Adhikarana अथ मर्मविभागो नाम सप्तमोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातो मर्मविभागं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पूर्वमेवाध्यायारम्भप्रयोजनमुक्तम्|| १||
Adhikarana मर्मणां सङ्ख्या (२) · Śloka २
सप्तोत्तरं मर्मशतम्||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वस्मिञ्छरीरे सप्तोत्तरं मर्मणां शतम्|| २||
Adhikarana मर्मणां स्थानानि (३) · Śloka ३
तत्र चतुश्चत्वारिंशच्छाखासु|
षड्विंशतिरन्तराधौ|
सप्तत्रिंशदूर्ध्वम्||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र शाखाचतुष्टये प्रत्येकं शाखायामेकादश मर्माणि आगुदादाऽचाक्षकसन्धेः षड्विंशतिः| ग्रीवादौ सप्तत्रिंशत्| एकस्मिन् सक्थ्नि एकादशानां मर्मणां विभागाः प्रदर्श्यन्ते| एतेन शाखात्रये तथैवानुमन्तव्यम्|| ३||
Adhikarana तलहृदयं नाममर्म तत्र विद्धे व्याघातः (४) · Śloka ४
अथैकैकस्मिन् सक्थ्नि मध्यमाङ्गुलिमभितो मध्ये पाद- तलस्य तलहृदयं नाम मर्म|
तत्र विद्धस्य रुजया मर णम्||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पादतलमध्ये मध्यमाङ्गुल्यभिमुखेन तलहृदयं नाम मर्म| तत्र विद्धस्य रुजया मरणम्|| ४||
Adhikarana क्षिप्रमर्म, तत्र विद्धे मरणम् (५) · Śloka ५
अङ्गुष्ठाङुल्योर्मध्ये क्षिप्रं तत्राऽऽक्षेपकेन मरणम्||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
क्षिप्रे विद्धस्याक्षेपेण मरणम्| आक्षेपो वातव्याधिषु वक्ष्यमाणलक्षणः|| ५||
Adhikarana कूर्चमर्म, तत्र विद्धे व्यापच्च (६) · Śloka ६
क्षिप्रस्योपरि द्व्यङ्गुल उभयतः कूर्चः|
तत्र पादस्य भ्रमणवेपने भवतः||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कूर्चः क्षिप्रस्योपरि द्व्यङ्गुले| उभयत इति पादपृष्ठात् पादतलं यावत्| तत्र कूर्चे विद्धस्य पादभ्रमणवेपने भवतः| वेपनं कम्पनाम्|| ६||
Adhikarana कूर्चशिरोमर्म, तत्र विद्धे व्यापच्च (७) · Śloka ७
गुल्फसन्धेरधः कूर्चशिरः|
तत्र रुजाशोपौ||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गुल्फसन्धेरधः कूर्चशिरो नाम मर्म| तत्र रुजाशोफौ भवतः तत्रेत्यत्र विद्धस्येत्यनुवर्त्तते|| ७||
Adhikarana गुल्फमर्म, तत्र विद्धे व्यापच्च (८) · Śloka ८
पादजङ्घयोः सन्धाने गुल्फः|
तत्र रुक् स्तब्धसक्थिता षण्ढता वा||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पादस्य जङ्घायाश्च सन्धाने स्थितो गुल्फः रुगादिकरः षण्ढगा अयोषिद्योग्यत्वम्|| ८||
Adhikarana इन्द्रबस्तिमर्म, तत्र विद्धे व्यापच्च (९) · Śloka ९
पार्ष्णिप्रभृति द्वादशभिरङ्गुलैर्जङ्घामध्ये इन्द्रबस्तिः|
तत्र शोणितक्षयान्मरणम्||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जङ्घामध्ये तु इन्द्रबस्तिः| तत्र रक्तक्षयान्मरणं भवति|| ९||
Adhikarana जानुमर्म, तत्र विद्धे व्यापच्च (१०) · Śloka १०
जङ्गोर्वोः सन्धाने जानुः|
तत्र खञ्जत||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जङ्घोर्वोः सङ्गमे स्थितं जानुः| तत्र खञ्जता भवति| खञ्जो विकृतपादः|| १०||
Adhikarana आणिमर्म, तत्र विद्धे व्यापच्च (११) · Śloka ११
जानुनस्त्र्यङ्गुलादूर्ध्वमुभयत आणिः|
तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
आणिः अप्युभयतः ऊरौ जानुनस्त्र्यङ्गुलादूर्ध्वं द्वौ दिशौ व्याप्यवर्त्तत इत्यर्थः| रुगादिकरः|| ११||
Adhikarana ऊर्वी मर्म, तत्र विद्धे व्यापच्च (१२) · Śloka १२
ऊरुमध्ये ऊर्वी|
तत्र रक्तक्षयात्सक्थिशोषः||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊरुमध्ये स्थिता ऊर्वी| तद्वेधाद्रक्तक्षयात् सक्थिशोषः|| १२||
Adhikarana लोहिताक्षमर्म तत्र विद्धे व्यापच्च (१३) · Śloka १३
ऊर्व्यास्तूर्ध्वमधो वंक्षणसन्धेरूरुमूले लोहिताक्षम्|
तत्र रक्तक्षयात् पक्षाघातः||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊरोर्मूले वंक्षणसन्धेरधस्तात् लोहिताक्षम्| तत्र रक्तक्षयात् पक्षाघातो भवति|| १३||
Adhikarana विटपमर्म, तत्र विद्धे व्यापच्च (१४) · Śloka १४
वंक्षणवृषणयोर्मध्ये विटपम्|
तत्र षाण्ढ्यमल्पशुक्रता वा||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वंक्षणवृषाणायोर्मध्ये विटपं नाम| तत्र षण्ढता अथवा अल्पशुक्रता भवति|| १४||
Adhikarana बाहुमर्माणि, तत्र विद्धे व्यापच्च (१५) · Śloka १५
सक्थिवद् बाह्वोः||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इति तलहृदयक्षिप्रकुर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्युर्वीलोहिताक्षविटपान्येकादशैकस्यां शाखायां मर्माणि तद्वदेव शाखात्रयेऽपि विज्ञेयम्|| १५||
Adhikarana बाहुमर्मणि विशेषः (१६) · Śloka १६
विशेषस्तु-गुल्फो मणिबन्धस्तथा जानुकूर्परम्|
तयोर्व्यधे कुणिता||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
केवलं बाह्वोः केषाञ्चिन्नाम्नि विशेषः, तदेवोच्यते| यथा जङ्घाचरणयोः सन्धौ गुल्फः| तथा करप्रपाण्योर्मणिबन्धः| यथा जङ्घोर्वोः सङ्गमे जानु तथा प्रपाणिप्रबाहुमध्ये कूर्परः| जानुनि विद्धे यथा खञ्जता| कूर्परे विद्धे तथा कुणिता| कुणिर्विकृतकरः|| १६||
Adhikarana कक्षारधरमर्म, तत्र विद्धे व्यापच्च (१७) · Śloka १७
विटपवच्च कक्षाक्षमध्ये कक्षाधरः|
तत्र कुणित्वम्||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यथा वंक्षणवृषणयोर्मध्ये विटपं तथा कक्षाक्षमध्ये कक्षाधरः| तस्मिन् विद्धे कुणित्वम्|| १७||
Adhikarana अन्तराधिमर्माणि गुदमर्म, तत्र विद्धे सद्योमरणम् (१८) · Śloka १८
वातवर्चोनिरसनः स्थूलान्त्रविबद्धो गुदः|
तत्र सद्यो मरणम्||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गुदः स्थूलान्त्रे प्रतिबद्धो वातादिनिरसनकर्मा| तस्मिन् विद्धे सद्यो मरणम्|| १८||
Adhikarana बस्तिमर्म, तत्र विद्धे व्यापच्च (१९) · Śloka १९
अल्पमांसशोणितोऽभ्यन्तरतः कट्या धनुर्वक्र एकद्वारोऽधोमुखी बस्तिः|
तत्रापि सद्यो मरणमश्मरीव्रणा- दृते|
तत्राप्युभयतो विद्धे न जीवति|
एकतो भिन्ने मूत्रस्रावीव्रणो भवति|
स तु यत्नेनोपक्रान्तो रोहति||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
बस्तिरल्पमांसशोणितः कट्या मध्ये पृष्ठतो वक्रो धनुर्वत्| एकतो द्वारो मुखं स चास्यैकः अधोमुखश्च| तत्रापि बस्तौ विद्धे मरणं भवत्यश्मरी व्रणादृते| तत्राप्यमश्मरीव्रणे द्वाभ्यां मार्गाभ्यां विद्धे बस्ती मरणमेव| अश्मरीव्रणेऽप्येकतो विद्धे बस्तौ मूत्रस्रावी व्रणो भवति| सुबोधम्|| १९||
Adhikarana नाभिमर्म, तत्र विद्धे व्यापच्च (२०) · Śloka २०
पक्वामाशयमध्ये नाभिः तत्रापि सद्योमरणम्||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
न केवलं बस्तिरेव विद्धः सद्योघ्नो यावन्नाभिरपीत्यपिशब्दस्यार्थः|| २०||
Adhikarana हृदयमर्म, तत्र विद्धे व्यापच्च (२१) · Śloka २१
कोष्ठवक्षसोः स्तनयोश्च मध्ये सत्त्वरजस्तमोऽधिष्ठा नमामाशयद्वारं हृदयम्|
तत्रापि सद्यो मरणम्||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कोष्ठवक्षसोः स्तनयोश्च मध्ये स्थितं सत्त्वरजस्तमसामधिष्ठानमामाशयद्वारं तु हृदयम्| तत्रापि विद्धस्य सद्यो मरणम्||२१||
Adhikarana स्तनमूलमर्म, तत्र विद्धे व्यापच्च (२२) · Śloka २२
स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले तयोः कफपूर्णकोष्ठस्य मरणम्||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तयोरिति| स्तनमूलयोर्विद्धयोः|| २२||
Adhikarana स्तनरोहितमर्म, तत्र विद्धे व्यापच्च (२३) · Śloka २३
स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः स्तनरोहिते|
तयोः शोणितपुर्णकोष्ठस्य मरणम्||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
चूचुकौ स्तनमुखौ श्यामौ|| २३||
Adhikarana अपस्तम्भौ मर्मणी तत्र विद्धे व्यापच्च (२४) · Śloka २४
उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ|
तयोः शोणितपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
उरसि उभयतो द्वे वातवहे नाड्यौ अपस्तम्भौ नाम्ना मर्मणी||२४||
Adhikarana अपालापमर्मणी तत्र विद्धे व्यापच्च (२५) · Śloka २५
अंसकूटयोरधः पार्श्वयोरुपरि भागयोरपालापौ|
तयोः पूयत्वमापन्नेन रक्तेन मरणम्||२५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अंसपार्श्वान्तरयोर्मध्ये किञ्चित् पार्श्वभागे अपालापौ| तयोर्मध्ये विद्धयोर्न सद्यो मरणम्| अपितु पूयत्वमापन्ने रक्ते|| २५||
Adhikarana कटीकतरुणे मर्मणी तत्र विद्धे व्यापच्च (२६) · Śloka २६
पृष्ठवंशमुभयतः प्रतिश्रोणीकर्णावस्थिनी कटीकतरुणे|
तयोः शोणितक्षयात् पाण्डुर्विवर्णो हीनरुपो म्रियते||२६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पृष्ठवंशमुभयतः पृष्ठवंशस्य द्वयोः पार्श्वयोर्ये प्रतिश्रोणी कर्णावस्थिनी स्थिताः ते कटीकतरुणे मर्मणी श्रोण्याः कर्णाकृतित्वात् श्रोणीकर्णौ|| २६||
Adhikarana कुकुन्दरमर्म, तत्र विद्धे व्यापच्च (२७) · Śloka २७
पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतः कुकुन्दरौ|
तयोः स्पर्शाज्ञानमधः काये चेष्टानाशश्च||२७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पृष्ठवंशस्य पाऱ्श्वयोर्मर्मणी कुकुन्दरौ तौ च जघनाद्बहिः| कट्याः पश्चिमो भागो जघनम्|| २७||
Adhikarana नितम्बमर्मणी, तत्र विद्धे व्यापच्च (२८) · Śloka २८
शोणीकर्णयोरुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ|
तयोरधः काये शोफो दौर्बल्यं मरणञ्च||२८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पृष्ठवंशस्य द्वयोः पार्श्वयोः श्रोणीकर्णयोरुपरि पार्श्वान्तरमध्ये प्रतिबद्धौ पक्वाशयस्य छादने नितम्बमर्मणी|| २८||
Adhikarana पार्श्वसन्धिमर्मणी तत्र विद्धे व्यापच्च (२९) · Śloka २९
अधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ये तिर्य्यगूर्ध्वं च पार्श्वसन्धी|
तयोः शोणितपूर्णकोष्ठतया मरणम्||२९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पार्श्वान्तरप्रतिबद्धौ| सव्यपार्श्वस्थः सव्ये प्रतिबद्धः| अपसव्यश्चापसव्ये| तत्र चाध तिर्य्यक्च प्रतिबद्धौ पाऱ्श्वसन्धी| ते च जघनपार्श्वयोर्मध्ये भवतः|| २९||
Adhikarana बृहत्याख्यौ मर्मणी, तत्र विद्धे व्यापच्च (३०) · Śloka ३०
अधः पाऱ्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ये तिर्य्यगूर्ध्वं च पार्श्वसन्धी|
तयोः शोणितपूर्णकोष्ठतया मरणम्||३०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पृष्ठवंशस्य द्वयोः पूर्वोक्तयोः स्तनमूलयोरार्जवेन तिर्य्यक् स्पष्टदिग्ग्रहणेन बृहत्यौ मर्मणी|| ३०||
Adhikarana अंसफलमर्मणी, तत्र व्यापच्च (३१) · Śloka ३१
पृष्ठवंशमुभयतो बाहुमूलसम्बद्धे अंसफलके|
तयोर्बाहुस्वापशोषौ||३१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अंसफलके पृष्ठवंशस्य द्वयोः पार्श्वयोर्बाहुमूले च प्रतिबद्धे| तयोर्व्यध इति सर्वत्र सम्बन्धः|| ३१||
Adhikarana अंसाख्ये मर्मणी, तत्र विद्धे व्यापच्च (३२) · Śloka ३२
ग्रीवाबाहुशिरोमध्येंऽसपीठस्कन्धबन्धनावंसौ|
तयोः स्तम्ब्धबाहुता||३२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अंसौ ग्रीवादिमध्यगौ स्कन्धयोः अंसपी ठयोश्च बन्धार्थौ| एवं गुदो बस्तिर्नाभिर्हृदयं द्वे स्तनमूले द्वे स्तनरोहिते द्वावपस्तम्भौ द्वावपालापौ द्वे कटीकतरुणे द्वे कुकुन्दरे द्वौ नितम्बे द्वौ पार्श्वसन्धी द्वे बृहत्यौ द्वे अंसफलके द्वावंसाविति षड्विंशतिर्मर्माण्यन्तराधौ|| ३२||
Adhikarana ऊर्ध्वमर्माणि द्वे नीले द्वे मन्ये तत्र विद्धे व्यापच्च (३३) · Śloka ३३
कण्ठनाडीमुभयतश्चतस्रो धमन्यः|
तासां द्वे नीले, द्वे मन्ये|
तासु मूकता, स्वरवैकृत्यं, रसाग्राहिता वा भवति||३३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊर्ध्वमुच्यते| कण्ठनाड्यामेकस्मिन्| पार्श्वे एका नीला नाम सिरा| एका मन्या| तथैव द्वितीये| तासां व्यधे मूकत्वादिकं भवति|| ३३||
Adhikarana मातृकामर्माणि तत्र विद्धे व्यापच्च (३४) · Śloka ३४
ग्रीवायामुभयतः पृथक् चतस्रः सिरा मातृकास्तासु सद्यो मरणम्||३४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ग्रीवायां द्वयोः पार्श्वयोरष्टौ सिरा मातृकाह्वयाः|| ३४||
Adhikarana कृकाटिकाख्ये मर्माणि तत्र विद्धे व्यापच्च (३५) · Śloka ३५
शिरोग्रीवयोः सन्धाने कृकाटिके|
तयोश्चलमूर्धता||३५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
उभयपार्श्वे शिरसो ग्रीवायाश्च सन्धाने कृकाटिके मर्मणी| तत्र विद्धस्य चलशीर्षता|| ३५||
Adhikarana विधुराख्ये मर्मणि तत्र विद्धे व्यापच्च (३६) · Śloka ३६
कर्णपृष्ठयोरधःसंश्रिते विधुरे|
तयोर्बाधिर्यम्||३६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्णयोरधो विधुरे|| ३६||
Adhikarana फणाख्ये मर्मणी, तत्र विद्धे व्यापच्च (३७) · Śloka ३७
घ्राणमार्गमुभयतः श्रोत्रमार्गप्रतिबद्धावभ्यन्तरतः फणौ|
तयोर्गन्धाज्ञानम्||३७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
घ्राणस्रोतसोर्द्वयोः पार्श्वयोरन्तः शिरसि गलप्रदेशे फणौ नाम्ना मर्मणी| तौ च श्रोत्रस्रोतः प्रतिबद्धौ तयोर्व्यधे गन्धाज्ञानम्|| ३७||
Adhikarana अपाङ्गाख्ये मर्मणी तत्र विद्धे व्यापच्च (३८) · Śloka ३८
भ्रुवोः पुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ|
तयोरान्ध्यम्||३८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भ्रुवोः सम्बन्धिनोः पुच्छान्तयोर्बाह्यान्तरयोरध अक्ष्णोश्च बहिरपाङ्गौ मर्मणी|| ३८||
Adhikarana शङ्खाख्ये मर्मणी, तत्र विद्धे व्यापच्च (३९) · Śloka ३९
भ्रुवोः पुच्छान्तयोरुपर्यनुकर्णं ललाटे शङ्खौ|
तयोः सद्यो मरणम्||३९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ललाटे भ्रुवोः पुच्छान्तयोरुपरि कर्णमनु कर्णं प्रति शङ्खौ नाम मर्मणी| तयोर्व्यधे सद्यो मरणम्|| ३९||
Adhikarana आवर्त्ताख्ये मर्मणी तत्र विद्धे व्यापच्च (४०) · Śloka ४०
भ्रुवोरुपरि निम्नयोरावर्त्तौ तयोरान्ध्यं दृष्ट्युपघातो वा||४०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भ्रुवोरुपरि निम्नयोः प्रदेशयोरावर्त्तौ नाम्ना द्वे मर्मणी| तयोर्व्यधे आन्ध्यम्| अदर्शनम् अथवोपघातमात्रं दृष्टेर्वा|| ४०||
Adhikarana उत्क्षेपाख्ये मर्मणी तत्र विद्धस्य व्यापच्च (४१) · Śloka ४१
शङ्खयोरुपरि केशान्ते उत्क्षेपौ|
तयोः सशल्यः पाकात् पतितशल्यो वा जीवेन्नोद्धृतशल्यः||४१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शङ्खयोरुपरि केशावसानमर्य्यादे उत्क्षेपो मर्मणी| तयोर्विद्धः सन् सशल्यो जीवति| पाकाद्वा स्वयंपतिते जीवति| उद्धृतशल्यो न जीवेत्|| ४१||
Adhikarana स्थपन्यख्ये मर्मणी तत्र विद्धस्यावस्था च (४२) · Śloka ४२
भ्रुवोर्मध्ये स्थपनी|
तत्रोत्क्षेपवत्||४२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भ्रुवोर्मध्ये नाम स्थपनी मर्म| तत्रोत्क्षेपवत् सशल्यी जीवेत्| पाकात् पतितशल्यो वा| तत्र च उद्धृतशल्यो न जीवेत्|| ४२||
Adhikarana सीमन्ताख्यानि मर्माणि तत्र विद्धस्य व्यापच्च (४३) · Śloka ४३
पञ्च सन्धयः शिरसि|
तिर्य्यगूर्ध्वं च सीमन्तानाम्|
तेषून्मादभ्रमचित्तनाशैर्मरणम्||४३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पञ्च शिरसि कपालानां सन्धयः पञ्च मर्माणि| तत्र दाउ ललाटपर्श्वयोः केशान्तावस्थितौ द्वौ कृकाटिकापार्श्वयोरूर्ध्वगौ सन्धी| तयोरुपरि तिर्य्यगृजुसन्धिः सीमन्तास्तेषु विद्धेषून्मादादिभिर्मरणम्|| ४३||
Adhikarana शृङ्गाटकाख्यानि मर्माणि तत्र विद्धे व्यापच्च (४४) · Śloka ४४
जिह्वाघ्राणाक्षिश्रोत्रतर्पणीनां सिराणां तालुनि सन्निपातः|
तासां मुखानि चत्वारि शृङ्गाटकसंज्ञानि|
तेषु सद्योमरणम्||४४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जिह्वादिसन्तर्पणीनां सिराणां तालुनि सन्निपातो भवति| तासां यानि बह्वीनामपि चत्वारि मुखानि तानि शृङ्गाटकाख्यानि मर्माणि| तेषां व्यधे सद्योमरणम्|| ४४||
Adhikarana अधिप्रतिसंज्ञं मर्म तत्र विद्धे व्यापच्च (४५) · Śloka ४५
मस्तकाभ्यन्तर उपरिष्टात्सिरासन्धिसन्निपातो रोमावर्त्तः सोऽधिपतिर्नाम|
तत्रापि सद्योमरणं भवतीति||४५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्तर्मस्तकं सर्वोर्ध्वसिरासन्धीनां सङ्गमो नामावर्त्तो नाम मर्म| स एवाधिपाख्यः| एवं द्वे नीले द्वे मन्ये अष्टौ मातृकाः द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्वावपाङ्गौ द्वौ शङ्खौ द्वावावर्त्तौ द्वावुत्क्षेपौ एका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिपर्य्याय आवर्त्त इत्येतानि सप्तत्रिंशच्छिरसि मर्माणि||४५||
Adhikarana मर्मणां सामान्यलक्षणम् (४६) · Śloka ४६
सामान्यलक्षणं पुनर्मर्मणां पीडिते रुजोत्पत्तिर्विषमं च स्पन्दनम्||४६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मर्मणां नाम स्थानञ्च ज्ञातम्| लक्षणं तु न ज्ञातम्| अतस्तद्विज्ञानार्थमुच्यतेसामान्येनेत्यादि| सर्वमर्मणामिदं लक्षणमित्यर्थः| विषममनेकरूपम्|| ४६||
Adhikarana मर्मविद्धलक्षणम् (४७) · Śloka ४७
सामान्येनैव च - देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिता|
स्वेदो मूर्च्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्||४७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सामान्येननैव चेतस्य देहप्रसुप्तिरित्यादिना सम्बन्धः| प्र्सुप्तिछेदाद्यनबोधः| सम्मोहो मूर्चा||४७||
Adhikarana मर्मशब्दनिर्वचनम् (४८) · Śloka ४८
अपि च-मरणकारित्वान्मर्म||४८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अपि चेति समुच्चये| मरणकारित्वान्मर्मेति निर्वचनम्|| ४८||
Adhikarana मांसादिभेदेन मर्मणां पञ्चधात्वम् (४९) · Śloka ४९
तत्पुनर्मांससिरास्नाय्वस्थिसन्धिसन्निपातः|
तेन तस्मिन् पीड्यमाने विशेषतः प्राणबाधः|
बाहुल्येन तु निर्देशः|
तस्मान्मांसाद्याश्रयतो मर्माणि पञ्चधा भिद्यन्ते||४९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत् पुनर्मर्म मांसादिसन्निपातस्तेषां मिश्रीभावे नैकत्रावस्थानं तेन हेतुना तस्मिन् पीडितेऽधिकं प्राणानामाबाधो भवति| मांसादीनां पञ्चानां यद्यपि मिश्रीभावेन सर्व मर्म भवति| तथापि योऽयं मांसमर्म सिरामर्म इत्यादि व्यपदेशः स बाहुल्यकृत एव| यत्र मांसस्य बाहुल्यं तत्र मांसेन व्यपदेशः| यत्र सिराणां तत्र सिराभिः| एवमन्यत्रापि वाच्यम्| एवं मांसादिभेदेन पञ्चधा मर्माणि|| ४९||
Adhikarana मांसमर्माणि (५०) · Śloka ५०
तद्यथा तलहृदयेन्द्रबस्तिगुदस्तनरोहितान्येकादश मांसमर्माणि||५०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्रैकादश मांसमर्माणि; तद्यथा-चतुर्षु करचरणेषु चत्वारि तलहृदयानि| चत्वारीन्द्रबस्तयः| एको गुदो द्वे स्तनरोहित इति|| ५०||
Adhikarana सिरामर्माणि (५१) · Śloka ५१
उर्वीलोहिताख्यनाभिहृदयस्तनमूलापस्तम्भापालापपार्श्वसन्धिबृहतीनीलामन्यामातृकाफणापाङ्गस्थपनीशृङ्गाटकान्येकचत्वारिंशत्सिरामर्माणि||५१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एकचत्वारिंशत् सिरामर्माणि| तद्यथा-चतस्र उर्व्यश्चत्वारि लोहिताक्षाणि| एका नाभिरेकं हृदयम्| द्वे स्तनमूले| द्वावपस्तम्भौ| द्वावपालापी| द्वौ पार्श्वसन्धी| द्वे बृहत्यौ| द्वे नीले| द्वे मन्ये| अष्टौ मातृकाः| द्वौ फणौ| द्वौ अपाङ्गौ| एका स्थपनी| चत्वारि शृङ्गाटकानि इति|| ५१||
Adhikarana स्नावमर्मणि (५२) · Śloka ५२
क्षिप्रकूर्चकूर्चशिरोविटपकक्षाधराणि बस्त्यंसविधुरोत्क्षेपाः सप्तविंशतिः स्नावमर्माणि||५२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सप्तविंशतिः स्नावमर्माणि| तद्यथा-करचरणेषु चत्वारि क्षिप्राणि| चत्वारः कूर्चा| चत्वारि कूर्चशिरांसि| द्वे विटपे| द्वौ कक्ष्याधरौ| चत्वार्य्याणयः| एको बस्तिः| द्वावंसौ| द्वे विधुरे| द्वावुत्क्षेपाविति|| ५२||
Adhikarana अस्थिमर्माणि (५३) · Śloka ५३
कटीकतरुणनितम्बांसफलकशङ्खास्त्वष्टावस्थिमर्माणि||५३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अष्टावस्थि मर्माणि| तद्यथा-द्वे कटीकतरुणे| द्वौ नितम्बौ| द्वावंसफलकौ| द्वौ शङ्खाविति|| ५३||
Adhikarana सन्धिमर्माणि (५४) · Śloka ५४
गुल्फमणिबन्धजानुकूर्परकुकुन्दरकृकाटिकावर्तसीमन्ताधिपतयो विंशतिः सन्धिमर्माणि||५४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विंशतिः सन्धिमर्माणि| तद्यथा-द्बौ गुल्फौ| द्वौ मणिबन्धौ| द्वे जानुनी| द्वे कूर्परे| द्वौ कुकुन्दरौ| द्वे कृकाटिके| द्वौ आवर्तौ| पञ्च सीमन्ताः| एक अधिपतिः|| ५४||
Adhikarana पुनः प्रकारन्तरेण मर्माणां पञ्चविधत्वम् (५५) · Śloka ५५
पुनश्च पञ्चधा||५५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तानि च मांसादिभेदेन पञ्चधोक्तानि| पुनरन्येन प्रकारेण सद्यः प्राणहरत्वादिना पञ्चधोच्यन्ते १. कानिचित् सद्यः प्राणहराणि| २. कानिचित् कालान्तरप्राणहराणि| ३. अन्यानि विशल्यघ्नानि| ४. अन्यानि वैकल्यकराणि| ५. अन्यानि रुजाकराणि| इति पञ्चप्रकाराः|| ५५||
Adhikarana सद्यः प्राणहराणि मर्माणि (५६) · Śloka ५६
गुदबस्तिनाभिहृदयमातृकाशङ्खशृङ्गाटकाधिपतय एकोनविंशतिः सद्यः प्राणहराण्याग्नेयत्वात्|
तेषां सप्तरात्राभ्यन्तरं कलः||५६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र सद्यः प्राणहराणि गुदबस्तिनाभिहृदयानि चत्वारि| अष्टौ मातृकाः| द्बौ शङ्खौ| चत्वारि शृङ्गाटकानि| एकोऽधिपतिः| इत्येकोनविंशतिः| आघ्नेयत्वमाशु मरणहेतुः| सप्तरात्राभ्यन्तरं प्रथमदिवसादिति|| ५६||
Adhikarana कालान्तरप्राणहराणि मर्माणि (५७) · Śloka ५७
तलहृदयक्षिप्रेन्द्रबस्तिवक्षोमर्मकटीकतरुणनितम्बपार्श्वसन्धिबृहतीसीमन्तास्त्रयस्त्रिशत्कालान्तरप्राणहराणि|
सौम्याग्नेयत्वात्तेषां पक्षाभ्यन्तरं कालः|
तेष्वपि तु क्षिप्राणि कदाचिदाशु||५७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रयस्त्रिंशन्मर्माणि सौम्याग्नेयत्वात् कालान्तरेण विलम्बितं प्राणहराणि| पक्षाभ्यन्तरे वा प्रहरादिवशादनियमः| तद्यथा-चत्वारि तलहृदयानि| चत्वारि क्षिप्राणि| चत्वारःइन्द्रबस्तयः| अष्टौ वक्षोमर्माणि स्तनमूलस्तनरोहितापस्तम्भापालापाख्यानि| द्वे कटीकतरुणे| द्वौ नितम्बौ| द्वौ पार्श्वसन्धी| द्वे बृहत्यौ| पञ्च सीमन्ताः| इति त्रयस्त्रिंशत्| तेष्वपि मध्ये क्षिप्राणि सद्यः प्राणहराण्यपि भवन्ति|| ५७||
Adhikarana विशल्यघ्नानि मर्माणि (५८) · Śloka ५८
उत्क्षेपौ स्थपनी च त्रीणि विशल्यघ्नानि वायव्यत्वात्|
शल्यमुखावरुद्धो हि यावदत्र वायुस्थिष्ठति तावज्जीवति||५८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रीणि विशल्यघ्नानि| तानि वायव्यानि शल्यं आकृष्टे वायोर्व्रणेन निर्गमनान्न जीवत्यत एव विशल्यं घ्नन्ति, न तु सशल्यम्| तत्र द्वावुत्क्षेपावेकास्थपनीति त्रीणि|| ५८||
Adhikarana वैकल्यकराणि मर्माणि (५९) · Śloka ५९
कूर्चजानुकूर्पराण्युर्वीलोहिताख्यविटपकक्षाधरकुकुन्दरांसफलकनीलामन्याकृकाटिकाविधुरफणापाङ्गावर्त्ताश्चतुश्चत्वारिंशद्वैकल्यकराणि सौम्यत्वात्|
सोमो हि स्थैर्यशैत्याभ्यां प्राणान् धारयति|
तान्यपि च कदाचिदभिहतानि मारयन्ति||५९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
चतुश्चत्वारिंशद्विकलत्वं कुर्वन्ति| सौम्यत्वान्न मारयन्ति| तत्र चत्वारि कूर्चानि| द्वे जानुनी| द्वौ कूर्परौ| चतस्रः आणयः| चतस्र उर्व्यः| चत्वारि लोहिताक्षाणि| द्वौ विटपौ| द्वौ कक्षाधरौ| द्वौ कुकुन्दरौ| द्वावंसौ| द्वावंसफलकौ| द्वे नीले| द्वे मन्ये| द्वे कृकाटिके| द्वे विधुरे| द्वौ फणौ| द्वावपाङ्गौ| द्वावावर्त्ताविति| एतानि चतुश्चत्वारिंशत् कदाचिन्मारयन्त्यप्यतिघातात्|| ५९||
Adhikarana रुजाकराणि मर्माणि (६०) · Śloka ६०
कूर्चशिरोगुल्फमणिबन्धास्त्वष्टौ रुजाकराण्यग्निवायुसोमगुणबाहुल्यात्|
अग्निवायू हि विशेषेण रुजाकरौ|
सोमस्तु प्राणानवलम्बत इत्युक्तम्||६०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अष्टौ मर्माणि रुजाकराणि सोमाग्निवाय्वात्मकत्वात्| चत्वारि कूर्चशिरांसि द्वौ गुल्फौ द्वौ मणिबन्धावित्यष्टौ|| ६०||
Adhikarana अन्यमतेन सद्यःप्राणहरादिमर्मविवरणम् (६१) · Śloka ६१
अन्ये त्वाहुः-मांसादीनां पञ्चानामपि विवृद्धानां समवायात् सद्यःप्राणहराणि|
एकैकहीनानामल्पानां च क्रमादितराणि स्वभावत एव च||६१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्ये त्वाचार्य्या आग्नेयत्वं हेतुं परित्यज्य सद्यःप्राणहरत्वे पूर्वोक्तमांसादिपञ्चकस्यानूनाधिकभावेन विवृद्धस्य हेतुत्वं वदन्ति| यदा गुदादीनामेकोनविंशतेर्मांसादीनां समानाधिकानां सन्निपातस्तदा सद्यः प्राणहरत्वमित्यर्थः| आदिशब्देनास्थिस्नायुसिरासन्धीनां ग्रहणम्| इतराणि कालान्तरप्राणहरादीनि चत्वार्येकैकेन हीनानां मांसादीनां स्वल्पानां च सन्निपाताद्भवन्तीति| तेन मांसादीनामन्यतमेनैकेन हीनानां कालान्तरप्राणहराणि| द्विहीनानां विशल्यघ्नानि| त्रिहीनानां वैकल्यजननानि| एकस्यैव सद्भावाद्रुजाकराणि| सुश्रुतः पठति द्वयोः सङ्घातादीनि, तन्न बुध्यामहे|| ६१||
Adhikarana अपरमतम् (६२) · Śloka ६२
अन्ये वदन्ति-प्रतिनियतकर्माणि चन्द्रसूर्यायस्कान्तोपलानामिवाम्बुवह्निकाललोहसंश्लेषास्तथा च छिन्नेषु बहुमर्मस्वपि पाणिपादेषु स्वभावत एव न मृत्युः||६२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्ये त्वाचार्य्या न सौम्याग्नेयत्वादिकं हेतुं वदन्ति| नापि विशिष्टस्य मांसादेः सन्निपातम्| अपि तु स्वभावमेव हेतुत्वेनोद्दिशन्ति| तथा चन्द्रकान्तादीनामम्बुजन्मादौ तथा बहुमर्माश्रये पाणिपादे छिन्नेऽपि मृत्युर्न भवतीत्यत्रापि स्वभाव एव हेतुः||६२||
Adhikarana अपरमतेऽपि हेतुप्रतिपादनम् (६३) · Śloka ६३
अपरे पुनरत्रापि हेतुमाहुः-पाणिपादच्छेदे हि सिराः सङ्कोचमायान्ति|
ततोऽल्पासृक्प्रवृत्तेर्जीवितम्|
मर्मव्यधे त्वतिरक्तस्रुतितो वायुवैकृतेन च मरणम्|
तस्मात् मर्माभिहतस्य तदङ्गमाशु सन्धिदेशाच्छेदनीयम्|
अतिहतानां तु मर्मणां यथास्वं पूर्वं पूर्वं च कर्म ई षदन्ते वा हतानामुत्तरोत्तरमेव||६३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अपरे इत्यादि सुबोधम्| तस्मान्मर्मण्यभिहतस्य तदङ्गं तस्मिन् मर्माश्रितं तत् सन्धिदेशाच्छेदनीयम्| सन्धौ छिन्ने सङ्कुचिताः सिरा रक्तं न मुञ्चन्त्यो जीवितं न त्यजेत्| तेषां च मर्मणां सद्यः प्राणहरणादिकं पञ्चविधं कर्मोक्तम्| तत्रातिहतानां मर्मणामात्मीयं कर्म पूर्वं-पूर्वं च भवति| एतदुक्तं भवतिगुदादीनामभिहतानां स्वकीयं सद्यः प्राणहरणमेव| तेषां च पूर्वासम्भवः| तलहृदयादीनामभिहतानां स्वं कर्म कालान्तरप्राणहरत्वम्| कदाचित्तु पूर्वमपि सद्यः प्राणहरत्वं भवति| उत्क्षेपादीनां स्वं कर्म विशल्यघ्नत्वम्| न तु पूर्वं सम्भवति| अथवा कालान्तरप्राणहरणमपि| कूर्चादीनामभिहतानां स्वं कर्म वैकल्यकरणम्| कदाचित्तु पूर्वमपि भवति कालान्तरप्राणहरत्वम्| विशल्यहननं पूर्वमपि न सम्भवत्यसम्भवात्| कूर्चशिरःप्रभृतीनां चाभिहतानां स्वं कर्म रुजाकरणम्| कदाचित्तु पूर्वमपि भवति| वैकल्यकरणमित्युक्तमभिहतानां यथास्वं पूर्वं-पूर्वं च कर्म| यदा तु तानि मर्माणि ईषत्कोणे स्तोकेनाभिघातेनाभिहतानि भवन्त्यन्ते वा पर्य्यन्ते वाभिहतानि भवन्ति तदा तेषामुत्तरमेव| तेन सद्यः प्राणहराणामीषदन्ते वाभिहतानामुत्तरं कर्म कालान्तरप्राणहरणम्| कालान्तरप्राणहराणामीषदन्ते वाऽभिहतानामनन्तरमुत्तरं कर्म वैकल्यकरणम्| विशल्यघ्नत्वं न सम्भवत्यनन्तरमपि| विशल्यघ्नानामन्ते वेषद्वाभिहतानामुत्तरं वैकल्यकरणं कर्म भवति| वैकल्यकराणामीषदन्ते चाभिहतानामुत्तरं कर्म रुजाकरणमित्युक्तं यथोत्तरमेवेति|| ६३||
Adhikarana मर्मणां मानभेदेन पुनः पञ्चविधत्वम् (६४) · Śloka ६४
पुनश्च पञ्चधा भिद्यन्ते||६४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तान्येव मर्माण्येवं मानभेदेन पञ्चविधानि|| ६४||
Adhikarana स्वाङ्गुलमानानि मर्माणि (६५) · Śloka ६५
तद्यथा-उर्व्यः कूर्चशिरांसिविटपे कक्षाधरे च द्वादश स्वाङ्गुलोन्मितानि||६५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
उर्व्यादीनि द्वादश मर्मवतः स्वाङ्गुलमानानि| चत्वारि चत्वारि द्वे द्वे इति द्वादश|| ६५||
Adhikarana द्व्यङ्गुलमानानि मर्माणि (६६) · Śloka ६६
गुल्फौ मणिबन्धौ स्तनमूले च षट् द्व्यङ्गुलानि||६६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गुल्फादीनि षड् द्व्यङ्गुलानि| द्वे द्वे द्वे इति षट्|| ६६||
Adhikarana त्र्यङ्गुलानानि मर्माणि (६७) · Śloka ६७
जानुनी कूर्परे च चत्वारि त्र्यङ्गुलानि||६७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जानद्वयं कूर्परद्वयं चेति चत्वारि त्र्यङ्गुलानि|| ६७||
Adhikarana पाणितलसम्मितानि मर्माणि (६८) · Śloka ६८
कूर्चा गुदो बस्तिर्नाभिर्हृदयं नीले मन्ये मातृकाः सीमन्ताः शृङ्गाटकानि चैकोनत्रिंशत् पाणितलसम्मितानि||६८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कूर्चादीन्येकोनत्रिंशत् स्वहस्तलप्रमाणानि|| ६८||
Adhikarana अर्धाङ्गुलमानानि मर्माणि (६९) · Śloka ६९
शेषाणि षट् पञ्चाशदङ्गुलदलप्रमाणानि||६९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शेषाणि षट् पञ्चाशदङ्गुलदलप्रमाणानि| अङ्गुलदलमर्धाङ्गुलम्| तथा च धन्वन्तरिः पठति'शेषाणि चाङ्गुलमितार्धसमानि देहे' इति|| ६९||
Adhikarana मतान्तरेण मर्ममानानि (७०) · Śloka ७०
अन्ये पुनराहुः-व्रीहिप्रमाणानि क्षिप्राणि|
कलायप्रमाणाः स्तनरोहितोत्क्षेपाः तथाऽन्ये तिल- प्रमाणान्यपि मर्माणीच्छन्ति||७०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
केचिन्मतेन तिलप्रमाणानि मर्माणीति कथनम्| स्वधीगम्यं शेषम्|| ७०||
Adhikarana आयुर्मर्माणि रक्षति (७१) · Śloka ७१
भवन्ति चात्र- मर्मव्याप्तेऽपि देहेऽस्मिन्नायुर्मर्माणि रक्षति|
आयुष्याण्येव सेवेत सदा तस्माद्विचक्षणः||७१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भवन्ति चात्रेति श्लोका उच्यन्ते| अस्मिन् देहे मर्मभिः स्पर्शमात्रप्राणहरैर्व्याप्तेऽपि तानि मर्माण्यभिघातादिभ्य आयू रक्षत्यक्षीणायुषां हि मर्मोपतापो नोत्पद्यते| तस्माद्धेतोरायुष्याण्येव वस्तुनि सेवेत विचक्षणः| तदेव विद्धमर्माबाधेभ्यो रक्षति||७१||
Adhikarana मर्माणि यत्नतः पालनीयानि (७२) · Śloka ७२
मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम्|
रोगा मर्माश्रयास्तद्वत् प्रकान्ता यत्नतोऽपि च||७२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यथा मर्मण्यभिघातः स्वल्योऽपि बाधतेतरामतिशयेन बाधते| तथा ये मर्माश्रिता रोगास्ते प्रयत्नेन प्रक्रान्ताश्चिकित्सितुमारब्धास्तद्वत् स्वल्पा अपि बाधन्तेतरामित्यर्थः| तस्माद्यत्नेन पालयेदिति तात्पर्य्यार्थः|| ७२||
Adhikarana मर्मोपघातान्मुमूर्षोर्लक्षणानि (७३) · Śloka ७३
विक्षिप्यते भृशं सीदन् शून्यो भ्रमति वेपते|
ऊर्ध्वं श्वसिति कृच्छ्रेण स्रस्तगात्रो मुहुर्मुहुः|
हृदयं दह्यते चास्य नैकस्थानेऽवतिष्ठते|
मर्मोपघातान्मरणमेतैर्लिङ्गैः समश्नुते||७३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मर्मणि भग्नस्य मुमूर्षोर्मरणलक्षणानि विक्षिप्यते भृशं सीदन्नित्यादिनोच्यन्ते| मरणमश्नुते प्राप्नोतीति सम्बन्धः|| ७३||
Adhikarana रक्तातिस्रुतिरेव मरणहेतुः (७४) · Śloka ७४
अमर्मविद्धोऽपि नरश्छेदभेदादिपीडितः|
अतिनिस्सृतरक्तश्च सद्यस्त्यजति जीवितम्|
अतोऽन्यथा जीवति तु विद्धः शरशतैरपि||७४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
न केवलं तु मर्मविद्ध एव जीवितं त्यजति यावदमर्मविद्धोऽपि रक्तस्यातिस्रुतेः सद्य एव जीवितं जहाति| अतोऽन्यथा यथोक्तवैपरीत्ये मर्मव्यधे रत्कास्रुतौ च शरशतैरपि विद्धो जीवति|| ७४||
Adhikarana मर्मविद्धं प्रत्याख्याय चिकित्सेत् (७५-७) · Śloka ७
पुण्यवान्नियतायुश्च न कथञ्चिन्न जीवति|
तस्मादाचरमोच्छ्वासाच्चिकित्सेदेव यत्नतः|
तद्बन्धुमित्रानुमतः प्रत्याख्यायातुरं भिषक्||७५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने मर्मविभागोनाम सप्तमोऽध्यायः||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तथा यश्च पुण्यवान् सुकर्मा यश्च नियतायुः स न कश्चिन्न जीवति| सर्वथा जीवतीत्यर्थः| नियतायुर्यस्य बलवता दैवेन कर्मणा च आयुर्नियतकालं कृतम्| तस्माद्यथा क्षीणायुर्जीवत्यतो मर्मविद्धमातुरं प्रत्याख्याय आचरमोच्छ्वासाच्चिकित्सेत्| तस्यातुरस्य बन्ध्वादीनामनुमतः सन्| एतावता सिद्ध्यभावेऽप्ययशो न लभत इति|| ७५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने सप्तमोऽध्यायः