Skip to content

. विरेचनकल्पाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

वमनादनन्तरं विरेचनस्योपयोग इति वमनकल्पादनन्तरं विरेचनकल्पः प्रक्रम्यत इत्याह-

Adhikarana विरेचनकल्पाध्यायः (२) · Śloka

अथातो विरेचनकल्पं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कल्पनं कल्पो-योजना| विरेचनं-अधोभागेन दोषनिर्हरणम्, तस्य कल्पो-विरेचनकल्पः, तं व्याख्यास्यामः| शेषं पूर्ववत्| दन्तीद्रवन्त्यादिभ्यः सर्वेभ्योऽपि विरेचनद्रव्येभ्यो निरपायित्वाद्विरेचनसाध्ये व्याधावनिषिद्धप्रसरत्वात्[च] पूर्वं त्रिवृताया उपन्यासः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरेचनकल्पं व्याख्यातुं प्रतिजानीते-अथेति| अथ विरेचनकल्पः| तत्र सङ्ग्रहे| (क. अ. २)- "विरेचनद्रव्याणां मूलेषु त्रिवृत्, त्वक्षु तिल्वकः, क्षीरेषु स्निही, फलेषु हरीतकी, प्रधानानि|" इति|

Adhikarana त्रिवृच्छ्यामयोः कल्पः त्रिवृतो गुणाश्च (१) · Śloka

अथ त्रिवृच्छ्यामयोः कल्पः| कषायमधुरा रूक्षा विपाके कटुका त्रिवृत्| कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनेनास्याः स्वरूपकथनम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- त्रिवृद्गुणानाह-कषायमधुरेति|

Adhikarana त्रिवृतः संयोगादिकृता गुणाः (२) · Śloka

सेदानीमौषधैर्युक्ता वातपित्तकफापहैः| कल्पवैशेष्यमासाद्य जायते सर्वरोगजित्||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सा-एवंगुणा त्रिवृत्, अधुना वातपित्तकफघ्नैरौषधैर्युक्ता कल्पविशेषत्वं प्राप्य विरेचनसाध्यव्याधिविषये सर्वरोगजिज्जायते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- संयोगादिकृतान् गुणानाह-सेदनीमिति|

Adhikarana त्रिवृतो भेदद्वयम् (३) · Śloka

द्विधा ख्यातं च तन्मूलं श्यामं श्यामाऽरुणं त्रिवृत्| |३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स० - तस्याः-त्रिवृतो, मूलं द्विप्रकारम्,-एकं श्याममपरमरुणम्| श्यामं मूलं श्यामा, त्रिवृदरुणामिति व्याख्यं द्विसंज्ञम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- भेदद्वयमाह-द्विधेति| श्यामं-श्यामाख्यम्| अरुणं-त्रिवृदाख्यम्|

Adhikarana अरूणस्य विषयः (३-४) · Śloka

| त्रिवृदाख्यं वरतरं निरपायं सुखं तयोः||३|| सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम्| |४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स० -तयोः-श्यामारुणयोः, यदरुणं मूलं तद्वरतरम्| सामर्थ्यात् श्यामं वरम्| अरुणं यन्मूलं तन्निरपायत्वात् सुकुमारादिषु हितम्, न श्यामं सापायत्वात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अरुणस्य विषयमाह-त्रिवृदाख्यामिति|

Adhikarana श्यामस्य विषयः (४-५) · Śloka

सापायत्वे विशेषेण हेतुमाह | मूर्च्छासम्मोहहृत्कण्ठकषणक्षणनप्रदम्||४|| श्यामं तीक्ष्णाशुकारित्वादतस्तदपि शस्यते| क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स० - श्यामं मूलं मूर्च्छादिहृत्कण्ठकषणक्षणनप्रदम्| तत्तीक्ष्णत्वादाशुकारित्वाच्च सापायत्वमस्य| तदेवंरूपमपि श्यामं शस्यते क्रूरकोष्ठादिविषये|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- श्यामस्य विषयमाह-मूर्च्छेति| मूर्च्छासम्मोहयोर्ज्ञानभ्रंशे तुल्ये देहपातापाताभ्यां भेदः| कषणं-विलेखनं हृदयस्य| क्षणनं-क्षतं कण्ठस्य|

Adhikarana ग्रहणविधिः (६) · Śloka

गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्| गृहीत्वा विसृजेत्काष्ठं त्वचं शुष्कां निधापयेत्||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स० -गम्भीरानुगतं-गूढं कृत्वा भूमावन्तःप्रविष्टम्, तथा श्लक्ष्णं-अपरुषम्, तथाऽतिर्यग्यातं(विसृतं)-स्पष्टं कृत्वा भूमौ गतम्, एवंविधं त्रिवृताया मूलं गृहीत्वा तत्काष्ठं विसृजेत्| त्वचं शुष्कां कृत्वा निधापयेत्-स्थापयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ग्रहणविधिमाह-गम्भीरानुगतमिति| गम्भीरानुगतं-दूरमधोयातम्| अतिर्यग्विसृतं-बहुषु तथाभूतेषु मध्यमम्|

Adhikarana वातरोगे विरेचनयोगः (७) · Śloka

अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्| वातामये पिबेदम्लैः|७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथ-अनन्तरम्, काले-विरेचनप्रस्तावे, ततः-मूलत्वचः, चूर्णमीषन्नागरसैन्धवमम्लैः-काञ्जिकादिभिः, वातविकारे पिबेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वाते विरेचनमाह-अथेति| किञ्चिन्नागरसैन्धवं-नागरसैन्धवयोर्मिथस्तुल्यांशयोश्चूर्णेन चतुर्थांशतुल्येन युक्तं,अम्लैः पिबेत्| सङ्ग्रहे तु (क. अ. २)- "मांसरसेन वा|" इति|

Adhikarana पित्तरोगे विरेचनयोगः (७-८) · Śloka

| पैत्ते साज्यसितामधु||७|| क्षीरद्राक्षेक्षुकाश्मर्यस्वादुस्कन्धवरारसैः| |८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पैत्ते विकारे सहघृतशर्करामधु तच्चूर्णं क्षीरेण द्राक्षादिरसैर्वा पिबेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पित्ते विरेचनमाह-पित्ते इति| वरा-त्रिफला| रसाशब्दो द्राक्षादिभिः प्रत्येकं सम्बध्यते|

Adhikarana कफरोगे विरेचनयोगः (८-९) · Śloka

| कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः||८|| पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफविकारे तच्चूर्णं पीलुरसादिभिः पिबेत्| पञ्चकोलादिभिश्चूर्णैश्च कफघ्नैर्युक्तम्| कथम् ? युक्त्या,-पञ्चकोलादिचूर्णानां योगे नातिव्याप्तिर्न वाऽव्याप्तिः, पञ्चकोलादिचूर्णेन त्रिवृताचूर्णस्य सम्यग्योगः स्यादित्यर्थः| आदिशब्देनान्येषां पाचनदीपनानां पञ्चकोलसदृशानां चित्रका(मरिचा)दीनां ग्रहणम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- कफे विरेचनमाह-कफामय इति| पीलुःतीक्ष्णतरुः| सङ्ग्रहे तु (क. अ. २)- "एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षाक्षोडतवक्षीरीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दककपित्थरसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविधवेसवारपूरितानि सहकाररसत्रिजातकनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदकभक्ष्यभोज्यान्युपकल्पयेत्|" इति|

Adhikarana हृद्यो विरेचनयोगः (९-१०) · Śloka १०

| त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः||९|| मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृतः कल्केन कषायेण च साधितः सशर्करो लेहः शीतो मधुत्रिजातसंयुक्तो हृद्यं विरेचनं स्यात्| अत्र च कासचिकित्सितोक्तकण्टकारिकालेहवत् (हृ. चि. अ. ३/६३) प्रमाणं निरूपयितव्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- हृद्यं विरेचनमाह-त्रिवृदिति|

Adhikarana सन्निपातज्वरादौ विरेचनयोगः (१०-११) · Śloka ११

| अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत्||१०|| चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते| सन्निपातज्वरस्तम्भपिपासादाहपीडितः||११||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अजगन्धादिचूर्णं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते| सन्निपातज्वरादिपीडितः सन्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सन्निपातादौ विरेचनमाह-अजगन्धेति|

Adhikarana सन्निपातज्वरादौ अन्यो विरेचनयोगः (१२) · Śloka १२

लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्| एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्||१२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इक्षुगण्डिकां द्विधाकृत्य(त्वा)-पाटयित्वा, त्रिवृतयाऽन्तर्लिम्पेत्| अनन्तरमेकीकृत्य पुटपाकेन स्विन्नं भक्षयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तत्रैव विरेचनान्तरमाह-लिम्पेदिति| इक्षुगण्डिकां-इक्षुकाण्डम्|

Adhikarana वातरोगादिषु निरपायो विरेचनयोगः (१३-१४) · Śloka १४

भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा| चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्||१३|| वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च| नरेषु सुकुमारेषु निरपायं विरेचनम्||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्वगेलाभ्यां तुल्या नीली, तैश्च तुल्या त्रिवृत्, सर्वैश्च तुल्या सिता, चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्| वातपित्तकफोत्थेषु रोगेष्वल्पाग्निषु च नरेषु तथा सुकुमारेषु विरेचनमेतन्निरपायम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वातरोगादिषु विरेचनमाह-भृङ्गैलाभ्यामिति| भृङ्गं-त्वक्| नीली-कालाञ्जनी| तैः त्रिभिः| तैः-चतुर्भिः| फलरसो-द्राक्षादिरसः|| तर्पणं-मन्थम्| मन्थग्रहणं सक्तूनां प्राधान्यार्थम्, तेन चूर्णतुल्या यवसक्तवो मानानुक्तेश्च|

Adhikarana गुल्मादिषु विरेचनयोगः (१५-१६) · Śloka १६

विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्| सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा||१५|| गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्| कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून्||१६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विडङ्गतण्डुलादयः समांशाः, सर्वेभ्योऽर्धेन त्रिवृत्, तदेतच्चूर्णं मधुघृताभ्यां लीढं गुडेन वाऽऽस्वादितं गुल्मादीन् कफवातोत्थांश्चान्यानपि गदान् बहून् परिमार्ष्टि-पराकरोति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- गुल्मादिषु विरेचनमाह-विडङ्गेति| विडङ्गतन्दुलो-विडङ्गसारः| कणा-पिप्पली| सर्वतः-विडङ्गादिभ्यः षड्भ्यः|

Adhikarana कल्याणकगुडः कुष्ठादिषु (१७-२१) · Śloka २१

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्| मरीचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः||१७|| दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्| तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ||१८|| धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्| पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः||१९|| कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्| ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः||२०|| गुडः कल्याणको नाम सर्वेष्वृतुषु यौगिकः| |२१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विडङ्गादीनि कार्षिकाणि, त्रिवृताचूर्णतिलतैले पृथगष्टपलप्रमाणे, आमलकफलरसप्रस्थांस्त्रीन्, गुडपलानि पञ्चाशत्, मृद्विग्निना पक्त्वा तस्मान्मात्रामयन्त्रणः-यन्त्रणारहितः सन्, भक्षयेत्| स च भक्षितः कुष्ठादीन् हन्ति पुंसवनश्च स्यात्| गुडोऽयं कल्याणकसंज्ञः सर्वेषु च ऋतुषु यौगिकः-युज्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- कल्याणकं गुडमाविडङ्गपिप्पलीति|

Adhikarana अविपत्तियोगो मूत्रकृच्छ्रादिषु (२१-२३) · Śloka २३

| व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्||२१|| सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः| मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये||२२|| तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च| अविपत्तिरयं योगः प्रशस्तः पित्तरोगिणाम्||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्योषादिभिः समभागैः सर्वैर्द्रव्यैस्त्रिवृत्समा, सा च त्रिवृत् तुल्यशर्करा, एवमेताः क्षौद्रेण गुटिकाः कृता मूत्रकृच्छ्रादिषु शस्यन्ते| अविपत्तिरयं योगः पित्तरोगिणां प्रशस्तः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मूत्रकृच्छ्रादिषु विरेचनमाह-व्योषेति| सर्वैः नवभिः, समा-नवभागा त्रिवृत्| समसिता-शर्कराया अपि नव भागाः|

Adhikarana वर्षासु विरेचनयोगः (२४) · Śloka २४

त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्| क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृतादिकं क्षौद्रद्राक्षारससंयुक्तं प्रावृषि विरेचनम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वर्षासु विरेचनमाह-त्रिवृतेति|

Adhikarana शरदि विरेचनयोगः (२५) · Śloka २५

त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्| द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृद्दुरालभादिकं द्राक्षाजलेन शरदि विरेचनम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शरदि विरेचनमाह-त्रिवृदिति| उदीच्यं-वालकम्| सातला-सप्तला|

Adhikarana हेमन्ते विरेचनयोगः (२६) · Śloka २६

त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्| स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृतादिकं चूर्णमुष्णाम्बुना सह हेमन्ते पिबेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- हेमन्ते विरेचनमाह-त्रिवृतामिति|

Adhikarana ग्रीष्मे विरेचनयोगः (२७) · Śloka २७

त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्| |२७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृच्छर्करासमा ग्रीष्मर्तौ विरेचनम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ग्रीष्मे विरेचनमाह-त्रिवृतेति|

Adhikarana स्निग्धानां सर्वर्तुको विरेचनयोगः (२७-२८) · Śloka २८

| त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः||२७|| स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्| एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्||२८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृदादीनि सञ्चूर्ण्य त्र्यहं गोमूत्रे भावयेत्| एष योगः सर्वर्तुष्वपि स्निग्धानां नराणां मलदोषस्य हारकः स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्निग्धानां सर्वर्तुकं विरेचनमाह-त्रिवृदिति|

Adhikarana रूक्षाणां सर्वर्तुको विरेचनयोगः (२९-१) · Śloka

श्यामात्रिवृद्दुरालम्भाहस्तिपिप्पलिवत्सकम्| नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्||२९|| रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा| |३०| इति त्रिवृच्छ्यामयोः कल्पः||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्यामाद्यं चूर्णीकृतं मांसरसघृतोष्णाम्बुभी रूक्षाणामपि सर्वकालं शस्तम्| अपिशब्दात् स्निग्धानां शस्तमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रूक्षाणामपि सर्वर्तुषु विरेचनमाह-श्यामेति| सङ्ग्रहे तु (?) (चरके क. अ. ७)- " व्योषत्वक्पत्रमुस्तैलविडङ्गामलकान् समान्| त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षङ्गुणम्|| गुडेन गुटिकाः कुर्यात् क्षौद्रेण सह संयुताः| मूत्रकुच्छ्रे ज्वरे वम्यां कासे शोषे भ्रमे क्षये|| गुल्मे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रिताशिनः| योगः सर्वविषाणां च मतं श्रेष्ठं विरेचनम्||" (सङ्ग्रहे क. अ. २)- "त्र्यूषणत्रिफलाहिङ्गु कार्षिकं त्रिवृतापलम्| सौवर्चलार्धकर्षश्च पलार्द्धं चाम्लवेतसात्|| तच्चूर्णं शर्करातुल्यं मण्डेनाम्लेन वा पिबेत्| गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चास्मिन् रसौदनम्|| त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः || प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे|| तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु|| तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्|| श्यामात्रिवृत्कषायेण सिद्धं सर्पिःपयोऽथवा| त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्|| पादशेषं कषायं तं पूतं गुडतुलायुतम्| स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः|| लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित्| सुरा वा त्रिवृतापादकिण्वा तत्क्वाथसंयुता|| यवैः श्यामात्रिवृत्क्वाथास्विन्नैः कुल्माषमम्भसा| आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्|| भृष्टान् वा सतुषान् सिद्धान्यवांस्तच्चूर्णसंयुतान् आसुतानम्भसा तद्वत्पिबेज्जातं तुषोदकम्|" इति| वृन्दे तु (अ.७४/९)- "अभयापिप्पलीमूलं मरिचं विश्वभेषजम्| त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च|| एतानि समभागानि दन्ती च त्रिगुणा भवेत्| त्रिवृदष्टगुणा देया षड्गुणा चात्र शर्करा|| मधुना मोदकान् कृत्वा चाक्षमात्रान् प्रमाणतः| एकैकं भक्षयेत्प्रातः शीतं चनु जलं पिबेत्|| तस्माद्विरिच्यते जन्तुर्यावदुष्णं न सेवते| पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा|| पाण्डुत्वकासविषमज्वरवह्निसादान् जङ्घोरुपृष्ठजघनोदरपार्श्वशूलान्| दुर्नामकुण्डलभगन्दरशोफगुल्मान् यक्ष्मोदरभ्रमविदाहकमूत्रकृच्छ्रान्|| ल्पीहाक्षिरोगपवनाश्मरिकुष्ठमेहान् हन्याद्रसायनमिदं भिषजा प्रयुक्तम्| अल्पव्ययं बहुफलं सततोपयोज्यमायुष्करं पलितनाशनमश्विद्दष्टम्||" इति|

Adhikarana राजवृक्षकल्पः ज्वरादिषु विरेचनयोगः (३०-३१) · Śloka ३१

अथ राजवृक्षकल्पः| | ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु||३०|| राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ज्वरादिष्वन्येभ्यस्तद्विषयोक्तेभ्यो विरेचनद्रव्येभ्यो राजवृक्षोऽतिशयेन पथ्यः| किम्भूतः ? मृदुर्मधुरः शीतलश्च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- आरग्वधकल्पमाह-ज्वरहृद्रोगेति|

Adhikarana बालादिषु विशेषेण योगः (३१-३२) · Śloka ३२

| बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे||३१|| योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः| |३२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बालादौ मृदुत्वादनपायित्वाच्च विशेषेण चतुरङ्गुलो योज्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बालादौ विशेषादारग्वधो योज्य इत्याह-बाल इति|

Adhikarana ग्रहणविधिः (३२-३४) · Śloka ३४

| फलकाले परिणतं फलं तस्य समाहरेत्||३२|| तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्| सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः||३३|| ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्| |३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तस्य-शम्याकस्य, फलकाले परिणतं-पक्वं, फलं समाहरेत्-सङ्गृह्णीयात्| तेषां-फलानां, गुणवतां-सुनिष्पन्नानां, भारं-पलशतविंशतिः, वालुकासु विनिक्षिपेत्| सप्तरात्रादूर्ध्वं सिकताभ्य उद्धृत्यानन्तरमातपे शोषयेत्| ततः-अनन्तरं, तेभ्यः फलेभ्यो मज्जानमुद्धृत्य-गृहीत्वा, पात्रे-भाण्डे, शुचौ शुद्धे, स्थापयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ग्रहणविधिमाह-फलकाल इति| तेषां-फलानाम्| भारं-तुलाविंशतिः|

Adhikarana दाहोदावर्तयोः विरेचनयोगः (३४-३५) · Śloka ३५

| द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते||३४|| चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके| |३५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तं-मज्जानं, द्राक्षारसेन दद्यात्| दाहाद्यार्ते नरे चतुर्वर्षे बाले सुखेनैतद्विरेचनम्, यावद्द्वादशवार्षिके बाले सुखं विरेचनमिदम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- दाहोदावर्तयोर्विरेचनमाह-द्राक्षारसेनेति|

Adhikarana दाहोदावर्तयोः अन्ये पञ्च योगाः (३५-३६) · Śloka ३६

| चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम्||३५|| दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्| सौवीरकेण वा युक्तम् कल्केन त्रैवृतेन वा||३६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथवा राजवृक्षमज्ज्ञो हिमं [कषायं]-शीतकषायं, दधिमण्डादिभिः पृथग्युक्तमथवा काञ्जिकेनाथवा कल्केन त्रिवृतासम्बन्धिना युक्तं पाययेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अन्यद्विरेचनपञ्चकमाह-चतुरङ्गुलेति| सौवीरकेण-काञ्जिकेन|

Adhikarana राजवृक्षारिष्टं विरेचनयोगः (३७-२) · Śloka

दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्| तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा||३७|| इति राजवृक्षकल्पः||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्तीकषाये तन्मज्ज्ञः-कर्णिकारस्य मध्यानि, गुडं जीर्णं च विनिक्षिपेत्| तमरिष्टं मासं स्थितं पाययेत्| पक्षं वा स्थितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरेचनान्तरमाह-दन्तीकषाय इति|

Adhikarana तिल्वककल्पः तिल्वकमूलचूर्णस्य योगः (३८-४०) · Śloka ४०

अथ तिल्वककल्पः| त्वचं तिल्वकमूलस्य त्यक्त्वाऽऽभ्यन्तरवल्कलम्| विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः||३८|| रोध्रस्यैव कषायेण तृतीयं तेन भावयेत्| कषाये दशमूलस्य तं भागं भावितं पुनः||३९|| शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्| मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः||४०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तिल्वकमूलस्य त्वचं त्यक्त्वा मध्यवल्कलं विशोष्य तथा चूर्णयित्वा ततश्चूर्णात् द्वौ भागौ रोध्रस्यैव कषायेण गालयेत्| ततः-अनन्तरम्, अवशिष्टो यस्तृतीयो भागस्ततश्चूर्णात्, तं तेन कषायेण वस्त्रगालितेन भावयेत्| अनन्तरं वस्त्रगालितकषायेण भावितं पुनः कषाये दशमूलस्य भावितमनन्तरं शुष्कचूर्णं [कृत्वा] ततश्चूर्णात् पाणितलं-कर्षं, मस्तुगोमूत्रादिकेन पिबेत्| (कोलं-बदरम्, धात्रीफलं-आमलकम्, तयोरम्बुनी स्वरसौ|) तद्भावनौषधप्रमाणं च शिलाजतुनः कल्पवत् कल्पयेत्| शिलाजतुकल्पं च वक्ष्यति (हृ. उ. अ. ३९/१३५)- "समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये|" इत्यादि| तस्मादत्र तिल्वकत्वचो भाव्यौषधस्य रोध्रश्च(ध्रंच)भावनौषधं समं देयम्, ततोऽष्टगुणं जलं देयम्, तच्च क्वथनेनाष्टांशशेषं कार्यमिति| एवमन्यत्राप्यनिर्दिष्टप्रमाणानां भाव्यद्रव्यभावनाद्रव्यतोयावशिष्टानां परिमाणं बोध्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तिल्वककल्पमाह-त्वचमिति| आभ्यन्तरवल्कलं-काष्ठलग्ना त्वक्| चूर्णस्य भागत्रयं कृत्वा द्वौ भागावेकीकृत्य रोध्रकषायेण मर्दयित्वा गालयेत्| तेन द्रवेण तृतीयं भागं भावयेत्| पुनर्दशमूलकषायेण भावयेत्| पुनःशोषयेत्| पुनश्चूर्णयेत्| तस्य चूर्णस्य पाणितलं-कर्षं, मस्त्वादिभिः पिबेत्| कोलं-बदरम्, धात्रीफलम्-आमलकम् तयोरम्बुनी-स्वरसौ|

Adhikarana तिल्वकमूलकल्कस्य योगः (४१-३) · Śloka

तिल्वकस्य कषायेण कल्केन च सशर्करः| सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्||४१|| इति तिल्वककल्पः||३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रोध्रस्य कषायेण कल्केन च सशर्करो घृतान्वितो लेहः स्यात्| स च लेहः श्रेष्ठं विरेचनम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरेचनान्तरमाह-तिल्वकस्येति| सङ्ग्रहे तु (क. अ. २)-" मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले| मरुजान् सुनुयात्तत्र जातं सौवीरकं यदा|| भवेदञ्जलिना तस्य रोध्रकल्कं पिबेत्तदा| मरुजान्-यवान्| सुरां रोध्रकषायेण जातां पक्षस्थितां पिबेत्||" इति|

Adhikarana सुधाकल्पः सुधाक्षीरस्य विरेचनयोगः (४२-४७) · Śloka ४७

अथ सुधाकल्पः| सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्| आश्वेव कष्ठविभ्रंशान्नैव तां कल्पयेदतः||४२|| मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि| कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु||४३|| पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि| सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता||४४|| द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः| तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः||४५|| बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः| मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्||४६|| पिबेत्कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः| |४७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सुधा-गुडा, दोषाणां महान्तमपि सञ्चयं हन्ति| एवंगुणामपि तां-सुधां, भिषक् मृदुकोष्ठादिषु अतो न कल्पयेत्| शीघ्रमेव कष्टविभ्रंशादिति| कल्पयेदित्यतिसर्जने लिङ्| तर्हि क्वेयं प्रयोज्या ? इत्याह-कल्प्येति| गुल्मादिषु कल्प्या सास्नुक्, तीक्ष्णैर्बहुभिः कण्टकैश्चिता श्रेष्ठा स्यात्| तां-सुधां, द्विवर्षामथवा त्रिवर्षां विशेषेण शिशिरान्ते कार्यवशादन्यस्मिन्नपि ऋतौ शस्त्रेण पाटयित्वा ततः-सुधातः, क्षीरमुद्धारयेत्| द्वे वर्षे प्रमाणमस्या इति ठक्| तस्य रसाल्लुगिति लुक्| ततश्च टाप्| ततः-अनन्तरं, बिल्वादीनां कण्टकारीमहोटिकयोर्वा क्वाथेन एकशः-एकेनैकेन, समं मेलयित्वा सुधाक्षीरमनन्तरमङ्गारेषु तदुभयमपि शोषयेत्| ततो गुटिकां कृत्वा यथायोगं मस्त्वादिभिः पिबेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्नुहीकल्पमाह-सुधेति| तां-सुधाम्, मुदुकोष्ठादिषु न कल्पयेत्| कष्टविभ्रंशां-दुःसहव्यापदम्| अतः-अतियोगभयात्| गुल्मादिषु तु कल्प्या| मधुमेहः-मधुप्रमेहः| दूशीविषं-विषप्रतिषेधोक्तम्| सा-सुधा, बहुतीक्ष्णाग्रकण्टका श्रेष्ठा| बिल्वादीनां-बृहत्पञ्चमूलोक्तानाम्| समं-सममात्रम्| एकशः-एकस्यैकस्य क्वाथेन क्रमान्मिश्रणं शोषणं च| वा शब्दाद्धृहतीद्वयस्य भिन्नः प्रयोगः|

Adhikarana सुधाक्षीरस्य अन्यो विरेचनयोगः (४७-४) · Śloka

| त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्||४७|| सप्ताहं स्नुक्पयः पीतान् रसेनाज्येन वा पिबेत्| तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना||४८|| इति सुधाकल्पः||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृतादीन्नवेति 'त्रिवृच्छ्यामा राजवृक्षस्तिल्वकश्च तथा सुधा| शङ्खिनी सप्तला दन्ती द्रवन्तीति [स्मृता नव||]' इति| तदेतान् त्रिवृतादींस्तथा त्रिपालां स्वर्णक्षीरीं सातलां च सप्त वासरान् स्नुक्पयः पीतान्-स्नुक्क्षीरभावितान्, मांसरसेन घृतेन वा पिबेत्| तथैव व्योषादीन् गुडाम्बुना पिबेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- प्रयोगान्तरमाह-त्रिवृतादीनिति| त्रिवृतादीन्नव-त्रिवृत् श्यामा आरग्वधस्तिल्वकः स्नुही शङ्खिनी सत्पला दन्ती द्रवन्ती चेति| अत्र स्नुही काण्डं, न क्षीरम्, तस्य भावनासाधनत्वात्| वरा-त्रिफला| सातला-सत्पला-सत्पला, तस्याःपुनरुक्तत्वात् स्वर्णक्षीरीं ससातलामिति भिन्नः प्रयोगः| अत एव त्रिफलाप्रयोगोऽपि भिन्नः| रसेन-मांसरसेन| व्योषादिप्रयोगोऽअपि तद्वत्| तस्य तु पानं गुडोदकेन| सङ्ग्रहे तु (क. अ. २)- " अद्याच्छामात्रिवृव्काथं स्नुक्क्षीघृतफाणितैः| कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत्|| निकुम्भकुम्भशम्याकशङ्खिनीसत्पलारजः| रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदनु|| स्नुक्क्षीरेऽपि ततस्तेन माल्यं वासोऽवचूर्णितम्| आजिघ्रन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते||" इति

Adhikarana शङ्खिनीफलस्य कल्पः सप्तलामूलस्य कल्पः (४९-५) · Śloka

अथ शङ्खिनीसप्तलयोः कल्पः| नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्| सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी||४९|| श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्| अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्||५०|| हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत्| |५१| इति शङ्खिनीसप्तलयोः कल्पः||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शङ्खिन्याः फलं निस्तुषीकृतं नातिशुष्कं ग्राह्यम्| सप्तलायाश्च मूलं ग्राह्यम्| ते च-शङ्खिनीफलसातलामूले, तीक्ष्णविकाषिणी-तैक्ष्ण्यात् विकाशित्वाच्च, श्लेष्मामयाद्येषु कल्पयेत्| तयोः-शङ्खिनीसप्तलयोः पूर्वोक्तयोः, कर्षमात्रं पिण्डं सुरालवणयुक्तं वातकफजहृद्रोगादिषु कल्पयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शङ्खिनीफलसत्पलामूलयोः कल्पमाह-नातिशुष्कमिति|

Adhikarana दन्तीद्रवन्त्योः कल्पः प्रक्लिन्नदेहादिषु कल्पः (५१-५७) · Śloka ५७

अथ दन्तीद्रवन्त्योः कल्पः| | दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्रवन्तिजम्||५१|| आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि च| गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम्||५२|| तत्क्षौद्रपिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम्| शोष्यं मन्दातपेऽग्न्यर्कौ हतो ह्यस्य विकाशिताम्||५३|| तत्पिबेन्मस्तुमदिरातक्रपीलुरसासवैः| अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी||५४|| गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी| सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च||५५|| विसर्पविद्रध्यलजीकक्षादाहान् जयेद्धृतम्| तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्||५६|| महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः| इति दन्तीद्रवन्त्योः कल्पः| विरेचने मुख्यतमा नवैते त्रिवृतादयः||५७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्तिनो दन्तः, तद्वत्स्थिरं स्थूलं च दन्तीद्रवन्त्युद्भवं मूलं किञ्चित्ताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि चेत्यादिना तत्स्वरूपोक्तिः| तच्च क्षौद्रपिप्पलीभ्यां लिप्तं मृद्दर्भवेष्टितं स्वेदितं पश्चान्मन्दातपे शोष्यम्| किमेवं क्रियते ? इत्याह यस्मादग्न्यर्कावस्य विकाशितां हतः| तच्च मस्त्वादिभिः पिबेत्| अभिष्यण्णदेहादिः पाण्ड्वामयी कृमिकोष्ठी भगन्दरी च गोमृगाजमांसरसैः पिबेत्| तस्य मूलस्य क्वाथकल्काभ्यां दशमूलरसेन च सिद्धं घृतं विसर्पादीन् जयेत्| तैलं तु सिद्धं गुल्मादीन् जयेत्| महास्नेहः शकृतादिसङ्गादीन् जयेत्| स०-एते त्रिवृतादयो विरेचने नव श्रेष्ठतमाः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र० - दन्तीद्रवन्त्योः कल्पमाह-दन्तीति| हतः-नाशयतः| अभिष्यण्णतनुः-[राक्लिन्नदेहः| पाण्ड्वामयादिषु गवादिमांसरसैः| विसर्पादिषु तत्क्वाथादिसिद्धं घृतम्| कक्षाक्षुद्ररोगेषूक्ता (हृ. उ.अ. ३१/११)| गुल्मादिषु घृतवत्सिद्धं तैलम्| शकृत्सङ्गादिषु घृतवत्सिद्धो महास्नेहः| सङ्ग्रहे तु (क. अ. २)-" दन्त्या रसेऽजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः| लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत्|| वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया| दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः|| त्रीनंशान् फाणिताद्द्वौ च भृज्जेत्तैले घृते ऽथवा| श्यामादिकल्कयुक्तोऽयं लेहः सिद्धो विरेचनम्|| पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः| तयोर्बिल्वसमं वर्णं तद्रसेनैव भावितम्|| विबद्धविशि वातोत्थे गुल्मे चाम्लं युतं हितम्| मुद्गादिसिद्वैस्तन्मूलैर्यूषादींश्च विकल्पयेत्|| दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवानकम्| सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्तवासरान्|| मूत्रभावितमाज्येन पिबेज्जीर्णे च तर्पणम्| सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम्|| दुर्भुक्ताजीर्णपार्श्वार्त्तिगुल्मप्लीहोदरेषु च| गण्डमालासु वाते च पाण्डुरोगे च शस्यते||" इति| आ० र०- हरीतकीकल्पमाह-हरीतकीमिति|

Adhikarana हरीतकीकल्पः ग्रहण्यादिषु कल्पः (५८-६) · Śloka

अथ हरीतकीकल्पः| हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्| गुडस्याष्टपले पथ्याविंशतिः स्यात्पलं पलम्||५८|| दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश| प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि||५९|| उष्णाम्भोऽनु पिबेत्खादेत्तान् सर्वान्विधिनाऽमुना| एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः||६०|| विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः| |६१| इति हरीतकीकल्पः||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यथा त्रिवृताया विधानमुक्तं "अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्|"(श्लो.७) इत्यादि, तथैव हरीतक्या अपि विधातव्यमित्यर्थः| स०-गुडस्याष्टपले पथ्याविंशतिर्दन्तीचित्रकयोः पलं पलं प्रत्येकं स्यात्| पिप्पलीत्रिवृतयोः कर्षावुभौ| दश मोदकानेवं प्रकल्प्यैकमेकं मोदकं दशमे दशमे दिने योजयेत्| पश्चादुष्णाम्बु पिबेत्| अमुना विधिना सर्वान् मोदकान् भक्षयेत्| एते मोदका निष्परिहारास्तथाऽशेषव्याधिनिबर्हणाः स्युः| विशेषेण ग्रहण्यादीनां हिताः| सम्बन्धमात्रस्य विवक्षितत्वादत्र षष्ठी, अन्यथा तु हितयोगे चतुर्थी स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- प्रयोगान्तरमाह-गुडस्येति| पथ्याविंशतिरिति फलानां विंशतिः, पलानाम्| "सङ्खया फलानां शतशोऽपला स्यात्" इति वचनात्| सर्वस्य चूर्णस्य गुडपाकेन दश मोदकान् प्रकल्प्य, दशमे दशमेऽहन्येकं खादेत्| एवं सर्वान् खादेद्दिवसद्व्यशीत्या| सङ्ग्रहे तु (क. अ. २)- "विशेषाद्ग्रहणीशोफपाण्डुमेहोदरापहाम्| पिबेत्पथ्यां ससिन्धूत्थविडङ्गोषणनागराम्|| मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीम्| पथ्यानागरचूर्णं वा संयुक्तं नीलिनीफलैः|| गुडेन भक्षयेत्तोयं कवोष्णं प्रपिबेदनु| पथ्यात्रिवृदूभ्यां गुटिकाः कार्या द्राक्षारसप्लुताः|| माषप्रमाणास्ताः शुष्का यक्ष्मी लिह्याद्धृतप्लुताः| पथ्यात्रिवृत्पटूष्णाम्बु सर्वश्रेष्ठं विरेचनम्|| स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान्| कोलास्थिमात्रान् शुष्कांश्च नवनीतेन लेहयेत्|| गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः| लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम्|| सुखोदकं चानु पिबेत् सुखमेतद्विरेचनम्|" इति|

Adhikarana उक्तानां विरेचनकल्पानां किञ्चिद्विशेषः (२) · Śloka

अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्||६१|| कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः| ६१ १/२| त्वक्केसराम्रातकदाडिमैला- सितोपलामाक्षिकमातुलुङ्गैः| मद्येन तैस्तैश्च मनोनुकूलै- र्युक्तानि देयानि विरेचनानि| ६२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने विरेचनकल्पो नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अल्पस्य-वीर्येण मात्रया वा कदाचिदल्पौषधयोगस्य, केनचित्तत्तद्योग्यौषधसंश्लेषेण तस्य महार्थत्वं कार्यम्| तथा कालेन-मध्याह्नादिना, तथा संस्कारेण-तद्योग्येन गुणान्तरोत्पादनेन, तथा युक्त्या-योजनाप्रकारविशेषेण, तथा वीर्येण प्रभूतस्य-मात्रयाऽथवा महार्थस्य, कदाचित् केनचिद्द्रव्येण विश्लेषं कृत्वा तस्याल्पकर्मत्वं कार्यम्| तथा कालेन प्रत्यूषादिना मन्दवीर्येण, तथा संस्कारेण-गुणान्तराधानेन, तथा युक्त्या-तादृश्या, अल्पशक्तित्वलक्षणं कर्म कार्यम्| त्वक्केसरादिभिस्तैस्तैः-अन्यैश्च तथाविधैः, मनोनुकूलैः-मानसप्रियैः, औषधैर्युक्तानि विरेचनानि देयानि| एवं कृते सति सम्यग्योगो विरेचनस्य स्यादिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्धिस्थाने विरे- चनकल्पो नाम द्वितीयोऽध्यायः समाप्तः|| २||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- उक्तानां विरेचनकल्पानां किञ्चिद्विशेषमाह अल्पस्येति| संश्लेषः-अनुक्तस्य| विश्लेषः-उक्तस्य| कालः-अवस्थाविशेषः| संस्कारः-पाकभावनादिः| युक्तिः-मात्राल्पत्वबहुत्वादिः| इति हेमाद्रिटीकायामायुर्वेदरसायने| रेकौषधप्रकरणं सामस्त्येन निरूपितम्||