Skip to content

१०. सन्धिसितासितरोगविज्ञानीयाध्यायः

Adhikarana सन्धिसितासितरोगविज्ञानीयाध्यायः||१०|| (२-३) · Śloka

यथोद्देशस्तथा निर्देश इति तानेव तावत्सन्धिरोगनाह अथातः सन्धिसितासितरोगविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| )||३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

वर्त्मरोगप्रतिषेधादनन्तरं स्थानानुपूर्व्या सन्धिसितासितरोगविज्ञानमारभ्यते- सं-सन्धी च सितासितौ च सन्धिसितासिताः, तेषु रोगाः, तेषां विज्ञानम्| शेषं पूर्ववत्|

Adhikarana सन्धिरोगा नव| १ जलास्रवस्य लक्षणम् (१-२) · Śloka

वायुःक्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः| अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्||१|| तेन नेत्रं सरुग्रागशोफं स्यात्स जलास्रवः| |२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पवनः कुपितो जलवाहिनीः सिराः प्राप्य जलाकृति अश्रु स्रावयते| कुतः ? वर्त्मशुक्लसन्धे कनीनकात्| तेन-जलाभस्रावेण, नयनं सरुक् सरागं सशोफं च स्यात्| स च जलास्रवाख्यो रोगः|

Adhikarana २ कफास्रवस्य लक्षणम् (२) · Śloka

| कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत्||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफात् कफास्रवे सति श्वेतं पिच्छिलं बहलं च स्रवेत्|

Adhikarana ३ उपनाहस्य लक्षणम् (३-४) · Śloka

कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः| पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः||३|| महानपाकः कण्डूमानुपनाहः स नीरुजः| |४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्लेष्मणा शोफस्तीक्ष्णाग्रादिगुणः| स उपनाहाख्यो नीरुजः स्यात्|

Adhikarana ४ रक्तास्रवस्य लक्षणम् (४) · Śloka

| रक्ताद् रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तेन रक्तास्रवो भवति| तस्मिंश्च ताम्रवर्णमुष्णं चाश्रु संस्रवेत्|

Adhikarana ५ पर्वण्याः लक्षणम् (५) · Śloka

वर्त्मसन्ध्याश्रया शुक्ले पिटिका दाहशूलिनी| ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वर्त्मसन्धिराश्रयो यस्याः सा वर्त्मसन्ध्याश्रया, शुक्ले पिटिका शूलदाहवती ताम्रवर्णा मुद्गसदॄशी पर्वणी भण्यते| सा च भिन्ना सती रक्तं स्रवति| एषा च रक्तसमुत्थैव वेद्या, रक्तास्रवादनन्तरमस्याः पाठात् रक्तस्रावित्वाच्च|

Adhikarana ६ पूयास्रवस्य लक्षणम् (६) · Śloka

पूयास्रवे मलाः सास्रा वर्त्मसन्धेः कनीनकात्| स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूयास्रवाख्ये दोषा रक्तसहिता वर्त्मसन्धेः कनीनकात् पुनः पुनः पूयं सास्रं त्वङ्मांसपाकाद्धेतोः स्रावयन्ति|

Adhikarana ७ पूयालसस्य लक्षणम् (७) · Śloka

पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः| कनीनसन्धावाध्मायी पूयास्रावी सवेदनः||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूयालसो व्रण उच्यते| कीदृक् ? सूक्ष्मः तथा शोफसंरम्भपूर्वकः| क्वासौ स्यात् ? कनीनसन्धौ| तथाऽऽध्मायीआनाहवान्, पूयास्रावी सरुक् च स्यात्|

Adhikarana ८ अलज्याः लक्षणम् (८) · Śloka

कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्| |८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कनीनस्यान्तः शोफो रुक्तोददाहवान् अलजीत्युच्यते|

Adhikarana ९ कृमिग्रन्थे लक्षणम् (८-९) · Śloka

| अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्||८|| पूयास्रावी कृमिग्रन्थिर्ग्रन्थिः कृमियुतोऽर्तिमान्| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अपाङ्गे कनीने वा कण्ड्वादिमांस्तथा पूयास्रावी ग्रन्थिरेव कृमियुक्तोऽर्तिमान् कृमिग्रन्थिरुच्यते|

Adhikarana सन्धिरोगाणामेतेषां साध्याध्यत्वम् (९-१०) · Śloka १०

| उपनाहकृमिग्रन्थिपूयालसकपर्वणीः||९|| शस्त्रेण साधयेत्पञ्च सालजीनास्रवांस्त्यजेत्| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उपनाहादींश्च्तुरः शस्त्रेण साधयेत्| आस्रवान्-जलास्रवादींश्चतुरः, अलजीं चेति पञ्च त्यजेत्|

Adhikarana सितरोगास्त्रयोदश| १शुक्तिकाया लक्षणम् (१०-११) · Śloka ११

एवं सन्धिगतान्नव रोगानाख्याय सितभागस्थान् रोगानाह | पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान्||१०|| मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्| रोगोऽयं शुक्तिकसंज्ञः सशकृद्भेदतृड्ज्वरः||११||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सिते नेत्रदेशे पित्तं कर्तृ बिन्दून् कृष्णश्यावपीतान् कुर्यात्| मललेपदिग्धदर्पणसमानं वा सर्वम् शुक्लम्| एवमुभयप्रकारोऽप्ययं सदाहरुक् शुक्तिकसंज्ञो रोगः, शकृद्भेदेन तृषा ज्वरेण च युक्तः|

Adhikarana २ शुक्लार्मणः लक्षणम् (१२) · Śloka १२

कफाच्छुक्ले समं श्वेतं चिरवृद्ध्यधिमांसकम्| शुक्लार्म|१२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफाच्छुक्लभागे समं-न तु विषमम्, तथा श्वेतवर्णमधिमांसकं चिरवृद्धि, तत् शुक्लार्म|

Adhikarana ३ बलासग्रथितस्य लक्षणम् (१२-१३) · Śloka १३

| शोफस्त्वरुजः सवर्णो बहलोऽमृदुः||१२|| गुरुः स्निग्धोऽम्बुबिन्द्वाभो बलासग्रथितम् स्मृतम्| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शोफस्तु नीरुजः समानवर्णो बहलादिस्तथा जलबिन्दुसमो बलासग्रथितं स्मृतम्|

Adhikarana ४ पिष्टकस्य लक्षणम् (१३) · Śloka १३

| बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्||१३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बिन्दुभिः पिष्टवत्सितैरुत्सन्नैः पिष्टकं नामार्म वदेत्

Adhikarana ५ सिरोत्पातस्य लक्षणम् (१४) · Śloka १४

रक्तराजीततं शुक्लमुष्यते यत्सवेदनम्| अशोफाश्रूपदेहं च सिरोत्पा तः स शोणितात्||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तराजीततं शुक्लं-शुक्लभागं, उष्यते| यत्सवेदनं शोफाश्रूपलेपरहितं स शोणितात् सिरोत्पातः|

Adhikarana ६ सिराहर्षस्य लक्षणम् (१५) · Śloka १५

उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्| कुर्यात्सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सिरोत्पातोऽचिकित्सितस्ता एव-रक्ता एव, राजीर्वर्धयन् सिराहर्षं सास्रं कुर्यात्| तेन-सिराहर्षेण, लोचनं वीक्षणाक्षमं स्यात्|

Adhikarana ७ सिराजालस्य लक्षणम् (१६) · Śloka १६

सिराजाले सिराजालं बूहद्रक्तं घनोन्नतम्| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सिराजाले बृहत्तथा रक्तं घनमुन्नतं च यद् भवति, तत्सिराजालं नाम|

Adhikarana ८ शोणितार्मणः लक्षणम् (१६) · Śloka १६

| शोणितार्म समं श्लक्ष्णं पद्माभमधिमांसकम्||१६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-समं-नतु विषमं, तथा श्लक्ष्णं यदधिमांसकं तच्छोणितार्म|

Adhikarana ९ अर्जुनस्य लक्षणम् (१७) · Śloka १७

नीरुक् श्लक्ष्णोऽर्जुनं बिन्दुः शशलोहितलोहितः| |१७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नीरुजः श्लक्ष्णो बिन्दुः शशलोहितताम्रोऽर्जुनं नाम|

Adhikarana १० प्रस्तार्यर्मणः लक्षणम् (१७-१८) · Śloka १८

| मृद्वाशुवृद्ध्यरुड्मांसं प्रस्तारि श्यावलोहितम्||१७|| प्रस्तार्यर्म मलैः सास्रैः| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मांसं प्रस्तारितं तथा मृदु तथा आशुवृद्धि तथा नीरुक् श्यावलोहितं प्रस्तार्यर्मेत्युच्यते| तच्च त्रिभिर्दोषैः सशोणितैः स्यात्|

Adhikarana ११ स्नावार्मणः लक्षणम् (१८) · Śloka १८

स्नावार्म स्नावसन्निभम्| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्नावसदृशं तु स्नावार्मेत्युच्यते|

Adhikarana १२ अधिमांसार्मणः लक्षणम् (१८-१९) · Śloka १९

| शुष्कसृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु||१८|| अधिमांसार्म तद्| |१९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुष्करक्तपिण्डवच्छ्यावं यन्मांसं तथा बहलं पृथु च स्यात्, तदधिमांसार्म भण्यते|

Adhikarana १३ सिरासंज्ञानां लक्षणम् (१९) · Śloka १९

दाहघर्षवत्यः सिरावृताः| कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः||१९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पिटिका दाहादिमत्यस्तथा सिराचिताः कृष्णभागासन्नाः सर्षपसंस्थानाः सिरासंज्ञाः|

Adhikarana सितरोगाणामेतेषां साध्यासाध्यत्वम् (२०-२१) · Śloka २१

सितभागोत्थानामेषां त्रयोदशानां साधनं सूत्रयति शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्| साधयैदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्||२०|| नवोत्थं तदपि द्रव्यैः| |२१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुक्त्यादीन् षडौषधैः साधयेत्| शेषान् सप्त शस्त्रेण साधयेत्| नवोत्थितानेतानपि भेषजैरुपक्रमेत् न केवलं पूर्वोक्तं षट्कमित्यर्थः|

Adhikarana कृष्णरोगाः पञ्च| (२१-२२) · Śloka २२

अर्मोक्तं यच्च पञ्चधा| तच्छेद्यमसितप्राप्तं मांसस्नवसिरावृतम्||२१|| चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं च वर्जयेत्| |२२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यच्च पञ्चप्रकारमर्मोक्तं-शुक्लार्म शोणितार्म प्रस्तार्यर्म स्नावार्माधिमांसार्म, एतच्छेदनार्हम्| यत् कृष्णभागप्राप्तं मांसस्नावसिरावृतं चर्मोद्दालवदुच्छ्रायि तद्वर्जयेत्-न चिकित्सेत्| यच्च दृष्टिप्राप्तं तदपि वर्जयेत्|

Adhikarana १ क्षतशुक्रस्य त्रिविधं लक्षणम् (२२-२५) · Śloka २५

अथ कृष्णरोगानाह | पित्तं कृष्णेऽथव दृष्टौ शुक्रं तोदाश्रुरागवत्||२२|| छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्| पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम्||२३|| तत्कृच्छ्रसाध्यं, याप्यं तु द्वितीयपटलव्यधात्| तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता||२४|| तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः| |२५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तं कर्तृ कृष्णभागे दृष्टौ वा शुक्रं जनयति| किम्भूतम् ? तोदाश्रुरागयुक्तम्| किं कृत्वा ? त्वचं-प्रथमं पटलं छित्त्वा, तेन कृष्णमण्डलं पक्वजम्बूसदृशं निम्रं च क्षतशुक्रकं स्यात्| तच्च कृच्छ्रसाध्यम्| द्वितीयपटलव्यधात्तु याप्यं स्यात्| तत्र-द्वीतीयपटलव्यधे, तोदादीनां बाहुल्यं तथा सूचीविद्धोपमकृष्णमण्डलत्वं च| तोदादिभूयस्त्वेन सेवनीविद्धोपमकृष्णमण्डलतया च द्वितीयपटलव्यधोऽनुमीयत इत्यर्थः| तृतीयपटलच्छेदात् व्रणैर्निचितमसाध्यं क्षतशुक्रकम्| एवं क्षतशुक्रकं त्रिधाऽभिधाय शुद्धशुक्रमाचष्टे|

Adhikarana २ शुद्धशुक्रस्य लक्षणम् (२५) · Śloka २५

| शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम्||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शङ्खवच्छुक्लं शुद्धशुक्रकम्| तच्च कफाज्जायते| न चातिवेदनम्|

Adhikarana ३ अजकायाः लक्षणम् (२६) · Śloka २६

आताम्रपिच्छिलास्रस्रुदाताम्रपिटिकाऽतिरुक्| अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्याऽसृजाऽजका||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आताम्रं-ईषत्ताम्रवर्णं, पिच्छिलं चास्रं स्रवति याऽसौ आताम्रपिच्छिलास्रस्रुत्| तथा आताम्रपिटिका तथाऽतिपीडावती तथाऽजाविट्सदृशे उच्छ्रायकार्ष्ण्ये यस्याः सैवम्| अजकाख्या रक्तेन स्यात्| सा च वर्ज्याऽसाध्यत्वात्|

Adhikarana ४ सिराशुक्रस्य लक्षणम् (२७-२८) · Śloka २८

सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्| सतोददाहताम्राभिः सिराभिरवतन्यते||२७|| अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्| |२८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सरक्तैर्मलैः सिराशुक्रं स्यात्| तेन सिराशुक्रेण जुष्टं कृष्णमण्डलं सिराभिरवतन्यते| किम्भूताभिः ? सतोददाहताम्राभिः| अनिमित्तं-अकस्मात्, अस्मिन् कदाचिदुष्णमच्छं घनं वाऽस्रं स्रवति| तच्च त्यजेदसाध्यत्वात्|

Adhikarana ५ तीव्रवेदनस्य लक्षणम् (२८-३०) · Śloka ३०

| दोषैः सास्रैः सकृत्कृष्णं नीयते शुक्लरूपताम्||२८|| धवलाभ्रोपलिप्ताभं निष्पावर्धदलाकृति| अतितीव्ररुजारागदाहश्वयथुपीडितम्||२९|| पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्| |३०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषैः सरक्तैः सकृत्-एकहेलयैव, कृष्णमण्डलं शुक्लरूपतां नीयते| किम्भूतम् ? धवलाभ्रोपलिप्ताभम्| तथा निष्पावार्धदलस्येवाकृतिर्यस्य तदेवम्| तथा तीव्रवेदनारागदाहश्वयथुभिः पीडितम्| तच्च शुक्रं पाकात्ययेन तीव्ररुजं वर्जयेत्-नोपक्रमेत्|

Adhikarana कृष्णरोगाणामेतेषां साध्यासाध्यत्वम् (१०) · Śloka १०

| यस्य वा लिङ्गनाशोऽन्तः श्यावं यद्वा सलोहितम्||३०|| अत्युत्सेधावगाढं वा साश्रु नाडीव्रणावृतम्| पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम्||३१|| पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः| ३१ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगविज्ञ्हानीयो नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यस्य च शुक्रस्य लिङ्गनाशः-अन्तर्दृष्टिविनाश इत्यर्थः, यच्च श्यावमन्तः, यच्च किञ्चिल्लोहितम्, तथाऽत्युन्नतमवगाढं वा, साश्रुनाडीव्रणावृतं वा, तथा पुराणं-वत्सरातीतम् तथा विषमसंस्थानम्, तथा मध्ये विच्छिन्नं यच्च शुक्रकं, तत्सर्वं वर्जयेत्| स०-कृष्णमण्डले इति-पूर्वोक्तेन प्रकारेण, पञ्च रोगाः साध्यासाध्यविभागेनोक्ताः| सुखग्रहणधारणार्थं सङ्ख्योपादानमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्ग- हृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तर- स्थाने सन्धिसितासिरतोगविज्ञानीयो नाम दशमोऽध्यायः समाप्तः|| १०||