Adhikarana अथ वातव्याधिनिदानं नाम पञ्चदशोऽध्यायः | प्रतिज्ञा (१) · Śloka १
अथारो वातव्याधिनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
महारोगत्वसामान्यात्कुष्ठाननन्तरं वातव्याधिनिर्णयायाध्यायारम्भः|| १||
Adhikarana अदुष्टदुष्टवायोरर्थानर्थकारणत्वादि (२) · Śloka २
सर्वार्थानर्थकरणे विश्वस्याऽस्यैककारणम्|
अदुष्टदुष्टः पवनः शरीरस्य विशेषतः||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पुरुषेण वातादुष्टौ सदा यतितव्यम्| यतोऽस्य विश्वस्य सर्वप्रयोजनकरणे सर्वोपद्रवकरणे च यथाक्रमेण दुष्टोऽदुष्टश्च पवनः कारणम्|| २||
Adhikarana वायुस्तुतिः (३) · Śloka ३
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः|
स्रष्टा धाता विभुर्विष्णुः संहर्त्ता मृत्युरन्तकः|
तददुष्टौ प्रयत्नेन यतितव्यमतः सदा||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शरीरस्य तु विशेषेणाऽदुष्टदुष्टोऽर्थानर्थकारणम्| स विश्वकर्मेत्यादि पूर्वाचार्य्यशैल्याद्वायुस्तोत्रम्|| ३||
Adhikarana वायोः दोषविज्ञानीयाध्यायेषु प्राकृतकर्मादीनां वर्णितत्वनिर्देशः (४) · Śloka ४
तस्योक्तं दोषविज्ञाने कर्मप्राकृतवैकृतम्|
समासाद्व्यासतो दोषभेदीये नाम धाम च|
प्रत्येकं पञ्चधा चारो व्यापारश्च||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्येति वातस्य| प्राकृतं कर्मोत्साहोच्छ्वासादि| वैकृतं वृद्धिक्षयभेदात् कार्श्याङ्गसादादि| व्यासतो विस्तरेण| नाम प्राणादिकम्| धामोरःकण्ठादिपञ्चस्वपि भेदेषु प्रत्येकमुक्तम्| तथा चारो व्याप्तिः| व्यापारश्चोक्तः (अ. सू. - २०)|
Adhikarana वातस्य रुपान्तरेण वैकृतकर्मनिर्देशप्रतिज्ञा (५) · Śloka ५
इह वैकृतम्|
तस्योच्यते विभागेन सनिदानं सलक्षणम्|
असंख्यमपि संख्यायै यदशीत्या पुरेरितम्||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इह तु तस्यैव वायो रुपान्तरेण वैकृतमुच्यते||५||
Adhikarana वातप्रकोपस्य द्वैविध्यम् (६) · Śloka ६
धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः|
चरन्स्रोतस्सुरिक्तेषु भृशं तान्येव पूरयन्|
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वायोर्द्विविधः कोपो धातुक्षयादाऽऽवरणाच्च| स एव धातुक्षयकरैरित्यादिना प्रदर्श्यते|| ६||
Adhikarana पक्वाशये कुपितस्य वातस्य कार्याणि (७) · Śloka ७
तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम्|
मलरोधाश्मवर्ध्माऽर्शस्त्रिकपृष्ठकटीग्रहम्|
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्|| ७||
Adhikarana आमाशये कृद्धस्य वातस्य कार्याणि (८) · Śloka ८
आमाशये तृड्वमथुश्वासकासविषूचिकाः|
कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वञ्च नाभितः||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्|| ८||
Adhikarana श्रोत्रादिषु कुपितस्य वातस्य कार्याणि (९) · Śloka ९
श्रोतादिष्विन्द्रियवधं||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
श्रोतादिष्वित्यादिग्रहणान्नेत्ररसनादीनां ग्रहणम्|| ९||
Adhikarana त्वगादिषु कुपितस्य वातस्य कार्याणि (१०) · Śloka १०
त्वचि स्फुटनरूक्षते|
रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम्|
अरूंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम्|
मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम्|
गुर्वङ्गं चारिरुक्स्तब्धं मुष्टिदण्डहतोपमम्|
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम्|
मज्जस्थोऽस्थिषु सौषिर्य्यमस्वप्नं ससतं रुजम्|
शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा|
तद्वद्गर्भस्य शुक्रस्थः||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शुक्रस्थो गर्भस्याऽपि शुक्रस्य तद्वच्छीघ्रमुत्सर्गादिकं शुक्रवद्गर्भस्थ इति|| १०||
Adhikarana सिरागतस्य क्रुद्धस्य वातस्य लक्षणानि (११) · Śloka ११
सिरास्वाध्मानरिक्तते|
तत्स्थः||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
००
Adhikarana स्नायुगतस्य क्रुद्धस्य वातस्य लक्षणानि (१२) · Śloka १२
स्नावस्थितः कुर्याद्दृध्रस्याऽऽमकुब्जताः|१२|
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
००
Adhikarana सन्धिगतस्य क्रुद्धस्य वातस्य कार्याणि (१२) · Śloka १२
वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः|
प्रसारणाकुञ्चनयोः प्रवृत्तिञ्च सवेदनाम्||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वातपूर्णादिसन्धिगतलिङ्गम्|| १२||
Adhikarana सर्वाङ्गसंश्रयस्य क्रुद्धस्य वातस्य कार्याणि (१३) · Śloka १३
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्|
स्तम्भनाक्षेपण्स्वापसन्ध्याकुञ्चनकम्पनम्||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वाङ्गसंश्रयो वायुस्तोदाद् करोति|| १३||
Adhikarana आक्षेपकलक्षणम् (१४) · Śloka १४
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः|
तदाङ्गमाक्षिपत्येष व्याधिकराक्षेपकः स्मृतः||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यदा तु वायुः क्रुद्धः सन् सर्वा धमनीर्मुहुर्मुहुरभ्येति तदाङ्गं शरीरमाक्षिपति सङ्कोचयति| असौ नाम्नाव्याधिराक्षेपकः|| १४||
Adhikarana अपतन्त्रकलक्षणम् (१५) · Śloka १५
अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः|
नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्|
आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत्|
कृच्छादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः|
कपोत इव कूजेच्च निस्संज्ञः सोऽपतन्त्रकः||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अधःप्रतिहत इत्यादिनाऽपतन्त्रकलक्षणमाह| प्रतिहतः दोषान्तरेण|| १५||
Adhikarana अपतानकलक्षणम् (१) · Śloka १
स एव चापतानाख्यो||१||
Adhikarana अपतन्त्रके स्वास्थ्यास्वास्थ्यकारणम् (१६) · Śloka १६
मुक्ते तु मरुता हृदि|
अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अत्र च हृदि मरुता मुक्ते मुहुः स्वास्थ्यामश्नुवीत| आवृते च मरुत हृदि मुहुरस्वास्थ्यमश्नुवीत||१६||
Adhikarana दुश्चिकित्स्यतमाः अपतन्त्रकाः (१७) · Śloka १७
गर्भपातसमुत्पन्नः शोणिताऽस्रवोत्थितः|
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एष चापतन्त्रको गर्भपातादिना नार्य्याः समुत्पन्नः कृच्छ्रतमः|
Adhikarana अन्तरायामलक्षणम् (१८) · Śloka १८
मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा|
व्याप्नोति सकलं देहं जत्रुरायम्यते तदा|
अन्तर्धनुरिवाङ्गञ्च वेगैः स्तम्भं च नेत्रयोः|
करोति जृम्भां दशनं दशनानां कफोद्वमम्|
पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहम्|
अन्तरायाम इत्येष||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मन्ये संस्तभ्य इत्यादिनाऽन्तरायामबहिरायामयोः साधारणम्| विशेषस्त्वन्तरायामे वक्षोऽभिमुखमाकुञ्चनम्|
Adhikarana बहिरायामलक्षणम् (१९) · Śloka १९
बाह्यायामश्च तद्विधः|
देहस्य बहिरामायात् पृष्ठतो ह्रियते शिरः|
उरश्चोत्क्षिप्यते तत्र कन्धरा चावमूद्यते|
दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता|
बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनञ्च तम्||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
बहिरायामे पृष्ठाभिमुखमिति|| १९||
Adhikarana व्रणायामलक्षणादि (२०) · Śloka २०
व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्|
व्यायच्छन्ति तनुं दोषाः सर्वामाऽऽपादमस्तकम्|
तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
व्रणमित्यादिना व्रणायामः| स वर्जितोऽसाध्यः|| २०||
Adhikarana सर्वेष्वाक्षेपकेषु स्वास्थ्यसमयः (२१) · Śloka २१
गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
येषु चानन्तरोक्तेष्वाक्षेपकेषु वायुवेगे गते स्वास्थ्यं भवति|
Adhikarana हनुस्रंसलक्षणम् (२२) · Śloka २२
जिह्वातिलेखनाच्छुष्कभक्षणादिभिघाततः|
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू|
करोति विवृतास्यत्वमथवा संवृतास्यताम्|
हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम्||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
हनुस्रंसलिङ्गमाऽऽह जिह्वेत्यादिना| कुपितोऽनिलो हनू स्रंसयित्वा भ्रंशयित्वा| हनुस्रंसः सन्धेर्भ्रंशः|| २२||
Adhikarana जिह्वास्तम्भलक्षणम् (२३) · Śloka २३
वाग्वाहिनीसिरासंस्थोजिह्वां स्तम्भयतेऽनिलः|
जिह्वास्तम्भः स तेनाऽन्नपानवाक्येष्वनीशता||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वाग्वाहिनीत्यादिना जिह्वास्तम्भः| सुबोधम्|| २३||
Adhikarana अर्दितलक्षणम् (२४) · Śloka २४
शिरसा भारहरणादतिहास्यप्रभाषणात्|
उत्त्रासवक्त्रक्षवथुखरकार्मुककर्षणात्|
विषमादुपधानाच्च कठिनानाञ्च चर्वणात्|
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः|
वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्|
ततोऽस्य कम्पते मूर्धा वाक्सङ्गः स्तब्धनेत्रता|
दन्तचालः स्वरभ्रंशः श्रुतिर्हानिः क्षवग्रहः|
गन्धाज्ञानं स्मृतेर्मोषस्रासः सुप्तस्य जायते|
निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम्|
जत्रोरुर्ध्वं रुजास्तीव्राः शरीरार्धेऽधरेऽपि वा|
तमाहुरर्दितं केचिदेकायाममथापरे||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरसेत्यादिनाऽर्दितालिङ्गम्| खरकार्मुकमतिकठिनचापं तदाकर्षणात्| अस्यैवामयस्य केचिदाऽऽचार्य्या एकायाममिति नामकुर्वन्ति|| २४||
Adhikarana सिराग्रहलक्षणमसाध्यत्वञ्च (२५) · Śloka २५
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः|
रूक्षास्सवेदनाः कृष्णास्सोऽसाध्यः स्यात्सिराग्रहः||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सिराग्रहलिङ्गमाह पवनो रक्तमाश्रित्येत्यादिना| सुबोधमन्यत्|| २५||
Adhikarana पक्षवधलक्षणम् (२६) · Śloka २६
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च|
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्|
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः|
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पक्षवधमाह वायुस्तनोः कायस्यार्धं गृहीत्व| अकर्मण्यकर्मण्यसाधुः| केचिदाचार्य्यास्तमेकाङ्गरोगमिति विदुः (च. चि. २८, ५५)| अन्ये आचार्य्याः पक्षवधमिति विदुः (सु. नि. - १. ६०-६२)|| २६||
Adhikarana सर्वाङ्गवधलक्षणम् (२७) · Śloka २७
सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तद्वदुभयभागग्रहे सर्वाङ्गरोगः स्यात्||२७||
Adhikarana अवस्थावशात्पक्षाघातस्य कृच्छ्रसाध्यतमत्वादि (२८) · Śloka २८
शुद्धवाहतः पक्षः कृच्छ्रसाध्यतमो मतः|
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शुद्धेन वायुना पक्षवधोऽतिकृच्छ्रसाध्यः| दोषान्तरयुक्तेन वायुना तु कृच्छ्रसाध्य एव| क्षतहेतुकः पक्षवधोऽचिकित्स्यः|
Adhikarana दण्डकलक्षणम् (२९) · Śloka २९
आमबद्धायनः कुर्य्यात्संस्तभ्याङ्गं कफान्वितः|
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथ दण्डकलक्षणमाह-आमबद्धायनो मरुत्| सुबोधम्|
Adhikarana अपबाहुकलक्षणम् (३०) · Śloka ३०
अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः|
बाहुप्रस्पन्दितहरं जनयत्यपबाहुकम्||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अपबाहुकलिङ्गमंसमूल इत्यादि|| ३०||
Adhikarana विश्वभी(विश्वाची)लक्षणम् (३१) · Śloka ३१
तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः|
बाहुचेष्टाप्रहरणी विश्वभी नाम सा स्मृता||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विश्वभीलक्षणमाह-अङ्गुलीनां सम्बन्धिनी या कण्डरा तलं प्रति पाणितलाभिमुख्येन वर्तते| सा कण्डरा बाहुपृष्ठतो यद वायुकोपात् बाहुचेष्टामपहरति| तदा विश्वभी नाम (विश्वाची) सा स्मृता|| ३१||
Adhikarana खञ्जपङ्गुत्वयोः कारणम् (३२) · Śloka ३२
वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा|
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वायुः कट्यामित्यादिनैकसक्थ्याक्षेपणवर्ज्यत्वे हेतुः| द्वयोः सक्थ्नोराक्षेपकः पङ्गु खञ्जो विकलैकपादः| पङ्गुर्विकलोभयपादः||३२||
Adhikarana कलायखञ्जलक्षणम् (३३) · Śloka ३३
कम्पते गमनारम्भे खञ्जन्निव च याति यः|
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यस्य तु वातवशात् सक्थ्नः सम्बन्धि बन्धनं मुक्तं खञ्जन्निव च याति तं कलायखञ्जं विद्यात्|| ३३||
Adhikarana ऊरुस्तम्भनिदानादि (३४) · Śloka ३४
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः|
जीर्णाऽजीर्णे तथाऽऽयाससंक्षोभस्वप्नजागरैः|
सश्लेष्ममेदः पवनमाममत्यर्थसञ्चितम्|
अभिभूयेतरं दोषं मूढः चेत्प्रतिपद्यते|
सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन तत्|
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ|
परकीयाविव गुरु स्यातामतिभृशव्यथौ|
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः|
संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः|
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथोरुस्तम्भस्य निदाने सम्प्राप्तिश्चोच्यते-शीतोष्णेत्यादिना| किञ्चिज्जीर्णं किञ्चिदजीर्णमिति जीर्णाऽजीर्णम्|अभिभूयेत्यने- नेतरदोषस्य प्रकोपेऽपीति गम्यते| सुबोधम्| अपरे आचाऱ्य्यास्तस्यैवाढ्यवात इति नामाहुः (सु. चि. - ५/३३)|
Adhikarana कोष्टुकशीर्षः (३५) · Śloka ३५
वातशोणितजः शोफो जानुमध्ये महारुजः|
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत्||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
क्रोष्टुकशीर्षलिङ्गमाह-वातशोणितज इत्यादिना| क्रोष्टुकशीर्षो जम्बुकशिराः|| ३५||
Adhikarana वातकण्टकम् (३६) · Śloka ३६
रुक्पादे विषमन्यस्ते क्रमाद्वा जायते यदा|
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रुगित्यादिना वातकण्टकम्|| ३६||
Adhikarana गृध्रसी (३७) · Śloka ३७
पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता|
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते||३७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पार्ष्णिं प्रतीत्यादिना विश्वभीवत् गृध्रसी च व्याख्याता|| ३७||
Adhikarana खल्लीलक्षणम् (३८) · Śloka ३८
विश्वभी गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता||३८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विश्वभीगृध्रस्योः संयोगात् तीव्ररुजान्वितत्वे खल्लीत्युच्यते|
Adhikarana पादहर्षः (३९) · Śloka ३९
हृष्येते चरणौ यस्य भवेतां च प्रसुप्तवत्|
पादहर्षः स विज्ञेयः कफमारुतकोपजः||३९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथ पादहर्षलक्षणमाह-हृष्येते इत्यादिना|| ३९||
Adhikarana पाददाहः (४०-१५) · Śloka १५
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः|
विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्||४०||
इति वैद्यपतिसिंहपुतस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायां निदानस्थाने वात- व्याधिनिदानं नाम पञ्चदशोऽध्यायः||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पाददाहलक्षणमाह-पादयोरित्यादिना|| ४०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां निदानस्थाने पञ्चदशोऽध्यायः