुङ्कुमविषं ध्मानं निस्संज्ञबोधनम्||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

क्षीरेत्यादिना विषप्रयोगः| विषस्य मात्रा तूक्ता| विषं क्षीरादिभिर्युक्तं पीतं विषं हन्ति| सिन्दुवारतगराभ्यां युक्तं पीतं विषं मृतसञ्जीवनम्| शिरीषपुष्पतगराभ्यां युक्तं पीतं विषमाखु विषापहं भवति| देवदार्व्यादिभिर्युक्तं पीतं विषं समस्तविषाणां नाशनम्| मनश्शिलादिकं नासाध्मानं निस्संज्ञानां बोधनम्| अलं हरितालम्| अमराह्वयं देवदारु| रक्ता मञ्जिष्ठा|| १२||

Adhikarana दाहे लेपयोगः (१३) · Śloka १३

दाहे विषोद्भवे लेपः सक्तुक्षीरघृतैर्हितः||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषोद्भवे दाहे सर्वाङ्गसन्तापे सक्त्वादिभिर्लेपो हितः| सक्तवो यवानाम्|| १३||

Adhikarana सर्पविषप्रयोगः (१४) · Śloka १४

यस्तु संरोषितो भोगी धूमं वक्त्राद्विमुञ्चति| दण्डाग्रे पिशितं बद्ध्वा बहुशस्तेन दंशयेत्| अशक्यमगदैरन्यैर्विषपीतं चिकित्सकः| पाययेन्मांसचूर्णं तं ज्ञात्वा विषबलाबलम्||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

क्रोधयित्वा सर्पमुत्पन्नवक्त्रधूपं च कृत्वा तेन दण्डबद्धं मांसं दंशयेत्| तस्य मांसस्य चुर्णं पाययेद्यो विषपीतस्तमन्यैरगदैरशक्यम्|| १४||

Adhikarana अन्यरोगेषु रसायनेष्वपि च विषप्रयोगनिर्देशः (१५) · Śloka १५

अन्येष्वपि च रोगेषु शेषोपायपरिक्षये| विषं युञ्जीत नित्यं च रसायनगवेषिणः||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

न केवले विष एव विषं योज्यं यावद्विषाच्छेषाणामुपायानां परिक्षये असिद्धावन्येष्वपि रोगेषु विषं योज्यम्| यस्तु रसायनगवेषी रसायनमभिलषति तस्य नित्यं विषं योज्यम्|| १५||

Adhikarana विषप्रयोगार्हः तदर्थमाव श्यकमृत्वादि (१६) · Śloka १६

घृतोपस्कृतदेहस्य विशुद्धस्य हिताशिनः| सात्त्विकस्योदिते भानौ योज्यं शीतवसन्तयोः| ग्रीष्मेऽप्यात्ययिके व्याधौ||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

घृतोपस्कृतादिदेहस्य शीतवसन्तयोर्भानावुदिते सूर्योदये प्रातर्विषं योज्यम्| आत्ययिके तु व्याधौ ग्रीष्मेऽपि योज्यम्|| १६||

Adhikarana विषानर्हाः ऋत्वादि (१७) · Śloka १७

ंअ च वर्षासु दुर्दिने| न क्रोधने न पित्तार्त्ते न क्लीबे राजनि द्विजे| क्षुत्तृष्णाश्रमघर्माध्वव्याध्यन्तरनिपीडिते| गर्भिणीबालवृद्धेषु न रूक्षेषु न मर्मसु||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वर्षासु दुर्दिने च विषं न योज्यम्| क्रोधनादिके च पुरुषे न योज्यम्| तथा क्षुधादिभिर्निपीडते| व्याध्यन्तरं विषविषयादन्यो व्याधिः| सुबोधम्|| १७||

Adhikarana विषप्रयोगे वर्जनीयानि अन्यथा व्यापदश्च (१८) · Śloka १८

अभ्यस्तेऽपि विषे यत्नाद्वर्जनीयान् विवर्जयेत्| कट्वम्लतैललवणदिवास्वप्नातपानलान्| रूक्षमन्नं विशेषेण भयं वाऽजीर्णतः सदाः| दृग्विभ्रमं कर्णरुजामन्यांश्चानिलजान् गदान्| विषं रूक्षाशिनः कुर्यान्मृत्युमेव त्वजीर्णतः||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषे अभ्यस्ते अपि सात्म्यीभूतेऽपि वर्जनीयान् यत्नाद्विवर्जयेत्| विशेषेण तु रूक्षमन्नम्| किं तदित्याह-कट्वम्लेत्यादि| अजीर्णतो विशेषेण भयं गृहीतव्यम्| रूक्षाशिनो नरस्य विषं दृग्विभ्रमादीन् कुर्यात्| अजीर्णात्तु मृत्युमेव|| १८||

Adhikarana हरितालप्रयोगः (१९) · Śloka १९

अलं गोमूत्रसंयुक्तमातपे शोषयेत्त्र्यहम्| विषं बृंहणमेतद्धि विषस्यादौ प्रशस्यते| तत्पिबेन्मस्तुना वातज्वरे क्षीरेण पैत्तिके| युक्तं मूत्रेण कफजे सर्वजे त्रिफलाम्भसा||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

हरितालस्य भावनाप्रयोगश्च सुबोधः| तदिति भावितं हरितालम्| सर्वजे सन्निपातजे|| १९||

Adhikarana विषमज्वरे सविषयोगाः (२०) · Śloka २०

लोध्रचन्दनषड्ग्रन्थाशर्कराघृतमाक्षिकैः| क्षीरेण च विषं युक्तं जीर्णज्वरहरं परम्| निकुम्भकुम्भत्रिफलासर्पिर्मधुविषैः कृतः| निहन्ति मोदको जीर्णज्वरमेहत्वगामयान्| शिखिकर्किरसोपेतं विषमज्वरजिद्विषम्||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

लोध्रादिभिर्युक्तं विषं परं जीर्णज्वरहरम्| निकुम्भादिभिः कृतो मोदको जीर्णज्वरादिकं हन्ति| शिखिकर्किरसयुक्तं विषं विषमज्वरं जयति| शिखी चित्रकः| कर्की कर्कटशृङ्गी|| २०||

Adhikarana रक्तपित्ते सविषयोगः (२१) · Śloka २१

विषं यष्ट्याह्वयं रास्ना सेव्यमुत्पलकन्दकम्| तण्डुलोदकपीतानि रक्तपित्तस्य भेषजम्||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषादिकं तण्डुलोदकेन पीतं रक्तपित्तस्य भेषजं भवति||२१||

Adhikarana दुष्टव्रणे विषयोगः (२२) · Śloka २२

विषं रसाञ्जनं भार्ङ्गी वृश्चिकाली महासहा| सवेदने सपाके च व्रणे दुष्टे प्रलेपनम्||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषादिकं वेदनादियुक्ते दुष्टव्रणे लेपनं योज्यम्|| २२||

Adhikarana छर्द्यां विषयोगः (२३) · Śloka २३

सिताविषक्षीरतरुप्रवाला मधुना द्रुताः| श्वासहिध्मापहा लीढाश्छर्दिघ्न्यस्तु विषान्विताः| क्षौद्रोशीरमधुक्षाररजनीकुटजत्वचः||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सितादिकं मधुना लीढं श्वासहिध्माहरम्| विषान्वितं क्षौद्रादिकं लीढं छर्दिघ्नम्| मधु यष्टीमधु|| २३||

Adhikarana दुर्नामादौ विषयोगः (२४) · Śloka २४

विजयापिप्पलीमूलपिप्पलीद्वयचित्रकैः| पुष्कराह्वशठीद्राक्षायवानीक्षारदीप्यकैः| सितायष्टीद्विबृहतीसैन्धवैः पालिकैः पचेत्| सविषार्द्धपलैः प्रस्थं घृतात्तज्जीर्णभुक्पिबेत्| दुर्नामे हतुगुल्मार्मतिमिरक्रिमिपाण्डुताः| गलग्रहग्रहोन्मादकुष्ठानि च नियच्छति||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विजयादिभिः पालिकैर्विषार्द्धपलयुक्तैर्घृतप्रस्थं पचेत्| तद्घृतं जीर्णभुक्पिबेत् (जीर्णं शीर्णशाल्यन्नम्)| तच्च दुर्नामादीनि नियच्छति नाशयति|| २४||

Adhikarana उदावर्तादौ विषयोगः (२५) · Śloka २५

कृच्छ्रघ्नाविषपथ्याग्निदन्तीद्राक्षानिशाविषाः| शिलाजतु विषं मूत्रमुदावर्ताश्मरीहरम्||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषादीन्यतिविषान्तानि मूत्रकृच्छ्रघ्नानि| मूत्रशिलाजतुभ्यां युक्तं विषमुदावर्ताश्मरीहरम्|| २५||

Adhikarana अश्मर्यां विषयोगः (२६) · Śloka २६

गोमूत्रक्षारसिन्धूत्थं विषं पाषाणभेदकम्| वज्रवद्दारयत्येतदेकतः पीतमश्मरीम्||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

गोमूत्रादिकमेकतः पीतं वज्रवदश्मरीं दारयति| 'गोमूत्रक्षीरसिन्धूत्थमि' ति च पाठः|| २६||

Adhikarana शूले विषयोगः (२७) · Śloka २७

समूला पिप्पली मूत्रं विषं शूलहरं तथा| विषद्रवन्तीमधुकद्राक्षारास्नाशठीकणाः||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

समूला मूलयुक्ता पिप्पली| पिप्पलीमूलं मूत्रं विषं चेति शूलहरम्| तथैव विषद्रवन्त्यादिकम्|| २७||

Adhikarana वृद्धौ विषयोगः (२८) · Śloka २८

एरण्डतैलं त्रिफला गोमूत्रं चित्रको विषम्| सर्पिषा सहितं पीतं वाताण्डत्वमपोहति||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एरण्डतैलादिकं सर्पिषा सहितं पीतं वाताण्डत्वं वातवृद्धिमपोहति नाशयति|| २८||

Adhikarana गुल्मादौ विषयोगः (२९) · Śloka २९

त्रिफलास्वर्जिकाक्षारो विषं गुल्मप्रभेदनम्| विषवेल्लमिसिक्षीरं गुल्मप्लीहनिबर्हणम्||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रिफलादिकं गुल्मस्य प्रभेदनं विदारणं भवति| विषादिकं गुल्मप्लीह्नोर्निबर्हणं नाशनम्| प्लीहा प्लीहोदरम्|| २९||

Adhikarana प्लीहोदरे विषयोगः (३०) · Śloka ३०

प्लीहोदरघ्नं पयसा शताह्वा क्रिमिजिद्विषम्||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पयसा क्षीरेण युक्तं शताह्वादिकं प्लीहोदरघ्नं भवति| क्रिमिजिद्विडङ्गम्|| ३०||

Adhikarana कुष्ठे विषयोगः (३१) · Śloka ३१

वायसीमूलनिष्क्वाथपीतं कुष्ठहरं विषम्||३१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायस्याः काकोदुम्बरिकायाः मूलानां क्वाथेन पीतं विषं कुष्ठहरम्|| ३१||

Adhikarana कुष्ठे विषयोगान्तरम् (३२) · Śloka ३२

वायस्या राजवृक्षत्वक्त्रायन्ती बाकुचीफलात्| प्लीहघ्नेभकणाभ्याञ्च विषं क्वाथेन कुष्ठजित्| अवल्गुजैडगजयोर्बीजं क्षारद्वयं विषम्| लेपः ससैन्धवः पिष्टो वारिणा कुष्ठनाशनः| चित्रकार्कजटाहस्तिपिप्पलीबाकुचीविषैः| गोमूत्रपिष्टैरन्योऽन्योमनोह्वास्नुक्पयोविषैः| सचन्द्रलेखैडगजकरञ्जफलसैन्धवः| सव्योषस्वर्जिकाक्षारयवक्षारनिशाद्वयैः| अगारधूमसहितैर्बस्तमूत्रेण कल्कितः||३२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायस्यादीनां क्वाथेन पीतं विषं कुष्ठजित्| प्लीहघ्नो रोहिषः| इभकणा हस्तिपिप्पली| अवल्गुजबीजादीनि वारिणा पिष्टानि तैः सैन्धवयुक्तो लेपः कुष्ठनाशनः स्यात्| अवल्गुजः सोमराजी| एडगजः प्रपुन्नाटः| अन्यो लेपश्चित्रकादिभिर्गोमूत्रपिष्टैर्भवति| चित्रकार्कयोर्मूलम्| अन्यो लेपो मनोह्वादिभिरगारधूमान्तैर्बस्तस्यावेर्मूत्रेण कल्कितैर्भवति| मनोह्वा मनश्शिला| स्नुक्पयः सुधाक्षीरम्| चन्द्रलेखासोमराजी|| ३२||

Adhikarana विचर्चिकादौ विषयोगः (३३) · Śloka ३३

भल्लातकाग्निशम्याकविषैर्गोमूत्रपेषितैः| लेपो विचर्चिकादद्रुशतारुःकिटिभापहः| शम्याकपत्रत्वङ्मूलं विषं तक्रं च तद्गुणम्||३३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

भल्लातकादिभिर्गोमूत्रपेषितैर्लेपो विचर्चिकाद्यापहः| भल्लातकोऽरुष्करः| अग्निश्चित्रकः| शम्याकस्यारग्वधस्य पत्रादिकं तक्रपेषितं तद्गुणं भल्लातकादिगुणं विचर्चिकादिघ्नमित्यर्थः||३३||

Adhikarana श्वित्रादौ विषयोगः (३४) · Śloka ३४

विषभल्लातकद्वीपि गुञ्जानिम्बफलैर्जयेत्| लेपोऽम्लपिष्टैः श्वित्राणि पुण्डरीकञ्च दारुणम्| वक्रकुष्ठरसद्वीपिस्पृक्कापत्रैलवालुकम्| पिष्टं खदिरतोयेन त्रिरात्रमुषितं पिबेत्| श्वित्री विषेण संसृष्टं ततः स्फोटान् किलासजान्| कण्टकेन विभिद्यानुलेपैर्लिम्पेत कौष्ठिकैः| अथवा करवीरार्कमूलबाकुचिकाविषैः| बस्ताम्बुपिष्टैः सद्वीपिद्विपपिप्पल्यरुष्करैः||३४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषादिभिरम्लैः काञ्जिकादिभिः पिष्टैर्लेपः श्वित्राणि जयेत्| दारुणं पुण्डरीकाख्यं कुष्ठञ्च| द्वीपिश्चित्रकः| गुञ्जानिम्बयोः फलम्| वक्रादिकं खदिरतोयेन पिष्टं त्रिरात्रमुषितं विषेण संसृष्टं कृत्वा श्वित्री पिबेत्| रसः सर्जरसः बोलश्च| ततस्तेन किलासे ये स्फोटा जायन्ते तान् कण्टकेन विभिद्यानु पश्चात् कुष्ठोक्तैर्लेपैर्लिम्पेत्| अथवा स्फोटेषु भिन्नेषु करवीरादिभिररुष्करान्तैर्बस्तमूत्रेण पिष्टैर्लिम्पेत्| द्विपपिप्पली हस्तिपिप्पली|| ३४||

Adhikarana सवर्णीकरणम् (३५) · Śloka ३५

लाक्षासुराह्वामञ्जिष्ठाकुष्ठपद्मकशारिवाः| गुञ्जाफलं कुरवको लाङ्गली वज्रकन्दकः| वाराहीकन्दकास्फोता सप्ताह्वगिरिकर्णिकाः| अर्काश्वमारयोर्मूलं नागपुष्पं नतं निशे| दन्ती विषं सातिविषं पिप्पली मरिचानि च| तैस्तैलं कटुतैलं वा श्वित्रस्याभ्यञ्जनं पचेत्| सवर्णीकरणं श्रेष्ठमास्तिकस्य वचो यथा||३५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

लाक्षादिभिर्मरिचान्तैस्तैलं कटुतैलं वा श्वित्रस्याभ्यञ्जनं पचेत्| एतच्छ्रेष्ठं सवर्णीकरणम्| सुबोधम्|| ३५||

Adhikarana गर्भपातने प्रलेपः (३६) · Śloka ३६

वीरालाङ्गलिकीदन्तीविषपाषाणभेदकैः| प्रयोज्यो मूढगर्भाणां प्रलेपो गर्भमोचनः||३६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वीरादिभिः प्रलेपो मूढगर्भाणां गर्भपातनः प्रयोज्यः|| ३६||

Adhikarana वन्ध्यत्वहरणयोगः (३७) · Śloka ३७

स्वरसं बीजपूरस्य वचां ब्राह्मीरसं घृतम्| वन्ध्या पिबन्ती सविषं सुपुत्रैः परिवार्यते||३७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बीजपूरस्वरसादिकं सविषं विषसहितं पिबन्ती वन्ध्या स्त्री सुपुत्रैः परिवार्यते|| ३७||

Adhikarana नष्टशुक्रयोगः (३८) · Śloka ३८

नष्टशुक्रः पयोद्राक्षाकपिकच्छुवचाविषम्||३८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्तु नष्टशुक्रः स द्राक्षादियुक्तं पय उपयुञ्जीतेत्यर्थः|| ३८||

Adhikarana नेत्ररोगेषु विषोपयोगः (३९) · Śloka ३९

विषं सर्पिः सिताक्षौद्रं तिमिरापहमञ्जनम्| विषं चैकमजाक्षीरकल्कितं घृतधूपितम्| विषं धात्रीफलरसैरसकृत् परिभावितम्| अञ्जनं शङ्खसहितं प्रगाढतिमिरप्रणुत्| विषमिन्द्रायुधं स्तन्ये घृष्टं काचजिदञ्जनम्| बीजपूररसे घृष्टं विषं तद्वत्सितायुतम्| विषं मागधिका द्वे च निशे काचघ्नमञ्जनम्| शुक्लार्मजिद्विषं कृष्णायुक्तं गोमूत्रभावितम्| समुद्रफेनस्फटिककुरुविन्दसुधाञ्जनम्| कूर्मपृष्ठञ्च तुल्यानि तेभ्योऽर्द्धांशा मनश्शिला| अर्द्धहीनानि मरिचसैन्धवायोरजांसि च| अतो यथोत्तरं दद्यादयसा च समं विषम्| रसक्रियेयं मधुना शुक्लपिल्लार्मकाचहृत्| अभीक्ष्णं शीततोयेन सिञ्चेन्नेत्रे विषाञ्जिते| रसोनकन्दमरिचविषसर्षपसैन्धवैः| पिल्लेऽक्षि लिखितं पूर्वं सुरसारसपेषितः| पूरयेत् सर्पिषा चानु सर्पिरेव च पाययेत्| मधूकसारमधुकविषक्षीरजलैर्घृतम्| पक्वं सन्तर्पणं श्रेष्ठं रात्र्यन्धत्वे चिरोत्थिते||३९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषादिकं तिमिरापहमञ्जनम्| एकं केवलं विषमजाक्षीरकल्कितं घृतधूपितं च शब्दादञ्जनम्| आमलकरसेनासकृदनेकवारं भावितं विषं शङ्खेन युक्तमञ्जनं प्रगाढं घनं तिमिरं प्रणुदति| इन्द्रायुधनामकं विषं स्तन्ये घृष्टमञ्जनं काचजिद् भवति| बीजपूररसे घृष्टं विषं सशर्करं तद्वदिति काचजिदञ्जनम्| तथैव मागधिकादिभिर्युक्तं विषमञ्जनम्| पिप्पलीयुक्तं विषं गोमूत्रभावितं शुक्लजिदर्मजिच्चाञ्जनम्| समुद्रफेनादीनि कूर्मपृष्ठान्तानि परस्परतुल्यानि| तेभ्य एकीकृतेभ्योऽर्द्धांशा मनश्शिला| मरिचादीनि यथोत्तरमर्द्धहीनानि| तेन मनश्शिलाया अर्द्धेन हीनं मरिचम्| तस्यार्द्धेन हीनं सैन्धवम्| तस्यार्द्धेनाऽयोरजः| अयोरजसा समं विषम्| मधुना माक्षिकेण कृतेयं रसक्रिया शुक्रादिहृत्| कुरुविन्दो मुस्तः| विषप्रयोगादञ्जिते शीततोयेनाभीक्ष्णं सिञ्चेत्| पिल्लेऽक्षि लिखित्वा लशुनकन्दादिभिः सुरसारसपेषितैः पूर्वं पूरयेत्| पश्चाच्च सर्पिषा पूरयेत्| सर्पिरेव पाययेच्च| सुरसा मूर्वा| मधूकसारादिभिर्घृतं पक्वं चिरोत्थिते रात्र्यन्धत्वे श्रेष्ठं सन्तर्पणम्|| ३९||

Adhikarana शिरोरुजि सविषयोगः (४०) · Śloka ४०

नस्यं शिरोरुक्शमनं प्रत्यक्पुष्पी सिता विषम्| अथवा घृतयष्ट्याह्वशर्कराविषसंयुताः||४०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रत्यक्पुष्प्यादिकं नस्यं शिरुरुजां शमनं नाशनम्| अथवा घृतादिकं विषसंयुतं नस्यं शिरोरुक्शमनम्| प्रत्यक्पुष्प्यपामार्गः||४०||

Adhikarana पूतिनासायां योगः (४१) · Śloka ४१

शुण्ठी पथ्या विषं पाठा द्रवन्ती पूतिनासजित्||४१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शुण्ठ्यादिकं नस्यं पूतिनासजित्|| ४१||

Adhikarana पलितादौ विषयोगः (४२) · Śloka ४२

कटुतैलं विषं नस्यं पलितारूंषिकापहम्||४२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कटुतैलादि सुबोधम्|| ४२||

Adhikarana कर्णशूले विषयोगः (४३) · Śloka ४३

स्वर्जिकाक्षारसिन्धूत्थशुक्तयुक्तं विषं परम्| कर्णयोः पूरणं तीव्रकर्णशूलनिबर्हणम्||४३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्वर्जिकाक्षारादिकं कर्णपूरणं परं तीव्रकर्णशूलनिबर्हणम्||४३||

Adhikarana मुखामयेषु विषयोगः (४४) · Śloka ४४

प्रपौण्डरीकमञ्जिष्ठाविषसिन्धुसमुद्भवैः| निहन्ति साधितं तैलं गण्डूषेण मुखामयान्||४४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रप्रौण्डरीकादिभिः साधितं तैलं गण्डूषेण मुखामयान् निहन्ति| सिन्धुसमुद्भवं सैन्धवम्||४४||

Adhikarana स्खलद्वाचि विषयोगः (४५) · Śloka ४५

देवदारुविषं सर्पिर्गोमूत्रं कण्टकारिका| वाचः स्खलनतां हन्ति पीतमित्याह काश्यपः||४५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

देवदार्वादिकं पीतं वाचः स्खलनतां स्खलनं हन्तीति काश्यप आह|| ४५||

Adhikarana विषप्रयोगलाभाः (४६-४८) · Śloka ४८

शत्रुप्रयुक्ता द्विषतो गराद्वा लूताभुजङ्गाखुगणाजरायाः| अकालमृत्योर्ग्रहपाप्मतो वा विषाशिनो नास्ति भयं नरस्य||४६|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे विषोप योगीयो नामाष्टचत्वारिंशोऽध्यायः||४८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषप्रयोगगस्य प्रयोजनमुच्यते-विषाशिनो नरस्य शत्रुणा प्रयुक्ताद्विषात् गराच्च लूतादितश्च भयं नास्तीति|| ४६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह व्याख्यायां शशिलेखायामुत्तरतन्त्रे अष्टचत्वारिंशोऽध्यायः