Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ दोषहरणसामान्याद्बस्तिकल्पः प्रक्रम्यत इत्याह-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ दोषहरणसामान्याद्बस्तिकल्पः प्रक्रम्यत इत्याह-
Adhikarana बस्तिकल्पाध्यायः (२) · Śloka २
अथातो बस्तिकल्पं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कल्पनं-कल्पः| बस्तेः कल्पो बस्तिकल्पः, तम्| शेषं पूर्ववत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं- बस्तिकल्पमध्यायं व्याख्यातुं प्रतिजानीतेअथेति|
Adhikarana वातहरा निरूहाःबलादिः (१-३) · Śloka ३
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि| अष्टौ फलान्यर्धतुलां च मांसा- च्छागात्पचेदप्सु चतुर्थशेषम्||१|| पूतो यवानीफलबिल्वकुष्ठ- वचाशताह्वाग़नपिप्पलीनाम्| कल्कैर्गुडक्षौद्रग़ृतैः सतैलै- र्युक्तः सुख़ोष्णो लवणान्वितश्च||२|| बस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च| बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-बलादीनि प्रत्येकं पलोन्मितानि, तथाऽष्टौ [ फलानि-] मदनफलानि प्रायेण पलं स्युः, छागमांसात् पञ्चाशत्पलानि, अप्सु चतुर्भागावशेषं पचेत्| पूतश्च क्वाथो यवन्यादिभिः कल्कैस्तथा गुडादिभिर्युक्तः सुख़ोष्णो लवणयुतश्च बस्त्यर्थं परिकल्पितत्वाद्बस्तिः सर्वगदानामपहन्ता स्वस्थे च हितः स्वास्थ्यानुवृत्तिकृत्त्वात् जीवनो बृंहणश्च| अत्र चतुर्थशेषग्रहणमनर्थकम्| यतो वक्ष्यति (क. अ. ६/१४)- "क्वाथं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम्|" इति| अत्रोच्यते| वक्ष्यमाणपरिभाषाप्रमाणमत्र नाश्रीयत इति प्रतिपादनाय चतुर्थशेषोपादानम्| तेन निरूहयोग्यक्वाथार्थं द्रव्याच्चतुर्गुणं जलं क्षिप्त्वा चतुर्भागावशेषं ग्राह्यमितीहावतिष्ठते| एवमन्यत्रापि निरूह उपयुज्यते| ये तु तन्त्रकाराभिप्रायमविदन्तः सरलाशमुख़ीकास्ते सामान्यपरिभाषोक्तप्रमाणं जलं क्षिप्त्वा चतुरंशशेषं ग्राह्यामिति वदन्ति, शेषं स्थितम्| तथा यवान्यादिकल्कस्य पलद्वयमात्रं ग्राह्यम्, "स्वस्थे कल्कपलद्वयम्|" (हृ. सू. अ. १९/४४) इति वचनात्| स्नेहश्चात्र क्वाथे चतुर्थांशः षष्ठांशोऽष्टमांशः क्रमेण वातपित्तकफेषु योज्यः| उक्तं च (हृ. सू. अ. १९/३९)- "ततः क्वाथाच्चतुर्थाशं स्नेहं वाते प्रकल्पयेत्| पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके|| इति| मधुलवणे च यथा नात्यच्छता नातिलवणता च बस्तौ स्यात्तथा योजयितव्ये| उक्तं च (ह्र.सू अ . १९/४१)- मधुपट्वादिशेषं च युक्त्या एव (इति)| बस्तौ च यत्र कल्को न पठितस्तत्रामुमेव कल्कं दद्यात्| उपजातिवृत्ते इन्द्रवज्रा च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं- बस्तिकल्पो द्विविधः,-निरूहकल्पोऽनुवासनकल्पश्च| तत्रादौ निरूहकल्पः| तत्रापि वातहरः| बलादिनिरूहमाह-बलामिति षिडश पृथक् पलोन्मितानि| अप्सु-सर्वेभ्यः षोडशगुणासु|
Adhikarana दशमूलादिः (४) · Śloka ४
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः| त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलस्य छागमांससहितस्य रसः-क्वाथः, अम्लेन काञ्जिकादिना युक्तः, पूर्वैः-यवन्यादिभिः पेष्यैः सहितः, तथा त्रिभिः स्नेहैः-सर्पिर्मज्जावसाख्यैरन्वितः, श्रेष्ठो निरूहः सर्वव्याधिहरो गदितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दशमूलादिनिरूहमाह-द्विपञ्चमूलस्येति| त्रयःस्नेहाः-घृततैलवसाः|
Adhikarana बलापटोल्यादिः (५-६) · Śloka ६
बलापटोलीलघुपञ्चमूल- त्रायन्तिकैरण्डयवात्सुसिद्धात्| प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्||५|| प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च| स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलापटोल्यादे रसात् सुसिद्धात् प्रस्थः सिद्धः, तथा छागमांसरसादर्धप्रस्थेन युक्तः पुनः साध्यः यावदसौ प्रस्थप्रमाणः स्यात्| प्रियङ्ग्वादिभिः कल्कैर्युक्तस्तैलादिभिः सहितो बस्तिर्दीपनो मांसबलप्रदश्च स्यात्| चक्षुर्बलं च शीघ्रमेवोपदधाति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- बलादिनिरूमाह-बलापटोलीति| बलादेः सुसिद्धाद्यो रसो जातः तस्मात् प्रस्थः छागरस्यार्धप्रस्थेन युक्तः| पाकेन प्रस्थशेषः कार्यः|
Adhikarana एरण्डमूलादिः (७-१०) · Śloka १०
एरण्डमूलात्त्रिपलं पलाशा त्तथा पलांशं लघुपञ्चमूलम्| रास्नाबलाछिन्नरुहाश्वगन्धा- पुनर्नवारग्वधदेवदारु||७|| फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्| वचाशताह्वाहपुषाप्रियङ्गु- यष्टीकणावत्सकबीजमुस्तम्||८|| दद्यात्सुपिष्टं सहतार्क्ष्यशैल- मक्षप्रमाणं लवणांशयुक्तम्| समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ||९|| जङ्घोरुपादत्रिकपृष्ठकोष्ठ- हृद्गुह्यशूलं गुरुतां विबन्धम्| गुल्माश्मवर्ध्मग्रहणीगुदोत्थां- स्तास्तांश्च रोगान् कफवातजातान्||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एरण्डमूलस्य त्रीणि पलानि, पलाशात्-किंशुकाच्च पलानि त्रीणि, ह्रस्वं पञ्चमूलं पालिकं, रास्नादीनि प्रत्येकं पालिकानि, अष्टौ मदनफलानि च जलाढकद्वये विपाचयेत्| अष्टांशशेषिते चास्मिन् वचादिकमक्षप्रमाणं सुपिष्टं दद्यात्| लवणकर्षचतुर्थांशयुक्तं माक्षिकतैलमूत्रान्वितोऽयं बस्तिर्लेखनो दीपनो जङ्घादिशूलादींस्तांस्तान्-बहुविधानपि, वातश्लेष्मोत्थान् रोगान् जयति| षडुपजातय इन्द्रवज्रा च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- एरण्डादिनिरूहमाह-एरण्डमूलादिति| पलाशात् तथा-त्रिपलम्| तार्क्ष्यशैलं-रसाञ्जनम्|
Adhikarana पित्तहरा निरूहाः यष्ट्याह्वादिः (११) · Śloka ११
यष्ट्याह्वरोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च| सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यष्ट्याह्वादिभिः शृतं पयोऽग्र्यं-श्रेष्ठं, स्यात्| शर्कराक्षौद्रघृतयुक्तं सुशीतलं जीवनीयसहितं पित्तामयान् हन्ति| अभयं-उशीरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ पित्तहरनिरूहाः| तत्र उअष्ट्यादिनिरूहमाह-यष्ट्याह्वेति| अभयं-उशीरम्| अग्र्यं-गव्यम्| सजीवनीयं-जीवन्त्यादिगणकल्कयुक्तम्|
Adhikarana रास्नादिः (१२-१६) · Śloka १६
रास्नां वृषं लोहितिकामनन्तां बलां कनीयस्तृणपञ्चमूल्यौ| गोपाङ्गनाचन्दनपद्मकर्द्धि- यष्ट्याह्वरोध्राणि पलार्धकानि||१२|| निःक्वाथ्य तोयेन रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्| जीवन्तिमेदर्ध्दिवरीविदारी- वीराद्विकाकोलिकसेरुकाभिः||१३|| सितोपलाजीवकपद्मरेणु- प्रपौण्डरीकोत्पलपुण्डरीकैः| रोध्रात्मगुप्तामधुयष्टिकाभि- र्नागाह्वमुञ्जातकचन्दनैश्च||१४|| पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्| प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात्परिषिक्तगात्रः||१५|| दाहातिसारप्रदरास्रपित्त- हृत्पाण्डुरोगान् विषमज्वरं च| सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रास्नादीन्यर्धपलप्रमाणानि तोयेन निःक्वाथ्य तेन रसेन पयः शृतमर्धाढकमात्रं जलहीनं जीवन्त्यादिभिः सुपिष्टैर्घृतक्षौद्रयुतैर्निरूहं सैन्धवान्वितं शीतलमेव दद्यात्| तस्मिन्निरूहे प्रत्यागते-निर्गते, परिषिक्ताङ्गो धन्वमांसरसेन शालीनद्यात्| सात्म्यादिवशाद्वा क्षीरेणाद्यात्| स च दाहादीन् हन्ति| पञ्चोपजातय इन्द्रवज्रा च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रास्नादिनिरूहमाह-रास्नामिति| वृषं-रास्नानिरूहमाह-रास्नामिति| वृषं-वासाम्| लोहितिकां-मञ्जिष्ठाम्| अनन्तां-दूर्वाम्| कनीयः-बृहत्यादि| तृणं-दर्भादि| गोपाङ्गना-सारिवा रास्नादीन्येक विंशतिः पलार्धकानि| तोयेन षोडशगुणेन पादशेषः क्वाथो द्विचत्वारिंशत्पलानि, तेन पयसश्चतुःषष्टिपलानि पचेदम्बुहीनं-क्वाथहीनं यावद्भवति, क्षीरावशेषमित्यर्थः| वीरा-क्षीरविदारी| पद्मोरेणुः-पद्मकेशरम्| पुण्डरीकं-श्वेतपद्मम्| नागह्वं-नादकेसरम्| प्रदरं-रजोतिप्रवृत्तिः| सङ्ग्रहे तु (क. अ. ४)- " गोपाङ्गनाचन्दनशीतपाकीद्राक्षार्धिश्मर्यमधूकसेव्यैः| पयः शृतं श्रावणिमुद्गपर्णीतुगास्वगुप्तामधुयष्टिकल्कैः|| गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोर्विदार्याश्च रसेन युक्तः| तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः|| बस्तिः प्रशस्तः स समस्तदेहदाहे सशूलेऽवयवाश्रिते वा| गुल्मातिसारभ्रममूत्रकृछ्रक्षीणे क्षतौजोबलसङ्क्षये च|| चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः| रसः सपेष्यो बलवर्णमांसरेतोग्नितैमिर्यशिरोरुजीष्टः|| यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः| युक्तं ससर्पिर्मधु वातरक्तविसर्पवैस्वर्यहितो निरूहः||" इति|
Adhikarana कफहरा निरूहाः कोशातकादिः (१७-१९) · Śloka १९
कोशातकारग्वधदेवदारु- मूर्वाश्वदंष्ट्राकुटजार्कपाठाः| पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||१७|| तान् सर्षपैलामदनैः सकुष्ठै- रक्षप्रमाणैः प्रसृतैश्च युक्तान्| क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य||१८|| दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च| - |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोशातकादीन् जले पक्त्वा तस्य रसस्य-क्वाथस्य, दश प्रसृताः स्युः| तान् सर्षपादिभिरक्षप्रमाणैर्युक्तान्, क्षौद्रादीनां प्रत्येकं प्रसृतेन युक्तान्, फलाह्वयं तैलं-यन्मदनफलकल्केनाम्लैश्च पक्वं तैलम्, तदेतत्संयोज्य कफरोगार्तादिभ्यो निरूहं दद्यात्| अत्र कोशातकादीनां द्रव्याणां परिमाणमनुक्तमपि सामान्यपरिभाषया तत्परिमाणं कल्पनीयम्| यत्परिमाणेभ्यो द्रव्येभ्यः षोडशगुणं जलं दत्त्वा चतुर्भागावशेषं यथा दश प्रसृताः सम्पद्यन्ते तत्परिमाणानि कोशातक्यादीन्यत्र परिकल्पनीयानीति बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ कफहरनिरूहाः| तत्र कोशातकादिनिरूहमाहकोशातकेति| फलाह्वयं तैलं-फलतैलम्| क्षारस्ययवक्षारस्य| सङ्ग्रहे तु (क. अ. ४)- " पुनर्नवैरण्डवृषाश्मभेदवृश्चीवभूतीकबलापलाशाः| द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ|| बिल्वं यवाङ्कोलकुलत्थधान्यफलानि च स्युः प्रसृतोन्मितानि| पयो जलव्द्व्याढकसाधितं तत् क्षीरावशिष्टं शुचिवस्त्रपूतम्|| वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्| कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धावाक्तम्|| क्षौद्रस्य तैलस्य च सर्पिषश्च नास्य युक्तं प्रसृतत्रयेण| दद्यान्निरूहं विधिना विधिज्ञस्तं सर्वसंसर्गकृतामयघ्नम् || अर्धार्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते| कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः|| श्यामात्रिवृतयोर्मूलं तथा दन्तीद्रवन्तिजम्| प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनी फलम्|| सत्पला शङ्खिनी रोध्रं फलं कम्पिल्लकस्य च| सकल्कसैन्धवयुताः पक्वाशयविशोधनाः|| धातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः|| प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः|| प्रियङ्गूः रक्तमूली च तरुणीजातियूथिकाः| वटाद्याः किंशुको रोध्रमिति सङ्ग्रहिका मताः|| ग्रही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण तु| ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः|| मधुरव्काथकल्केन सरसाज्येन बृंहणः | बदर्यैरावणीशेलूशाल्मलीधन्वनाङ्कुराः|| समाक्षिकाः क्षीरयुताः सास्रुजः पिच्छिलाः स्मृताः| कोलङ्कतककाण्डेक्षुदर्भपौण्डेक्षुवालुभिः|| दाहघ्नः सघृतक्षीरोद्वितीयश्चोत्पलादिभिः| मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो हृतान्वितः|| हितः प्रवाहणे तद्वद्वृन्तैः शाल्मलिकस्य च| कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः|| परिकर्ते तथा वृन्तैः| श्रीपर्णीकोविदारजैः| परिस्त्रवे पयः सिद्धं सवृश्चीवपुनर्नवम्|| आखुकर्णिकया तद्वत्तन्दुलीयकयुक्तया| अश्वावरोहकः काकनासाराजकसेरुकाः|| सिद्धाः क्षीरेऽति योगे स्युः क्षौद्राञ्जनघृतैर्युताः| न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिनाऽपरः|| बृहती क्षीरकाकोली पृश्निपर्णी शतावरी| काश्मर्यबदरीमूर्वास्तथो शीरप्रियङ्गव|| जीवादाने शृते क्षीरे द्वौ घृताञ्जनसंयुतौ| बस्ती प्रदेयौ भिषजा शितौ समधुशर्करौ|| गोव्यजामहिषीक्षीरैर्जीवनियुतैरपि| शशैणदक्षमार्जारमहिष्यव्यजशोणितैः|| सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||" इति|
Adhikarana सुकुमारनिरूहाः (१९) · Śloka १९
- | वक्ष्ये मृदून् स्नेहकृतो निरूहान् सुख़ोचितानां प्रसृतैः पृथक् तु||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुशब्दो भिन्नक्रमः| सुखोचितानां पुनः सुकुमाराणां तु निरूहान् पृथक् प्रसृतैर्वक्ष्ये-भणिष्यामि| किम्भूतान् ? मृदून्-अतीक्ष्णान्, तथा स्नेहकृतः-कृतस्नेहान्| केचित्त्वसमग्रं वृत्तं चोक्तम(क्त्वाऽ)नुष्टुभा संगृह्णते, तच्चासम्यक्, एवं हि वृत्तस्यास्य खण्डना स्यात्, तस्मादयमेव पाठः श्रेयान्| प्रसृतैश्च निष्पादितत्वादेते वक्ष्यमाणा बस्तयः प्रसृतसंज्ञाः [ ज्ञेयाः ]| उपजातीन्द्रवज्रोपजातयः|
Adhikarana क्षीरादिसाधितः,तैलादिसाधितः पञ्चतिक्ताख्यः तैलगोमूत्रादिसाधितः पयस्यादिसाधितः (२०-२६) · Śloka २६
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्| कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||२०|| क्षीराद् द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः| खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||२१|| एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्| बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातजित्||२२|| पटोलनिम्बभूतीकरास्नासप्तच्छदाम्भसः| प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्||२३|| स पञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा| चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्||२४|| प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः| पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्||२५|| एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथ-अनन्तरम्, इमान्निरूहान् स्नेहनसमर्थान् मृदून्-अतीक्ष्णान्, सुकुमाराणां नराणां कर्मणा-वमनादिना, विप्लुतानां-भ्रष्टानां, प्रसृतैः पृथगुपलक्षितान् वक्ष्यामि| क्षीराद् द्वौ प्रसृतौ-चत्वारि पलानि, मधुतैलघृतात् त्रयः प्रसृताः-षट् पलानि, खजेन-दर्व्याकारेण, मथितो बस्तिर्वातं हन्ति बलं वर्णं च करोति| अत्र च कल्काभावात् बलाद्ये बस्तौ यः कल्कः (श्लो. २) , स एव कल्प्यः| तैलादीनां प्रत्येकं प्रसृत एकः| बिल्वादिपञ्चमूलक्वाथात् द्वौ प्रसृतौ| कौलत्थात् क्वाथात् द्वौ प्रसृतौ| स बस्तिर्वातजित्| पटोलादिनां पञ्चानां क्वाथात् पृथक् प्रसृतो, घृताच्च प्रसृतो, बस्तिः स सर्षपकल्कः स पञ्चतिक्त आभिष्यन्दादिहा| तैलादिभ्यश्चतुर्भ्यश्चत्वारः प्रसृताः-आष्टौ पलानि, पिष्टैः सर्षपैः सह बस्तिर्विट्सङ्गादिजित्| पयस्यादिक्वाथानां पञ्चानां प्रसृताः पञ्च, माक्षिकघृतयोर्द्वौ प्रसृतौ, इति सप्त प्रसृताः| पिप्पलीकल्कवान् बस्तिर्वृषत्वकृत्-शुक्रकरः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सुकुमारनिरूहानाह-अथेति| स निरूहः पञ्चतिक्ताख्यः| पयस्या-क्षीरिणी| पयस्यादीनां पञ्चानां व्काथः| सङ्ग्रहे तु (क. अ. ४)- " विडङ्गत्रिफ़लाशिग्रुफ़लमुस्ताखुकर्णिजात्| कशायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्|| [निरूहः कृमिहा वैल्लपिप्पलीकल्कयोजितः| श्वदंष्ट्राश्मभिदेरण्डव्कथतैलसुरासवात्|| प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान्| ] बस्तिः कवोष्णः सानाहे मुत्रेकृच्छ्रे परो मतः||" इति|
Adhikarana सिद्धबस्तयः (२६-२७) · Śloka २७
| सिद्धबस्तीनतो वक्ष्ये सर्वदा यान् प्रयोजयेत्||२६|| निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्| |२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतः-प्रसृतेभ्यो निरूहेभ्योऽनन्तरं, निर्व्यापत्त्वादि गुणतः संज्ञया सिद्धबस्तीनतिप्रसिद्धान् वक्ष्ये-भणिष्यामि| यान् सर्वदा प्रयोजयेत्| तथा निर्व्यापदो बहुफलान् बलादिप्रदांश्च सुखांश्च| सुश्रुते चोक्तम् (चि. अ. ३८/११६)- "यस्मिन् बस्तौ यथा युक्ते ध्रुवा सिद्धिः प्रकीर्तिता| सिद्धबस्तिरिति ख्यातो मुनिभिस्तत्त्वदर्शिभिः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सिद्धबस्तीनाह-सिद्धबस्तीनिति|
Adhikarana माधुतैलिकः (२७-२९) · Śloka २९
| मधुतैले समे कर्षः सैन्धवाद्द्विपिचुर्मिसिः||२७|| एरण्डमूलक्वाथेन निरूहो माधुतैलिकः| रसायनं प्रमेहार्शःकृमिगुल्मान्त्रवृद्धिनुत्||२८|| सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुतैले समे-तुल्ये, सैन्धवस्य कर्षो, मिसिः द्विपिचुः-द्विकर्षप्रमाणः, एरण्डमूलक्वाथेन सह माधुतैलिकोऽयं निरुहो रसायनं स्यात् प्रमेहादिजित्| "यस्मान्मधु च तैलं च प्राधान्येनात्र वर्तते| माधुतैलिक इत्येषविज्ञेयो बस्तिचिन्तकैः||" इति सुश्रुतः (चि. अ. ३८/११४)| सं-मधुयष्टियुक्तश्चैष बस्तिश्चक्षुष्यो रक्तपित्तजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तत्र आधुतैलिकमाह-मधुतैल इति| आमधुकव्काथेऽधिके पुर्वस्य गुणान्तरमाह-सयष्टीति|
Adhikarana यापनो बस्तिः (२९-३०) · Śloka ३०
| यापनो घनकल्केन मधुतैलरसाज्यवान्||२९|| पायुजानूरुवृषणबस्तिमेहनशूलजित्| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यापनाख्यो बस्तिर्मुस्ताकल्केन सह मधुतैलमांसरसाज्ययुतः पाय्वादिशूलजित्| यापनः-प्राणधारणात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- यापनं बस्तिमाह-यापन इति| मांसरसोऽत्रव्काथस्थाने|
Adhikarana द्वितीयो यापनबस्तिः (३०-३१) · Śloka ३१
| प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रकल्पयेत्||३०|| यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यापनं निरूहं घृतादिभिः प्रसृतप्रमाणैः सैन्धवार्धकर्षेण हपुषार्धपलयुतं कल्पयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पूर्वगुणं बस्त्यन्तरमाह-प्रसृतांशैरिति|
Adhikarana युक्तरथो बस्तिः (३१-३२) · Śloka ३२
| एरण्डमूलनिःक्वाथो मधुतैलं ससैन्धवम्||३१|| एष युक्तरथो बस्तिः सवचापिप्पलीफलः| |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एरण्डमूलनिःक्वाथो मधुतैलसैन्धवान्वित इत्येष वचापिप्पलीमदनफलान्वितो युक्तरथोऽन्वर्थनामा बस्तिः| सुश्रुते चोक्तम् (चि. अ. ३८/११५)- "रथेष्वपि हि युक्तेषु हस्त्यश्वेष्वपि योजयेत्| यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पूर्वगुणं युक्तरथाख्यं बस्तिमाह-एरण्डमूलेति|
Adhikarana दोषहरो बस्तिः (३२-३३) · Śloka ३३
| स क्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवम्||३२|| सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स पूर्वोक्त एरण्डमूलक्वाथो मध्वादिभिः सह एष बस्तिर्दोषहृच्छिवश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दोषहरं बस्तिमाह-स क्वाथ इति| षङ्ग्रन्थावचा|
Adhikarana सिद्धबस्तिः (३३-३४) · Śloka ३४
| पञ्चमूलस्य निःक्वाथस्तैलं मागधिका मधु||३३|| ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमूलक्वाथस्तिलतैलादिकः सैन्धवमधुकसहितः सिद्धवस्तिसंज्ञो मुनिभिः स्मृतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दोषहरं सिद्धबस्तिमाह-पञ्चमूलस्येति|
Adhikarana गोमूत्रबस्तिः (३४-३६) · Śloka ३६
| द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्||३४|| गोमूत्रे, तेन पिष्टैश्च पाठावत्सकतोयदैः| सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च||३५|| युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु| शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्विपञ्चमूलादीनि गोमूत्रेण पाचयेत्| तेन-क्वथितेन गोमूत्रेण, पिष्टैश्च पाठादिभिर्युक्तः कफामयादिहृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गोमूत्रबस्तिमाह-द्विपञ्चमूलेति|
Adhikarana यापनराट् बस्तिः (३७-४३) · Śloka ४३
मुस्तापाठामृतैरण्डबलारास्नापुनर्नवाः| मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः||३७|| कनीयः पञ्चमूलं च पालिकं, मदनाष्टकम्| जलाढके पचेत्तच्च पादशेषं परिस्रुतम्||३८|| क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्| सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः||३९|| पिष्टैर्यष्टिमिसिश्यामाकलिङ्गकरसाञ्जनैः| बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्द्धनः||४०|| वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहान्| विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः||४१|| वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः| हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान्||४२|| चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुस्तादीनि कनीयःपञ्चमूलपर्यन्तानि पृथक् पालिकानि, मदनफलान्यष्टौ, जलाढके पचेत्| तच्च पादशेषं परिस्रुतं क्षीरशेषं पुनः पचेदिति| तावत्कषायेण सह पक्तव्यं यावत्क्षीरप्रस्थद्वयं स्यादित्यर्थः| बस्तिः सर्पिर्मधुसैन्धवयुतः पिष्टैर्यष्ट्यादिभिः सहितः सुखोष्णो मांसादिवर्द्धनो वातरक्तादीन् हन्यात्| चक्षुष्यादिगुणश्च| किम्भूतः ? सपादजाङ्गलरसः,- तत्र चतुर्विंशतिपलिको निरुहः, तस्य पादेन षट्पलानि जाङ्गलरसस्य स्युरित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- यापनराजं बस्तिमाह-मुस्तेति| अक्षं-बिभीतकम्|रोहिणी-कटुका| श्यामा-प्रियङ्गु| कुण्डलोवातकुण्डलिकाख्यो मूत्राघातः|
Adhikarana अतिवृष्यो बस्तिः (४३-४४) · Śloka ४४
| मृगाणां लघुवद्रा(ड्रा)णां दशमूलस्य चाम्भसा||४३|| हपुषामिसिगाङ्गेयीकल्कैर्वातहरः परम्| निरुहोऽत्यर्थवृष्यश्च महास्नेहसमन्वितः||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ह्रस्वानां बृहतामुभयरूपाणां मृगाणां मांसानां तथा दशमूलस्य च क्वाथेन सह हपुषदिकल्को बस्तिः सुष्ठु वातहरो महास्नेहयुतो वृष्यश्च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अतिवृष्यं यापनमाह-मृगाणामिति| लघवो-हरिणादयः| वद्राः-वराहादयः| गाङ्गेयी-मुस्ता|
Adhikarana मायूरो बस्तिः (४५-४७) · Śloka ४७
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्| लग़ुना पञ्चमूलेन पालिकेन समन्वितम्||४५|| पक्त्वा क्षीरजले क्षीरशेषं सग़ृतमाक्षिकम्| तद्विदारीकणायष्टिशताह्वाफलकल्कवत्||४६|| बस्तिरीषत्पटुयुतः परमं बलशुक्रकृत्| |४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मयूरं पक्षादिवर्जितं दशपलमात्रं ह्रस्वेन पञ्चमूलेन पलमितेन युतं क्षीरजले पक्त्वा क्षीरस्यार्धाढको जलस्यार्धढक इत्येवं कृत्वा तावत्क्वाथयेत् यावत्क्षीरावशेषं स्यात्| क्षीरं च तच्छेषं च क्षीरशेषम्| घृतमाक्षिकसहितं विदार्यादिकल्कान्वितमीषल्लवणयुक्तो बस्तिः परमं [बल]शुक्रकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मायूरं बस्तिमाह-मयूरमिति| पक्त्वा क्षीरजले, "द्रव्यादष्टगुणं क्षीरम्" इत्यादिपभाषया|
Adhikarana मयूरविधिर्विष्किरादिषु (४७-४८) · Śloka ४८
| कल्पनेयं पृथक् कार्या तित्तिरिप्रभृतिष्वपि||४७|| विष्किरेषु समस्तेषु प्रतुदप्रसहेषु च| जलचारिषु तद्वच्च मत्स्येषु क्षीरवर्जिता||४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इयं च कल्पना तित्तिर्यादिष्वपि विष्किरेष्वशेषेषु प्रतुदेषु प्रसहेषु च पृथक्कार्या| तथैव जलचारिष्वपीयं कल्पना कार्या| मत्स्येषु तु क्षीरवर्जिता कल्पनेयं कार्या, मत्स्यानां क्षीरेण सह विरुद्धत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मयूरविधिं विष्किरादिष्वतिदिशति-कल्पनेति| मत्स्येषु क्षिरवर्जम्|
Adhikarana गोधादिबस्तिः (४९-५२) · Śloka ५२
गोधानकुलमार्जारशल्यकोन्दुरजं पलम्| पृथक् दशपलं क्षीरे पञ्चमूलं च साधयेत्||४९|| तत्पयः फलवैदेहीकल्कद्विलवणान्वितम्| ससितातैलमध्वाज्यो बस्तिर्योज्यो रसायनम्||५०|| व्यायाममथितोरस्कक्षीणेन्द्रियबलौजसाम्| विबद्धशुक्रविण्मूत्रखुडवातविकारिणाम्||५१|| गजवाजिरथक्षोभभग्नजर्जरितात्मनाम्| पुनर्नवत्वं कुरुते वाजीकरणमुत्तमम्||५२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोधादीनां मांसं पृथक्-प्रत्येकं, दशपलप्रमाणं क्षीरे पञ्चमूलं च साधयेत्| एतत्क्षीरं मदनफलकणाकल्कसैन्धवसौवर्चलान्वितं बस्तिः शर्करातैलमधुघृतसहितो योज्यो रसायनं स्यात्| व्यायाममथितोरस्कादीनां पुनर्नवत्वं कुरुते वाजीकरणेषु मुख्यश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गोधादिबास्तिमाह-गोधेति| पलं-मांसम्| वैदेही-पिप्पली|
Adhikarana वृष्यबस्तीनां भोजने विशेषः (५३) · Śloka ५३
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः| |५३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आत्मगुप्तादिभिः सिद्धेन पयसा सह भोज्यम्| उच्चटा-गुञ्जा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वृष्याणां बस्तीनाम् भोजने विशेषमाह-सिद्धेनेति| सङ्ग्रहे तु (क. अ. ५)- " पृथक् पलांशं विपचेत्पञ्चमूलमगोक्षुरम्| क्षीराढके चतिर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्|| क्षौद्रतैलाज्यसिन्हूत्थयुक्तं बस्तिः सुपूजितः| विशेषाद्वालवृद्धस्त्रीसुकुमारसुखात्मनाम्|| तद्वत्सहाचरबलासारिवादर्भसाधितम्| क्षीरं, बस्तिस्तथाऽभीरुगुडूचीबृहतीद्वयैः|| सिद्धं पयो मागधिकायष्टीमधुककल्कवान्| पञ्चमुलं बृहत्यादि प्रतिद्रव्यंपलोन्मितम्|| द्विपलं शालिगोधूमयवमाषं सषष्टिकम्| तैःसिद्धं छागलं कुक्कुटाण्डरसः सिता|| साज्यक्षौद्रद्विलावणस्तैर्बस्तिः शुक्रकृत्परम्| कल्पोऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि|| रसः कुलीरमांसस्य चटकाण्डरसान्वितः| सशर्कराघृतमधुर्बस्तिर्वृष्यतमो मतः|| बस्तशूकरजैर्मुष्कैः किलीरचटकामिषैः| सिद्धं पयो बस्तमुष्कमुच्चटेक्षुरकं मधु|| तैर्घृताढ्योऽल्पलवणो बस्तिर्वृष्यतमः परम्| सिद्धेन पयसा भोज्यमात्मगुत्पोच्चटेक्षुरैः|| अतो दशादशान यस्तु बस्तीन्निषेवते| वाजीव पुश्टः सवृषो गच्छति प्रमदाशतम्|| एते माक्षीक संयुक्ताः कुर्वन्त्यतिवृषं नरम्| नातियोगं न चायोगं स्तम्भितास्ते च कुर्वते|| निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः| यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्|| मृदुत्वान्न निवर्तेरन् यस्यत्वेते प्रयोजिताः| समूत्रैर्बस्तिभिरतीक्ष्णैरास्थाप्य क्षिप्रमेव सः|| शोफ़ाग्निनाशपाण्डुत्वशूलार्शः परिकर्तिकाः| स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्|| अरिष्टक्षारसिध्वाद्यस्तत्रेष्ता दीपनि क्रिया| युत्क्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः|| मृद्वल्पौषधसंयोगात्पादहीनप्रमाणतः| अल्पकालोपयोगाच्च तेषु निष्परिहारता||" इति| इति सिद्धबस्तयः|
Adhikarana सिद्धाः स्नेहाः (५३) · Śloka ५३
स्नेहांश्चायन्त्रणान् सिद्धान् सिद्धद्रव्यैः प्रकल्पयेत्| ||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नेहांश्च-स्नेहबस्तीन्, अयन्त्रणान्-निष्परिहारान्, सिद्धान्-बहुशो दृष्टप्रत्ययान्, सिद्धद्रव्यैः-निरपायैः, प्रकल्पयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ सिद्धस्नेहाः| सिद्धबस्तिद्रव्यैरेव सिद्धस्नेहाः प्रकल्प्या इत्याह-स्नेहानिति| सङ्ग्रहे तु (क. अ. ५)- "सहाचराभीरुबलारास्नागोक्षुरकात् पृथक्| तुलां जलद्रोणशते पचेद्द्रोणवशेषित्ते|| पुतशीते बिसद्राक्षातुगाक्षीरीनिदिग्धिकाः| महासहाक्षुद्गसहायष्टीमधुमधूलिकाः|| जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्| खर्जूरमामलक्यात्मगुत्पातामलकीकणाः|| पटोलमेदात्वक्पत्रशीतपाक्योदनाव्हयाः| कल्कीक्ऱ्त्य क्षिपेत्तस्मिन् पृथक् च प्रस्थमम्मितम्|| रसं वराहमहिषबस्तमुष्कोद्भवं तथा| शिखिकुक्कुटहंसाण्डसस्बवं तैलासर्पिषी|| धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयम्| ब्रह्यभेरीमृदङ्गानां निनादैः साधितं च तत्|| सितच्छ्त्रकृतच्छायं सितवस्त्रावगुण्ठितम्| आरोपितं गजस्कन्धे पुजयित्वा वृषध्वजम्|| कृत्वा स्वस्त्यनं दद्यात्स्नेहबस्तिमयन्त्रणम्| प्रात्पस्तेनातिवृषतां श्रमयेद्वनिताशतम्| निर्वलीपलितः कान्तश्चिरञ्जीवी भवेत्स च| नष्टशुक्रक्शतक्षीणविषमज्वरिणां हितम्|| व्यापन्नार्तवशुक्राणां पुत्रदाता रसायनम्| एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः|| शतं वारान् सहया वा पाचयेत्सम्भवे सति|" इति|
Adhikarana सपरीहाराः स्नेहबस्तयः (५४) · Śloka ५४
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अधुना दोषघ्नाः सपरीहाराः स्नेहबस्तयो वक्ष्यन्ते| तानेवाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- निष्परिहारान् स्नेहबस्तीनुक्त्वा सपरिहारानाह| तत्र प्रतिज्ञावाक्यमाह-दोषन्घा इति|
Adhikarana दशमूलादितैलम् (५४-५७) · Śloka ५७
| दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्||५४|| गुडुच्यैरण्डबूतीकभार्गीवृषकरोहिषम्| शतावरीं सहचरं काकनासां पलांशकम्||५५|| यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्| वहे विपाच्य तोयस्य द्रोणशेषेण तेन च||५६|| पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः| अनुवासनमित्येतत्सर्ववातविकारनुत्||५७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलादिकं पलप्रमाणम्| काकनासा-काकजङ्घा| यवादीनि प्रसृतप्रमाणानि, जलस्य वहे-द्रोणचतुष्टये, विपाच्य, तेन च द्रोणशेषेण तैलाढकं पलांशकैः जीवनीयैः पेष्यैः सह पचेत्| एतदनुवासनमखिलपवनामयजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दशमुलादिस्नेहमाह-दशमुलमिति| भूतीकंभुस्तृणम्| वृषकः-पाषाणभेदः| काकनासा-काकतुण्डी| वहे-द्रोणचतुष्टये|
Adhikarana आनूपवसा (५८) · Śloka ५८
आनूपानां वसा तद्वज्जीवनीयोपसाधिता| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आनूपप्राणिनां वसा जीवनीयद्रव्यसाधिता तद्वत्पूर्वगुणा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वसास्नेहमाह-आनूपानामिति| जीवनीयानां कल्कः कार्यः| द्रवं तूदकम्|
Adhikarana शताह्वादितैलम् (५८) · Śloka ५८
| शताह्वाचिरिबिल्वाम्लैस्तैलं सिद्धं समीरणे||५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शताह्वादिभिस्तैलं पक्वं पवने योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तैलमाह-शताव्हेति| चिरिबिल्वः-करञ्जः| अम्लानि-धान्याम्लादीनि|
Adhikarana सैन्धवधृतम् (५९) · Śloka ५९
सैन्धवेनाग्निवर्णेन तप्तं चानिलजिद् घृतम्| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अग्निवर्णेन सैन्धवेन तप्तं च घृतं समीरणजिद्भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतमाह-सैन्धवेनेति| सैन्धवमग्निनाऽग्निवर्णं क्ऱ्त्वा घृतमध्ये निःक्षिपेत्||
Adhikarana जीवन्त्यादियमकः (५९-६२) · Śloka ६२
| जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्||५९|| शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्| स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्||६०|| पिष्ट्वा तैलघृतं क्षीरे साधयेत्तच्चतुर्गुणे| बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्||६१|| रजःशुक्रामयहरं पुत्रीयं चानुवासनम्| |६२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादीन् कल्कीकृत्य तैलघृतं-यमकं, क्षीरे चतुर्गुणे साधयेत्| एतदनुवासनं बृंहणं वातपित्तघ्नं बलादिवर्धनं रजःशुक्ररोगहरं पुत्रीयं च| पुत्रीयमिति हितार्थे "पुत्राच्छ च " इति छः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- जीवन्त्यादियमकमाह-जिवन्तीमिति|
Adhikarana सैन्धवादितैलम् (६२-६६) · Śloka ६६
| सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा||६२|| ह्रीबेरं मधुकं भार्ङ्गी देवदारु सकट्फलम्| नागरं पुष्करं मेदा चविका चित्रकः शठी||६३|| विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा| बिल्वाजमोदचपला दन्ती रास्ना च तैः समैः||६४|| साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्| वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्||६५|| आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्| |६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सैन्धवादिभिः समांशैः सामान्यपरिभाषया एरण्डतैलं तिलतैलं वा साध्यम्| द्विर्वाग्रहणात् एरण्डतैलस्यार्धं तिलतैलस्यार्धमित्यपि कल्पनीयमित्याहुः| एतदनुवासनं कफरोगजित् शीघ्रं वर्ध्मादीन् हन्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सैन्धवादितैलमाह-सैन्धवमिति| निचुलो-वेतसः| श्यामा-त्रिवृत्| चपला-पिप्प्ली| एरण्डतैलं तिलतैलं वा साध्यम्| तच्च कफरोगजिद्भवति| वर्ध्मादींश्च हन्यात्|
Adhikarana बिल्वादितैलम् (६६-६७) · Śloka ६७
| साधितं पञ्चमूलेन तैलं बिल्वादिनाऽथवा||६६|| कफघ्नं| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमूलेन बिल्वादिना वा साधितं तैलं कफघ्नं कल्पयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- बिल्वादितैलमाह-साधितमिति|
Adhikarana कफघ्नद्रव्यसाधितं तैलम्, फलतैलम् (६७) · Śloka ६७
कल्पयेत्तैलं द्रव्यैर्वा कफघातिभिः| फलैरष्टगुणैश्चाम्लैः सिद्धमन्वासनं कफे||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा कफघ्नैर्द्रव्यैः फलैरष्टगुणैश्चाम्लैः सिद्धमनुवासनं कफे शस्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्यैरपि कफन्धैस्तैलकल्पनामाह-कल्पयेदिति| आ रं- फलतैलमाह-फलैरिति| फलैः-मदनफलैः| सङ्ग्रहे तु (क. अ. ५)- "शूलनाहे तु तद्युक्तो निरूहः पटुमुत्रवान्|| तद्युक्तः-फलतैलयुक्तः| शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षिरे चतुर्गुणे| तैलपादं घृतं सिद्धं पित्तन्धमनुवासनम्|| " इति|
Adhikarana कल्पनाप्रकारः (६८) · Śloka ६८
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते| तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृदुश्चासौ बस्तिश्च मृदुबस्तिः, मधुरस्निग्धशीतलात्मकत्वान्मृदुः, मृदुबस्तिश्चासौ जडीभूतश्च मृदुबस्तिजडीभूतः,-कोष्ठाद्बहिरनिःसरणात् कोष्ठ एवावस्थितिं कृत्वा स्थितः, तस्मिंस्तथाभूतेऽन्यो बस्तिस्तीक्ष्णः शस्यते| तीक्ष्णैः-गोमूत्रादिनिष्पादितैर्बस्तिभिः, विकर्षिते कोष्ठे सति स्निग्धादिगुणो बस्तिरिष्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- एवं बस्तीनुक्त्वा कल्पनाप्रकारमाह| तत्र मृदुनाजाडेये जाते तीक्ष्णो योज्यः, तीक्ष्णेन कर्षणे जाते मृदुर्योज्य इत्याह-मृदुबस्तीति|
Adhikarana तीक्ष्णत्वमृदुत्वहेतूनि द्रव्याणि (६९) · Śloka ६९
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः| प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्||६९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तीक्ष्णत्वं बस्तेर्मूत्रपील्वग्निलवणक्षारसर्षपैः प्राप्तकालं- योग्येऽवसरे, विधातव्यम्| क्षीरघृताद्यैश्च बस्तेर्मार्दवं प्राप्तकालं कर्तव्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तीक्ष्णत्वमृदुत्वहेतूनि द्रव्याण्याह-तीक्ष्णत्वमिति|
Adhikarana बलाद्यनुरोधेन बस्तिः कल्प्यः (७०) · Śloka ७०
बलकालरोगदोषप्रकृतीः प्रविभज्य योजितो बस्तिः| स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्निवर्तयति||७०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलादीन् प्रविभज्य स्वैः स्वैरौषधवर्गैः-यथायथं योग्यैः, सिद्धो बस्तिर्योजितः स्वान् स्वानामयानुपशमयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- बलाद्यनुरोधेन बस्तिः कल्प्य इत्याह-बलकालेति|
Adhikarana हेतुव्याधिविपरीतो बस्तिः कल्प्यः (७१) · Śloka ७१
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च| तद्योग्यौषधयुक्तान् बस्तीन् संतर्क्य युञ्जीत||७१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उष्णार्तानां नृणां शीतान् बस्तीन् शीतार्तानां- सुखोष्णान् बस्तीन् दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- हेतुव्याधिविपरीतो बस्तिः कल्प्य इत्याह-उष्णार्तानामिति|
Adhikarana शोधनीयेषु बृंहणीयनिषेधः (७२) · Śloka ७२
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु|७२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आ रं- शोधनीयेषु बृंहणीयनिषेधमाह-बस्तीनिति|
Adhikarana शोधनीयाः (७२) · Śloka ७२
मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः||७२||
🔊 Audio coming soon
आयुर्वेदरसायनम् व्याख्या ( कृत)
व्
Adhikarana क्षीणादिषु शोधनीयनिषेधः (४) · Śloka ४
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कशुद्धदेहानाम्| दद्याद्विशोधनीयान् दोषनिबद्धायुषो ये च||७३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थान बस्तिकल्पो नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-यस्मादेते दोषैर्निबद्धजीविताः, तस्मादेतेषां दोषनिर्हरणात् प्राणसंशयः स्यादित्याह, जीवितरक्षार्थमेते न विशोध्या इति| आर्याश्चतस्रः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्धस्थाने बस्तिकल्पो नाम चतुर्थोऽध्यायः समाप्तः|| ४||