Adhikarana अथ मूत्राघातनिदानं नाम नवमोऽध्यायः | प्रतिज्ञा (१) · Śloka १
अथातो मूत्राघातनिदानं व्याख्यास्यामः|
इति ह स्माहुरत्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अधोगदोषहेतुत्वसामान्यान्मूत्रकृच्छ्रप्रमेह-निर्णयायाऽध्यायारम्भः|| १||
Adhikarana मूत्राघातप्रभेदाः (२) · Śloka २
विंशतिर्मूत्राघाता भवन्ति|
तद्यथा वातापित्तकफ़सन्नि- पातकृच्छ्राणि|
वातपित्तश्लेष्मशुक्राश्मर्य्यः|
वात- बस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्र- विड्विघातोष्णवातमूत्रक्षयावसादाश्चेति||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विंशत्यां रोगेषु मूत्रमाहन्यते| अतस्ते मूत्राघाताः| ते च क्रमेणात्रोच्यन्ते| तत्र चत्वारि कृच्छ्रणि पृथग्दोषसन्निपातोद्भवानि| चतस्त्रोऽश्मर्य्यः पृथग्दोषा शुक्रजाः|| २||
Adhikarana वातोत्तरा मूत्राघाताः (३) · Śloka ३
तत्र वातबस्त्यादयो नव वातोल्बणाः||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वातबस्त्यादयो विड्विघातान्ता नव वातोल्बणाः|| ३||
Adhikarana वातपित्तोल्बणावुष्णवातमूत्रक्षयौ (४) · Śloka ४
ततो द्वौ वातपित्तोल्बणौ||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ततोऽनन्तरं द्वावुष्णवातमूत्रक्षयौ वातपित्तोल्बणौ|| ४||
Adhikarana कफपित्तोल्बणो मूत्रावसादः (५) · Śloka ५
अन्त्यः कफपित्तोल्बणः||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्त्यो मूत्रावसादः कफपित्तोल्बणः| सर्वत्रोल्बणशब्दो दोषान्तरसद्भावप्रतिपत्त्यर्थः|| ५||
Adhikarana मूत्ररोगाऽधिष्ठानस्य बस्तेः रोगजननप्रक्रिया (६) · Śloka ६
सर्वेषां पुनर्मूत्ररोगाणामधिष्ठिनं बस्तिः|
स मर्मस्वभिहितः प्राक्|
स चाऽधोमुखोऽपि मूत्रवहासु नाडीषु सूक्ष्ममुख़सहस्रनिष्यन्देन मूत्राख़्येनाविरतं नवो ग़ट इवाप्सु निमग्नमुखोऽपि पार्श्वेभ्योऽम्भसा पूर्य्यते|
तैरेव च स्त्रोतोभिर्वातादयोऽपि दुष्टाः प्रविश्य बस्तिं यथा- स्वमाघातान् प्रमेहा~ंश्च जनयन्ति||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वेषामित्यादिना मूत्राघातानां प्रसङ्गेन प्रमेहाणां चाश्रयः सम्प्राप्तिश्चोच्यते| बस्तिर्मर्मसु 'मूत्राशयो धनुर्वक्र " इत्यादिनाभिहितः प्राक् शारीरे ( अ० सं० शा०- ३८१ ) अधोमुखेऽपि नवघटे पार्श्वेभ्यो जलप्रवेशो दृष्टः| तैरेव स्त्रोतोभिर्यैर्मूत्रं प्रविशति बस्तौ|| ६||
Adhikarana मूत्रकृच्छ्रनिदानम्, वातजमूत्रकृच्छ्रलक्षणम् (७) · Śloka ७
तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवंक्षणेषु तीव्रशूलः कृच्छ्रा- न्मूत्रयति वातकृच्छ्रे||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्राल्पश इत्यादि वातकृच्छ्रलक्षणम्|| ७||
Adhikarana पित्तजमूत्रकृच्छ्रलक्षणम् (८) · Śloka ८
सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सदाहमित्यादि पित्ते|| ८||
Adhikarana कफमूत्रकृच्छ्रलक्षणम् (९) · Śloka ९
बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
बस्तीत्यादि कफे|| ९||
Adhikarana सन्निपातजमूत्रकृच्छ्रलक्षणम्, तस्य कृच्छ्रतमत्वञ्च (१०) · Śloka १०
सर्वलक्षणं सन्निपातेन सन्निपातकृच्छ्रे|
स च कृच्छ्रतमः||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वेत्यादि सन्निपाते| स च सन्निपातः कृच्छ्रेभ्यः कृच्छ्रतमः|
Adhikarana अश्मरीनिदानम्, अश्मर्य्याः निदानसम्प्राप्त्यादि (११) · Śloka ११
यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफ़ं सशक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणीकस्येव स्वछादपि जलात् पङ्कस्तद्वदश्मर्य्यभिनिर्वर्त्तते|
सर्वा च सा श्लेष्माश्रया||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यदा त्वित्यादिना सर्वाऽश्मरीशु सम्प्राप्तिरुच्यते| मणिको लिज्जराख्यो जलाधारः| सर्वा अशमर्य्यश्च श्लेष्माणमाश्रित्य जायन्ते|| ११||
Adhikarana अश्मरीपूर्वरूपम् (१२) · Śloka १२
अथाऽस्याः पूर्वरूपाणि ज्वरो बस्त्याऽध्मानमरुचिर्मूत्र- कृच्छ्रं बस्तिशिरोमुष्कशेफ़सां वेदना बस्तगन्धित्वं मूत्रस्येति||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वस्या अस्मर्य्या ज्वरादीनि पूर्वरूपानि||१२||
Adhikarana अश्मरीसामान्यलक्षणम् (१३) · Śloka १३
सामान्यलिङ्गानि तु नाभिबस्तिसेवनीषुमेहतस्तया मार्ग- निरोधने वेदना मूत्राधारासङ्गस्तद्वयापाये च गोमेदक- प्रकाशमनाविलमसिक्तं सुसुखं मूत्रं विसृजति|
तत्संक्षो- भणाच्च सरुधिरम्|
धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति|
यथैव च पक्वाशयात्स्त्रस्तेन शकृता- धिष्ठितेबस्तौ मूत्रं न प्रवर्तेते तथाऽश्मर्य्याऽपि||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सामान्यं च लक्षणं नाभिवेदनादीनि| मेहतो मूत्रं कुर्वतः पुरुषस्य| तद्व्यप्रायेऽश्मरीविगमे अनाविलम्| गोमेदकमङ्कोलकम्| तस्या इत्यश्मर्य्याः| संक्षोभणात्क्षते सरुधिरं मूत्रं मेहति| अस्येत्यश्मरीमतः| शकृदुपघातान्मूत्राऽप्रवृत्तिर्दृष्टैव|| १३||
Adhikarana वातजाऽश्मरीलक्षणम् (१४) · Śloka १४
तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितोदन्तान् खादति|
नाभिं प्रपीडयति|
मेढ्रं मृद्नाति|
मुहुर्मुहुवेपथु- मान्कृच्छ्रात् सवातं शकृद् विमुञ्चति|
विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र वायुनेत्यादिवाताश्मरीलक्षणम्|| १४||
Adhikarana पित्तजाश्मरीलक्षणम् (१५) · Śloka १५
पित्तेन पच्यमान इव दह्यते बस्तिः|
अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तेनेन्यादिपित्ताश्मर्य्याः|| १५||
Adhikarana कफजाश्मरीलक्षणम् (१६) · Śloka १६
श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
श्लेष्मणेत्यादित्यादिश्लेष्माऽश्मर्य्या लक्षणम्|| १६||
Adhikarana अश्मरीणां बालसुलभत्वं, सुखसाध्यत्वञ्च (१७) · Śloka १७
प्रायेणैतास्तिस्त्रोऽश्मर्य्यो बालानां जायन्ते|
तेषामेव चाऽल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
००
Adhikarana शुक्राश्मरीनिदानादि (१८) · Śloka १८
महतां तु शुक्राश्मरीक्रनिमित्ता भवति|
मैथुनविघा- ताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणतोरन्तरे संहरति|
संहृत्योपशोषयति|
ततः शुष्क- मश्मरी भवति|
सा शुक्रमार्गमावृणोति|
मुत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति|
उत्पन्नमा- त्राय च शुक्रं निरोति|
प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मैथुनाविघातेनाऽलब्धरत्यवसानस्य तत्क्रियानिवृत्याम् उपस्थितं स्त्रोतोमुखे| सेति शुष्कशुष्कमश्मरी|| १८||
Adhikarana शर्करानिदानम्, शर्करालक्षणम् (१९) · Śloka १९
अश्मर्य्येव तु वायुनाऽणुशो विभिन्ना शर्करेत्युच्यते|
अनुलोमेच मारुते सा सिकतेव मूत्रेण सह च्यवते||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वायुना अणुशो भित्रा अश्मर्य्येव शर्करेति सम्बन्धः| एवकारेण अश्मर्य्या अनन्यत्वं शर्करायाः प्रदर्शयति|| १९||
Adhikarana वातबस्तिलक्षणम् (२०) · Śloka २०
वायुस्तु नूत्रवेगरोधाद्बस्तिमुखमावृणोति|
ततो मूत्रसङ्गं वेदनां कण्डूं च करोति||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वायुस्त्वित्यादिना वातबस्तिलक्षणम्|| २०||
Adhikarana अधिकवायुकोपजन्यवातबस्तिलक्षणम् (२१) · Śloka २१
कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृन्तं स्थलं परिप्लुतं च कुरुते|
तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्त्रावणम्|
पीडिते च बस्तौ धाराया प्रवृत्तिः||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कदाचिदित्यादिना तस्यैव भेदोऽधिकवायुकोपात्|| २१||
Adhikarana वातबस्तिलक्षणम्, वातबस्तेः कृच्छ्रसाध्यत्वम् (२२) · Śloka २२
अयं द्विविधोऽपि वातबस्तिः कृच्छ्रसाध्यः|
तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एवं द्विविधोऽप्ययं वातबस्तिः कृच्छ्रसाध्यः| तयोरप्युत्तरः|
Adhikarana वाताष्ठीलानिदानादि, वाताष्ठीलानिदानादिसम्प्राप्तिर्लक्षणञ्च (२३) · Śloka २३
बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठी- लाभं ग्रन्थिं करोति|
तेनाऽनिलविण्मूत्रसङ्गो भवत्या- ऽऽध्मानञ्च|
सा वाताष्ठीला||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
बस्तिविण्मार्ग इत्यादिनाऽष्ठीलालक्षणम्| अष्ठीला पाषाणमयी| तीक्ष्णमाहननोपकरणम् तदाकारो ग्रन्थिरष्ठीला|| २३||
Adhikarana वातकुण्डलिकानिदानम्, वातकुण्डलिकानिदानादि (२४) · Śloka २४
विगुणो वायुर्बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवा- न्वितो मूत्रमाविध्याऽल्पशो वा प्रवर्त्तयन् भ्रमति|
सा वातकुण्डलिका||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विगुण इत्यादिवातकुण्डलिकालक्षणम्|| २४||
Adhikarana मूत्रातीतनिदानादि (२५) · Śloka २५
मूत्रमतिवेलं विधार्य्यविमुच्यमानं न प्रवर्त्तते|
वाहमानस्य तु कृच्छ्रादल्पं प्रवर्त्तते|
तन्मूत्रातीतम्||२५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मूत्रमतिवेलमित्यादिमूत्रातीतलक्षणम्| वेलामतिक्रान्तमतिवेलम्| वाहमानस्य प्रयन्तं कुर्वतः|| २५||
Adhikarana मूत्रजठरनिदानम्, मूत्रजठरनिदानादि (२६) · Śloka २६
मूत्ररोधपानो वायुर्नाभेरधस्तात् तीव्ररुजामाध्मानं मल- सङ्गञ्च कुर्वन्नुदरमभिपूरयेत्|
तन्मूत्रजठरम्||२६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मूत्ररोधादित्यादि मूत्रजठरलिङ्गम्|| २६||
Adhikarana मूत्रोत्सङ्गनिदानादि (२७) · Śloka १७
मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्त्रवेत्|
स मूत्रोत्सङ्गः||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मारुतेनेत्यादि मूत्रोत्सङ्गलक्षणम्| नालं बहिर्मेढ्रस्य बस्तेश्च मध्यम्| मणिर्मेढ्राग्रम्|| २७||
Adhikarana मुत्रग्रन्थिः (२८) · Śloka २८
बस्तिद्वारेऽल्पो वृत्तः शीघ्रसम्भवोऽश्मरीतुल्यलिङ्गो मूत्र- ग्रन्थिः||२८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
बस्तिद्वार इत्यादिना मूत्रग्रन्थिरुच्यते|| २८||
Adhikarana मूत्रशुक्रनिदानादि (२९) · Śloka २९
मूत्रितस्य व्यवायगमनाद्वातोद्भतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक्पश्चाद्वा भस्मोदकसङ्काशं प्रवृर्त्तते|
तन्मूत्रशुक्रम्||२९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मूत्रितस्येत्यादिमूत्रशुक्रलिङ्गम्|| २९||
Adhikarana विड्विघातनिदानादि (३०) · Śloka ३०
वायुना पीडितं शकृन्मूत्रस्त्रोतः प्रपद्यते|
ततो विड्गन्धि- विट्संसृष्टञ्च कृच्छ्रान्मूत्रयति|
स विड्विधातः||३०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वायुनेत्यादिना विड्विघातः|| ३०||
Adhikarana उष्णवातनिदानादि (३१) · Śloka ३१
अत्यध्वा ऽऽ तपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्ररक्तं सरस्तं वा मूत्रं कृच्छ्रात्प्रवर्त्तयेत्स तूष्णवातः||३१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अत्यध्वेत्यादिनोष्णवातः|| ३१||
Adhikarana मूत्रक्षयनिदानादि सम्प्राप्तिर्लक्षणञ्च (३२) · Śloka ३२
वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति|
स मूत्रक्षयः||३२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वातपित्तमित्यादिना मुत्रक्षयलक्षणम्|| ३२||
Adhikarana मूत्रावसादनिदानादि (३३) · Śloka ३३
पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते|
ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्तिः शुष्कं च शङ्करोचननान्यतरचूर्णं वा सर्ववर्णयुक्तं वा भवति||३३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तमित्यादिना मूत्रावसादः| एवमेषां निदानं सम्प्राप्तिर्लक्षणं चोक्तम्|| ३३||
Adhikarana प्रकरणोपसंहारः प्रकरणान्तरप्रस्तावश्च (३४-९) · Śloka ९
इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः|
निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः||३४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने नवमोध्यायः||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इति विस्तरत इत्यादिनाऽध्यायमुपसंहरति| द्वितीयं च प्रस्तावयति|| ३४|| इति श्रीमन्माहामहोपध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने नवमोऽध्यायः