Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ वमनविरेचनकल्पाभ्यामनन्तरं तद्व्यापत्सिद्धिं ब्रूते-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ वमनविरेचनकल्पाभ्यामनन्तरं तद्व्यापत्सिद्धिं ब्रूते-
Adhikarana वमनविरेचनव्यापत्सिद्धिरध्यायः (२) · Śloka २
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः| इति ह स्माहुरात्रेदयो महर्षयः| (गद्यसूत्रे)|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनविरेचनयोर्व्यापत्-अयथाशास्त्रमनुष्ठीयमानयोर्गदोत्पत्तिः, तस्या वमनविरेचनव्यापदः सिद्धिः-साधनं चिकित्सितं, तां वर्णयिष्यामः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -वमनविरेचनव्यापत्सिद्धिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| व्यापदश्चोक्ताः सङ्ग्रहे (क. अ. ३)- "प्रतिकूला गतिः पाको ग्रथितत्वं सगौरवम्| दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः|| प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः| सह धातुस्रवेणैता द्वादशोक्ताः ससाधनाः|| व्यापदो योगविभ्रंशाद्विविधेऽपि विरेचने|" इति|
Adhikarana वमनस्य प्रतिकूला गतिः (१-२) · Śloka २
वमनं मृदुकोष्ठेन क्षुद्वताऽल्पकफेन वा| अतितीक्ष्णहिमस्तोकमजीर्णे दुर्बलेन वा||१|| पीतं प्रयात्यधस्तस्मिन्निष्टहानिर्मलोदयः| वामयेत्तं पुनः स्निग्धं स्मरन् पूर्वमतिक्रमम्||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवंविधेन पुरुषेणैवंविधं वमनं पीतमधः प्रयाति| तस्मिन्-वमनेऽधस्तात्प्रयाते सति, इष्टहानिः-अभिप्रेतस्य वमनकार्यस्यानिष्पत्तिः| तथा मलस्य-वमनसाध्यस्य श्लेष्मणः केवलस्यान्यदोषयुक्तस्य वा, उदयः-स्वस्थानस्थस्यैवामयकरणं प्रतिचलप्रवलके च| तं-पुरुषं पीतवमनमप्यवान्तं, पुनः स्निग्धं वामयेत्| पूर्वं स्निग्धमपीति पुनः शब्दस्यार्थः| कथं वामयेत् ? स्मरन् पूर्वमतिक्रमम्, यतोऽतिक्रमात् पीतवमनोऽप्यसौ पुरुषो वमनकर्मणः फलं नाप्तवान्| तमतिक्रमं-अपराधं, स्मरन् चेतसि कुर्वाणो, न त्वेवमेव, वामयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनस्य प्रतिकूलां गतिमाह-वमनमिति| अतिशब्दस्तीक्ष्णादिभिस्त्रिभिः सम्बध्यते| तस्मिन्-वमने| इष्टहानिः-यदर्थं वमनं तस्यानिष्पतिः| मलोदयो-दोषोत्क्लेशः| तं-तथाभूतम्, स्निग्धं कृत्वा पुनर्वामयेत्, येन सा व्यापज्जाता तत्परिहरन्|
Adhikarana विरेचनस्य प्रतिकूला गतिः (३-५) · Śloka ५
अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम्| अतितीक्ष्णोष्णलवणमहृद्यमतिभूरि वा||३|| तत्र पूर्वोदिता व्यापत्सिद्धिश्च, न तथाऽपि चेत्| आशये तिष्ठति ततस्तृतीयं नावचारयेत्||४|| अन्यत्र सात्म्याद्धृद्याद्वा भेषजान्निरपायतः| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजीर्णिनस्तथा बहुश्लेष्मिणो विरेचनमतितीक्ष्णोष्णलवणहृद्यमतिप्रभूतं च पीतमूर्ध्वं याति| तत्र-तस्मिन्नूर्ध्वं व्रजति, पूर्वोक्ता(दिता) व्यापत्-इष्टहानिर्मलोदय इति| तत्र तथैव सिद्धिः-चिकित्सितम्| तथा, अनन्तरं विरेचनस्योर्ध्वगमनादविरिक्तं पुनः स्निग्धं विरेचयेत्| तथैव पूर्वं विरेचनातिक्रमं स्मरन्नितोऽपराधात्पूर्वं विरेचने न विरिक्तस्तमतिक्रमं परिहरन् विरेचयेदित्यर्थः| तथाऽपि-एवमनुष्ठीयमाने तद्विरेचनौषधं पीतं, यद्याशये-कोष्ठलक्षणे, न तिष्ठति-तत्र स्थितिं न बध्नाति ऊर्ध्वमेव पुनरेति, ततस्तृतीयं विरेचनौषधं-आरग्वधादि, नावचारयेत्| यदि तु सात्म्यं हृद्यं निरपायं वा भेषजं तदा तृतीयमप्यवचारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनस्य प्रतिकूलां गतिमाह-अजीर्णिन इति| तत्र-विरेचने| पूर्वोदिता-वमनोक्ता, व्यापत्-इष्टहानिर्मलोदय इत्येषा, सिद्धिश्च-तं स्निग्धं पुनर्विरेचयेदित्येषा| तथाऽपि-तेनापि प्रकारेण, यद्याशये विरेचनं न तिष्ठति-ऊर्ध्वं याति, ततः-अनन्तरं, तृतीयं प्रयोगं नावचारयेत्, यदि तु सात्म्यं हृद्यं निरपायं वा भेषजं तदा तृतीयमप्यवचारेयेत्|
Adhikarana ग्रथितत्वपाकगौरवाणि (५-८) · Śloka ८
| अस्निग्धस्विन्नदेहस्य पुराणं रूक्षमौषधम्||५|| दोषानुत्क्लेश्य निर्हर्तुमशक्तं जनयेद्गदान्| विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम्||६|| पिण्डीकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्| स्निग्धस्विन्नस्य वाऽत्यल्पं दीप्ताग्नेर्जीर्णमौषधम्||७|| शीतैर्वा स्तब्धमामे वा समुत्क्लेश्याहरन्मलान्| तानेव जनयेद्रोगानयोगः सर्व एव सः||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्निग्धस्विन्नशरीरस्य पुराणं रूक्षं विरेचनौषधमुपयुक्तं दोषानुत्क्लेश्य-प्रच्याव्य, निर्हर्तुमशक्तं विभ्रंशादिकान् गदान् जनयेत्| अथवा, स्निग्धस्विन्नस्य चौषधमत्यल्पं-मात्राहीनं, दीप्ताग्नेर्जीर्णं-परिणतं, स्यात्| शीतैर्वा स्तब्धभेषजमामे वा स्तब्धं सत् [मलान्-] दोषान्, उत्क्लेश्यानिर्हरत् पूर्वोक्तानेव रोगान् जनयेत्| सः-एवंभूतः, सर्व एवायोगः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्रथितत्वपाकगौरवाण्याह-अस्निग्धेति| तत्र "विवर्णताम्" इत्यन्तेन ग्रथितत्वम्| "औषधम्" इत्यन्तेन पाकम्| शेषेण गौरवम्| विभ्रंशं-इष्टहानिम्| जीर्णं-पक्वम्| शीतैः-औषधपानानन्तरमन्तर्बहिर्वा सेवितैः, औषधं स्तब्धं भवति| तद्वदामे-अपक्वदोषे| तानेव-विभ्रंशादीन्| सङ्ग्रहे तु (क. अ. ३)- "स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेऽत्यर्थगुरुस्तब्धोदरता शूलो वातपुरीषसङ्गश्च भवति|" इत्युक्तम्|
Adhikarana तेषां प्रतीकारः (९-१०) · Śloka १०
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः| निरूढं जाङ्गलरसैर्भोजयित्वाऽनुवासयेत्||९|| फलमागधिकादारुसिद्धतैलेन मात्रया| स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तं-उत्क्लिष्टदोषं, तैललवणाभ्यक्तं प्रस्तरसङ्कराख्यैः स्वेदैः स्विन्नं तथा निरूढं जाङ्गलरसैर्भोजयित्वा फलादिसिद्धतैलेन मात्रयाऽनुवासयेत्| वातहरैः स्नेहैः स्निग्धं पुनस्तीक्ष्णेन विरेचनेन विशोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तं-त्रिविधायोगिनं, निरूढं-समूत्रैस्तीक्ष्णैर्निरूहैः, सङ्ग्रहे (क. अ. ३) तथोक्तत्वात्, मदनफलादितैलेनानुवासयेत्|
Adhikarana दोषोल्केशभृशाध्माने, तयोः प्रतीकारः (११-१४) · Śloka १४
बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम्| सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः||११|| भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्| श्वासं विण्मूत्रवातनां सङ्गं कुर्याच्च दारुणम्||१२|| अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्| उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते||१३|| पञ्चमूलयवक्षारवचाभूतिकसैन्धवैः| यवागूः सुकृता शूलविबन्धानाहनाशनी||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बहुदोषस्य रूक्षस्य तथा मन्दाग्नेरल्पमौषधं योजितं तथोदावर्तवतो दोषानुत्क्लेश्य मार्गान् निरुध्य तैश्च दोषैर्भृशं नाभिमाध्मापयेत्| तथा पृष्ठादिरुजादीन् कुर्यात्| आध्मातस्य नरस्याभ्यङ्गादिकं कर्म उदावर्तहरं सर्वं शस्यते| पञ्चमूलादिभिः सुकृता यवागूः शूलादिनाशनी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दोषोत्क्लेशभृशाध्माने आह-बहुदोषस्येति| तत्र "उत्क्लेश्य दोषान्" इत्यन्तेन दोषोत्क्लेशम्| शेषेण भृशाध्मानम्| उक्तं हि सङ्ग्रहे (क. अ. ३)- "कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्बल्याङ्गसादान् जनयति| तच्छीघ्रमुल्लिखेत्| लङ्घितं च सन्धुक्षिताग्निं पुनः स्निग्धं तीक्ष्णोष्णैर्विशोधयेत्| सशेषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति| तत्र मलसङ्गात्समुन्नह्यत्युदरमन्तःशूलं दृतिवत्पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासः पायुवस्तिनिस्तोदश्च भवति| तमुदावर्तानाहहराभ्यङ्गस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपाचरेत्|" इति| तैः-उत्क्लिष्टदोषैः| नाभिं-नाभिसमीपमुदरम्| पञ्चमूलादियवागूः सुकृता-त्रिकटुलवणस्नेहयुता| पञ्चमूलं-महत्| उक्तं हि वृन्देन (ज्वरातिसाराधिकार श्लो.१६)- "पञ्चमूलीति सामान्याद्भाह्या पित्ते कनीयसी| महती पञ्चमूली तु वातश्लेषमोत्तरे हिता||" इति| भूतिकं-रोहिषम्| सैन्धवस्य़ क्वाथ्यद्रव्येषूक्तावपि सिद्धायां यवाग्वां लवणस्थाने प्रयोगः| अत एव सुकृताशब्देन कृताख्यो भेद उच्यते|
Adhikarana प्रवाहिकादित्रये भेषजम् (१५-१६) · Śloka १६
पिपलीदाडिमक्षारहिङ्गुशुण्ठ्यम्लवेतसान्| ससैन्धवान् पिबेन्मद्यैः सर्पिषोष्णोदकेन वा||१५|| प्रवाहिकापरिस्राववेदनापरिकर्तने| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पल्यादीन् मद्येन सर्पिषोष्णाम्बुना वा पिबेत् प्रवाहिकादिषु|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रवाहिकादित्रये भेषजमाह-पिप्पलीति| पिप्पल्यादिचूर्णं मद्याद्यन्यतमेन प्रवाहिकादिषु तिसृषु व्यापत्सु पिबेत्| वेदनया परिकर्तनं-छेदनमिव| सङ्ग्रहे तु (क. अ. ३)-"क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेण स्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं परिदूष्य परिकर्तिकामापादयति| तत्र नाभिबस्तिगुदमेढ्रे सदाहं परिकर्तनमनिलसङ्गो विष्टम्भश्च| तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत्| क्षीरिवृक्षशृतक्षीरेण वा, शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वाऽनुवासयेत्| क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः| सामे दीपनो लङ्घनश्च, लघुरूक्षोष्णं चान्नपानम्| निरामीभूते चानुबन्धे लघुक्षाराम्लम्| वातेऽधिके दधि साम्लं दाडिमत्वचा युक्तं भोजने पाने च युञ्जीत| सदाडिमरसं सर्पिः पिबेत्| उष्णाम्बुना वा तिलदेवदारुकल्कम्| क्रूरकोष्ठस्य बहुदोषस्याल्पमल्पगुणं मृदुस्निग्धं वा शोधनमवचारितमुत्क्लेश्य दोषान्न निर्हरति, अल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति, विष्टम्भगौरवशोफकोठकण्डूपाण्डुताङ्गसादगुदशूलानि चापादयति| तं तिनिशधवाश्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत्| उपशान्तपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्| शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत्| पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा, तदा प्रवाहिकाऽस्य जायते| तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमानः कफमुपविशति| तं परिस्त्रवविधिनोपचरेत्|" इति|
Adhikarana हृद्ग्रहः (१६-२१) · Śloka २१
| पीतौषधस्य वेगानां निग्रहान्मारुतादयः||१६|| कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्| हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः||१७|| जिह्वां खादति निःसंज्ञो दन्तान् कटकटाययन्| न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्||१८|| मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्| पाचनीयैस्ततश्वास्य दोषशेषं विपाचयेत्||१९|| कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत्| |२०| घ्|२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- पीतौषधस्य वेगानां निग्रहाद्वातादयः कुपिता हृदयं गत्वा घोरं हृद्ग्रहं कुर्वन्ति| हिध्मादियुक्तः स च हृद्ग्रहादिमान् जिह्वां खादति निःसंज्ञः सन्| तथा दन्तान् कटकटायते| तत्र तस्मिन्नवस्थाविशेषे, भिषगाश्वेव तं-रोगिणं, संशयं हित्वा वामयेत्| मधुरैः पित्तमूर्च्छार्तं वामयेत्| कफमूर्च्छितं कटुभिर्वामयेत्| वामयित्वा चास्य दोषशेषं पाचनीयैर्द्रव्यैर्विपाचयेत्| कायाग्निं बलं च क्रमेणास्याभिप्रवर्धयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हृद्ग्रहमाह-पीतौषधस्येति| अक्षिविभ्रमः-उत्धृताक्षत्वम्| कटकटाययन्-कटत्कटदिति कारयन्, "लोहितादिडाजूभ्यः क्यष्" इति क्यषन्ताण्णिच| सङ्ग्रहे तु (क. अ. ३)-"तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्| यथादोषोच्छ्रायं च बस्तीन् वितरेत्|" इति|
Adhikarana हृद्ग्रहे भेषजम्, हृद्ग्रहविशेषेभेषजम् (२०-२१) · Śloka २१
| पवनेनातिवमतो हृदयं यस्य पीड्यते||२०|| तस्मै स्निग्धाम्ललवणान् दद्यात्पित्तकफेऽन्यथा| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्यातिवमतः पवनेन हृदयं पीड्यते, तस्मै रोगिणे स्निग्धाम्ललवणं दद्यात्| पित्तकफे कुपिते, अन्यथा-मधुरशीतादिकं, दद्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हृद्ग्रहविशेषे भेषजमाह-पवनेनेति| अन्यथेति रूक्षमधुरकटुतिक्तकषायान् योगान् दद्यात्|
Adhikarana सर्वगात्रपरिग्रहस्तद्भेषजं च (२१-२३) · Śloka २३
| पीतौषधस्य वेगानां निग्रहेण कफेन वा||२१|| रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः| स्तम्भवेपथुनिस्तोदसादोद्वेष्टार्तिभेदनैः||२२|| तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीतभेषजस्य वेगानां निग्रहेण कफेन वा रुद्धोऽति विशुद्धस्य वा वायुरङ्गानि गृह्णाति स्तम्भादिभिः| तत्र सर्वं वातहरं स्नेहस्वेदादि शस्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्वगात्रपरिग्रहमाह-पीतौषधस्येति| सङ्ग्रहे तु (क. अ. ३)- "अस्निग्धस्विन्नेनाब्रह्मचारिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रप्रयुक्तमतिविरेकाद्वायुं प्रकोपयति| तेन सर्वाङ्गप्रग्रहे विशेषात्पार्श्वपृष्ठ श्रोणिमन्यामर्मसु शूलं मूर्च्छा भ्रमः कम्पः स्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात्| तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुविपक्वेन तैलेनानुवासयेत्, वातहरं चान्नपानम्|" इति|
Adhikarana धातुस्रवस्तद्भेषजं च (२३-२६) · Śloka २६
| बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्||२३|| हृत्वाऽऽशु विट्पित्तकफान् धातूनास्रावयेद्द्रवान्| तत्रातियोगे मधुरैः शेषमौषधमुल्लिखेत्||२४|| योज्योऽति वमने रेको विरेके वमनं मृदु| परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम्||२५|| अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्| लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुधार्तस्य मृदुकोष्ठस्य नरस्य बहुतीक्ष्णं च भेषजं विट्पित्तकफान् शीघ्रमेव हृत्वा द्रवान् धातूनास्रावयेत्| तस्मिन् विरेचनातियोगे मधुरैर्द्रव्यैः शेषं विरेचनद्रव्यमुद्धरेत्| अतिवमने सति विरेको योज्यः| अतिविरेके च मृदु वमनं योज्यम्| परिषेकादिभिश्च शीतैस्तं-विरेकं, स्तम्भयेत्| आदिशब्दो जलार्द्रशीतमारुतादिग्रहणाय| अञ्जनादिकं लाजचूर्णैः सह मन्थं परं विरेकातियोगहरं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धातुस्रवमाह-बहुतीक्ष्णमिति| अजासृग्छागरुधिरम्| अञ्जनादिषट्कं लाजचूर्णैः सह पिबेत् "सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः| नातिसान्द्रा न चात्यच्छा मन्थ इत्यभिधीयते||' इत्युक्तविशेषप्राप्त्यर्थं मन्थमित्युक्तम्|
Adhikarana वमनातियोगे विशेषः (२७-२८) · Śloka २८
वमनस्यातियोगे तु शीताम्बुपरिषेचितः| पिबेत्फलरसैर्मन्थं सघृतक्षौद्रशर्करम्||२७|| सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः| समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनस्य त्वतियोगे शीताम्बुपरिषेचितः सन् फलरसैर्मन्थं घृतादियुक्तं पिबेत्| अतिशयेन सोद्गारे वमने सति मूर्वादिचूर्णं लेहयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनातियोगे विशेषमाह-वमनस्येति| मूर्वादिपञ्चकचूर्णं मधुना लेहयेत्|
Adhikarana वमनभैषज्यातियोगे व्यापत् तद्भेषजं च (२९-३८) · Śloka ३८
वमतोऽन्तः प्रविष्टायां जिह्वायां कवलग्रहाः| स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः||२९|| फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः| निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||३०|| वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्| यवागूं तनुकां दद्यात्स्नेहस्वेदौ च कालवित्||३१|| अतियोगाच्च भैषज्यं जीवं हरति शोणितम्| तज्जीवादानमित्युक्तमादत्ते जीवितं यतः||३२|| शुने काकाय वा दद्यात्तेनान्नमसृजा सह| भुक्तेऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम्||३३|| शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा| प्रक्षालितं विवर्णं स्यात्पित्ते शुद्धं तु शोणिते||३४|| तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात्क्रियाम्| रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम्||३५|| मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्| पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति||३६|| तदेव दर्भमृदितं रक्तं बस्तौ निषेचयेत्| श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः||३७|| घृतमण्डाञ्जनयुतं बस्तिं वा योजयेद्धिमम्| पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-छर्दयतोऽभ्यन्तरे जिह्वायां प्रविष्टायां सत्यां कवलग्रहश्छागमांसरसाः स्निग्धादियुक्ता मनःप्रिया हिताः| तथा तस्य-अन्तःप्रविष्टजिह्वस्य, अग्रेऽपरे नरा अम्लानि फलानि खादेयुः| निःसृतां च रसनां तिलद्राक्षाकल्केन लिप्तामन्तः प्रवेशयेत्| स०-वाग्ग्रहादिषु वातरोगेषु घृतमांसोपसाधितां स्वच्छां यवागूं दद्यात्| स्नेहस्वेदौ च योजयेत्| स०-अतियोगेन च यद्भेषजं जीवाख्यं शोणितं हरति तद्भैषज्यं जीवादानमिति गदितम्, यतस्तज्जीवितमादत्ते| पित्तरक्तयोर्गन्धवर्णानुवृत्तित्वसामान्यात् किमिदं रक्तमुत पित्तम् ? इति संशयः| तत्परीक्षार्थमाह-शुने काकाय वेत्यादि| तेन विरेचनातियोगोद्भवेन रक्तेन, मिश्रितमन्नं शुने वायसाय वा दद्यात्| तस्मिन् रक्तमिश्रितेऽन्ने भुक्ते सति जीवं वदेत्| अभुक्ते च सति तस्मिन् विरेचनातियोगेरितं पित्तं ब्रूयात्| शुक्लं वस्त्रं तेन विरेचनातियोगोद्भवेन रक्तेन संशयरूपेण भावितं-आर्द्रीकृतं, अनन्तरमावानं-शुष्कं, कोष्णवारिणा प्रक्षालितं-प्रकर्षेण धौतं, पित्ते सति विवर्णं वस्त्रं स्यात्, न शुद्धम्| शोणिते तु सति प्रक्षालितं वस्त्रं शुद्धं स्यात्| स०-तृष्णाद्यार्तस्य शोणिते स्रवत्येव तक्रपित्तातिसारघ्नीं प्राणरक्षणीं शीघ्रं क्रियां कुर्यात्, आमरणात्| अनेन च मरणतुलाधिरूढत्वं द्योतयति| संशयेऽपि चिकित्सा कार्येति प्रागभ्यधायि| तत्र मृगादीनां जीवतां सद्यस्कं-तत्क्षणोत्पन्नं, रक्तं पिबेत्| किम्भूतम् ? जीवाभिसन्धानम्| जीवमभिसन्धीयतेऽत्रेति जीवाभिसन्धानम्| हि-यस्मात्, तत्-रक्तं कर्तृभूतं, जीवं कर्म आशु गच्छति-प्राप्नोति| तदेतद्रक्तं दर्भमृदितं-अभिनवप्रसूतदर्भमृदितं, बस्तौ निषेचयेत्-प्रक्षिपेत्| श्यामादिभिर्वा शृतं पयो घृतमण्डाञ्जनाभ्यां युक्तं बस्तिं हिमं-शीतलं, योजयेत्| अथवा पिच्छाबस्तिं-स्वल्पमनुवासनं, सुशीतं घृतमण्डेन-स्वच्छेनोर्ध्वभवेन घृतस्योपरिभागस्थितेन, देयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कवलग्रहाः-गण्डूषाः| ते च यूषा मांसरसा वा| आ० र०-तनुकां-अच्छाम्| आ० र०-वमनभैषज्यातियोगे व्यापदमाह-अतियोगादिति| जीवशोणितं-ओजः, "ओजस्तु तेजो धातूनां" (हृ. सू. अ. ११/३७) इत्यादिनोक्तम्| तत्-व्यापद्रूपं जीवादानसंज्ञम्| तेनासृजा-जीवशोणितेन| भावितं-द्विस्त्रिर्वा स्तिमितम्| ततः आवानं-ईषच्छुष्कम्| ततः कोष्णवारिणा प्रक्षालितम्| तद्यदि विवर्णं स्यात्तदा पित्तम्| यदि शुद्धं तदा जीवशोणितम्| आ० र०-तस्य-ज्ञातजीवशोणितनिर्गमस्य| सद्यस्कं गृहीतमात्रं शिराव्यधेन| जीवाभिसन्धानं-जीवशोणितन्यूनांशपूरणम्| हि-यस्मात्, तत् जीवं-जीवशोणितं, आशु गच्छति| तदेव-मृगादीनाम्, दर्भमृदितं-दर्भचूर्णेन सह भर्दितम्, बस्तौ निषेचयेत्-तेन निरूहं दद्यात्, श्यामादिक्वथितेन पयसा वा| श्यामा-प्रियङ्गुः| पिच्छाबस्तिं-अतिसारचिकित्सितोक्तम् (हृ.चि.अ. ९/७२)|
Adhikarana गुदभ्रंशे स्तम्भनम् (३९) · Śloka ३९
अस्यामप्यतियोगोद्भवायामवस्थायां गुदभ्रंशः सम्भाव्यत इत्याह- गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्| |३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुदं भ्रष्टं कषायैः-कषायरसनिष्पादितैः- क्वाथैः, स्तम्भयित्वा प्रवेशयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गुदं भ्रष्टं कषायैः-कषायरसैर्द्रव्यैः, स्तम्भयित्वा-स्तब्धतां नीत्वा, प्रवेशयेत्|
Adhikarana विसंज्ञस्य सामवेदादिश्रवणम् (३) · Śloka ३
| विसंज्ञं श्रावयेत्सामवेणुगीतादिनिस्वनम्||३९|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धि- स्थाने वमनविरेचनव्यापत्सिद्धिर्नाम तृतीयोऽध्यायः||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विसंज्ञं सम्पन्नं सामवेणुगीतादीनां निस्वनं श्रावयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्ग- हृदयटीकायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्प सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम तृतीयोऽध्यायः समाप्तः|| ३||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विसंज्ञं सामादिध्वनीन् श्रावयेत्| सङ्ग्रहे तु (क. अ. ३)-"अतिमात्रमकालेऽल्पं तुल्यवीर्यैरभावितम्| असम्यक् संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवम्|| छर्दनं न तु दुश्र्च्छर्दं दुर्विरेचं न रेचनम्| पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ|| यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्| वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्|| विबद्धेऽल्पं चिराद्दोषे स्त्रवत्युष्णं पिबेज्जलम्| तेनाध्मानं वमिस्तृष्णा विबन्धश्चाशु शाम्यति|| भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते| सोद्गारं साङ्गशूलं वा स्वेदं तत्रावचारयेत्|| सम्यग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत्| अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद्भिषक्|| कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्| क्षीणे श्लेष्मणि सायाह्ने निशि वा तत् प्रवर्त्तते|| क्षारानाहारयेज्जीर्णे तिष्ठत्यूर्ध्वं गतेऽपि वा| वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्|| तृण्मोहभ्रममूर्च्छाद्याः स्युर्जीर्यति च भेषजे| पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते|| लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते| भेषजं तत्र तीक्ष्णोष्णं कट्वापि कफनुद्धितम्||" इति| तथा धातुस्रवे (सं,क.अ. ३)-"तं शतधौतघृतेनाभ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लेहैः स्तम्भयेत्| विशेषेण तु विरेचनातियोगे तण्डुलाम्भसा मधुमिश्रेण वामयेत्| प्रियङ्वादिकं च तण्डुलोदकेन पिबेत्| रोध्ररसाञ्जनादाडिमत्वचो वा| कट्फलोत्पलसमङ्गापद्मकेसराणि वा| क्षौद्रशर्करामधुकोदुम्बरत्वचो वा| शेषेष्वपि चासम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथामयं दोषादीनालक्ष्य प्रतिकुर्यात्| बस्तिव्यापत्सिद्धिं चेक्षेत| एवमुभयतो भागेऽपि शोधने यथावस्थमुत्तिष्ठेत| या तु विरेचने परिकर्तिका तद्वमने कण्ठक्षणनम्, यः परिस्रवः स कफप्रसेकः, यत् प्रवाहणं स शुष्कोद्गार इति|" इति| इति हेमाद्रिटीकायामायौर्वेदरसायने| शुद्धिव्यापत्प्रकरणं सामस्त्येन निरूपितम्|| ३||