Adhikarana अथ विविधद्रव्यगणसंग्रहो नाम षोडशोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातो विविधद्रव्यगणसंग्रहमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पूर्वस्मिन्नध्याये असाधारणत्वेनोक्त्वाऽस्मिन् साधारणत्वेन गणा निर्दिश्यन्ते||१||
Adhikarana विदार्यादिगणः तद्गुणाश्च (२) · Śloka २
विदारिपञ्चाङ्गुलवृश्चिकालीवृश्चलीवदेवाह्वयशूर्पपर्ण्यः|
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी|
विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा|
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विदार्यादिगणो हृद्यत्वादिगुणयुक्तः||२||
Adhikarana सारिवादिगणः तद्गुणाश्च (३) · Śloka ३
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्|
यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सारिवादिर्दाहादिनाशनः||३||
Adhikarana पद्मकादिगणः तद्गुणाश्च (४) · Śloka ४
पद्मकपुण्ड्रौ वृद्धितुगर्घ्यः शृङ्ग्यमृता दश जीवनसंज्ञाः|
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पद्मकादिस्तन्यकर्तृत्वादियुक्तः||४||
Adhikarana परूषकादिगणः तद्गुणाश्च (५) · Śloka ५
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्|
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
परूषकादिस्तृडादिनाशनः||५||
Adhikarana अञ्जनादिगणः तद्गुणाश्च (६) · Śloka ६
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्|
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अञ्जनादिर्विषादिनाशनः||६||
Adhikarana पटोलादिगणः तद्गुणाश्च (७) · Śloka २
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्|
निहन्ति कफपित्तकुष्ठज्वरानिवषं वमिमरोचकङ्कामलाम्||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पटोलादिः कफादिनाशनः||७||
Adhikarana गुडूच्यादिगणः तद्गुणाश्च (८) · Śloka ८
गुडूचीपद्मकारिष्टधानकारक्तचन्दनम्|
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गुडूच्यादिः पित्तश्लेष्मादिनाशनः||८||
Adhikarana आरग्वधादिगणः तद्गुणाश्च (९) · Śloka ९
आरग्वधेन्द्रयवपाटलिकाकतिक्ता निम्बामृतामधुरसास्रुववृक्षपाठाः|
भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः|
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्|
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
आरग्वधादिः छर्द्यादिनाशनो दुष्टव्रणविशोघ्नश्च||९||
Adhikarana असनादिगणः तद्गुणाश्च (१०) · Śloka १०
असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः|
त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः|
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्|
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
असनादिः श्वित्रादिनाशनः||१०||
Adhikarana वरणादिगणः तद्गुणाश्च (११) · Śloka ११
वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः|
द्विबृहतीद्विकरञ्जजयाद्वयम्बहलपल्लवदर्भरुजाकराः|
वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति|
आढ्यवातं शिरश्शूलं गुल्मञ्चान्तः सविद्रधिम्||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वरणादिः कफादिकं नाशयति| आढ्यवातं मेदसा रुद्धमार्गं वातं वातव्याधौ वक्ष्यते| अन्तर्गुल्ममन्तर्विद्रधिं च नाशयति|
Adhikarana ऊषकादिगणः तद्गुणाश्च (१२) · Śloka १२
ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्|
सशिलाजतुकृच्छ्राश्मगुल्ममेदःकफापहम्||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊषकादिर्मूत्रकृच्छ्रादिनाशनः||१२||
Adhikarana वीरतरादिगणः तद्गुणाश्च (१३) · Śloka १३
भवन्ति चात्र- वीरतरारणिकौ नलगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम्|
मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च|
वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्|
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भवन्ति चात्रेति पद्यबन्धसमुच्चये तन्त्ररीतिः| वीरतरादिर्वातव्याधीनामन्यदोषाधिकानामश्मर्यादीनां च नाशनः||१३||
Adhikarana लोध्रादिगणः तद्गुणाश्च (१४) · Śloka १४
लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः|
कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः|
एष लोध्रादिको नाम मेदः कफहरो गणः|
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
लोध्रादिर्मेदोनाशनत्वादियुक्तः||१४||
Adhikarana अर्कादिगणः तद्गुणाश्च (१५) · Śloka १५
अर्कालर्कौ नागदन्ती विशल्या भाङ्गी रास्ना वृश्चिकाली प्रकीर्या|
प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः|
अयमर्कादिको वर्गः कफमेदोविषापहः|
कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अर्कादिः कफादिनाशनो व्रणशोधनश्च||१५||
Adhikarana सुरसादिगणः तद्गुणाश्च (१६) · Śloka १६
सुरसयुगफणिज्जं कालमालाविडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः|
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणी भूतकेशी|
सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः|
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सुरसादिः श्लेष्मप्रतिश्यायादिनाशनो व्रणशोधनश्च||१६||
Adhikarana मुष्ककादिगणः तद्गुणाश्च (१७) · Śloka १७
मुस्ककस्नुग्वराद्वीपीपलाशधवशिंशिपाः|
गुल्ममेहाश्मरीपाण्डुमेदोऽर्शः कफशुक्रजित्||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मुष्ककादिर्गुल्मादिनाशनः||१७||
Adhikarana वत्सकादिगणः तद्गुणाश्च (१८) · Śloka १८
वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः|
रोहिणीस्थपनिहिङ्गुभार्ङ्गयः शूलघाति दशकं घुणप्रिया वत्सकाद्योऽनिलश्लेष्ममेदोऽरोचकपीनसान्|
शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वत्सकादीनि शूलघ्नदशकं च दीप्यकादिः सपञ्चकोलो महाकषायः एतत्सर्वमनिलादिनाशनम्||१८||
Adhikarana वचाहरिद्रादिगणौ तद्गुणाश्च (१९) · Śloka १९
वचाजलददेवाह्वनागरातिविषाभयाः|
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः|
वचाहरिद्रादिगणावामातीसारनाशनौ|
मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वचादिरामातीसारपाचनत्वादियुक्तः तद्वद् हरिद्रादिः||१९||
Adhikarana प्रियङ्ग्वम्बष्ठादिगणौ तद्गुणाश्च (२०) · Śloka २०
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता|
सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः|
अम्बष्ठामधुकं नमस्करीनन्दीवृक्षपलाशकच्छुराः|
लोध्रं धातकिबिल्वपेशिका कट्वङ्गः कमलोद्भवं रजः|
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ|
सन्धनीयौ हितौ पित्ते व्रणानामपि रोपणौ||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
प्रियङ्ग्वादिः पक्वातीसारनाशनत्वादियुक्तः| तद्वदम्बष्ठादिः||२०||
Adhikarana मुस्तादिगणः तद्गुणाश्च (२१) · Śloka २१
मुस्तावचाग्निद्विनिशा द्वितिक्ता भल्लातपाठात्रिफलाविषाख्याः|
कुष्ठं त्रुटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मुस्तादिर्बालानां स्तन्यदोषनाशनो मलपाचनश्च||२१||
Adhikarana न्यग्रोधादिगणः तद्गुणाश्च (२२) · Śloka २२
न्यग्रोधपिप्पलसदाफललोध्रयुग्म- जम्बूद्वयार्जुनकपीतनसोमवल्काः|
प्लक्षाम्रवञ्जुलप्रियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्|
न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधनः|
मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
न्यग्रोधादिर्व्रण्यत्वादिगुणयुक्तः||२२||
Adhikarana एलादिगणः तद्गुणाश्च (२३) · Śloka २३
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामक- स्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः|
शुक्तिव्याघ्रनखौसुराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्|
एलादिको वातकफौ विषञ्च विनियच्छति|
वर्णप्रसादनः कण्डूपिटकाकोठनाशनः||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एलादिर्वातश्लेष्मघ्नत्वादियुक्तः||२३||
Adhikarana श्यामादिगणः तद्गुणाश्च (२४) · Śloka २४
श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्ण- क्षीरीगवाक्षीशिखरिरजनिकाछिन्नरोहाकरञ्जः|
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
श्यामादिर्गुल्मादिनाशनः||२४||
Adhikarana पिप्पल्यादिगणः तद्गुणाश्च (२५) · Śloka २५
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पली- हरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गु- हिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति|
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः|
निहन्याद् दीपनो गुल्मशूलघ्नश्चामपाचनः||२५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पिप्पल्यादि सुबोधम्||२५||
Adhikarana योगिकारयौगिकद्रव्ययोर्योगस्त्यागश्च विधेयः (२६) · Śloka २६
पञ्चविंशतिरित्युक्ता वर्गास्तेषु त्वलाभतः|
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||२६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इति पञ्चविंशतिर्वर्गा उक्ताः| तेषु च दोषरोगातुरविकल्पादयौगिकमयोगार्हमौषधं जह्यात् त्यजेत्| अन्यच्च यौगिकं यथालाभं युञ्ज्यादिति||२६||
Adhikarana उक्तवर्गाणामुपयोगविधिनिर्देशः (२७-२८) · Śloka २८
एते वर्गा दोषदूष्यादपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः|
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||२७||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने विविधद्रव्यगणसङ्ग्रहो नाम षोडशोऽध्यायः||२८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एते वर्गा दोषदूष्यादीन् विकल्प्य कल्कादिभिः प्रयोगैः प्रयुक्ताः यथोक्तान् सुकृच्छ्रान् रोगान् घ्नन्ति||२७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने षोडशोऽध्यायः