Skip to content

. मूत्राघातनिदानम्

Adhikarana अथ मूत्राघातनिदानं नाम नवमोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथातो मूत्राघातनिदानं व्याख्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अधोगदोषहेतुत्वसामान्यान्मूत्रकृच्छ्रप्रमेह-निर्णयायाऽध्यायारम्भः|| १||

Adhikarana मूत्राघातप्रभेदाः (२) · Śloka

विंशतिर्मूत्राघाता भवन्ति| तद्यथा वातापित्तकफ़सन्नि- पातकृच्छ्राणि| वातपित्तश्लेष्मशुक्राश्मर्य्यः| वात- बस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्र- विड्विघातोष्णवातमूत्रक्षयावसादाश्चेति||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विंशत्यां रोगेषु मूत्रमाहन्यते| अतस्ते मूत्राघाताः| ते च क्रमेणात्रोच्यन्ते| तत्र चत्वारि कृच्छ्रणि पृथग्दोषसन्निपातोद्भवानि| चतस्त्रोऽश्मर्य्यः पृथग्दोषा शुक्रजाः|| २||

Adhikarana वातोत्तरा मूत्राघाताः (३) · Śloka

तत्र वातबस्त्यादयो नव वातोल्बणाः||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातबस्त्यादयो विड्विघातान्ता नव वातोल्बणाः|| ३||

Adhikarana वातपित्तोल्बणावुष्णवातमूत्रक्षयौ (४) · Śloka

ततो द्वौ वातपित्तोल्बणौ||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ततोऽनन्तरं द्वावुष्णवातमूत्रक्षयौ वातपित्तोल्बणौ|| ४||

Adhikarana कफपित्तोल्बणो मूत्रावसादः (५) · Śloka

अन्त्यः कफपित्तोल्बणः||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अन्त्यो मूत्रावसादः कफपित्तोल्बणः| सर्वत्रोल्बणशब्दो दोषान्तरसद्भावप्रतिपत्त्यर्थः|| ५||

Adhikarana मूत्ररोगाऽधिष्ठानस्य बस्तेः रोगजननप्रक्रिया (६) · Śloka

सर्वेषां पुनर्मूत्ररोगाणामधिष्ठिनं बस्तिः| स मर्मस्वभिहितः प्राक्| स चाऽधोमुखोऽपि मूत्रवहासु नाडीषु सूक्ष्ममुख़सहस्रनिष्यन्देन मूत्राख़्येनाविरतं नवो ग़ट इवाप्सु निमग्नमुखोऽपि पार्श्वेभ्योऽम्भसा पूर्य्यते| तैरेव च स्त्रोतोभिर्वातादयोऽपि दुष्टाः प्रविश्य बस्तिं यथा- स्वमाघातान् प्रमेहा~ंश्च जनयन्ति||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेषामित्यादिना मूत्राघातानां प्रसङ्गेन प्रमेहाणां चाश्रयः सम्प्राप्तिश्चोच्यते| बस्तिर्मर्मसु 'मूत्राशयो धनुर्वक्र " इत्यादिनाभिहितः प्राक् शारीरे ( अ० सं० शा०- ३८१ ) अधोमुखेऽपि नवघटे पार्श्वेभ्यो जलप्रवेशो दृष्टः| तैरेव स्त्रोतोभिर्यैर्मूत्रं प्रविशति बस्तौ|| ६||

Adhikarana मूत्रकृच्छ्रनिदानम्, वातजमूत्रकृच्छ्रलक्षणम् (७) · Śloka

तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवंक्षणेषु तीव्रशूलः कृच्छ्रा- न्मूत्रयति वातकृच्छ्रे||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्राल्पश इत्यादि वातकृच्छ्रलक्षणम्|| ७||

Adhikarana पित्तजमूत्रकृच्छ्रलक्षणम् (८) · Śloka

सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सदाहमित्यादि पित्ते|| ८||

Adhikarana कफमूत्रकृच्छ्रलक्षणम् (९) · Śloka

बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बस्तीत्यादि कफे|| ९||

Adhikarana सन्निपातजमूत्रकृच्छ्रलक्षणम्, तस्य कृच्छ्रतमत्वञ्च (१०) · Śloka १०

सर्वलक्षणं सन्निपातेन सन्निपातकृच्छ्रे| स च कृच्छ्रतमः||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेत्यादि सन्निपाते| स च सन्निपातः कृच्छ्रेभ्यः कृच्छ्रतमः|

Adhikarana अश्मरीनिदानम्, अश्मर्य्याः निदानसम्प्राप्त्यादि (११) · Śloka ११

यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफ़ं सशक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणीकस्येव स्वछादपि जलात् पङ्कस्तद्वदश्मर्य्यभिनिर्वर्त्तते| सर्वा च सा श्लेष्माश्रया||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यदा त्वित्यादिना सर्वाऽश्मरीशु सम्प्राप्तिरुच्यते| मणिको लिज्जराख्यो जलाधारः| सर्वा अशमर्य्यश्च श्लेष्माणमाश्रित्य जायन्ते|| ११||

Adhikarana अश्मरीपूर्वरूपम् (१२) · Śloka १२

अथाऽस्याः पूर्वरूपाणि ज्वरो बस्त्याऽध्मानमरुचिर्मूत्र- कृच्छ्रं बस्तिशिरोमुष्कशेफ़सां वेदना बस्तगन्धित्वं मूत्रस्येति||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वस्या अस्मर्य्या ज्वरादीनि पूर्वरूपानि||१२||

Adhikarana अश्मरीसामान्यलक्षणम् (१३) · Śloka १३

सामान्यलिङ्गानि तु नाभिबस्तिसेवनीषुमेहतस्तया मार्ग- निरोधने वेदना मूत्राधारासङ्गस्तद्वयापाये च गोमेदक- प्रकाशमनाविलमसिक्तं सुसुखं मूत्रं विसृजति| तत्संक्षो- भणाच्च सरुधिरम्| धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति| यथैव च पक्वाशयात्स्त्रस्तेन शकृता- धिष्ठितेबस्तौ मूत्रं न प्रवर्तेते तथाऽश्मर्य्याऽपि||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सामान्यं च लक्षणं नाभिवेदनादीनि| मेहतो मूत्रं कुर्वतः पुरुषस्य| तद्व्यप्रायेऽश्मरीविगमे अनाविलम्| गोमेदकमङ्कोलकम्| तस्या इत्यश्मर्य्याः| संक्षोभणात्क्षते सरुधिरं मूत्रं मेहति| अस्येत्यश्मरीमतः| शकृदुपघातान्मूत्राऽप्रवृत्तिर्दृष्टैव|| १३||

Adhikarana वातजाऽश्मरीलक्षणम् (१४) · Śloka १४

तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितोदन्तान् खादति| नाभिं प्रपीडयति| मेढ्रं मृद्नाति| मुहुर्मुहुवेपथु- मान्कृच्छ्रात् सवातं शकृद् विमुञ्चति| विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र वायुनेत्यादिवाताश्मरीलक्षणम्|| १४||

Adhikarana पित्तजाश्मरीलक्षणम् (१५) · Śloka १५

पित्तेन पच्यमान इव दह्यते बस्तिः| अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तेनेन्यादिपित्ताश्मर्य्याः|| १५||

Adhikarana कफजाश्मरीलक्षणम् (१६) · Śloka १६

श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

श्लेष्मणेत्यादित्यादिश्लेष्माऽश्मर्य्या लक्षणम्|| १६||

Adhikarana अश्मरीणां बालसुलभत्वं, सुखसाध्यत्वञ्च (१७) · Śloka १७

प्रायेणैतास्तिस्त्रोऽश्मर्य्यो बालानां जायन्ते| तेषामेव चाऽल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana शुक्राश्मरीनिदानादि (१८) · Śloka १८

महतां तु शुक्राश्मरीक्रनिमित्ता भवति| मैथुनविघा- ताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणतोरन्तरे संहरति| संहृत्योपशोषयति| ततः शुष्क- मश्मरी भवति| सा शुक्रमार्गमावृणोति| मुत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति| उत्पन्नमा- त्राय च शुक्रं निरोति| प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मैथुनाविघातेनाऽलब्धरत्यवसानस्य तत्क्रियानिवृत्याम् उपस्थितं स्त्रोतोमुखे| सेति शुष्कशुष्कमश्मरी|| १८||

Adhikarana शर्करानिदानम्, शर्करालक्षणम् (१९) · Śloka १९

अश्मर्य्येव तु वायुनाऽणुशो विभिन्ना शर्करेत्युच्यते| अनुलोमेच मारुते सा सिकतेव मूत्रेण सह च्यवते||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायुना अणुशो भित्रा अश्मर्य्येव शर्करेति सम्बन्धः| एवकारेण अश्मर्य्या अनन्यत्वं शर्करायाः प्रदर्शयति|| १९||

Adhikarana वातबस्तिलक्षणम् (२०) · Śloka २०

वायुस्तु नूत्रवेगरोधाद्बस्तिमुखमावृणोति| ततो मूत्रसङ्गं वेदनां कण्डूं च करोति||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायुस्त्वित्यादिना वातबस्तिलक्षणम्|| २०||

Adhikarana अधिकवायुकोपजन्यवातबस्तिलक्षणम् (२१) · Śloka २१

कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृन्तं स्थलं परिप्लुतं च कुरुते| तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्त्रावणम्| पीडिते च बस्तौ धाराया प्रवृत्तिः||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कदाचिदित्यादिना तस्यैव भेदोऽधिकवायुकोपात्|| २१||

Adhikarana वातबस्तिलक्षणम्, वातबस्तेः कृच्छ्रसाध्यत्वम् (२२) · Śloka २२

अयं द्विविधोऽपि वातबस्तिः कृच्छ्रसाध्यः| तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एवं द्विविधोऽप्ययं वातबस्तिः कृच्छ्रसाध्यः| तयोरप्युत्तरः|

Adhikarana वाताष्ठीलानिदानादि, वाताष्ठीलानिदानादिसम्प्राप्तिर्लक्षणञ्च (२३) · Śloka २३

बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठी- लाभं ग्रन्थिं करोति| तेनाऽनिलविण्मूत्रसङ्गो भवत्या- ऽऽध्मानञ्च| सा वाताष्ठीला||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बस्तिविण्मार्ग इत्यादिनाऽष्ठीलालक्षणम्| अष्ठीला पाषाणमयी| तीक्ष्णमाहननोपकरणम् तदाकारो ग्रन्थिरष्ठीला|| २३||

Adhikarana वातकुण्डलिकानिदानम्, वातकुण्डलिकानिदानादि (२४) · Śloka २४

विगुणो वायुर्बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवा- न्वितो मूत्रमाविध्याऽल्पशो वा प्रवर्त्तयन् भ्रमति| सा वातकुण्डलिका||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विगुण इत्यादिवातकुण्डलिकालक्षणम्|| २४||

Adhikarana मूत्रातीतनिदानादि (२५) · Śloka २५

मूत्रमतिवेलं विधार्य्यविमुच्यमानं न प्रवर्त्तते| वाहमानस्य तु कृच्छ्रादल्पं प्रवर्त्तते| तन्मूत्रातीतम्||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मूत्रमतिवेलमित्यादिमूत्रातीतलक्षणम्| वेलामतिक्रान्तमतिवेलम्| वाहमानस्य प्रयन्तं कुर्वतः|| २५||

Adhikarana मूत्रजठरनिदानम्, मूत्रजठरनिदानादि (२६) · Śloka २६

मूत्ररोधपानो वायुर्नाभेरधस्तात् तीव्ररुजामाध्मानं मल- सङ्गञ्च कुर्वन्नुदरमभिपूरयेत्| तन्मूत्रजठरम्||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मूत्ररोधादित्यादि मूत्रजठरलिङ्गम्|| २६||

Adhikarana मूत्रोत्सङ्गनिदानादि (२७) · Śloka १७

मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्त्रवेत्| स मूत्रोत्सङ्गः||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मारुतेनेत्यादि मूत्रोत्सङ्गलक्षणम्| नालं बहिर्मेढ्रस्य बस्तेश्च मध्यम्| मणिर्मेढ्राग्रम्|| २७||

Adhikarana मुत्रग्रन्थिः (२८) · Śloka २८

बस्तिद्वारेऽल्पो वृत्तः शीघ्रसम्भवोऽश्मरीतुल्यलिङ्गो मूत्र- ग्रन्थिः||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बस्तिद्वार इत्यादिना मूत्रग्रन्थिरुच्यते|| २८||

Adhikarana मूत्रशुक्रनिदानादि (२९) · Śloka २९

मूत्रितस्य व्यवायगमनाद्वातोद्भतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक्पश्चाद्वा भस्मोदकसङ्काशं प्रवृर्त्तते| तन्मूत्रशुक्रम्||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मूत्रितस्येत्यादिमूत्रशुक्रलिङ्गम्|| २९||

Adhikarana विड्विघातनिदानादि (३०) · Śloka ३०

वायुना पीडितं शकृन्मूत्रस्त्रोतः प्रपद्यते| ततो विड्गन्धि- विट्संसृष्टञ्च कृच्छ्रान्मूत्रयति| स विड्विधातः||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायुनेत्यादिना विड्विघातः|| ३०||

Adhikarana उष्णवातनिदानादि (३१) · Śloka ३१

अत्यध्वा ऽऽ तपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्ररक्तं सरस्तं वा मूत्रं कृच्छ्रात्प्रवर्त्तयेत्स तूष्णवातः||३१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अत्यध्वेत्यादिनोष्णवातः|| ३१||

Adhikarana मूत्रक्षयनिदानादि सम्प्राप्तिर्लक्षणञ्च (३२) · Śloka ३२

वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति| स मूत्रक्षयः||३२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातपित्तमित्यादिना मुत्रक्षयलक्षणम्|| ३२||

Adhikarana मूत्रावसादनिदानादि (३३) · Śloka ३३

पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते| ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्तिः शुष्कं च शङ्करोचननान्यतरचूर्णं वा सर्ववर्णयुक्तं वा भवति||३३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तमित्यादिना मूत्रावसादः| एवमेषां निदानं सम्प्राप्तिर्लक्षणं चोक्तम्|| ३३||

Adhikarana प्रकरणोपसंहारः प्रकरणान्तरप्रस्तावश्च (३४-९) · Śloka

इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः| निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः||३४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने नवमोध्यायः||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

इति विस्तरत इत्यादिनाऽध्यायमुपसंहरति| द्वितीयं च प्रस्तावयति|| ३४|| इति श्रीमन्माहामहोपध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने नवमोऽध्यायः