Adhikarana सन्धिसितासितासितरोगप्रतिषेधाध्यायः||११|| (२-३) · Śloka ३
अस्मादनन्तरं सन्धिसितासितरोगप्रतिषेध उच्यते अथातः सन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयदयो महर्षयः|
(गद्यसूत्रे|२|
)||३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रतिषिध्यते निराक्रियते चिकित्स्यत इति प्रतिषेधः,-चिकित्सा| शेषं पूर्ववत्|
Adhikarana उपनाहे भेदनलेखनादि (१-२) · Śloka २
जलास्रावकफास्रावयोरसाध्यत्वादुपनाहचिकित्सामाह उपनाहं भिषक् स्विन्नं भिन्नं व्रीहिमुखेन च|
लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत्||१||
पिप्पलीक्षौद्रसिन्धूत्थैर्बध्नीयात्पूर्ववत्ततः|
पटोलपत्रामलकक्वाथेनाश्च्योतयेच्च तम्||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वैद्यो मण्डलाग्रेणोपनाहं सन्धिरोगं लेखयेत्| किम्भूतम् ? स्विन्नं वर्त्मरोगप्रतिषेधोक्तेन प्रकारेण पोटलिकयोष्णोदकप्लुतयेति| तथा व्रीहिमुखेन भिन्नम्| ततः पिप्पल्यादिभिः प्रतिसारयेत्| [ ततः-] अनन्तरं, पूर्ववत्-प्रक्षाल्योष्णेन वारिणा घृतेन सिक्तमभ्यक्तं मधुसर्पिषा ऊर्ध्वाधः कर्णयोश्च यवसक्तुभिः पिण्डीं दत्त्वा, बध्नीयादिति| तथा पटोलपत्रामलकक्वाथेन चाश्च्योतयेत्|
Adhikarana पर्वण्यां छेदनप्रतिसारणादि (३-४) · Śloka ४
पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः|
वृद्धिपत्रेण वर्ध्याऽर्धे स्यादश्रुगतिरन्यथा||३||
चिकित्सा चार्मवत्क्षौद्रसैन्धवप्रतिसारिता|
|४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पर्वणी बाह्यसन्धित्रिभागे बडिशेन गृहीता सती वृद्धि पत्रेण वर्ध्या-छेदनीया| कुत्र भागे वर्ध्या ? इत्याह-अर्धे| अतोऽन्यथा-अधिकच्छेदनात्, अश्रुगतिः स्यात्| चिकित्सा चेयमर्मवत्| तत्र चैवमुक्तम् (श्लो. २०)-"सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्| उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा|| बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च| करञ्जबीजसिद्धेन क्षीरेण' इति|
Adhikarana पूयालसे सिराव्यधादि (४-५) · Śloka ५
|
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेत्||४||
कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि|
|५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूयालसे सिरां विध्येत्| अनन्तरमुपनाहयेत्| अक्षिपाकोक्तं चाशेषं कर्म यथाविधि कुर्वीत|
Adhikarana पूयालसे चूर्णाञ्जनं रसक्रिया च (५-६) · Śloka ६
|
सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः||५||
चूर्णञ्जनं प्रयुञ्जीत सक्षौद्रैर्वा रसक्रियाम्|
|६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सैन्धवादिभिश्चूर्णाञ्जनं प्रयुञ्जीत| सैन्धवादिभिरेव माक्षिकयुतै रसक्रियां वा|
Adhikarana क्रिमिग्रन्थौ भेदनलेखनादि (६-७) · Śloka ७
|
कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च||६||
त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत्|
|७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृमिग्रन्थि त्रिपलादिभिः प्रतिसारयेत्| किम्भूतम् ? करीषेण-गोमयादिना स्विन्नम्, तथा व्रीहिमुखादिभिर्भित्त्वा विलिख्य च|
Adhikarana शुक्त्यां पित्ताभिष्यन्दवत् (७) · Śloka ७
|
पित्ताभिष्यन्दवच्छुक्तिं|७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्त्याख्यं रोगं पित्ताभिष्यन्देन तुल्यमुपाचरेत्|
Adhikarana बलसग्रथितपिष्टकयोः कफाभिष्यन्दवत् व्योषाद्यञ्जनं च (७-८) · Śloka ८
|
बलासाह्वयपिष्टके||७||
कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत्|
बीजपूररसाक्तं च व्योषकट्फलमञ्जनम्||८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलासग्रथितं पिष्टकं च सिराव्यधं वर्जयित्वा कफाभिष्यन्दवदुपाचरेत्| तथा बीजपूरकरसेनाक्तं व्योषकट्फलमञ्जनं|
Adhikarana बलसग्रथितपिष्टकयोः जातीमुकुलादिवर्तिः (९) · Śloka ९
जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः|
पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम्||९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जातीमुकुलादिभिः प्रसन्नया पिष्टैर्वर्तिः शोफकण्डूहरमञ्जनम्|
Adhikarana सिरोत्पातसिराहर्षसिराजालार्जुनेषु रक्तस्यन्दवत् (१०) · Śloka १०
रक्तस्यन्दवदुत्पातहर्षजालार्जुनुक्रिया|
|१०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिरोत्पातसिराहर्षसिराजालार्जुने क्रिया रक्तस्यन्द इव कार्या|
Adhikarana सिरोत्पाते घृतमाक्षिकाञ्जनम् सिराहर्षे रसाञ्जनम् अर्जुने आश्च्योतनाञ्जनादि (१०-१२) · Śloka १२
|
सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम्||१०||
सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम्|
अर्जुने शर्करामस्तुक्षौद्रैराश्चयोतनं हितम्||११||
स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाऽञ्जनम्|
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह||१२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनं हितम्| सिराहर्षे माक्षिकेण श्लक्ष्णघृष्टं रसाञ्जनम्| अर्जुने शर्करामस्तुक्षौद्रेणाश्च्योतनं हितम्| स्पाटिकादि माक्षिकेणाञ्जनमथवा सौवीराञ्जनं मधुना हितम्| शङ्खो वा समुद्रफेनो वा शर्करया सह हितः|
Adhikarana अर्मणि शुक्रवत् (१३) · Śloka १३
अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत्|
रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम्||१३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्म पञ्चप्रकारमुक्तम्| तेषु मध्ये यत्तनु धूमवदाविलं च, तथा रक्तं-रक्तवर्णं, दधिसदृशं च यत्, तस्यार्मणः शुक्रसदृशमौषधम्|
Adhikarana अर्मणि शस्त्रचिकित्सा विधिः (१४-१९) · Śloka १९
अथार्मणः शस्त्रचिकित्सामाह उत्तानस्येतरत् स्विन्नं ससिन्धूत्थेन चाञ्जितम्|
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत्||१४||
इत्थं संरोषिताक्षास्य प्रचलेऽर्माधिमांसके|
धृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः||१५||
अपाङ्गमीक्षमाणस्य वृद्ध्ऽर्मणि कनीनकात्|
वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम्||१६||
नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः|
समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम्||१७||
कनीनकमुपानीय चतुर्भागावशेषितम्|
छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः||१८||
कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते|
वृद्धेऽर्मणि तथाऽपाङ्गात्पश्यतोऽस्य कनीनकम्||१९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्तानस्य पुंसो वामदक्षिणयोरितरत्-एकमक्षि, स्विन्नंकृतस्वेदं च, तथा बीजपूररसेन सैन्धवान्वितेनाञ्जितं निमील्यस्थगयित्वा, विमर्दयेत्-मलयेत्| अनेन प्रकारेण संरोषिताक्षस्यसतोऽर्माधिमांसे प्रचले सति मूर्ध्नि निश्चलं घृतस्य वर्त्मनोश्च विशेषेण घृतस्य कनीनकादर्मणि वृद्धे सत्यपाङ्गं पश्यतो यत्र वली स्यात् तत्रार्म बडिशेनावलम्बितं नात्यायतं-नातिदीर्घं यथाभवतितथाऽवलम्बितम्| ततः-अनन्तरं, मुचुण्ड्या सूच्या सूत्रेण वा मोचयेत्| अथ मोक्षितं च विच्छेदितं च सत् कनीनकमुपानीय चतुर्भागावशेषितं मण्डलाग्रेन छिन्द्यात्| व्यवहितानामपि पदानामर्थयोग्यतावशादेव सम्बन्धोऽत्र योज्यः| कनीनकं रक्षेत्| कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते| अपाङ्गप्रदेशाच्चार्मणि वृद्धे तथा कनीनकं वीक्षमाणस्य छिन्द्यात्|
Adhikarana अर्मणि बन्धनविधिः (२०-२२) · Śloka २२
सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्|
उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा||२०||
बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च|
करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा||२१||
सक्षौद्रैर्द्विनिशारोध्रपटोलीयष्टिकिंशुकैः|
कुरण्टमुकुलोपेतैर्मुञ्चेदेवाह्नि सप्तमे||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यक् छिन्नं मध्वादिभिः प्रतिसारितं घृतेनोष्णेन सिक्तं माक्षिकसर्पिषाऽभ्यक्तं बध्नीयात्| तृतीयादिदिनेषु च मुक्त्वा क्षीरेण करञ्जबीजसिद्धेन सेचयेत्| द्विहरिद्रादिभिश्च क्वथितैः शीतैश्च मधुयुतैः सेकं कुर्यात्| सप्तमे दिने मुञ्चेदेव|
Adhikarana अर्मणि हीनातिच्छेदजे सेकाञ्जनादि (२३) · Śloka २३
सम्यक् छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान् गदान्|
सेकाञ्जनप्रभृतिभिर्जयेल्लेखनबृंहणैः||२३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यक् छिन्नेऽर्मणि स्वास्थ्यं भवेत्| हीनातिच्छेदजान् रोगान् सेकाञ्जनाद्यैर्यथायोगं लेखनैर्बृंहणैश्च जयेत्|
Adhikarana अर्मणि सिताद्यञ्जनम् (२४-२५) · Śloka २५
सितामनःशिलैलेयलवणोत्तमनागरम्|
अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम्||२४||
अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशेषजित्|
|२५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सितादिभिरर्धकर्षोन्मितै रसाञ्जनं द्विकर्षोन्मितं मधुद्रुतमञ्जनं श्लेष्मतिमिरादिजित्
Adhikarana अर्मणि त्रिफलाद्यञ्जनानि (२५-२७) · Śloka २७
|
त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम्||२५||
शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः|
पृथक्शेषौषधरसैः पृथगेव च भाविता||२६||
सा मषी शोषिता पेष्या भूयो द्विलवणान्विता|
त्रिण्येतान्यञ्जनान्याह लेखनानि परं निमिः||२७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिफलाया एकतमस्य हरीतक्यादेर्द्रव्यस्य त्वचं पानीयकल्कितां शरावपिहितां कपाले दग्ध्वा चूर्णयेत्| तत एव त्रिफलायाः पृथक् शेषौषधरसैः पृथगेव चैकैकं भाविता सा मषी शोषिता पुनः पेष्या लवणद्वययुता| त्रीण्येतान्यञ्जनानि परं लेखनानि तिमिरघ्नानि निमिर्वक्ति|
Adhikarana सिराजाले कठिनसिरासु अर्मवत् (२८) · Śloka २८
सिराजाले सिरा यास्तु कठिना लेखनौषधैः|
न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम्||२८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिराजाले याः सिरा कठिना लेखनौषधैर्न सिध्यन्ति तासामर्मवत् चिकित्सा, पिटिकानां च|
Adhikarana शुक्रेषु त्रिफलादि (२९) · Śloka २९
दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम्|
तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते||२९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्रेषु दोषवशात् कदाचित् रूक्षा कदाचित् स्निग्धा त्रिफला हिता| तथा घृतं तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते|
Adhikarana क्षतशुक्रे त्रिवृद्धृतपानम् (३०-३२) · Śloka ३२
त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत्|
सिरायाν हरेद्रक्तं जलौकोभिश्च लोचनात्||३०||
सिद्धेनोत्पलकाकोलीद्राक्षायष्टिविदारिभिः|
ससितेनाजपयसा सेचनं सलिलेन वा||३१||
रागाश्रुवेदनाशान्तौ परं लेखनमञ्जनम्|
|३२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिवृत्क्वाथेन त्रीन् वारान् घृतं पक्वं क्षतशुक्रे पिबेत्| पश्चात्सिरया रक्तं हरेत्| नयनाद्वा जलौकोभिर्हरेत्| तथाऽऽजदुग्धेनोत्पलादिभिः सिद्धेन सशर्करेण सेचनं हितम्| अथवोत्पलादिक्वथितेन जलेन सेचयेत्| रागाश्रुवेदनाशान्तौ सत्यां लेखनमञ्जनं हितम्|
Adhikarana क्षतशुक्रे रक्तस्रुतिः (३२-३३) · Śloka ३३
|
वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः||३२||
प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम्|
|३३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जातिमुकुलादिभिर्वर्तयः पित्तास्रं प्रसादयन्ति| क्षतशुक्रं च घ्नन्ति|
Adhikarana उत्पलादिसेचनं जातिमुकुलादिवर्तिः, दन्तवर्तिः,अञ्जनादि (३३-३८) · Śloka ३८
|
दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः||३३||
सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः|
क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवतयेत्||३४||
तमालपत्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम्|
ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी||३५||
रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्यूषणं त्रुटिः|
करञ्जबीजं लशुनो व्रणसादि च भेषजम्||३६||
सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नमञ्जनम्|
निम्नमुन्नमयेत्स्नेहपाननस्यरसाञ्जनैः||३७||
सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम्|
|३८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गजाद्युद्भवैर्दन्तैः शङ्खमुक्ताफेनयुतैश्चुतुर्थांशकमरिचैः क्षतशुक्रकमपि व्यापि दन्तवर्तिरियं निवर्तयेत्| अपिशब्दाच्छुद्धशुक्रकमपि| स०-तमालपत्रादिभिर्वर्तिर्गोमूत्रेण सर्वशुक्रकहृत्| स०-रत्ननि-मौक्तिकादीनि, दन्ताः-गजादीनाम्, शृङ्गाणि छागादीनाम्, धातवो-गैरिकाद्याः, त्र्यूषणादीनि, तथा व्रणसादि भेषजं-स्वर्णक्षीर्यादि, एतदञ्जनं सव्रणाव्रणगम्भीरत्वक्स्थशुक्रहरम्| स०-निम्नं शुक्रकं स्नेहपानादिभिरुन्नमयेत्| सरुजं नीरुजं च तर्पणपुटपाकेनोन्नमयेत्|
Adhikarana शुद्धशुक्रे निशादिसेचनम् (३८-३९) · Śloka ३९
|
शुद्धशुक्रे निशायष्टीसारिवाशाबराम्भसा||३८||
सेचनं रोध्रपोटल्या कोष्णाम्भोमग्नयाऽथवा|
|३९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुद्धशुक्रे हरिद्रादिक्वाथेन सेचनं हितम्| अथवा रोध्रपोटाल्या कोष्णाम्बुमग्नया|
Adhikarana शुद्धशुक्रे बृहत्यादिधूपनम् (३९-४१) · Śloka ४१
|
बृहतीमूलयष्ट्याह्वताम्रसैन्धवनागरैः||३९||
धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम्|
यवाज्यामलकीपत्रैर्बहुशो धूपयेत्ततः||४०||
तत्र कुर्वीत गुटिकास्ता जलक्षौद्रपेषिताः|
महानीला इति ख्याताः शुद्धशुक्रहराः परम्||४१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- बृहतीचूर्णादिभिरामलकजलेन पिष्टैस्ताम्रभाजनं लेपितं यवादिभिर्धूपयेत्| अनन्तरं तत्र गुटिकास्तोयमाक्षिकपिष्टाः कुर्यात्| एताश्च महानीला इति प्रथिताः परं शुद्धशुक्रघ्नाः|
Adhikarana शुद्धशुक्रे महानीला गुटिका (४२) · Śloka ४२
स्थिरे शुरे घने चास्य बहुशोऽपहरेद्रसृक्|
शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः||४२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्थिरे शुक्रे घने चातुरस्यास्य बहुशो रक्तं मोक्षयेत्| शिरोविरेकादीन् पुटपाकांश्च पुनःपुनः कुर्यात्|
Adhikarana शुद्धशुक्रे स्थिरे घने शुक्रे रक्तस्रुतिः (४३) · Śloka ४३
कुर्यान्मरिचवैदेहीशिरीषफलसैन्धवैः|
हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा||४३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मरिचादिभिर्हर्षणं कुर्यात्| त्रिफलाक्वाथपीतेन सैन्धवेन वा|
Adhikarana शुद्धशुक्रे मरिचादिना हर्षणम् (४४-४५) · Śloka ४५
कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ|
शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः||४४||
सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः|
|४५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इमौ श्लोकार्धौक्तौ योगौ घ(ह)र्षणाय कुर्यात्| शङ्खादिभिर्माक्षिकान्तैरेको योगः, सुरादिभिः कुसुमान्तैरन्यः|
Adhikarana शुद्धशुक्रे शुक्रहर्षणान्यञ्जनानि (४५-४६) · Śloka ४६
|
धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः||४५||
उषितः शोषिततश्चूर्णः शुक्रहर्षणमञ्जनम्|
|४६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धात्र्यादिरसे क्षारो लाङ्गलिकज उषितः शोषितश्चूर्णः शुक्रहर्षणमञ्जनम्|
Adhikarana शुद्धशुक्रे हृष्टशुक्रनाशिनी वर्तिः (४६-४८) · Śloka ४८
|
मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः||४६||
सारो मधूकान्मधुमान् मज्जा वाऽक्षात्समाक्षिका|
गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः||४७||
वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी|
|४८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शङ्खमधुयुता मुद्गा निस्तुषाः पिष्टा अथवाऽञ्जनम्| मधूकात्सारो मधुयुतोऽञ्जनम्| अथवा बिभीतकान्मज्जा माक्षिकान्विता| सं-गवादिदन्ताः शङ्खः समुद्रफेनो वा पार्थजलेन पिष्टावर्तिहृष्टशुक्रहृत्|
Adhikarana शुद्धशुक्रे उत्सन्नादिशुक्रे लेखनम् (४८) · Śloka ४८
|
उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर्लिखेत्||४८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्सन्नं वा सशल्यं वा शुक्रं वालशाकपत्रादिभिर्लिखेत्|
Adhikarana सिराशुक्रे व्रणशुक्रवत् (४९) · Śloka ४९
सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत्|
|४९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिराशुक्रे पुनरदृष्टिघ्ने चिकित्सा व्रणशुक्र इव कार्या|
Adhikarana सिराशुक्रे पुण्ड्रादिवर्तिः (४९-५०) · Śloka ५०
|
पुण्ड्रयष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम्||४९||
कल्कितं छागदुग्धेन सग़ृतैर्धूपितं यवैः|
धात्रीपत्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम्||५०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाण्ड्रादिकं छागदुग्धेन पिष्टं ससर्पिष्कैर्यवैरामलकपत्रैश्च पर्यायेण धूपिता वर्तिर्ने(र)त्राञ्जनं परम्|
Adhikarana अजकायां शस्त्रप्रयोगः (५१) · Śloka ५१
अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत्|
|५१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशान्तौ सत्यामर्मवदजकाख्ये च शस्त्रं प्रयोजयेत्|
Adhikarana अजकाशुक्रेषु असाध्येषु स्नेहपानादिना वेदनोपशमादि (५१-५२) · Śloka ५२
|
अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे||५१||
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः|
कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम्||५२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असाध्यायामजकायां शुक्रे चान्यत्र रोगे तत्प्रकारेऽसाध्ये वेदनोपशमं स्नेहपानादिभिर्विदधीत| बीभत्सतां-निन्द्यतां, जेतुं शुक्रस्योत्सेधसाधनं कुर्यात्|
Adhikarana अजकाशुक्रेषु नालिकेराद्यञ्जनम् (५३-५४) · Śloka ५४
नालिकेरास्थिभल्लाततालवंशकरीरजम्|
भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्||५३||
चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम्|
साध्येषु साधनायालमिदमेव च शीलितम्||५४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नालिकेरास्थ्यादिजं भस्म अद्भिः स्रावयेत्| ताभिरद्भिः करभास्थिजं चूर्णं भावयेत्| तच्चूर्णमञ्जनमसाध्येषु शुक्रेषु वैवर्ण्यहरम्| शीलितं चैतदेव शुक्राणां साधनायालं-श्रेष्ठम्|
Adhikarana शुक्रेषु पानादौ यथास्वं घृतम् (११) · Śloka ११
अजकां पाऱ्श्वतो विध्वा सूच्या विस्राव्य चोदकम्|
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्||५५||
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च|
सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिरे||५६||
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा|
तथाऽपि पुनराध्माने भेदच्छेदादिकां क्रियाम्||५७||
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्|
५७ १/२|
नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्|
न हीयते लब्धबला तथाऽन्त- स्तीक्ष्णाञ्जनैर्दृक् सततं प्रयुक्तैः|
५८ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने सन्धिसितासितरोगप्रतिषेधो नामैकादशोऽध्यायः||११||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजकां पार्श्वतः सूच्या विध्वा जलं च निःस्राव्यानन्तरमङ्गुष्ठेन समं वसार्द्रेण-वसया द्रवीकृत्य, व्रणं गोमांसचूर्णेन पूरयेत्| बद्धं बद्धं विमुच्य स सप्तरात्राद् व्रणे रूढे सति तथा कृष्णभागे समे स्थिते सति स्नेहाञ्जनं च कर्तव्यम्| क्षीरघृते च नस्यम्| एवमपि कृते पुनराध्माने सति भेदच्छेदादिकां क्रियां युक्त्या कुर्यात्| यथाऽतिच्छेदेन दृष्टेर्निमज्जनं न स्यात्| स०-शुक्रेषु च नित्यं घृतं यथायोगं पक्वं पानादौ विदध्यात्| किम् ? इत्याह-तथा घृतपानसेचनेन लब्धबला दृगन्तः प्रततं प्रयुक्तैस्तीक्ष्णाञ्जनैर्न हीयते-न हानिं यायादिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सन्धिसिता- सितरोगप्रतिषेधो नामैकादशोऽध्यायः समाप्तः|| ११||