Skip to content

. वर्त्मरोगप्रतिषेधाध्यायः

Adhikarana वर्त्मरोगप्रतिषेधाध्यायः||९|| (२-३) · Śloka

वर्त्मरोगविज्ञानादनन्तरं वर्त्मरोगप्रतिषेध आरभ्यत इत्याह अथातो वर्त्मरोगप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||

🔊 Audio coming soon

Adhikarana कृच्छ्रोन्मीले पुराणाज्यम्कृच्छ्रोन्मीले नस्यधूमादि (१) · Śloka

कृच्छ्रोन्मीले पुराणाज्यं द्राक्षाकल्काम्बुसाधितम्| ससिरं योजयेत्स्निग्धं नस्यधूमाञ्जनादि च||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कृच्छ्रोन्मीले वर्त्मरोगे पुराणं घृतं द्राक्षाकल्काम्बुपक्वं समशर्करं योजयेत्| स्निग्धं च नस्यादिकम्|

Adhikarana कुम्भीकावर्त्मनि लेखनादि (२) · Śloka

कुम्भीकावर्त्मोपक्रममाह कुम्भीकावर्त्म लिखितं सैन्धवप्रतिसारितम्| यष्टीधात्रीपटोलीनां क्वाथेन परिषेचयेत्||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुम्भीकावर्त्म लिखितं वृद्धिपत्रादिना सैन्धवलवणेन प्रतिसारितं सत् मधुयष्टिकादिक्वाथेन परिषेचयेत्|

Adhikarana कुम्भीकावर्त्मनि लेखनविधिः (३-९) · Śloka

कथं वर्त्म लेखनीयम् ? इत्याह निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः| बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा||३|| निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्| न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः||४|| मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम्| लिखेत्तेनैव पत्रैर्वा शाकशोफालिकादिजैः||५|| फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्| स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत्||६|| यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा| घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा||७|| ऊर्ध्वाधः कर्णयोर्दत्त्वा पिण्डीं च यवसक्तुभिः| द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम्||८|| कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निवाते स्थाने आप्तैरधिष्ठितस्य-कृताश्रयस्य, तथा शुद्धस्य-वमनविरेचनादिना, उत्तानं नित्यं शेते तस्य वर्त्म वाससा कोष्णाम्बुना तप्तेन स्वेदितं सन्निर्भुज्य-कुटिलीकृत्य, वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीभ्यां धृतमेवं न स्रंसते| न वा चलति सर्वतः| अनन्तरं तद्वर्त्म तिर्यङ् मण्डलाग्रेण शस्त्रपदाङ्कितं कृत्वा तेनैव शस्त्रेण शाकादिपत्रैर्वा समुद्रफेनेन वा लिखेत्| किं कुर्वन् ? पिचुना-कर्पटादियोजितेन, रक्तं प्रमृजन्| रक्ते स्थिते-अवहति, सुलिखितं तद्वर्त्म ज्ञात्वा सक्षौद्रैर्यथास्वं कथितैः सैन्धवादिभिः प्रतिसारयेत्| पश्चाच्चोष्णेन वारिणा प्रक्षाल्य सर्पिषा सिक्तमनन्तरमभ्यक्तं मधुसर्पिषा ऊर्ध्वाधः कर्णयोर्यवसक्तुभिः पिण्डीं च दत्त्वाऽवबध्नीयात्| द्वितीये दिवसे मुक्तस्य वर्त्मनो यथास्वं परिषेकं कुर्यात्| चतुर्थे दिवसे नस्यादीन् कुर्यात्| पञ्चमे दिवसे मुञ्चेदेव-नान्यत्किञ्चित्कुर्यात्|

Adhikarana कुम्भीकावर्त्मनि सुलिखितस्य लक्षणम् (९-१०) · Śloka १०

| समं नखनिभं शोफकण्डूघार्षाद्यपीडितम्||९|| विद्यात्सुलिखितं वर्त्म लिखेद् भूयो विपर्यये| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-समं नखसदृशं शोफाद्यपीडितं सुलिखितं वर्त्म जानीयात्| विपर्यये-अस्माल्लक्षणाद्वैपरीत्ये सति, तद्वर्त्म पुनर्लिखेत्|

Adhikarana कुम्भीकावर्त्मनि अतिलिखितस्य लक्षणम् (१०-११) · Śloka ११

| रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात्||१०|| स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः| |११|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिलेखनाद्रुजादीनि स्युः| तस्मिन्-अतिलेखने, स्नेहस्वेदादिको वातघ्नो विधिः कार्यः|

Adhikarana कुम्भीकावर्त्मनि अतिलिखितस्य चिकित्सा (११-१३) · Śloka १३

| अभ्यज्य नवनीतेन श्वेतरोध्रं प्रलेपयेत्||११|| एरण्डमूलकल्केन पुटपाके पचेत्ततः| स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतम्||१२|| स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्वेतरोध्रं नवनीतेनाभ्यज्य एरण्डमूलकल्केन प्रलेपयेत्| अनन्तरं पुटपाके पचेत्| स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतं सत् युवतीक्षीरेण छगल्या वा क्षीरेण मर्दितं नेत्रे सेचनं हितम्|

Adhikarana कुम्भीकावर्त्मनि अतिलिखितस्य प्रलेपो नेत्रसेचनादि च (१३-१४) · Śloka १४

| शालितन्दुलकल्केन लिप्तं तद्वत् परिष्कृतम्||१३|| कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना| केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिलिखिते वर्त्मनि नवनीतेनाक्तं श्वेतरोध्रं शालितन्दुलकल्केन लिप्तं बद्धं परिष्कृतं-पूर्ववत्परिकल्पितं पुटपाकीकृतं स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतं चेत्यर्थः, तत् दधिमस्तुना मृदितं सेकं कुर्यात्| दधिग्रहणं तक्रमस्त्वादिनिवृत्त्यै| अथवा केवलेन-कल्करोध्ररहितेन, मस्तुना जाङ्गलमांसाशिनो नरस्य सेकं कुर्यात्| अपिः स्वेदनादिसमुदायविकल्पार्थः|

Adhikarana कुम्भीकावर्त्मनि अतिलिखितस्य पिटिकाभेदनं पीडनं च (१५) · Śloka १५

पिटिका व्रीहिवक्रेण भित्त्वा तु कठिनोन्नताः| निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कठिनोन्नताः पिटिकाः व्रीहिवक्रेण भित्त्वाऽनु निष्पीडयेत्| परिशेषो विधिः-प्रलेपनक्षालनबन्धनसेचनादिः, पूर्ववत्कार्यः|

Adhikarana कुम्भीकावर्त्मनि लेखने भेदने चायं क्रमः (१६) · Śloka १६

लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लेखने भेदने च एष एव क्रमः सर्वत्र वर्त्मनि कार्यः|

Adhikarana पित्तरक्तोत्क्लिष्टयोः सिर्विमोक्षणाद् (१६-१८) · Śloka १८

| पित्तास्रोत्क्लिष्टयोः स्वादुस्कन्धसिद्धेन सर्पिषा||१६|| सिराविमोक्षः स्निग्धस्य त्रिवृच्छ्रेष्ठं विरेचनम्| लिखिते स्रुतरक्ते च वर्त्मनि क्षालनं हितम्||१७|| यष्टीकषायः, सेकस्तु क्षीरं चन्दनसाधितम्| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तोत्क्लिष्टे रक्तोत्क्लिष्टे च मधुरस्कन्धशृतेन घृतेन स्निग्धस्य पुंसः सिराविमोक्षः कार्यः| तथा त्रिवृतात्रिफले विरेचनम्| लिखिते वर्त्मनि स्रुतलोहिते च सति मधुयष्टिकाक्वाथः क्षालनं हितम्| क्षीरं चन्दनसाधितं तु सेको हितः|

Adhikarana पक्ष्मसदने विकुट्टनादि (१८-१९) · Śloka १९

| पक्ष्मणां सदने सूच्या रोमकूपान् विकुट्टयेत्||१८|| ग्राहयेद्वा जलौकोभिः पयसेक्षुरसेन वा| वमनं, नावनं सर्पिः शृतं मधुरशीतलैः||१९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पक्ष्मणां सदने सति रोमकूपान्-रोममूलानि, सुच्या विकुट्टयेत्| जलौकोभिर्वा ग्राहयेत्| क्षीरेणेक्षुरसेन वा वमनं हितम्| मधुरशीतलैः-द्राक्षादिभिः, पक्वं घृतं नावनं हितम्|

Adhikarana पक्ष्मसदने श्रेष्ठमञ्जनम् (२०) · Śloka २०

सञ्चूर्ण्य पुष्पकासीसं भावयेत्सुरसारसैः| ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम्||२०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पुष्पकासीसं चूर्णयित्वा ताम्रपात्रे दशाहं सुरसारसैः-समूर्वारसैः, भावयेत्| तत्-एतत्, पक्ष्मशाते श्रेष्ठमञ्जनम्

Adhikarana पोथक्यां लेखनप्रतिसारणादि (२१-२२) · Śloka २२

पोथकीर्लिखिताः शुण्ठीसैन्धवप्रतिसारिताः| उष्णाम्बुक्षालिताः सिञ्चेत् खदिराढकिशिग्रुभिः||२१|| अप्सिद्धैर्द्विनिशाश्रेष्ठामधुकैर्वा समाक्षिकैः| |२२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पोथकीर्लिखिता वृद्धिपत्रादिभिः, शुण्ठीसैन्धवाभ्यां प्रतिसारिताः, तथोष्णाम्बुना क्षालिताः, जलक्वथितैः खदिरादिभिः सिञ्चेत्| द्विनिशादिभिर्वा जलक्वथितैः समाक्षिकैः सिञ्चेत्|

Adhikarana कफोत्क्लिष्टे लेखनप्रतिसारणादि (२२-२३) · Śloka २३

| कफोत्क्लिष्टे विलिखिते सक्षौद्रैः प्रतिसारणम्||२२|| सूक्ष्मैः सैन्धवकासीसमनोह्वाकणतार्क्ष्यजैः| वमनाञ्जननस्यादि सर्वं च कफजिद्धितम्||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफोत्क्लिष्टे वर्त्मनि शस्त्रेण विलिखिते सैन्धवादिभिः सूक्ष्मरजीकृतैर्माक्षिकसहितैः प्रतिसारणं हितम्| तथा वमनादि हितम्| सर्वं च यत्कफजित् तच्च हितम्|

Adhikarana लगणे लेखनप्रतिसारणादि (२४) · Śloka २४

कर्तव्यं लगणेऽप्येतदशान्तावग्निना दहेत्| |२४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लगणेऽपीदं कार्यम्| एवमप्यशमे सति ज्वलनेन दहेत्|

Adhikarana उत्सङ्गाञ्जनयोर्भेदनादि (१-२५) · Śloka २५

|स्विन्नां भित्त्वा विनिष्पीड्य भिषग(ड्योत्सङ्गां चा)_ ञ्जननामिकाम्| शिलैलासैन्धवनतैः सक्षौद्रैः प्रतिसारयेत्||१|| | कुकूणे खदिरश्रेष्ठानिम्बपत्रशृतं घृतम्||२४|| पीत्वा धात्री वमेत्कृष्णायष्टीसर्षपसैन्धवैः| |२५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुकूणे खदिरादिभिः पक्वं घृतं धात्री-स्तनदायिनी, पीत्वा कृष्णादिभिर्वमेत्|

Adhikarana कुकूणे धात्र्याः खदिरादिघृतम् (२५) · Śloka २५

| अभयापिप्पलीद्राक्षाक्वाथेनैनां विरेचयेत्||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अभयादिक्वाथेनैनां-स्तनदायिनीं, विरेचयेत्|

Adhikarana कुकूणे धात्र्याः वमनरेचनादि (२६) · Śloka २६

मुस्ताद्विरजनीकृष्णाकल्केनालेपयेत्स्तनौ| धूपयेत्सर्षपैः साज्यैः|२६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मुस्तादिकल्केन कुचावालेपयेत्| साज्यैः सर्षपैः स्तनौ धूपयेत्|

Adhikarana कुकूणे धात्र्याः स्तालेपनादि (२६-२७) · Śloka २७

| शुद्धां क्वाथं च पाययेत्||२६|| पटोलमुस्तमृद्वीकागुडूचीत्रिफलोद्भवम्| |२७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुद्धां च-वमनविरेचनादिना, पटोलादिकं क्वाथं तां पाययेत्|

Adhikarana कुकूणे शिशोर्वर्त्मलेखनादि (२७-२८) · Śloka २८

| शिशोस्तु लिखितं वर्त्म स्रुतासृग्वाऽम्बुजन्मभिः||२७|| धात्र्यश्मन्तकजम्बूत्थपत्रक्वाथेन सेचयेत्| |२८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिशोः पुनर्वर्त्म लिखितं जलौकाभिर्वा स्रुतरक्तं धात्र्यादिपत्रक्वाथेन सेचयेत्|

Adhikarana कुकूणे शिशोः वमने हेतुः (२८-२९) · Śloka २९

| प्रायः क्षीरघृताशित्वाद्बालानां श्लेष्मजा गदाः||२८|| तस्माद्वमनमेवाग्रे सर्वव्याधिषु पूजितम्| |२९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रायो-बाहुल्येन, क्षीरघृतभोजनत्वाच्छिशूनां कफजा रोगाः स्युः| तस्माद्वमनमेव पूर्वं तेषां सर्वव्याधिषु पूजितम्|

Adhikarana कुकूणे शिशोः वमनयोगाः (२९-३१) · Śloka ३१

तदेह वमनमाह | सिन्धूत्थकृष्णापामार्गबीजाज्यस्तन्यमाक्षिकम्||२९|| चूर्णो वचायाः सक्षौद्रो मदनं मधुकान्वितम्| क्षीरं क्षीरान्नमन्नं च भजतः क्रमतः शिशोः||३०|| वमनं सर्वरोगेषु विशेषेण कुकूणके| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सिन्धूत्थेत्यादि वमनं दद्यात्, वचाचूर्णः सक्षौद्रो वा, मदनफलं मधुयष्टीयुक्तं वा| क्षीरं क्षीरान्नं तथाऽन्नं भजतः शिशोर्यथाक्रमं वमनत्रयमेतत् योज्यम्| वमनं सर्वेष्वेवामयेषु शिशोः श्रेष्ठम्| विशेषेण कुकूणके हितम्|

Adhikarana कुकूणे शिशोः उभयशोधनयोगः (३१) · Śloka ३१

| सप्तलारससिद्धाज्यं योज्यं चोभयशोधनम्||३१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सप्तलारसेन वा सिद्धं घृतमूर्ध्वाधः शोधनं हितम्|

Adhikarana कुकूणे शिशोः द्विनिशादिवर्तिः (३२-३३) · Śloka ३३

द्विनिशारोध्रयष्ट्याह्वरोहिणीनिम्बपल्लवैः| कुकूणके हिता वर्तिः पिष्टैस्ताम्ररजोन्वितैः||३२|| क्षीरक्षौद्रघृतोपेतं दग्धं वा लोहजं रजः| |३३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुकूणके द्विहरिद्रादिभिस्ताम्रचूर्णयुक्तैर्जलपिष्टैर्वर्तिर्हिता| क्षीरादियुक्तं दग्धं लोहोत्थं वा चूर्णं हितम्| केचित्तु समुद्रफेनचूर्णं दग्धं दुग्धमाक्षिकयुक्तमित्याहुः|

Adhikarana कुकूणे शिशोः लोहभस्म (३३-३४) · Śloka ३४

| एलारसोनकतकशङ्खोषणफणिज्जकैः||३३|| वर्तिः कुकूणपोथक्योः सुरपिष्टैः सकट्फलैः| |३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एलादिभिः कट्फलयुक्तः कुकूणपोथक्योः सुरापिष्टैर्वतिर्हिता|

Adhikarana कुकूणे शिशोः एलादिवर्तिःपक्ष्मरोधे छेदनसीवनादि (३४-३९) · Śloka ३९

| पक्ष्मरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु||३४|| उत्सृज्य द्वौ भ्रुवोऽधस्ताद्भागौ भागं च पक्ष्मतः| यवमात्रं यवाकारं तिर्यक् छित्वाऽऽर्द्रवाससा||३५|| अपनेयमसृक् तस्मिन्नल्पीभवति शोणिते| सीव्येत्कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः||३६|| बध्वा ललाटे पट्टं च तत्र सीवनसूत्रकम्| नातिगाढश्लथं सूच्या निक्षिपेदथ योजयेत्||३७|| मधुसर्पिःकवलिकां न चास्मिन् बन्धमाचरेत्| न्यग्रोधादिकषायैश्च सक्षीरैः सेचयेद्रुजि||३८|| पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत्| गैरिकेण व्रणं युञ्ज्यात्तीक्ष्णं नस्याञ्जनादि च||३९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पक्ष्मरोधे रोमसु प्रकर्षेण वृद्धेषु शुद्धशरीरस्य नरस्य भ्रवोऽधस्ताद्वोउ भागावुत्सृज्य-विहाय, पक्ष्मतो भागं हित्वा यवमात्रं-यवसंस्थानं, तिर्यक् छित्त्वा क्लिन्नवस्त्रेण रक्तमपनयेत्| रक्ते चाल्पीभवति सति वक्रया सूच्या मुद्गमात्रान्तरैः पदैः सीव्येत्| ततो ललाटे पट्टं बध्वा तत्र च पट्टे सीवनसूत्रकं नातिगाढश्लथं सूच्या विनिक्षिपेत्| अनन्तरं माक्षीकघृतकवलिकां योजयेत्| न चात्र बन्धं कुर्यात्| पीडायां सत्यां न्यग्रोधादि कषायैः क्षीरयुतैः सेचयेत्| पञ्छमे दिवसे सूत्रमपनीय व्रणं गैरिकेणावचूर्णयेत्| तीक्ष्णं च नस्यादि युञ्ज्यात्|

Adhikarana पक्ष्मरोधे एवमशान्तौ दाहादिअल् अज्यार्बुदयोः दाहादि घृतम् (९) · Śloka

दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम्| संदंशोनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत्||४०|| सूच्यग्रेणाग्निवर्णेन, दाहो बाह्यालजेः पुनः| भिन्नस्य क्षारवह्निभ्यां सुच्छिन्नस्यार्बुदस्य च||४१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने वर्त्मरोगप्रतिषेधो नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एवमप्यशान्तौ वर्त्मदोषाश्रयां वलीं निर्भुज्य दहेत्| अधिकं पक्ष्म संदंशेन हृत्वा तस्य पक्ष्मण आश्रयं दहेत्| केन ? सूच्यग्रेणाग्निवर्णेन| बाह्यालजेस्तु भिन्नस्य दाहः कार्यः| अलजीशब्दः पुंस्यपि दृष्टः| अर्बुदस्य क्षारवह्निभ्यां सुष्टु च्छिन्नस्य दाहः कार्य इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दरख्यायां षष्ठे उत्तरस्थाने वर्त्म- रोगप्रतिषेधो नाम नवमोऽध्यायः समाप्तः|| ९||