Skip to content

१४. कुष्ठश्वित्रकृमिनिदानम्

Adhikarana अथ कुष्ठश्वित्रकृमिनिदानं नाम चतुर्दशोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथातः कुष्ठश्वित्रकृमिनिदान नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

धातूपधातुत्वगेकदोषसामान्याद्विसर्पाऽनन्तरं कुष्ठादिनिर्णयायाध्यायारम्भः|| १||

Adhikarana कुष्ठनिदानं सम्प्राप्तिश्च (२) · Śloka

मिथ्याहारविहारेण विशेषेण विरोधिना| साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः| पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः| सिराः प्रपद्य तिर्य्यग्गास्त्वग्लसीकासृगामिषम्| दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः| त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वकुष्ठानां सामान्येन हेतुमाह-मिथ्याहारेत्यादिना| मिथ्याहारादिना तथा साधुनिन्दावधादिभिर्नानाविधैः पाप्मभिः कर्मभिः सद्यः कृतैः प्राक्तनैर्जन्मान्तरकृतैर्वा| मला दुष्टास्त्वचो वैवर्ण्यं यत्कुर्वन्ति तत् कुष्ठमुशन्ति मुनय इति शेषः| सिराः प्रपद्येत्यादिना सम्प्राप्तिः|| २||

Adhikarana कुष्ठशब्दनिर्वचनम् (३) · Śloka

कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कालेनेत्यादिना कुष्ठशब्दस्यार्थः|| ३||

Adhikarana बाह्यकुष्ठस्य सम्प्राप्तिः (४) · Śloka

प्रपद्य धातून् व्याप्यान्तः सर्वन् संक्लेद्य चावहेत्| सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्| लोमत्वक्स्नायुधमनीस्तरुणाऽस्थीनि यैः क्रमात्| भक्षयेच्छ्वित्रमस्माच्च कुष्ठं बाह्यमुदाहृतम्||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रपद्येत्यादि कालेनोपेक्षितमित्यनुवर्तते| तत् कुष्ठं धातून् प्रपद्यतांश्च संक्लेद्य कृमीनावहेच्छरीरे| यैः कृमिभिः करणभूतैर्लोमादीनि क्रमात् कुष्ठं भक्षयेत्| तरुणास्थीनि कर्णनासादिगतानीह यान्युक्तानि| अस्मात् कारणात् श्वित्रं बाह्यकुष्ठशब्देनोच्यते| क्लेदकृम्याद्यभावात्| सत्यापि त्वग्रोगत्व इत्यर्थः| सुबोधम्|| ४||

Adhikarana कुष्ठप्रभेदाः (५) · Śloka

कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पृथग्दोषैः त्रीणि| संसर्गेण च त्रीणि| सन्निपातेनैकमिति सप्तविधानि कुष्ठानि|| ५||

Adhikarana त्रिदोषजत्वेऽपि कुष्ठानां दोषाधिक्यानुरोधेन व्यपदेशः (६) · Śloka

सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नन्वेवं सत्येकदोषजं द्विदोषजं च कुष्ठं न सर्वं त्रिदोषजं स्यादित्यत आह-सर्वेष्वपीत्यादि| सर्वेष्वपि कुष्ठेषु सन्निपातजेष्वधिकत्वेन व्यपदेशः| सन्निपातस्य समविषमात्मकत्वात्||६||

Adhikarana कुष्ठप्रभेदेषु दोषाधिक्यान्महाकुष्ठानि (७) · Śloka

वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात्| मण्डलाख्यं विचर्ची च ऋश्याख्यं वातपित्तजम्| चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः| वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्रुद्दशतारुषी| पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा| सर्वैः स्यात्काकणं पर्वं त्रिकं दद्रु सकाकणम्| पुण्डरीकर्श्यजिह्वे च महाकुष्ठानि सप्त तु||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातेनेत्यादिना सप्तविधस्य कुष्ठस्य नामान्युच्यन्ते| यान्याश्रित्य लक्षणं विधीयते| वातादेकं पित्तादेकं द्वे कफात्| एकं वातपित्तात्| षड् वातकफात्| षट् कफपित्तात्| एकं सन्निपातादेवमेतान्यष्टदश कुष्ठानि| एषां मध्ये कपालौदुम्बरमण्डलदद्रुकाकणपुण्डरीकर्श्यजिह्वानि सप्त महाकुष्ठान्युच्यन्ते|| ७||

Adhikarana कुष्ठपूर्वरूपम् (८) · Śloka

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः| दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः| व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः| रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोथनम्| रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अतिश्लक्ष्णेत्यादिना सर्वकुष्ठपूर्वरूपम्| अस्वेदोऽयन्तं स्वेदाभावः| कोठा उत्सन्नानि मण्डलानि| व्रणानां भिन्नस्फोटभवानां कोथनम्| रूढानामपि व्रणानां पुनः|| ८||

Adhikarana कापालकुष्ठलक्षणम् (९) · Śloka

कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु| विस्तृतासमपर्य्यन्तं हृषितैर्लोमभिश्चितम्| तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथ क्रमेणाष्टादशानां कुष्ठानां लक्षणमुच्यते-कृष्णारुणेत्यादिना| कपालो घटाकर्परः| सुप्तमचेतनम्| विस्तृतानि विस्तीर्णानि| असमानि ह्रस्वदीर्घाणि पर्य्यन्तानि यस्य तत्तथोक्रम्| शीघ्रसर्पि च क्षिप्रव्यापीति कापालम्|| ९||

Adhikarana औदुम्बरकुष्ठलक्षणम् (१०) · Śloka १०

पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम्| बहलं बहुलक्लेदं रक्तं दाहरुजाकरम्| आशूत्थानावदरणकृमिविद्यादुदुम्बरम्||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्वोदुम्बरफलवत् ताम्राणि त्वग्लोमानि च यस्य तत्तथोक्तम्| बहलं घनम्| आशूत्थानादीनि यस्य तदेवम्| अवदरणं कोथनम्|| १०||

Adhikarana मण्डलकुष्ठलक्षणम् (११) · Śloka ११

स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्| अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमी| श्लक्ष्णपीताभपर्य्यन्तं मण्डलं परिमण्डलम्||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्थिरत्वादियुतं मण्डलं विद्यादिति सम्बन्धः| बहुकण्ड्वादिकं यत्र तत्तथोक्तम्| परिमण्डलं वर्तुलम्|| ११||

Adhikarana विचर्चिकाकुष्ठलक्षणम् (१२) · Śloka १२

सकण्डूपिटकाश्यावालसीकाढ्या विचर्चिका||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सकण्डिवत्यादिना विचर्चिका| लसीका जलप्रायः|| १२||

Adhikarana ऋष्यजिह्वकुष्ठलक्षणम् (१३) · Śloka १३

परुषं तनुरक्तान्तमन्तः श्यावं समुन्नतम्| सतोददाहसृक्क्लेदं कर्कशैः पिटकैश्चितम्| ऋष्यजिह्वाकृतिप्रोक्तमृष्यजिह्वं बहिकृमि||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

परुषमित्यादिना ऋष्यजिह्वम्| ऋष्यजिह्वा रोहिजिह्वा|

Adhikarana चर्मैककुष्ठलक्षणम् (१४) · Śloka १४

हस्तिचर्मखरस्पर्शं चर्म ||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

हस्तिचर्मेत्यादिना चर्म|| १४||

Adhikarana एकाख्यकुष्ठलक्षणम् (१५) · Śloka १५

एकाख्यं महाश्रयम्| अस्वेदं मत्स्यशकलसन्निभं ||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एकाख्यमित्यादिना एकाख्यम्| महाश्रयं गम्भीरमूलम्| मत्स्यशकलसन्निभान्तं च|| १५||

Adhikarana किटिभकुष्ठलक्षणम् (१६) · Śloka १६

किटिभं पुनः| रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम्||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

किटिभमित्यादिना किटिभम्| किणमङ्गे घर्षणात् ग्रन्थिस्तद्वत् खरस्पर्शम्|| १६||

Adhikarana सिध्मकुष्ठलक्षणम् (१७) · Śloka १७

सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्| श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत्| प्रायेण चोर्ध्वकाये स्यात् ||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रूक्षमित्यादिना सिध्मम्|| १७||

Adhikarana अलसकुष्ठलक्षणम् (१८) · Śloka १८

गण्डैः कण्डूयुतैश्चितम्| रक्तैरलसकं ||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

गण्डैः कण्डूयुतैश्चितमित्येवमन्तर्लक्षणम्| अलसकं रक्तैर्गण्डैर्भवति|| १८||

Adhikarana विपादिकाकुष्ठलक्षणम् (१९) · Śloka १९

पाणिपाददार्यो विपादिकाः| तीव्रात्यो मन्दकण्ड्वश्च सरागपिटकाचिताः||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पाणिपाददरणादि विपादिकालक्षणम्|| १९||

Adhikarana दद्रुकुष्ठलक्षणम् (२०) · Śloka २०

दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः| उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दद्रुलिङ्गमाह| दीर्घप्रताना दूर्वावत् शाद्वलकाण्डवत्| उत्सन्नं मण्डलं यस्याः| अनुषङ्गिणी बहुकालस्था|| २०||

Adhikarana शतारुकुष्ठम् (२१) · Śloka २१

स्थूलमूलं सदाहार्तिरक्तश्यावं बहुव्रणम्| शतारुः क्लेदजन्त्वाढ्यं प्रायशः पूर्वजन्म च||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शरुः स्थूलमूलत्वादिलिङ्गम्| जन्तवः कृमयः| पर्वाण्यस्थिसन्धीनि|| २१||

Adhikarana पुण्डरीककुष्ठम् (२२) · Śloka २२

रक्तान्तमन्तरापाण्डुकण्डूदाहरुजान्वितम्| सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः| घनभूरिलसीकासृक्प्रायमाशु बिभेदि च| पुण्डरीकम् ||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तान्तादि पुण्डरीकलक्षणम्| अन्तर्मध्ये आपाण्डुः| अंशवो रजांसि तैराचितम्|| २२||

Adhikarana विस्फोटकुष्ठम् (२३) · Śloka २३

तनुत्वग्भिश्चितं स्फोटैः सिरारुणैः| विस्फोटः ||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तनुत्वग्भिरित्यादिविस्फोटलक्षणम्| विस्फोटास्तनुत्वचः|

Adhikarana पामाकुष्ठलक्षणम् (२४) · Śloka २४

पिटकाः पामाकण्डूक्लेदरुजाधिकाः| सूक्ष्माः श्यावारुणाः बह्वयः प्रायः स्फिक्पाणिकूर्परे||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पिटका इत्यादिपामालक्षणम्| कण्ड्वाद्यन्विताः पिटकाः पामा इत्युच्यन्ते| तच्च पामाख्यं स्फिगादौ प्रायो भवति|| २४||

Adhikarana चर्मदलकुष्ठलक्षणम् (२५) · Śloka २५

सस्फोटमस्पर्शसहं कण्ड्वातोददाहवत्| रक्तं दलच्चर्मदलः ||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सस्फोटमित्यादिना चर्मदलम्|| २५||

Adhikarana काकणकुष्ठलक्षणम् (२६) · Śloka २६

काकणं तीव्रदाहरुक्| पूर्वं रक्तञ्च कॄष्णञ्च काकनन्दीफलोपमम्| कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तीव्रदाहयुतत्वादि काकणलक्षणम्| काकनन्दी गुञ्जा| तत्फलमर्धे कृष्णमर्धे रक्तं भवति| तच्च सर्वदोषजत्वात् सर्वलिङ्गमनेकवर्णं च भवेदिति|| २६||

Adhikarana कुष्ठेषु दोषोल्बणतां तत्तल्लिङ्गकर्मभिर्विद्यात् (२७) · Śloka २७

दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः| कुष्ठेषु दोषोल्बणतां ||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एतेषु च कापालाद्येषु कुष्ठेषु प्रत्येकं वाताद्यन्यतमदोषोल्बणतां (अ. सं. सू. अ. - २०) दोषभेदीयविहितैर्वातादीनां लिङ्गैः कर्मभिश्चादिशेत्| अस्मिन् कुष्ठविशेषे इयान् दोषकोप इति| दोषाणां लिङ्गकर्मभिः स्रंसव्यासादिभिः (अ. सं. सू. अ. - २०) परिपूर्णापरिपूर्णैरध्यवस्येत्|| २७||

Adhikarana कुष्ठे असाध्यं कुष्ठम् (२८) · Śloka २८

सर्वदोषोल्बणं त्यजेत्| रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र यस्मिन् सर्व उवोल्बणास्तं त्यजेत्| रिष्टोक्तं (अ. सं. शा. - ७१५) 'कुष्ठं विशीर्य्यमाणाङ्गं' इत्यादिना अस्थ्याद्याश्रयं यत्तच्च त्यजेत्| अस्थ्याद्याश्रयस्यात्रैव लक्षणं वक्ष्यते (अ. सं. वि. - ५५९) इत्येतत्सर्वमसाध्यम्|| २८||

Adhikarana याप्यकुष्ठम् (२९) · Śloka २९

याप्यं मेदोगतं ||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मेदोगतं याप्यम्|| २९||

Adhikarana कृच्छ्रकुष्ठम् (३०) · Śloka ३०

कृच्छ्रं पित्ताद्वन्द्वास्रमांसगम्||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तादिविशिष्टं कृच्छ्रम्|| ३०||

Adhikarana सुखसाध्यं कुष्ठम् (३१) · Śloka ३१

अकृच्छ्रं कफवातढ्यं त्वक्स्थमेकमलञ्च यत्||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफवातजमकृच्छ्रं सुखमित्यर्थः| तथा त्वगाश्रयमेकदोषं च|| ३१||

Adhikarana त्वग्गतकुष्ठलक्षणम् (३२) · Śloka ३२

तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना त्वगाद्याश्रयविशेषवशेन कुष्ठलक्षणमुच्यते| तेषु मध्ये त्वचि स्थिते कुष्ठे तोदादयः|| ३२||

Adhikarana त्वग्गतकुष्ठलक्षणम् (३३) · Śloka ३३

स्वेदस्वापश्वयथवः शोणिते||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शोणितस्थिते स्वेदादयः|| ३३||

Adhikarana मांसगतकुष्ठलक्षणम् (३४) · Śloka

पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पाणिपादस्फोटादयो मांसगे|| ३४||

Adhikarana मेदोगतकुष्ठलक्षणम् (३५) · Śloka ३५

कौण्यं गतिक्षयोऽङ्गानां दूलनं स्याच्च मेदसि||३५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कौण्यादयो मिदःस्थिते| कौण्यं विकलपाणित्वम्|| ३५||

Adhikarana अस्थिमज्जगतकुष्ठ लक्षणम् (३६) · Śloka ३६

नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः| क्षते च कृमयः ||३६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नासाभङ्गो नेत्ररागः स्वरक्षयः क्षते च कृमयश्चेत्येतदस्थिस्थे मज्जस्थे च|| ३६||

Adhikarana शुक्रगतकुष्ठलक्षणम् (३७) · Śloka ३७

शुक्रे स्वदारापत्यबाधनम्||३७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्वदाराणामपत्यानां च बाधनं कुष्ठसम्भवः शुक्राश्रिते कुष्ठे भवति|| ३७||

Adhikarana रक्ताद्याश्रितकुष्ठेषु यथापूर्वं लिङ्गानाञ्च सम्भवः (३८) · Śloka ३८

यथापूर्वञ्च सर्वाणि स्युर्लिङ्गान्यसृगादिषु||३८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

असृगादिस्थिते कुष्ठे यथापूर्वं लिङ्गानि स्युः| यस्मिन् धातौ स्थितं तस्य यः पूर्वो धातुः तल्लिङ्गान्यपि तत्र भवन्तीत्यर्थः| तेन रक्ताश्रये त्वग्लिङ्गान्यपि तत्र भवन्ति| मांसाश्रये कुष्ठे त्वग्रक्ताश्रयाणि| मेदोगे त्वग्रक्तमांसाश्रयाणि| अस्थिगे त्वगादिमेदोऽन्ताश्रयाणि लक्षणानि| एवं यावच्छुक्रम्| शुक्रगे सर्वाण्येव लिङ्गानि भवन्तीत्युक्तं कुष्ठम्|| ३८||

Adhikarana श्वित्रस्य निदानादि (३९) · Śloka ३९

कुष्ठैकसम्भवं श्वित्रं किलासं चारुणञ्च तत्| निर्दिष्टमपरिस्रावित्रिधातूद्भवसंश्रयम्||३९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कुष्ठैकसम्भवमित्यादिना श्वित्रमुच्यते| कुष्ठेनैकः सदृशो निदानदोषदूष्यसम्प्राप्त्यादिकं सम्भवो यस्य तत् तथोक्तम्| तच्च श्वित्रं नाम्ना किलासं चारुणमपरिस्रावि च निर्दिष्टमाचार्य्यैः| तथा त्रिधातूद्भवसंश्रयं त्रयो धातवो वातपित्तश्लेष्माण उद्भवः त्रयस्य| धातवो रक्तमांसमेदोलक्षणा आश्रयो यस्य तत्तथोक्तम्| धातुशब्देनोभयमुद्भवश्च संश्रयश्च गृह्यते|| ३९||

Adhikarana श्वित्रे दोषभेदेन वर्णभेदः (४०) · Śloka ४०

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्| सदाहं रोमविध्वंसिकफाच्छ्वेतं घनं गुरुः| सकण्डू च क्रमाद्रक्तमांसमेदस्सु चादिशेत्||४०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातादित्यादिनोद्भवधातुत्रयक्रमेण लक्षणमुच्यते| संश्रयधातुषु वर्णेनैवेदृक्क्रमेणैवादिशेत्| तेन रूक्षारुणं वर्णेन रक्ताश्रितं श्वित्रम्| ताम्रं मांसगतम्| श्वेतं मेदोगतमिति|| ४०||

Adhikarana श्वित्रे यथोत्तरं कृच्छ्रत्वम् (४१) · Śloka ४१

वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्||४१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उभयं क्रमेण कृच्छ्रम्| तच्चोत्तरोत्तरम्| उभयं वाताद्युद्भवं रक्तादिसंश्रयं चोत्तरोत्तरं कृच्छ्रसाध्यम्| तेन वातजं रक्ताश्रितं कृच्छ्रम्| ततोऽपि पित्तजं मांसाश्रितम्| ततोऽपि कफजं मेदोगतम्|| ४१||

Adhikarana साध्यश्वित्रलक्षणम् (४२) · Śloka ४२

अशुक्लरोमा बहुलमसंसृष्टं मिथोनवम्| अनग्निदग्धजं साध्यं श्वित्रं ||४२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अशुक्लरोमत्वादियुक्तं श्वित्रं साध्यम्|| ४२||

Adhikarana असाध्यश्वित्रलक्षणम् (४३) · Śloka ४३

वर्ज्यमतोऽन्यथा| गुह्यपाणितलोष्ठेशु जातमप्यचिरन्तनम्| वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता||४३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तद्विपर्यये वर्ज्यम्| गुह्यादिषु जातमचिरन्तमपि वर्ज्यम्|

Adhikarana सर्वरोगाणां सङ्क्रामकत्वम् (४४) · Śloka ४४

स्पर्शैकाहारश्य्यादिसेवनात् प्रायशो गदाः| सर्वे सञ्चारिणो नेत्रत्वग्विकाराविशेषतः||४४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रसङ्गेनाह-स्पर्शेत्यादि| सुबोधम्| इति श्वित्रमुक्तम्|

Adhikarana कृमीणां द्वैविध्यम् (४५) · Śloka ४५

कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः||४५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कृमय उच्यन्ते| द्विविधाः कृमयः| बाह्या अभ्यन्तरश्च|| ४५||

Adhikarana कृमीणां चातुर्विध्यम् (४६) · Śloka ४६

बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः||४६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

जन्मभेदेन चतुर्विधाः केचिद्बहिर्मलजाः| केचित्कफजाः केचिदसृग्जाः| केचिद्विड्जाः| इति बहिर्मलाः शरीरबाह्यः केशवस्त्रादिमलः|| ४६||

Adhikarana कृमीणां सङ्ख्या (४७) · Śloka ४७

नामतो विंशतिविधाः ||४७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पुनर्नामभेदेन सर्वे विंशतिविधाः|| ४७||

Adhikarana बाह्यकृमिनिदानप्रमाणादि (४८) · Śloka ४८

बाह्यास्तत्रामृतोद्भवाः| तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः| बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः| द्विधा ते कोठपिटकाकण्डूकण्डान् प्रकुर्वते||४८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र बाह्या बहिर्मलजाः| ते ह्यमृजाहेतुकाः|| ४८||

Adhikarana आन्तरकृमीणां कारणात्कुष्ठोत्पत्तिः (४९) · Śloka ४९

कुष्ठैकसम्भवोऽन्तर्जाः||४९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कुष्ठेत्यादि| अन्तर्जाः कफादिजन्मानः| सर्वे कुष्ठैकहेतवः|

Adhikarana श्लेष्मजकृमीणां विशेषनिदानम् (५०) · Śloka ५०

श्लेष्मजास्तेषु चाधिकम्| मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः||५०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु चान्तरेषु मध्ये श्लेष्मजा अधिकं मधुरादिभिर्भवन्ति|

Adhikarana पुरीषजकृमीणां विशेषनिदानम् (५१) · Śloka ५१

शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः||५१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शकृज्जा बहुविड्धान्यादिभिर्जायन्ते| ओकुलं कृतान्न उक्तम्| काण्डस्थान्यपक्वानि भृष्टानि स्यानीति|| ५१||

Adhikarana कफजकृमीणां सम्भवस्थानानि (५२) · Śloka ५२

कफादाऽऽमाशये जाता बद्धा सर्पन्ति सर्वतः| पृथुब्रध्ननिभाः केचित्केचित् गण्डूपदोपमाः| रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः| श्वेता ताम्रावभासाश्च नामतः सप्तधा तु ते| अन्त्रादा उदरवेष्टाहृदयादा महारूहाः| चुरवो दर्भकुसुमाः सुगन्धाः ते तु कुर्वते| हृल्लासमास्यस्रवणमविपाकमरोचकम्| मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्||५२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफादित्यादि| तत्र कफजा आमाशये जाताः| वृद्धाः सन्तः पश्चात्सर्वजठरे सर्पन्ति| सुबोधम्|

Adhikarana रक्तजकृमीणां स्थानमाकृतिश्च (५३) · Śloka ५३

रक्तवाहिसिरास्थानारक्तजा जन्तवोष्णवः| अपादावृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः||५३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तवाहीत्यादि| रक्तजा जन्तवः अणवः सूक्ष्मास्तेषां रक्तवाहिन्यः सिराः स्थानम्|| ५३||

Adhikarana रक्तजकृमीणां नामानि (५४) · Śloka ५४

केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः| षट् ते कुष्ठैककर्माणः सहसौरसमातरः||५४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ते च केशादादयश्चत्वारः| सहसौरसमातर इति द्वौ| एवं षट्| एके सौरसाः| अपरे मातरः|| ५४||

Adhikarana पुरीषजकृमीणां स्थानम् (५५) · Śloka ५५

पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः||५५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्वेत्यादि| पुरीषोत्थाः कृमयः पक्वाशये जायन्ते| अधोमुखाश्च भवन्ति|| ५५||

Adhikarana पुरीषजकृमीणां वृद्धौ लक्षणानि (५६) · Śloka ५६

वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः| तदाऽस्योद्गारनिःश्वासाविड्गन्धानुविधायिनः||५६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च वृद्धत्वाद्यदाऽऽमाशयोन्मुखता भवति तदाऽस्य पुरुषस्योद्गारनिःश्वासा विड्गन्धानुविधायिनो भवन्ति|| ५६||

Adhikarana पुरीषजकृमीणामाकृतिर्वर्णश्च (५७) · Śloka ५७

पुथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः||५७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ते च पृथ्वादिगुणाः|| ५७||

Adhikarana पुरीषजकृमीणां नामानि (५८) · Śloka ५८

ते पञ्च नाम्ना कृमयः ककेतुकमकेरुकाः| सौसुरादाः सलूनाख्या लेहिहाः||५८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ककेरुकादयः लेलिहान्ताश्चेति पञ्च नामानः|| ५८||

Adhikarana पुरीषजकृमिविकाराः (५९-१४) · Śloka १४

जनयन्ति च| विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुतः| रोमहर्षाग्निसदनगुदकण्डूविनिर्गमान्||५९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग- संग्रहसंहित्यां निदानस्थाने कुष्ठश्वित्रकृमि- निदानंनाम चतुर्दशोऽध्यायः||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एते विड्भेदादीन् जनयन्ति| एवं विंशतिः कृमयः| द्वौ बहिर्मलजौ| सप्त कफजाः| षड्रक्तजाः| पञ्च पुरीषजाः इति|| ५९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां निदानस्थाने चतुर्दशोऽध्यायः