Skip to content

१३. पाण्डुरोगकामलाशोफविसर्पनिदानम्

Adhikarana प्रतिज्ञा (१) · Śloka

अथातः पाण्डुरोगकामलाशोफविसर्पनिदानं नामा- ध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मांसाद्युपघातदोषकोपसादृश्यादुदरानन्तरं पाण्ड्वादिनिर्णयाध्यायारम्भः || १ ||

Adhikarana पाण्डुरोगनिदानं सम्प्राप्तिनिरुक्तीनि (२) · Śloka

पित्तप्रधानाः कुपिताः यथोक्तैः कोपनैर्मलाः| तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्| धमनीर्दश सम्प्राप्य व्याप्नुवत्सकलां तनुम्| श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्| त्वङ्मांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान्| पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्| यतोऽतः पाण्डुरित्युक्तः स रोगः||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मला दुष्टा वातादयः सर्वे यथोक्तैस्तिक्तकटुकादिभिः सर्वरोगनिदानोक्तैः (अ. सं. नि. सू. - २६-३०) कोपनैः कुपिताः | पित्ताधिका यत्र भवन्तीति | यत्तदोर्नित्यसम्बन्धाद्विज्ञेयम् | तत्रेत्यादिना पाण्डुरोगस्य सम्प्राप्तिनिरुक्तिः | तदिति पित्तपरामर्शः | त्वङ्मांसयोरन्तरं प्राप्य त्वचि पृथग्विधान् वर्णान् कुरुते | तत्र च पाण्डुत्वमधिकमतः स रोगः पाण्डुरित्युक्तः || २ ||

Adhikarana पाण्डुरोगसामान्यलक्षणम् (३) · Śloka

तेन गौरवम्| धातूनां स्याच्च शैथिल्यमोजसश्छ गुणक्षयः| ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः| मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च| शूनाक्षिकूटवदनः कोपनः ष्ठीवनोऽल्पवाक्| अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः| सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेन च पाण्डुरोगेण शरीरगौरवं स्यात् | धातूनां शैथिल्यं स्वरूपाद्धानिः | ओजः नाम प्रधानो धातुः | पूर्वोक्तं (अ. सं. शा. - ३४२-३४३) | प्रसृतमानं तस्य | ये गुणा मन्दस्निग्धादयः (अ. सं. नि. - २०८-२१०) | तेषां हानिः | ततो धातुषु शिथिलेषु ओजसि च क्षीणगुणे अल्परक्तादियुक्तो ना पुरुषः स्यात् || ३ ||

Adhikarana पाण्डुरोगप्रभेदाः (४) · Śloka

स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सुबोधमन्यत् || ४ ||

Adhikarana पाण्डुरोगपूर्वरूपाणि (५) · Śloka

प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि| अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता| सादः श्रमः ||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वस्य पाण्डुरोगस्य हृदयस्पन्दनादिपूर्वरूपम् || ५ ||

Adhikarana वातजपाण्डुरोगलक्षणम् (६) · Śloka

अनिलात्तत्र गात्ररुक्तोदकम्पनम्| कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता| शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक्||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

गात्ररुगादि वातपाण्डुरोगलक्षणम् || ६ ||

Adhikarana पित्तजपाण्डुरोगलक्षणम् (७) · Śloka

पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः| तृट्स्वेदमूर्च्छा शीतेच्छा दौर्गन्ध्यं कटुवक्त्रता| वर्चोभेदोऽम्लको दाहः||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

हरितसिरादित्वादि पित्तात् पाण्डुरोगे भवति || ७ ||

Adhikarana कफजपाण्डुरोगलक्षणम् (८) · Śloka

कफाच्छुक्लसिरादिता| तन्द्रालवणवक्त्रत्वं रोमहर्षः स्वरक्षयः| कासश्छर्दिश्च ||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शुक्लसिरादित्वादिछर्द्यन्तं कफात् पाण्डुरोगे भवति | आदिग्रहणेन नखविण्मूत्रनेत्राणां ग्रहणम् || ८ ||

Adhikarana सन्निपातजपाण्डुरोगलक्षणम् (९) · Śloka

निचयान्मिश्रलिङ्गः सोऽतिदुःसहः||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana मृद्भक्षणजन्यपाण्डुरोगनिदानादि (१०) · Śloka १०

मृत्कषायाऽनिलं पित्तमूषरा मधुरा कफम्| दूषयित्वा रसादींश्छ रौक्ष्याद्भुक्तं विरूक्ष्य च| स्रोतांस्यपक्वैवापूर्य्य कुर्याद्रूध्वा च पूर्ववत्| पाण्डुरोगं ततः शूननाभिपादास्यमेहनः| पुरीषं कृमिवन्मुञ्चेद्भिन्नं साऽसृक्कफं नरः||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कषाया मृदनिलं दूषयित्वा, ऊषरा मृत्कफं दूषयित्वा; पाण्डुरोगं कुर्यादिति सम्बन्धः | मृदो रसविशेषेण दोषविशेषकोपनत्वं रसादिदूषणं साधारणम् | स्रोतांस्यापूर्य रूध्वा च | पूर्ववदिति पाण्डुरोगसमानसम्प्राप्त्या तैरेव च लक्षणैरिति | ततोनरः शूननाभ्यादियुतः | अत्र तु नाभिश्वयथ्वादिर्विशेष इत्यर्थः | उक्तः पाण्डुरोगः || १० ||

Adhikarana कामिलानिदानम् (११) · Śloka ११

यः पाण्डुरोगी सेवेत पित्तलं तस्य कामिलाम्| कोष्ठशाखाश्रयं पित्तं दग्ध्वाऽसृङ्मांसमावहेत्||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथ तदङ्गभूता कामिलोच्यते | पाण्डुरोगी यो नरः पित्तलमाहारादिकं सेवते तस्य कामिलां पित्तमावहेत् | किं कृत्वेत्याह-असृङ्मांसं दग्ध्वा | तस्याश्छोभयो मार्गः कोष्ठः शाखा च || ११ ||

Adhikarana कामिलाया लक्षणम् (१२) · Śloka १२

हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तथा| दाहाविपाकतृष्णावान्भेकाभो दुर्बलेन्द्रियः|१२|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana पाण्डुरोगाद्विनापि कामलायाः सम्भवः (१२) · Śloka १२

भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेπ च||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

असौ च कामिलाख्यो रोगः पाण्डुरोगाद्विना पित्तोल्बणस्य पुंसो भवति | अपि चेति युक्तिसमुच्चये || १२ ||

Adhikarana कुम्भकामिलालक्षणम् (१३) · Śloka १३

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामिला||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उपेक्षया अचिकित्सया | शोफाढ्या सती कुम्भकामिलेत्युच्यते | सा च कृच्छ्रसाध्या || १३ ||

Adhikarana हलीमकलक्षं तत्पर्यायौ च (१४) · Śloka १४

हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्| वातपित्ताद् भ्रमस्तृष्णास्त्रीष्वहर्षो मृदुर्ज्वरः| तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्| अलसञ्चेति शंसन्ति||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पाण्डुरोगे यदा हरितादिरूपत्वं वातपित्ताधिक्याद्भवेद् भ्रमादिकं च तदाऽसौ रोगो हलीमक उच्यते | तमेव लोढरमलसञ्च शंसन्ति || १४ ||

Adhikarana निरूपणप्रतिज्ञा (१५) · Śloka १५

तेषां पूर्वमुपद्रवाः| शोफप्रधानाः कथिताः स एवातो निगद्यते||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषामिति प्रधानानां पाण्डुरोगाणां ग्रहणम् | पूर्वमिति विकृतव्याधिविज्ञानीये शोथप्रधाना उपद्रवाः कथिताः 'पाण्डुरोगः श्वयथुमान्' (अ. सं. शा.) इत्यादिना | अतः कारणादत्र शोफ एव निगद्यत इति शोफं प्रति ग्रन्था निगद्यत इत्यर्थः || १५ ||

Adhikarana शोफस्य सम्प्राप्तिः, सान्निपातिकत्वञ्च (१६) · Śloka १६

पित्तरक्तकफान्वायुर्दुष्टो दुष्टान् बहिःसिराः| नीत्वा रूद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्| उत्सेधं संहतं शोफं तमाहुर्निचयादतः| सर्वम् ||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वायुः स्वकारणेन दुष्टः पित्तादीन् दुष्टान् बहिःसिरा नीत्वा तैः पित्तादिभी रूद्धगतिः सन् त्वचं मांसं चाश्रयन् उत्सेधं संहतं शोफं नाम्ना रोगं कुर्य्यात् | अतः कारणात् सर्वशोफो निचयात्मकः || १६ ||

Adhikarana शोफस्य प्रभेदाः (१७) · Śloka १७

हेतुविशेषैस्तु रूपभेदान्नवात्मकम्| दोषैः पृथग्द्वयं सर्वैरभिघाताद्विषादपि||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एवमुक्तोऽपि स्वलिङ्गविशेषवशान्नवात्मादोषादिभेदेन| दोषैः पृथक्संसृष्टैः सन्निपतितैश्चेति सप्त| अभिघाताद्विषादिति द्वौ||१७||

Adhikarana शोफस्य द्विविधं, द्वैविध्यं त्रैविध्यञ्च (१८) · Śloka १८

द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजञ्च तम्| पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथवा किं नवात्मकत्वेन द्विधैवोच्यताम्| वाताद्युत्था निजाः शेष आगन्तुरिति| सर्वाङ्गैकाङ्गभेदेनापरं द्वैविध्यम्| पृथ्वादिविशेषेण तस्यैव त्रिविधत्वम्|| १८||

Adhikarana शोफस्य निदानसम्प्राप्तिश्च (२०) · Śloka १९

सामान्यहेतुः शोफानां दोषजानां विशेषतः| व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्| अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्| लवणक्षारतीक्ष्णोष्णशाकाम्बुस्वप्नजागरम्| मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्| पदातेर्मार्गगमनं यानेन क्षोभिणापि वा| श्वासकासातिसारर्शो जठरप्रदरज्वराः| विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः| अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः| ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः| सर्वाङ्गाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र दोषजानधिकृत्याह-सामान्यहेतुरित्यादि| वातादिजानां शोफानां हेतुः| सामान्यः साधारणः सर्वरोगनिदानाद्युक्तः (अ. सं. नि. - २६-३०)| व्याधीत्यादि| तेषां विशेषतोऽतिशयेन हेतुः| व्याधिभिः क्षीणस्य द्रुतं झटिति गुर्वादि भजतः| व्याधिक्षीणादिमत्त्वं विनैवान्यस्याऽतिमात्रं मात्राधिक्येन गुर्वादिकं भजतः| स्वप्नजागरणकाल इत्यर्थात्| वल्लूरं शुष्कमांसम्| अजीर्णे अध्वादिना श्रमः| अजीर्ण एव च मैथुनम्| प्रदरोऽतिरजः| श्वासादयोऽन्ये च रोगा मिथ्योपक्रा न्तास्तैर्हेतुभिः दुष्टाः| वक्षसि स्थिताः शरीरस्य पूर्वभागे शोफं कुर्वन्ति इति सम्बन्धः| बस्तौ स्थिता अधः शोफं कुर्वन्ति| सुबोधम्| तदित्यङ्गपरामर्शः||२०||

Adhikarana शोफपूर्वरूपम् (२०) · Śloka २०

तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दवथ्यादि सर्वशोफेषु पूर्वरूपम्| चक्षुरादीन्द्रियेषु दाहो दवथुः||२०||

Adhikarana वातजशोफलक्षणम् (२१) · Śloka २१

वातच्छोफश्चलो रूक्षः खररोमारुणासितः| सङ्कोचस्पन्दहर्षार्त्तितोद भेदप्रसुप्तिमान्| क्षिप्रोत्थानशमः शीघ्रमुन्नमेत्पीडितस्तनुः| स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्| त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातादित्यादिनाक्रमेण नवानां शोफानां लक्षणमुच्यते| चलत्वादिरूपो वातात्|| २१||

Adhikarana पित्तजशोफलक्षणम् (२२) · Śloka २२

पीतरक्तासिताभासः पित्तादाताम्ररोकृत्| शीघ्रानुसारप्रशमो मध्ये प्राग्ग्जायते तनोः| सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः| शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पीतेत्यादिपित्तात्|| २२||

Adhikarana कफजशोफलक्षणम् (२३) · Śloka २३

कण्डूमान् पाण्डुरोमत्वक् कठिनः शीतलो गुरुः| स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राच्छर्द्यग्निसादकृत्| आक्रान्तो नोन्नमेकृच्छ्रशमजन्मा निशाबलः| स्रवेन्नासृक्क्चरात्पिच्छां कुशशस्त्रादिविक्षतः| स्पर्शोष्णकांक्षी च कफात् ||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कण्डूमानित्यादिकफात्| स्त्यानो घनीभूतः| आक्रान्तः करपीडितः| कुशादिक्षतः संश्चिरात् पिच्छां स्रवेत्|| २३||

Adhikarana संसर्गसन्निपातशोफाः (२४) · Śloka २४

यथास्वं द्वन्द्वजास्त्रयः| सङ्कराद्धेतुलिङ्गानां निचयान्निचयात्मकः||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रयः संसर्गात्| यथास्वं हेतुना सङ्कराद्यथास्वं लिङ्गसङ्कराच्च| सन्निपातजः शोफो हेतुलिङ्गानां निचयाद्भवति|| २४||

Adhikarana अभिघातजशोफलक्षणम् (२५) · Śloka २५

अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः| हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः| रसैश्शूकैश्च संस्पर्शाच्छवथुः स्याद्विसर्पवान्| भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शस्त्रादिक्षताद्धिमादिभिश्च यः शोफः सोऽभिघातेन विद्यात्|

Adhikarana विषजशोफलक्षणम् (२६) · Śloka २६

विषजः सविषप्राणिपरिसर्पणमूत्रणात्| दंष्ट्रादन्तनखापातादिविषप्राणिनामपि| विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्| विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्| विषज इत्यादिना नवमशोफलक्षणम्| विषप्राणिनः सर्पादयः| परिसर्पणं गमनम्| अविषप्राणिनामपि दंष्ट्रादिपातात्| दंष्ट्रा सूकरादीनाम्| दन्तनखपुरुषादीनामपि सुबोधम्| गरो वक्ष्य मृदुश्चलोऽवलम्बी च शीग्रदाहरुजाकरः||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विषज इत्यादिना नवमशोफलक्षणम्| विषप्राणिनः सर्पादयः| परिसर्पणं गमनम्| अविषप्राणिनामपि सुबोधम्| गरो वक्ष्यमाणलक्षणः(उ. अ. - ४०)| मृदुरित्यादि नवमशोफलक्षणम्||२६||

Adhikarana शोफानां साध्याऽसाध्यत्वम् (२७) · Śloka २७

नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नवैत्यादिना साध्यशोफलक्षणम्| असाध्यस्तु पुरा विकृतव्याधिविज्ञानीये (अ. सं. शा. - ७११-७१२) ईरितः उक्तः| 'अनेकोपद्रवयुत' इत्यादिना| इत्युक्तः शोफः|| २७||

Adhikarana विसर्पनिदानम्, अतिदेशेन विसर्पस्य निदानं, सम्प्राप्तिश्च (२८) · Śloka २८

स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं विसर्प उच्यते| विषवर्ज्यं हेतुं दूष्यं च विसर्पे शोफवत्|| २८||

Adhikarana विसर्पाणां त्र्याश्रयत्वं यथोत्तरं दुःसाध्यत्वञ्च (२९) · Śloka २९

त्र्यधिष्ठानञ्च तं प्राहुर्बाह्यान्तरुभयाश्रयात्| यथोत्तरं च दुःसाधाः||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तञ्च विसर्पं त्र्यधिष्ठानञ्च प्राहुर्मुनय इति शेषः| कश्चित् बाह्याश्रयः| कश्चिच्चान्तराश्रयः| बाह्यान्दान्तरो दुस्साधः| तत् उभयाश्रय इति यथोत्तरार्थः|| २९||

Adhikarana विसर्पनिदानादि (३०) · Śloka ३०

तत्र दोषा यथायथम्| प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः| देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः| बहिःस्था द्वितये द्विस्थाः ||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विदाहिभिः विदाहिसंयुक्तैः| स्वहेतुभिः प्रकुपिता देहे विसर्पन्ति|| ३०||

Adhikarana अन्तर्बहिराश्रयविसर्पलक्षणम् (३१) · Śloka ३१

विद्यात्तत्रान्तराश्रयम्| मर्मोपतापात्सम्मोहादयनानां विघट्टनात्| तृष्णातियोगाद्वेगानां विषमञ्च प्रवर्त्तनात्| आशु चाग्निलभ्रंशादतो बाह्यं विपर्य्ययात्||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विद्यादित्यादिनान्तर्बहिर्भेदलिङ्गमाह| मर्मोपतापाद्यान्तरविसर्पलक्षणम्| मर्मणां हृदयादीनामुपतापस्तथोक्तः| मोह एव सम्मोहः| अयनानि स्रोतांसि तेषां विघट्टनात् पीडनादाऽऽन्तरं विसर्पं विद्यादिति सम्बन्धः| आन्तरलिङ्गविपर्ययात् बाह्यं विद्यात्||३१||

Adhikarana वातविसर्पलक्षणम् (३२) · Śloka ३२

तत्र वातात् परीसर्पो वातज्वरसमव्यथः| शोफस्फुरणनिस्तोदभेदाऽऽयामार्त्तिहर्षवान्||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना वातादिक्रमेणाष्टानां विसर्पाणां लक्षणमुच्यते| सुबोधम्|| ३२||

Adhikarana पित्तविसर्पलक्षणम् (३३) · Śloka ३३

पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः|३३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana कफजविसर्पलक्षणम् (३३) · Śloka ३३

कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्|३३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana विसर्पस्योपेक्षायां स्फोटसम्भवः (३३) · Śloka ३३

स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः| ते पक्वभिन्नाः स्वं-स्वञ्च विभ्रति व्रणलक्षणम्||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वे वातादिविसर्पा उपेक्षिताः सन्तः स्वकारणदोषलक्षणैः स्फोटैश्चीयन्ते| ते च स्फोटाः पूर्वं पक्वाः पश्चात् भिन्नाः स्वंस्वं वातादिव्रणलक्षणं बिभ्रति (अ. सं. उ. अ. - २९)| वात स्फोटा वातव्रणलक्षणम्| एवमन्ययोरपि वाच्यम्|| ३३||

Adhikarana अग्निविसर्पनिदानादि (३४) · Śloka ३४

वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्भ्रमैः| अस्थिभेदाग्निसदनतमकाऽरोचकैर्युतः| करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्| यं यं देशं विसर्पश्च विसर्पति भवेत्स सः| शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते| अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतञ्च सः| मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः| व्यथेताङ्गं हरेत्संज्ञा निद्राञ्च श्वासमीरयेत्| हिध्माञ्च स गतोऽवस्थामीदृशीं लभते न ना| क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु| चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्| दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते||३४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातपित्तादग्निवीसर्पो भवति| ज्वरादिभिर्युतः सर्वञ्च शरीरं दीप्तैरङ्गारैरवकीर्णमिव करोति| स च विसर्पो यं यं देहदेशं विसर्पति स स देशः वान्ताङ्गारवत् कृष्णो नीलो वा रक्तो वा भवति| स च विसर्पोऽग्निदग्धवत्स्फोटैश्चीयते| वातपित्तकारणात्वेन शीघ्रगत्वात् झटिति मर्माणि हृदयादीन्यनुसरति| ततो मर्मानुसरणादूर्ध्वमतिबलो वातोऽङ्गव्यथादिकं कुर्यात्| स ना पुरुष इदृशीमवस्थां गतोऽरतिग्रस्ततया भूम्यादिषु न क्वछिच्छर्म सुखं लभते| तथा चेष्टमानः क्लिष्टः सन् मनोदेहश्रमोद्भवां निद्रामश्नुते यदा तदा दुष्प्रबोधो भवति| स नाम्नाऽग्निवीसर्पः||३४||

Adhikarana ग्रन्थिविसर्पनिदानादि (३५) · Śloka ३५

कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्| रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्| दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्| ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्| श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः| मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाऽग्निसदनैर्युताम्| इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः||३५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातकफात् ग्रन्थिवीसर्पो भवति| तस्यैव कफेनेत्यादिना सम्प्राप्तिर्लक्षणं चोच्यते| तं कफं बहुधा भित्वा वा वृद्धरक्तस्य पुरुषस्य पवनो रक्तं खण्डशः कृत्वा वा ग्रन्थीनां मालां कुरुते| उभयथापि श्वासादियुताम्| किम्भूतं रक्तमाऽऽह| त्वगादिगं दूषयित्व चेत्यर्थात् त्वगादीनेव|| ३५||

Adhikarana कर्दमविसर्पनिदानादि (३६) · Śloka ३६

कफपित्ताज्ज्वरः स्तम्भो तन्द्रानिद्राशिरोरुजः| अङ्गावसादविक्षेपप्रलापाऽरोचकभ्रमाः| मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्| आमोपवेशनं लेपः स्रोतसां स च सर्पति| प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक्| पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः| मेचकाभोऽसितः स्निग्धो मलिनः शोफवान्गुरुः| गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते| पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः| शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्||३६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफपित्तात् ज्वरादियुक्तो विसर्पो भवति| तमाचार्याः कर्दमाख्यमुशन्ति| विक्षेपोऽङ्गानाम्| इन्द्रियाधिष्ठानगौरवमुपचारादिन्द्रियगौरवम्| स च विसर्पः प्रायेणामाशयैकदेशं गृह्णन् विसर्पति| मेचकः कृष्णकपिलः| मांसे शीर्णे स्पष्टाः स्नाय्वादयो यत्र स तथोक्तः|| ३६||

Adhikarana सान्निपातिकविसर्पलक्षणम् (३७) · Śloka ३७

सर्वजो लक्षणैः सर्वैः सर्वधात्वभिसर्पणः||३७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सन्निपातजो विसर्पः सर्वधात्वभिसर्पणो भवति|| ३७||

Adhikarana अभिघातजविसर्पस्य हेतुसम्प्राप्तिलक्षणानि (३८) · Śloka ३८

बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्| विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्| स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्||३८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

बाह्यहेतोरित्यादिना अभिघातजविसर्प उच्यते| सुबोधम्|

Adhikarana विसर्पाणां साध्यासाध्यत्वम् (३९-१३) · Śloka १३

पृथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः| असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः| शीर्णस्नायुसिरामांसा प्रक्लिन्नाः शवगन्धयः||३९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायां निदानस्थाने पाण्डु- कामला-शोफ-विसर्पनिदानं नाम त्रयोदशोऽध्यायः||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पृथगित्यादि साध्यासाध्यविसर्पलक्षणम्| पृथग्दोषैर्वातादिभिस्त्रयो विसर्पाः साध्याः| द्वन्द्वजाः संसर्गजाः अनुपद्रवाः सन्तः साध्याः| उपद्रवाः शारीरोक्ताः कार्श्य(कास)वैवर्ण्यादयः (अ. सं. शा.-७१४)| क्षतजः सन्निपातजश्चासाध्यः| सर्वे च विसर्पा आक्रान्तमर्मत्वादियुता असाध्या इति|| ४०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने त्रयोदशोऽध्यायः