Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
राजयक्ष्मचिकित्सितादनन्तरं छर्द्यादिचिकित्सितमारभ्यते| यतो यक्ष्मण एव प्रायेणैत उपद्रवभूता जायन्ते| अत एतदारम्भो युक्त इत्याह-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
राजयक्ष्मचिकित्सितादनन्तरं छर्द्यादिचिकित्सितमारभ्यते| यतो यक्ष्मण एव प्रायेणैत उपद्रवभूता जायन्ते| अत एतदारम्भो युक्त इत्याह-
Adhikarana छर्दिह्रद्रोगतृष्णाचिकित्सिताध्यायः छर्दिषु प्राक् लङ्घनम्,ततो वमनम् (२) · Śloka २
अथात-छर्दिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः इति ह स्माहुरत्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) आमाशयोत्क्लेशभवाः प्रायश्च्छर्द्यो हितं ततः| लङ्घनं प्रागृते वायोर्वमनं तत्र योजयेत्||१|| बलिनो बहुदोषस्य वमतः प्रततं बहु| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्क्लेशनं-उत्क्लेशो,-दोषाणामुच्छूनावस्थैव| आमाशयोत्क्लेशात् सम्भवो-जन्म, यासां ता आमाशयोत्क्लेशभवाः प्रायश्च्छर्द्यो यतस्तस्मात् प्राक्-प्रथमं, लङ्घनं हितम्| प्रायोग्रहणं वातजायां छर्द्यामामाशयोत्क्लेशासम्भवार्थं वायोरृते तद्योजयेत्| कार्ये कारणोपचारादेवं निर्दिष्टम्| वातजां हि छर्दि मुक्त्वाऽन्यासु छर्दिषु लङ्घनं कार्यम्| लङ्घने कृतेऽप्यनु पशान्तवेगासु तत्र-तासु छर्दिषु, वमनं कार्यम्| बलिनः पुंसो-न दुर्बलस्य, अथवा बहुदोषस्य, तथा प्रततं-अनारतं, बहु वमतो वमनं योजयेत्|
Adhikarana ततो हृद्यं विरेचनम् विरेचनफलम् ततः शमनौषधम् रूक्षदुर्बलस्य शमनमेव (२-३) · Śloka ३
| ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः||२|| क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः| शमनं चौषधं रूक्षदुर्बलस्य तदेव तु||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततो-वमनादनन्तरं विरेकौषधं क्रमशो-न सहसा, योजयेत्| किम्भूतं विरेकद्रव्यम् ? हृद्यं-हृदयाय हितम्| कैः सह ? मद्यैः-मार्द्वीकादिभिः| तथा, फलाम्बुभिः-शोभनद्रा क्षादिफलनिष्पादितवारिभिः| अथवा, क्षीरैः-गोक्षीरादिभिः सह| किमेवं स्यात् ? इत्याह-स ह्यूर्ध्वमित्यादि| यस्मात्सः-विरेकः, ऊर्ध्वं गतं दोषं छर्द्यनुगमधो नयति| न केवलं शोधनं-वमनं विरेचनं वा, तत्र योजयेत्| यावच्छमनमपि यदौषधं तदपि तत्र योजयेत्| रूक्षदुर्बलस्य पुनः पुंसस्तदेव-शमनमेव, योजयेत्, शोधनासहत्वात्|
Adhikarana छर्दिषु अन्नशाकफलादिकम् (४-६) · Śloka ६
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते| उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः||४|| शाकानि लेहा भोज्यानि रागषाडवपानकाः| भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्||५|| गन्धाः_ सुगन्धयो गन्धफलपुष्पान्नपानजाः| भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र सर्वास्वपि छर्दिषु परिशुष्कादिगुणयुक्तमन्नं शस्यते| काम्बलिकादिलक्षणं कृतान्नवर्गे कथितम्| तथा फलानि, स्नानमुद्वर्तनादिरूपेण घर्षणं सुगन्धयः-शोभनगन्धाः, गन्धद्रव्यपुष्पफलान्नपानजाः शस्यन्ते| तत्र गन्धशब्देन गन्धद्रव्याणि| भुक्तमात्रस्य सहसा-झटित्येवाज्ञातसङ्केतस्य, मुखे शीताम्बुसेचनम्| इति सामान्येन छर्दीनामुपक्रमाः|
Adhikarana वातजायां छर्द्यां घृतम्, वातजायां व्योषाद्यं घृतम्, वातजायां दाडिमाद्यं घृतम्, वातजायां तुल्याम्बुक्षीरम्, वातजायां वैष्किरो रसः, वातजायां स्निग्धं भोजनम्, वातजायां स्नेहविरेचनम् (७-१०) · Śloka १०
अधुना विशेषेणाह हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम्| किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्||७|| व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना| सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः||८|| व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः| स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्||९|| कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातजां छर्दिषं सर्पिः पीतं सैन्धवान्वितं किञ्चिदुष्णं विशेषेण हन्ति| पीतं-न तु लीढम्, अशक्तत्वात्| तथा चोक्तम् (हृ.चि.अ.३/१११)-"आक्रामत्यनिलं पीतं" इति| तस्मात् पीतं घृतं छर्दिं हन्तीति युक्तम्| अथवा त्रिकटुत्रिलवणोत्कटं सर्पिः पीतं पूर्वोक्तगुणम्| दाडिमाम्बुन वा शुण्ठी दधिधान्येन सह सामान्यकल्पनया सिद्धं घृतं पीतं पूर्वोक्तगुणम्| जलतुल्यं वा पयः शृतं पूर्ववत्| अथवा, वैष्किरः-कुक्कुटादिजो, रसो बहुसर्पिःसैन्धवो मारुतजां छर्दिं हन्ति| किम्भूतः ? फलेन-दाडिममातुलुङ्गादिना, अम्लः-अम्लतां प्रापितः| स्निग्धं च भोजनं-अशनं, [शुण्ठी]दधिदाडिमेन संस्कृतं तु हितं-छर्दिं हन्ति| अत्र च-मारुतच्छर्दिषि, स्नेहेन-एरण्डतैलादिना, विरेचनं स्नेहविरेचनं कोष्णं सलवणं च हितम्|
Adhikarana पित्तजायां छर्द्यां द्राक्षादि विरेचनम्, पित्तजायां तैल्वकं धृतम्, पित्तजायां श्लेष्मस्थानगते पित्ते वमनम्, पित्तजायां शुद्धौ अन्नपानम्, पित्तजायां जम्बाम्रादिक्काथः, पित्तजायां सचन्दनो धात्रीरसः, पित्तजायां मुग्ददलक्वातः, पित्तजायां कोलादिलेहः, पित्तजायांपथ्यादिलेहत्रयम् (१०-१७) · Śloka १७
| पित्तजायां विरेकार्थं द्राक्षेक्षुस्वरसैस्त्रिवृत्||१०|| सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्| ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान्||११|| पिबेन्मन्थं यवागूं वा लाजैः समधुशर्कराम्| मुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्||१२|| मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्| मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्||१३|| द्राक्षारसं रसं वेक्षोर्गुडूच्यम्बु पयोऽपि वा| जम्ब्वाम्रपल्लवोशीरवटशुङ्गावरोहजः||१४|| क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति| छर्दिं ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम्||१५|| धात्रीरसेन वा शीतं पिबेन्मुद्गदलाम्बु वा| कोलमज्जसितालाजामक्षिकाविट्कणाञ्जनम्||१६|| लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तजायां छर्द्यां विरेकार्थं-विरेकप्रयोजनाय, द्राक्षेक्षुस्वरसैस्त्रिवृद्देया| तैल्वकं वा सर्पिर्योज्यम्| पित्तजे छर्दिषि वृद्धं श्लेष्मधामगं पित्तमूर्ध्वमेव हरेत्-वमनं तत्र देयमित्यर्थः| कैर्द्रव्यैः ? स्वादुतिक्तैः| आतुरो विशुद्धिमान्-कृतवमनविरेको लाजैर्मन्थं पिबेत्| किम्भूतम् ? समधुशर्करम्, अथवा यवागूं लाजैः समधुशर्करां पिबेत्| समधुशर्करश्च समधुशर्करा चेति "पुमान् स्त्रिया" इत्येकशेषः| तथा, मुद्गजैर्व्यञ्जनैर्जाङ्गलमांसै (मांसजै)श्च व्यञ्जनैः शालिषष्टिकमद्यात्| मृद्भृष्टलोष्टजं सुशीतलं जलं पिबेत्| मुद्गादिभिर्वा सह निशां स्थितं जलं पिबेत्| द्राक्षारसादिं वा यथायोगं पिबेत्| जम्ब्वाम्रादिजः क्वाथः क्षौद्रान्वितः शीतो वा-शीतकषायः, पीतः क्षौद्रयुतश्छर्द्यादीन् हन्ति| मुद्गदलैः शृतमम्बु मुद्गदलाम्बु, तद्धात्रीरसेन सह पिबेत्| अथवा मुद्गदलानामम्बु मुद्गदलाम्बु, शीतं-शीतकषायं, पिबेत्| कोलादिकं क्षौद्रेण लिह्यात्| पथ्यां वा क्षौद्रेण लिह्यात्| द्राक्षां वा बदराणि वा लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- [ पित्तच्छर्द्यौषधमाह-पित्तजायामिति|] समधुशर्करं लाजमन्थं लाजयवागूं वा समधुशर्कराम्| व्यञ्जनैः-यूषरसाद्यैः| शमनमाह-मृद्भृष्टलोष्टप्रभवमिति| अन्यदाह-मुद्गोशीरकणाधान्यैरिति| शमनचतुष्टयमाह-द्राक्षारसमिति| अन्यदाह-जम्बवाम्रेति| शीतो वा-शीतकषायो वा| अन्यदाह-धात्रीरसेनेति| शीतं-चन्दनम्| अन्यदाह-मुद्गदलाम्बु वेति| मुद्गदलाम्बु-मुद्गशकलव्काथम्| अन्यदाह-कोलमज्जेति| लेहत्रयमाह-क्षौद्रेणेति| सङ्ग्रहे (चि. अ. ८)- "कोलास्थिमज्जास्त्रोतोजलाजोत्पलरजांसि वा| पिबेच्छीताम्बुनाशालिस्वर्णगैरिकजं रजः|| पिष्टं वा चन्दनद्राक्षामांसीसेव्याम्बुगैरिकम्| शालितडुलतोयेन पिबेद्वा ससितामधु|| मधूकमधुकद्राक्षाकमलामलकाम्बुदम्| ससारिवापरूषाख्यं मूर्वां वा माक्षिकान्विताम्|| मधुकं सात्मगुत्पं वा शीतं धात्रीरसेन वा|" इति|
Adhikarana कफजायां छर्द्यां निम्बादि वमनम्, कफजायां उपवासः, कफजायां आरग्वधादिनिर्यूहः, कफजायां मन्थाः, अन्नं रागाः, कफजायां मनःशिलादिलेहः, कफजायां कपित्थयोगः, कफजायां दुरालभालेहः, कफजायां मरिचादिलेहः (१७-२१) · Śloka २१
| कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः||१७|| युक्तेन कोष्णतोयेन, दुर्बलं चोपवासयेत्| आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत्||१८|| मन्थान् यवैर्वा बहुशश्च्छर्दिघ्नौषधभावितैः| कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः||१९|| लीढं मनःशिलाकृष्णामरिचं बीजपूरकात्| स्वरसेन कपित्थस्य सक्षौद्रेण वमिं जयेत्||२०|| ख़ादेत्कपित्थं सव्योषं, मधुना वा दुरालभाम्| लिह्यान्मरिचचोचैलागोशकृद्रसमाक्षिकम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफजायां छर्द्यां निम्बादिभिर्युक्तेन कोष्णजलेन वमेत्| दुर्बलं च नरमुपवासयेत्| आरग्वधादिनिर्यूहं शीतं क्षौद्रान्वितं पिबेत्| बहून् वारान् छर्दिघ्नौषधभावितैर्यवैर्मन्थान् पिबेत्| कफघ्नमन्नं हृद्यं च भुक्तं सद्वमिं जयेत्| रागाः सकुठेरकभूस्तृणा वमिं जयन्ति पीताः| मनःशिलादिकं बीजपूरकरसेन सक्षौद्रेण वमिं जयेत्| कपित्थस्य वा रसेन माक्षिकान्वितेन मनःशिलादिकं लीढं वमिं जयेत्| कपित्थं वा सत्रिकटुकं मधुना ख़ादेत्| धन्वयवासं वा मधुना लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफच्छर्द्यौषधमाह-कफजायामिति| पिण्डीतो-मदनः| उपवासमाह-दुर्बलं चोपवासयेदिति| दुर्बलं-वमनासमर्थम्| शमनमाह-आररग्वधादिनिर्यूहमिति| सङ्ग्रहे (चि. अ. ८)- " त्रिफलाकणचव्याद्वा पेयां पत्रैः करञ्जजैः|" इति| त्रिफलादिभ्यः व्काथं सक्षौद्रम्, करञ्जपत्रपेयां वा सक्षौद्राम्| अन्यदाह-मन्थान् यवैर्वेति| भोजनमाह-कफघ्नमन्नमिति| शमनमाह-लीढमिति| अन्यदाह-खादेदिति| अन्यदाह-मधुना वेति| अन्यदाह-लिह्यादिति| चोचं-लवङ्गत्वक्| सङ्ग्रहे (चि. अ. ८)- " समुस्तां मधुना शृङ्गीं कोलाम्लं वा सजाम्बवम्| तद्वद्विडङ्गत्रिफलं विडङ्गपरिपेलवम्||" इति| योगरत्ने-"पिष्ट्वा धात्रीफलं लाक्षां शर्करां च पलोन्मिताम्| दत्वा मधु पलं चात्र कुडवं सलिलस्य च|| वाससा गालितं पीतं हन्ति छर्दिं त्रिदोषजाम्|| सारिवोशीरमधुककुस्तुम्बरुफलानि च| युक्त्या श्राव्यजलं देयं मधुना छर्दिनाशनम्|| कृतं गुडूच्या विधिवत्कषायं हिमसंज्ञितम्| तिसृष्वपि भवेत्पथ्यं माक्षिकेण समन्वितम्|| कपित्थरससंयुक्तां पिप्पलीं माक्षिकान्विताम्| मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रतिमुच्यते|| धात्रीमुस्तकचूर्णं तु मधुना परिमिश्रितम्| प्रलिहन् प्रातरुत्थाय छर्द्यते सुखमाप्नुयात्|| प्रियङ्गुचन्दनोशीरशतपुष्पायवैः समैः| कल्कं समुस्तकं लिह्याच्छर्दिघ्नं मधुसंयुतम्|| कुष्ठं नागरसम्मिश्रं लिह्याच्चूर्णं समं ततः| प्रातरुत्थाय तोयेन छर्द्यामयहरं परम्|| यष्ट्याह्वं चन्दनोपेतं सम्यक्क्षीरप्रपेषितम्| तेनैवालोड्य पातव्यं रुधिरच्छर्दिनाशनम्|| मातुलुङ्गरसो लाजाशर्करामधुसंयुतः| पिप्पलीचूर्णसंयुक्तः श्रेष्ठश्च्छर्दिनिवारणः|| जात्या रसः कपित्थस्य पिप्पलीमरिचान्वितः| क्षौद्रेण युक्तः शमयेल्लेहोऽयं छद्रिमुल्बणाम्|| सौवर्चलमजाज्यश्च शर्करा मरिचानि च| क्षौद्रेण संयुतं चुर्णं श्रेष्ठं छर्दिनिवारणम्|| विदलानि च मुद्गानां पिप्पल्यश्चैव कुट्टिताः| प्रस्त्रुतं सलिलं पेयं छर्द्यां मधुसमन्वितम्| जब्वाम्रसारो मुस्तं च माचीद्राक्षा (?) च साधयेत्| कषायो मधुसंयुक्तः पेयश्च्छर्दितृषापहः|| फल्गुप्रवालं मरिचं मधुकं नीलमुत्पलम्| क्षुण्णं शीतकषायोऽयं तृष्णाच्छर्दिनिवारणः|| एतैरेवौषधैः सिद्धां लाजपेयां पिबेन्नरः| सशर्करां मधुयुताम् तृष्णाच्छर्दिनिवारिणीम्|| अर्धोदकं निषेवेत माक्षिकेणाथवा पयः| तुष्णाछर्दिप्रशमनं जाङ्गलं रसमेव वा|| क्षीरिणां चैव वृक्षाणां शुङ्गान् लिह्यात्सुकुट्टितान्| पिप्पलीमधुसंयुक्तान् तृष्णाछर्दिनिवारणान्||" इति| [सिद्धसारे (छर्द्यधिकारे श्लो. २२)]-" लाजाकपित्थमधुमागधिकोषणानां क्षौद्राभयात्रिकटुधान्यकजीरकाणाम्| पथ्यामृतामरिचमाक्षिकपिप्पलीनां लेहास्त्रयः सकलवम्यरुचिप्रशान्त्यै|| एलालवङ्गगजकेसरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्| चूर्णानि माक्षिकसितासहितानि लीढ्वाछर्दिं निहन्ति कफमारुतपित्तजाताम्|" "लाजसैन्धवसंयुक्तमाम्रबीजं समालिहेत्| मधुना छर्दिनाशाय क्षिप्रं सुखमवान्पुयात्||" (वङ्ग. छर्द्य. श्लो. ४९)- "अश्वत्थवल्कलं शुष्कं द्ग्ध्वा निर्वापितं जले| तज्जलं पानमात्रेण छर्दिं जयति दुस्तराम्||" "विजयातिविषाव्काथश्छर्दिहृच्छूलनाशनः||" (वङ्ग. छर्द्य. श्लो. ५७)- " आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करः| निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम्||" इति|
Adhikarana द्विष्टार्थजायामौषधम् (२२) · Śloka २२
अनूकूलोपचारेण याति द्विष्टार्थजा शमम्| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्विषार्थजा छर्दिर्मनसोऽनुकूलोपचारेण शाम्यति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्विष्टार्थछर्द्यौषधमाहअनुकूलोपचारेणेति|-
Adhikarana कृमिजायामौषधम्, शेषच्छर्दिरोगाणामौषधम्, छर्द्युपद्रवाणामौषधम् (२२-२३) · Śloka २३
| कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः||२२|| यथास्वं परिशेषाश्च, तत्कृताश्च तथाऽऽमयाः| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृमिभ्यो जाता छर्दिः कृमिहृद्रोगगदितैरौषधैः शमं याति| न केवलं कृमिजा छर्दिरेव शमं याति| यथास्वं परिशेषा अप्यामयाः-कृमिहृद्रोगकृताः, तेऽपि कृमिहृद्रोगगदितैर्भेषजैः शमं यान्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कृमिर्च्छर्द्यौषधमाह-क्रिमिजा इति| तृष्णा (शेष) च्छर्द्यामयादीनामौषधमाह-यथास्वं परिशेषाश्चेति| यथास्वं-कारणभूतरोगानुसारेण अनुबन्धिदोषानुसारेण वा| परिशेषाः-उक्तेभ्योन्याः| छर्द्युपद्रवाणामौषधमाह-तत्कृताश्चेति| तत्कृताः-छर्दिकृताः| तथा-यथास्वम्|
Adhikarana प्रसक्तायां छर्द्यामौषधम् (२३-२५) · Śloka २५
छर्दिप्रसङ्गेन हि मातरिश्वा धातुक्षयात्कोपमुपैत्यवश्यम्| कुर्यादतोऽस्मिन् वमनातियोग- प्रोक्तं विधिं स्तम्भनबृंहणीयम्||२३|| सर्पिर्गुडा मांसरसा घृतानि कल्याणकत्र्यूषणजीवनानि| पयांसि पथ्योपहितानि लेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति||२४|| इति छर्दिचिकित्सितम्|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हि-यस्मात्, छर्दिप्रसङ्गेन-अनुबन्धेन, यो धातुक्षयः तस्माद्धेतोर्मातरिश्वा अवश्यं कोपमायाति| अतो हेतोर्वमनातियोगप्रोक्तं विधिं स्तम्भनं बृंहणं च कुर्यात्, न पुनस्तदुक्तमन्यं विधिम्| इन्द्रवज्रावृत्तम्| तथा, सर्पिर्गुडादयो दोषदूष्यानुरोधतो यथाकालमुपयुक्ताश्छर्दिं प्रसक्तां शमयन्ति| उपजातिवृत्तम्| तन्त्रान्तरे(?)चोक्तम् (हृ.क.अ.३/२५)-"अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्| लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- प्रसक्तच्छर्द्यौषधमाह-छर्दिप्रसङ्गेनेति| सङ्ग्रहे (चि. अ. ७)- "त्वरमाणो जयेच्छर्दिं प्रसक्तामनुबन्धनीम्| कोष्ठाश्रया महामर्मपीडाकरतरा हि सा|| न चान्नेन विना कायस्तन्मयो वर्ततेऽपि च| धातुक्षयोऽतिवमथौ समीरणसमीरणात्|| नियतं जायते तस्माद्द्रुतमत्र प्रयोजयेत् धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः||" इति| इति हेमाद्रिटीकायामायुर्वेदसायने| छर्दिप्रकरणं नाम सामस्त्येन निरूपितम्||
Adhikarana वातजे ह्रद्रोगे मस्त्वादि तैलम् (२५-२६) · Śloka २६
छर्दिचिकित्सितादनन्तरं हृद्रोगसाधनमुच्यते, हृद्रोगशब्दश्रवणसम्बन्धात्| अथ हृद्रोगचिकित्सितम्| | हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्||२५|| पिबेत्सुख़ोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातजे हृद्रोगे तैलं सुख़ोष्णं-किञ्चिदुष्णं, पिबेत्| किम्भूतम् ? मस्तुसौवीरतक्राणि विद्यन्ते यस्मिंस्तदेवम्| तथा सह बिडलवणेन सबिडं, गुल्मादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथहृद्रोगचिकित्सितम्| तत्र वातजौषधमाह-हृद्रोग इति| सौवीरं-काञ्जिकम्| मस्त्वादित्रयं द्रव्यम्| बिडं कल्कः|
Adhikarana वातजे हृद्रोगे लवणतैलम् (२६) · Śloka २६
| तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लवणैः-पञ्चभिः सैन्धवादिभिः, गोमूत्रेण काञ्जिकेन च तैलं सामान्यपरिभाषया पक्वं तथागुणं-गुल्मादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्यदाह-तैलमिति| अम्लं-काञ्जिकम्|
Adhikarana वातजे हृद्रोगे बिल्वादितैलम् (२७-२८) · Śloka २८
बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम्| कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन्पचेज्जले||२७|| तैलं तन्नावने पाने बस्तौ च विनियोजयेत्| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिल्वादीनि जले पक्त्वा तस्मिन् जले क्वाथीभूते तैलं पचेत्| तत्तैलं नस्ये पानेऽनुवासने च विनियोजयेत्| तच्च पूर्वसमम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्यदाह-बिल्वमिति|
Adhikarana वातजे हृद्रोगे शुण्ठ्यादिघृतम् (२८-२९) · Śloka २९
| शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः||२८|| पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुण्ठ्यादिभिः पक्वं च घृतं पार्श्वहृद्रुजादिजित्| वयस्था-आमलकी| कायस्था-काकोली|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतमाहशुण्ठीकयस्थालवणववयस्थाहिङ्गुपौष्करैरिति| कयस्था-तुलसी| वयस्था-गुडूची|
Adhikarana वातजे हृद्रोगे सौवर्चलादिघृतम् (२९-३०) · Śloka ३०
| सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते||२९|| घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मजित्| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सौवर्चलस्य पलद्वये पथ्यापञ्चाशद्युक्ते साधितो घृतप्रस्थो हृद्रोगादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्यदाह-सौवर्चलस्येति|
Adhikarana वातजे दाडिमादिचूर्णम् (३०-३१) · Śloka ३१
| दाडिमं कृष्णलवणं शुण्ठी हिङ्ग्वम्लवेतसम्||३०|| अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्| |३१|
🔊 Audio coming soon
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- चूर्णमाह-दाडीममिति| अपतन्त्रको-वातव्याधिनिदानोक्तः|
Adhikarana वातजे पुष्करादिकल्कः (३१-३२) · Śloka ३२
| पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः||३१|| पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः| विकर्तिकाशूलहराः|३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुष्कराह्वादयः कल्कीकृताः-पिष्टाः, तथा घृतादियुक्ताः पीता विकर्तिकाशूलहराः| विकर्तिका-हृदयस्यावर्तच्छेदनिका इव रुग्विशेषः| हृद्रोगप्रसङ्गादेतचिकित्साऽप्युक्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्यदाह पुषराह्वेति| विकर्तिकाशूलं-हृदयच्छेदनमिव|
Adhikarana वातजे यवान्यादिक्वाथः,वातजे यवक्षारादिपानम् (३२-१.५) · Śloka १
क्वाथः कोष्णश्च तद्गुणः||३२|| यवानीलवणक्षारवचाजाज्यौषधैः कृतः| सपूतिदारुबीजाह्वपलाशशठिपौष्करैः||३३|| (यवक्षारो यवानी च पिबेदुष्णेन वारिणा| एतेन वातजं शूलं गुल्मं चैव चिरोत्थितम्||१|| भिद्यते सप्तरात्रेण पवनेन यथा घनः| )||१.५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्वाथश्च कोष्णो यवान्यादिभिर्देवदारुसहितैस्तद्गुणो विकर्तिकाशूलहरः| औषधं-शुण्ठी| बीजह्वः-बीजसारम्, बीजपूरकमित्यन्ये|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्वाथमाह-क्वाथ इति| औषधं-शुण्ठी| पूतीकरञ्जः| बीजाह्वो-बीजपूरः| यवान्यादिभिः सह पेयः| सः-क्वाथः, पूत्यादिभिः कृतः| वङ्गसेने (हृदयरोगाधिकारे श्लो. १०)- "क्वाथः कृतः पौष्करमातुलुङ्गपलाशपूतीकशठीसुराह्वैः| स नागराजाजिवचायवाभिः सक्षार उष्णो लवणश्च पेयः||" इति वचनमूलेयं व्याख्या|
Adhikarana वातजे पञ्जकोलादिचूर्णम् (३४-३५) · Śloka ३५
पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्| वारुणीकल्कितं भृष्टं यमके लवणान्वितम्||३४|| हृत्पार्श्वयोनिशूलेषु ख़ादेद्गुल्मोदरेषु च| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चकोलादिकं वारुण्या-प्रसन्नया सुरया, कल्कितंपिष्टं, यमके भृष्टं सैन्धवयुतं हृदादिशूलेषु गुल्मादिषु च ख़ादेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- चूर्णमाह-पञ्चकोलेति|
Adhikarana वातजे स्नेहस्वेदौ (३५) · Śloka ३५
| स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इह-वातजे हृद्रोगे, स्वेदाश्च स्निग्धा हिताः| घृतानि पक्वानि वा (च)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- स्नेहस्वेदावाह-स्निग्धाश्चेति| घृतानि स्नेहनार्थम्|
Adhikarana वातजे पञ्चमूलादिपानपञ्चकं (३६) · Śloka ३६
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्| वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृषि सत्यां ह्रस्वेन पञ्चमूलेन शुण्ठ्या वा साधितं जलं पिबेत्| वारुणीमण्डं वा दधिमण्डं वा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पानपञ्चकमाह-लघुनेति|
Adhikarana उक्तानामौषधानां विषयः (३७) · Śloka ३७
सायामस्तम्भशूलामे हृदि मारुतदूषिते| क्रियैषा|३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आयामः-आक्षेपः, सह आयामादिभिर्वर्तते यद् हृदयं तस्मिंस्तथाविधे हृदि तथा मारुतदूषिते सति क्रियैषाचिकित्सेयं पूर्वोक्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तानामौषधानां विषयमाह-सायामस्तम्भशूलाम इति| आयामः-आकर्षणमिव|
Adhikarana सद्रवायामप्रमोहे वातहृद्रोगे तित्तिर्यादिरसाः (३७-३८) · Śloka ३८
| सद्रवायामप्रमोहे तु हिता रसाः||३७|| स्नेहाढ्यास्तित्तिरिक्रौञ्चशिख़िवर्तकदक्षजाः| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सद्रवायामप्रमोहे पुनः हृदि मारुतदूषिते रसास्तित्तिर्यादिजाः| स्नेहाद्याः-बहुस्नेहाः, हिताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विषयान्तरभेषजमाह-सद्रवायामप्रमोहे त्विति|
Adhikarana सद्रवायामप्रमोहे बलातैलादिस्नेहचतुष्कम् (३८-३९) · Śloka ३९
| बलातैलं सहृद्रोगः पिबेद्वा सुकुमारकम्||३८|| यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्| |३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सहृद्रोगो नरो बलातैलं पिबेत्| सुकुमारकं वा-प्रमेहोक्तं घृतं, यष्ट्याह्वं च तच्छतपाकं च यष्ट्याह्वशतपाकं-शतकृत्वः पक्वं तत्तैलं वातशोणितोक्तं (हृ.चि.अ.२२/४१) पिबेत्| महासेन्हं तथोत्तमं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- स्नेहचतुष्कमाह-बलातैलमिति| बलातैलंशारीरके गर्भव्यापद्युक्तम् (हृ. शा.अ. २/४७) , वातरक्तोक्तं वा बलाकषायकल्काभ्यां शतं सहस्रं वा वाराभ्यक्तम् (हृ. चि. अ. २२/४५)| सुकुमारकं-वृद्ध्युक्तं घृतैरण्डतैलयमकम् (हृ. चि. अ. १३/४१) , तैलमेव वा तन्त्रान्तरोक्तराजयक्ष्मणि सङ्गृहीतम्| यष्ट्याह्वशतपाकं-यष्टीमधुकल्ककषायाभ्यां शतं वारान् पक्वम्| उत्तमं महास्नेहं-वातव्याध्युक्तमपन्त्रके (हृ. चि. अ. २१/२८)|
Adhikarana सद्रवायामप्रमोहे रास्नादिमहास्नेहः (३९-४१) · Śloka ४१
तदेव चाह | रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः||३९|| भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्| दधिपादं तथाम्लैश्च लाभतः स निषेवितः||४०|| तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः| |४१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रास्नादिभिः कल्कीकृतैर्महास्नेहं दधिपादं विपाचयेत्| दधिपादं च दघ्नः पादः-चतुर्थभागप्रमाणो, यस्मिंस्तथाभूतम्| तथा, अम्लैः-काञ्जिकादिभिः, लाभतो-यथालाभम्| अनयैव कल्पनया सः-महास्नेहो, निषेवितस्तर्पणो बृंहणो बल्यो वातहृद्रोगघ्नश्च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- महास्नेहान्तरमाह-रास्नाजीवकेति| दधिपादं-पादांशेन दध्ना युक्तम्|
Adhikarana दीप्तेऽन्गौ क्षीरादि हितम् (४१-४२) · Śloka ४२
| दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम्||४१|| क्षीरं दधिगुडः सर्पिरौदकानूपमामिषम्| |४२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दीप्तेऽग्नौ सति वातहृद्रोगे सद्रवायामे सह द्रवेण-कम्पनेन, आयामेन च वर्तते यस्तस्मिंस्तथाभूते क्षीरादि हितम्| औदकामिषं-मत्स्यादिमांसम्, आनूपामिषं-ग्राम्यवराहादिजं मांसम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विषयान्तरभेषजमाह-दीप्तेऽग्नाविति|
Adhikarana शेषेषु हृद्रोगेष्वेतदहितम् (४२-४३) · Śloka ४३
| एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि||४२|| शेषेषु, स्तम्भजाड्यामसंयुक्तेऽपि च वातिके| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातहृद्रोगं मुक्त्वाऽन्येषु-शेषेषु, चतुर्षु हृद्रोगेष्वेतानि-क्षीरादीनि, वर्ज्यानि-न प्रयोज्यानि| न केवलमेष्वेतानि वर्ज्यानि, यावत्स्तम्भजाड्यामसंयुक्ते वातिकेऽपि हृद्रोग एतानि वर्ज्यानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- हृद्गोगान्तरे क्षीरादीनि निषेधति-एतान्येवेति|
Adhikarana सकफे हृद्रोगे विरेचनम् (४३) · Śloka ४३
| कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम्||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्मिन्-वातिके हृद्रोगे, कफानुबन्धे तु सति रूक्षोष्णां क्रियां सेवेत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सकफे वातहृद्रोगे भेषजमाह-कफानुबन्ध इति| योगरत्ने-" नागरं वा पिबेदुष्णं कषायं वह्निवर्धनम्| कासश्वासानिलहरं शूलहृद्रोगनाशनम्|| पाठां वचां यवक्षारमभयामम्लवेतसम्| दुरालभां चित्रकं च त्र्यूषणं लवणत्रयम्|| शठी पुष्करमूलं च तित्तिडीकं सदाडिमम्| मातुलुङ्ग्याश्च मूलानि सूक्ष्मचूर्णानि कारयेत्|| सुखोदकेन मद्यैर्वा चूर्णान्येतानि पाचयेत्| अर्शः शूलं सहृद्रोगं गुल्मं चापि व्यपिहति||" इति| सङ्ग्रहे (चि. अ. ८.)- "त्र्यूषणं त्रिफला पाठा मधूकं मधुकं त्रुटी| पञ्चमूलं लघु बले मेदे वृद्धिः शतावरी|| कण्डूकरी तामलकी जीवकश्चाक्षसम्मितैः| तैः पचेत्सर्पिषः प्रस्थं दध्नः प्रस्थेन माहिषात्|| युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम्| हृत्पाण्डुग्रहणीपार्श्वश्वासकासहलीमकान्||" इति|
Adhikarana पित्तजे विरेचनानन्तरं पेयादिक्रमः, पित्तजेक्षतपित्तज्वरोक्तं शोधनम्, पित्तजे कट्वीमधुककल्कः (४४-४५) · Śloka ४५
पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः| युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा||४४|| क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम्| कट्वीमधुककल्कं च पिबेत्ससितमम्भसा||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पैत्ते हृद्रोगे द्राक्षेक्षुनिर्यासादियुक्तो विरेको हृद्यः स्यात्| शुद्धे सत्यनन्तरं क्रमः पित्तहा स्यात्, स तु पेयादिकः कार्यः| क्षते पित्तज्वरे च या बहिरन्तश्च शुद्धिरुक्ता सा चात्र कार्या| कटुकीमधुककल्कं शर्करान्वितमम्भसा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्तहृद्रोगस्यौषधमाह-पैत्ते इति| विरेचःत्रिवृच्चूर्णः| विरेचकानन्तरं पेयादिक्रममाह-क्रमः शुद्धे च पित्तहेति| पित्तहा-पित्तघ्नैः कृतः| अतिदेशमाह-क्षतपित्तज्वरोक्तं चेति| परिमार्जनं-शोधनम्, बाह्यं परिषेकेण, अन्तर्विरेकेण| औषधान्तरमाह-कट्वीमधुककल्कमिति|
Adhikarana पित्तजे श्रेयस्यादिघृतम् (४६-४७) · Śloka ४७
श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः| बलाख़र्जूरकाकोलीमेदायुग्मैश्च साधितम्||४६|| सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्| |४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्रेयस्यादिभिः साधितं क्षीरान्वितं माहिषं सर्पिः पित्तहृद्रोगघ्नम्| श्रेयसी-हस्तिपिप्पली| माहिषघृतस्यात्र निर्देशः शीततमत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतमाह-श्रेयसीति| श्रेयसी-गजपिप्पली|
Adhikarana पित्तजे प्रपौण्डरीकादि, पित्तजे स्वादुवर्गकृतं घृतम्, पित्तजे अनुवासनबस्तिः (४७-४९) · Śloka ४९
| प्रपौण्डरीकमधुकबिसग्रन्थिकसेरुकाः||४७|| सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेद्घृतम्| शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्||४८|| बस्तिं च दद्यात्सक्षौद्रं तैलं मधुकसाधितम्| |४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रपौण्डरीकादिभिः क्षीरयुतं पक्वं घृतं शीतीभुतं सन्माक्षिकोपेतं तच्चेष्टमत्र रोगे| स्वादुवर्गेण-द्राक्षादिना, यच्च कृतं तच्च हितम्| तथा, बस्तिं मधुकसाधितं-मधुकेन पक्वं, माक्षिकान्वितं दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- घृतान्तरमाह-प्रपौण्डरीकेति| शैवलः-शैवालः| घृतान्तरमाह-स्वादुवर्गकृतं च यदिति| स्वादुवर्गोरसस्कन्धेषूक्तः (हृ. सू. अ. १०/२२)| बस्तिमाह-बस्तिं चेति-अनुवासनम्| वङ्गसेने(हृदयरोगा. श्लो. १८)- " अर्जुनस्य त्वचा सिद्धं क्षीरं योज्यं हृदामये| सितया पञ्चमूल्या वा बलया मधुकेन वा|| स्थिरादिकल्कवत्सर्पिः क्षीरेणेक्षुरसेन वा| द्राक्षारसेन वा पक्वं पित्तहृद्रोगनाशनम्||" इति|
Adhikarana पित्तजे पिचुमन्दादिना वमनम्,पित्तजे कुलत्थादि अन्नपानम् (४९-५०) · Śloka ५०
| कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा||४९|| कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः| |५०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफोद्भवे हृद्रोगे स्विन्नो निम्बवचाभ्यां क्वथितेन जलेन वमेत् कुलत्थजाङ्गलादिरस(लरसादि)भुक्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफहृद्रोगौषधमाह-कफोद्भव इति|
Adhikarana पित्तजे वचादिचूर्णम्, पित्तजे पुष्करादिचूर्णम्, पित्तजे अभयादिक्वाथः (५०-५२) · Śloka ५२
| पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्||५०|| सैलायवानककणायवक्षारात्सुख़ाम्बुना| फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा||५१|| पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्| क्वाथं तथाऽभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्||५२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चूर्णं वचादिभ्य उष्णोदकेन पिबेत्| यवानको-यवानीभेदः| तथा, फलधान्याम्लदिभिर्वैकतरेण(मेन)पिबेत्| तथा, पुष्करादेश्चूर्णं पूर्वोक्तैरुष्णा(म्ब्वा)दिभिः पिबेत्| तथा, हरीतक्यादेः क्वाथं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- चूर्णमाह-पिबेच्चूर्णमिति| सशब्दः सहार्थे| यवानकः-अजमोदा| फलाम्लं धान्याम्लं च| षण्णां द्रवाणां प्रकृत्यादिवशाद्विषय[वि]भागः| क्वाथमाह-पुष्कराह्वेति| क्वाथान्तरमाह-तथेति| माद्री-अतिविषा| पीरद्रुः-दार्वी|
Adhikarana पित्तजे रोहितकादिलेहः (५३-५४) · Śloka ५४
क्वाथे रोहितकाश्वत्थख़दिरोदुम्बरार्जुने| सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः||५३|| सुख़ोदकानुपानश्च लेहः कफविकारहा| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोहितकादीनां क्वाथे त्रिकटुत्रिवृच्चूर्णयुते कृतो लेह उष्णोदकानुपानः कफविकारहा| अर्शश्चिकित्सितोक्तं (हृ.चि.अ.८/१०४)-"तुलां दिव्याम्भसि पचेत्" इति प्रमाणानुसारेण परिमाणमत्र निरूपितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- लेहमाह-क्वाथ इति| रोहितकादीनां सप्तानां क्वाथः| तस्य पुनः पाकाद्घनीभावसमये चूर्णप्रक्षेपः|
Adhikarana पित्तजे श्लेष्मगुल्मोक्तघृतादीनि, पित्तजे शिलाह्वादिरसायनानि (५४-५५) · Śloka ५५
| श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्||५४|| प्रयोजयेच्छिलाह्वं वा ब्राह्मं वाऽत्र रसायनम्| तथाऽऽमलकलेहं वा प्राशं वाऽगस्त्यनिर्मितम्||५५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफहृद्रोगे, श्लेष्मगुल्मे यानि गदितान्याज्यानि-सर्पीषि, तत्रैवोक्तान् क्षारांश्च नानाविधांस्तान् पिबेत्| शिलाजतु प्रयोजयेत्| वा ब्राह्मं रसायनं-रसायनाध्यायोक्तम् (हृ.उ.अ.३९/१५)| तथा, आमलकलेहं वा-रसायनोक्तमेव च्यवनप्राशाख़्यम् (हृ.उ.अ.३९/३३)| अथवा, प्राशं-लेहं, अगस्त्यनिर्मितं कासचिकित्सितोक्तं (हृ.चि.अ.३/१२७), प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अतिदिशति-श्लेष्मगुल्मोदिताज्यानीति| शिलाह्वं-शिलाजतुरसायनम् (हृ. उ. अ. ३९/१३७) , ब्राह्यंएकाशनम् (हृ. उ. अ. ३९|१५) , आमलकलेहं-च्यवनप्राशम् (हृ. उ. अ. ३९/३३) , एतानि रसायनोक्तानि| अगस्त्यनिर्मितं-कासोक्तम् (हृ. चि. अ. ३|१२७)| वङ्गसेने (ह्रुदयरोगा. श्लो. २८)- " सूक्ष्मैला मागधीमूलं प्रलीढं हविषा सह| नाशयत्याशु हृद्रोगं गुल्मानपि विशेषतः|| फलतैलं विदध्याच्च बस्तौ बस्तिविशारदः| 'फलैरष्टगुणेऽथाम्ले सिद्धमन्यासनं कफे (?)|' इत्युक्तं फलतैलम्| 'हिङ्गूग्रगन्धाबिडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम्| पिबेत्ससौवर्चलपुष्कराह्वं यवाम्भसा शूलहृदामयघ्नम्|| दशमूलकषायं तु लवणक्षारयोजितम्| कासं श्वासं सहृद्रोगं गुल्मशूलं च नाशयेत्|| घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये| हृद्रोगजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिजीविनस्ते|| पुटदग्धहरिणशृङ्गं पिष्टं गव्येन सर्पिषापिबतः| हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि|| तैलाज्यगुडविपक्वं चूर्णं [ गोधूमपार्थजं वाऽपि| पिबति पयसा स भवेज्जितसकलहृदामयः पुरुषः|| गोधूमककुभचूर्णं ] छागपयोगव्यसर्पिषा युक्तम्| मधुशर्करासमेतं शमयति हृद्रोगमुद्धतं पुंसाम्|| मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत्| हृद्रोगशासकासघ्नं ककुभस्य च वल्कलम्| रसायनं परं बल्यं वातजिन्मासयोजितम्| संवत्सरप्रयोगेणजीवेद्वर्षशततत्रयम्|| पार्थस्य कल्कस्वरसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु| घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुकल्कपादम्| हृद्रोगशूलक्षतरक्तपित्तकासानिलासृशमयत्युदीर्णम्||" इति|
Adhikarana शूलचिकित्सा, अजीर्णशूलस्य औषधम् (५६-५७) · Śloka ५७
स्याच्छूलं यस्य भुक्तेऽति, जीर्यत्यल्पं, जरां गते| शाम्येत्स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः||५६|| सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्| |५७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्य-पुंसो, भुक्ते-तत्काल एव, अति शूलं स्यात्| जीर्यत्यन्ने-मध्यमायां पाकावस्थायां, अल्पं शूलं स्यात्| जरां गते-किट्टसारतया परिणतेऽन्ने, तु शाम्येत्| सः-नरः, कुष्ठादिभिश्चूर्णमुष्णाम्बुना पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ प्रसङ्गाच्छूलप्रकरणम्| शूलं चतुर्धा,-अजीर्णेऽन्ने जीर्यति जीर्णे सर्वदा चेति| तत्राजीर्णशूलस्यौषधमाह-स्याच्छूलमिति| ]
Adhikarana जीर्णशूलस्य औषधम्, जीर्यच्छूलस्य औषधम् (५७-५८) · Śloka ५८
| यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः, फलैःपुनः||५७|| जीर्यत्यन्ने, तथा मूलैस्तीक्ष्णैः शूले सदाऽधिके| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्य-पुंसो, जीर्णे सत्यधिकं शूलं भवेत्, स स्नेहैः-विरेचनद्रव्यसिद्धैः, विरेचनीयः| जीर्यत्यन्ने-पच्यमानावस्थायां, अधिकं शूले सति फलैर्विरेच्यः| तथा च मुनिः(?)-"मृद्वीकाऽथ विडङ्गानि ख़र्जूराणि परूषकम्| आरग्वधोऽथामलकं हरीतक्यो बिभीतकम्|| कम्पिल्लकोपचित्रे च त्रपुसं च मुकूलकम्| नीलिका कुवलं पीलु भवेत्फलविरेचनम्||" इति| यस्य पुनः सदाऽधिकमेव शूलं-केवलं न भुक्तमात्रे जीर्णे जीर्यति वा, सः-पुरुषो, मूलैस्तीक्ष्णैः-मूलविरेचनैर्दन्तीत्रिवृच्छ्यामासप्तलादिद्रव्यैः समन्वितैः, विरेच्यः| तथा चोक्तम्-"सप्तलाशङ्ख़िनीदन्तीद्रवन्तीगिरिकर्णिकाः| त्रिवृच्छ्यामोदकीर्या च प्रकीर्या क्षीरिणी तथा|| छगलाण्डी गवाक्षी च कुचाक्षी गिरिकर्णिका| मसूरविदला चैव भवेन्मूलविरेचनम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- जीर्णशूलस्यौषधमाह-यस्येति| स्नेहैः-एरण्डतैलादिभिः| जीर्यच्छूलस्यौषधमाह-फलैः पुनर्जीर्यत्यन्न इति| फलैः-आरग्वधादिभिः| सर्वदा शूलस्यौषधमाह-तथेति| मूलैः-श्यामादिभिः| तन्त्रान्तरे शूलप्रकरणं च स्मृतम्| तत्र वङ्गसेने (शूलरोगाधिकारे श्लो. १)- "दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्| सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः|| व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्| कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात्|| कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात्| विट्शुक्रमूत्रानिलवेगरोधच्छोकोपवासादतिभाष्यहास्यात्|| वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे| जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम्|| मुहुर्मुहुश्चोपशमप्रकोपौ विड्वातसंस्तम्भनतोदभेदैः| संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति|| क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुल्त्थयूषैः| कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः|| ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम्| तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमदोषयुक्तम्|| मध्यंदिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च| शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च|| आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः| अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम्|| हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः| भुक्ते सदैव रुजं कुरुतेऽतिमात्रं सूर्योदये च शिशिरे कुसुमागमे च|| [द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम्|] सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम्| सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः|| आटोपह्रुल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः| कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति|| बस्तौ हृत्कण्ठपार्श्वेषु स शूलः कफवातिकः| कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः| दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः|| एकदोषोत्थितः साध्यः कृच्छ्रसाध्योद्विदोषजः| सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः|| निगृह्य मारुतं श्लेष्मा कुक्षिपार्श्वे व्यवस्थितः| साध्माटोपामसंरुद्धः सूचीभिरिव निस्तुदन्|| उच्छ्वसित्यथ वक्त्रेण न चान्नमभिनन्दति| न च निद्रामुपैत्येष पार्श्वशूलः प्रकीर्तितः|| प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः| तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यति|| उच्छ्वास्यानीतशकृता शूलेनाहन्यते मृदुः|| नैवासने न शयने तिष्ठन् वा लभते सुखम्|| कुक्षिशूल इति ख्यातो वातादामसमुद्भवात्|| कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः| हृदिस्थः कुरुते शूलमुच्छ्वासारोधनं परम्| हृच्छूल इति स ख्यातो रसमारुतसम्भवः|| संरोधात्कुपितो वायुर्बस्तिं संश्रित्य तिष्ठति| बस्तिवङ्क्षणनाडीषु ततः शूलोऽस्य जायते| विण्मूत्रवातसंरोधी बस्तिशूलः स संज्ञितः|| नाभ्यां वङ्क्षणयोश्चैव कुक्षौ मेढ्रेऽनुवर्तकः| मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात्|| वायुः प्रकुपितोयस्य रूक्षाहारस्य देहिनः| वातं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम्|| शूलं सञ्जनयेच्छीघ्रं स्त्रोत आवृत्य मारुतः| दक्षिणं यदि वा वामं कुक्षिमादाय जायते|| सर्वत्र वर्धते क्षिप्रं [भ्रमनिःश्वासघोषवत्| पिपासा वर्धतेऽतीव भ्रमो मूर्च्छा च जायते|| उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति| विट्शूलमेतं जानीयाद्भिषक् परमदारुणम्|| वेदना च तृषा मूर्च्छा आनाहो गौरवारुची| कासश्वासौ च हिक्का च शूलस्योपद्रवाः स्मृताः|| स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा| कफपित्ते समावृत्य शूलकारी भवेद्बली|| भुक्ते जीर्यति यच्छूलं तदेव परिणामजम्| तस्य लक्षणमप्येतत् समासेन विधीयते|| आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः| सिग्धोष्णैः प्रशमं याति वातिकं तद्वदेद्भिषक्|| तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम्| शूलं शीतशमप्रायं पैत्तिकं तद्वदेद्भिषक्|| छर्दिहृल्लाससम्मोहस्वल्परुग्दीर्घसन्तति| कटुतिक्तोपशान्तौ च तद्विज्ञेयं कफात्मकम्|| संसृष्टलक्षणं बुद्ध्वा परिकल्पयेत्| त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्|| जीर्णे जीर्यत्यजिर्णे वा यच्छूलमुपजायते| पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा| न शमं याति नियमात्सोऽन्नद्रव उदाहृतः||"] (?)-" शृङ्गी द्वीजीरकं धान्यं वृद्धदारुकपत्रकैः| तुम्बुरूणि भद्रदारु क्षाराश्च लवणानि च|| अजमोदा तालमुली विशाला भूतिकं वचा कोशातकी पटोलं च बृहत्पत्रकगन्धकैः|| यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः| गोमूत्रत्रिफलाक्वाथे निषिक्तं लोहचूर्णितम्|| कन्दात्कटाशृङ्गबेरश्रावणीकेशराङ्गजैः| रसैः सवज्रवल्लीजैस्तस्य तालसमस्य च|| भावयित्वैकतश्चूर्णं गोमूत्रेऽष्टगुणे पचेत्| चतुर्गुणे त्रिफलजे क्वाथे वा दर्विलेपनात्|| उपयुञ्जीत मतिमान् यथादोषं यथाबलम्| ये च कुक्षिगता रोगा ग्रहणीमार्दवादयः|| अर्शांसि च प्रवृद्धानि शूलानि जठराणि च| मदोदोषामवाताश्च कफानिलभवाश्च ये|| व्याधयस्तान्निहन्त्येतद्भास्करस्तिमिरं यथा| विद्याविद्यागतं मण्डूरं सर्वरोगनुत|| यदि सकलरुजो यन्नैव योगो निहन्यात् कथमिति नियतेर्वा याददोषं विना वा| तदखिलमुनिवाक्यप्रात्पतत्वार्थरत्नो नियतममृतवाक्यो वल्लभः स्याद्गुरूणाम्|| आशुभुक्तो यवैः पिष्टमभ्रकं तत्र संस्थितम्| कन्दमाणास्थिसंहारखण्डकर्णरसैरधः| तण्डुलीयकशोणोमात्रिकमेव च|| वृश्चीवं बृहतीभङ्गं तत्क्षणात्केसराञ्जनैः| पेषणं भावनं कुर्यात् पुटं वाऽनेकशो भिषक्|| यावद्रकं तत्स्याच्छुद्धिरेवं विहायसम्| स्वर्णमाक्षिकशाणं च ध्मातनिर्वापितं जले|| त्रैफलेष्ववचूर्ण्यं वा लोहं पित्तादिकं पुनः| बृहत्पत्रक[|]रिकर्णत्रिफलावृद्धदारकैः|| माणकन्दास्थिसंहारशृङ्गबेरभवै रसैः| दशमूलीमुण्डितिकातालमूलीसमुद्भवैः| पुटितं साधु यत्नेन शुद्धिमेवमयोजयेत्| वसिरंघालमधुपर्णीमयूरकम्|| तण्डुलीयं च वर्षाभूदत्ताधश्चोर्ध्वमेव च| पाक्यं तु जीर्णमण्डूरं गोमूत्रेण दिनत्रयम्|| अन्तर्बाष्पमदघ्नं च तथा स्थाप्यं दिनत्रयम्| विचूर्णितं शुद्धिरियं लोहाकरस्य दर्शिता|| जयन्त्या वर्धमानस्य आर्द्रकस्य रसेन वा| पयस्याश्चानुपूर्व्येण मर्दनं रसशोधनम्|| गन्धाकं नवनीताख्यं कुटितं लोहभाजने| त्रिधा चण्डातपे युक्तं भृङ्गराजरसाप्लुतम्|| ततो वह्निद्रवीभूतं त्वरितं वस्त्रगालितम्| यत्नाद्भृङ्गरसे क्षित्पं पुनः शुष्कं विशुध्यति|| गगनाद्विपलं चूर्णंलोहस्य पलमात्रकम्| लोहकिट्टं पलार्धं च सर्वमेकत्र संस्थितम्|| मण्डूकपर्णीवसिनतालमूलरसैः शुभैः| वरीभृङ्गकेसराजमाणमर्णरसैस्तथा|| त्रिफलाभद्रमुस्ताभिः स्थालीपाकं विचूर्णितम्| रसगन्धकयोः कर्षं प्रत्येकं ग्राह्यमेकतः|| तन्मनाश्च शिलाखल्वे यत्नतः कज्जलीकृतम्| वचा चव्यं यवानी च जीरके शतपर्णिका|| व्योषं मुस्तं विडङ्गं च ग्रथितं खरमञ्जरी| त्रिवृता चित्रको दन्ती सूर्यावर्तः सितस्तथा|| भृङ्गमाणवकन्दाश्च खण्डकर्णक एव च| दण्डोत्पलं केसरा जकालीयकटकोऽपि वा|| एषामर्धपलं ग्राह्यं पटघृष्टं सुचूर्णितम्| प्रत्येकं त्रिफलायाश्च पलार्धं पलमेव च|| एतत्सर्वं समालोड्य लोहपात्रेषु भावयेत्| आतपे चण्डसंघृष्टमार्द्रकस्य रसैस्त्रिधा|| तद्रसेन शिलापिष्टं गुटिकां कारयेद्भिषक्| बदरास्थिमिताः शुष्कभावयेत्|| तत्प्रातर्भोजनादौ तु सेवितं गुटिकात्रयम्| अन्नोदकानुपानं च हितं मधुरसंश्रितम्|| दुग्धं च नालिकेरं च वर्जनीयं विशेषतः| भोज्यं यथेष्टमिष्टं च वारि भक्ताम्लकाञ्जिकम्|| हन्त्यम्लपित्तं प्लीहानं शूलं च परिणामजम्| पीशोथोदरगुल्मादामयान्|| यक्ष्मांअन्दाग्नित्वमरोचकम्| प्लीहानं श्वासमानाहमामवातं स्वरामयम्| गुयख्यातवो ...ंईकेसा विश्वयुतो यूषो धात्रीमुद्गादिभिः कृतः| रिर्यसर्गश्च संसेव्य कुलित्थान् स विवर्जयेत्||" इति हेमाद्रिटीकायामायुर्वेदसायने| अम्लापित्तप्रकरणं सामस्त्येन निरूपितम्|
Adhikarana रूद्धगतावनिले अनुलोमनम् (५८-५९) · Śloka ५९
| प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः||५८|| तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बाहुल्येन मारुतो रुद्धमार्ग आमाशयं(ये) गतः कुप्यति| तस्य-मरुतः, शुद्ध्यादिभिः-अवस्थावशाद्वयस्तैः समस्तैर्वा, अनुलोमनं कार्यम्|
Adhikarana कृमिजे हृद्रोगे औषधम् (५९-६०) · Śloka ६०
| कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये||५९|| इति हृद्रोगचिकित्सितम्|६०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृमिजे हृद्रोगे सर्वमेव च कृमिघ्नमौषधम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्रिमिहृद्रोगौषधमाह-क्रिमिन्धमौषधमिति| वङ्गसेने (हृदयरो. श्लो. ३९)- " क्रिमिहृद्रोगिणं स्निग्धं भोजयेत्पिशितौदनम्| दध्ना च पललोपेतं त्र्यहं, पश्चाद्विरेचयेत्|| सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः| विडङ्गगाढैर्धान्याम्लं पाययेद्धितमुत्तमम्|| हृदि स्थिताः पतन्त्येवमधस्तात्क्रिमयो नृणाम्| यवान्नं वितरेच्चास्मै सविडङ्गमतः परम्|| क्रिमिजे पिबेन्मूत्रं विडङ्गामयसंयुतम्|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| हृद्रोगस्य प्रकरणं साम्स्त्येन निरूपितम्||
Adhikarana तृष्णाचिकित्सा, सर्वासु तृष्णासु सामान्यमौषधम् (६०-६७) · Śloka ६७
अथ तृष्णाचिकित्सितम्| तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते| सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः||६०|| दिव्याम्बु शीतं सक्षौद्रं तद्वद्भोमं च तद्गुणम्| निर्वापितं तप्तलोष्टकपालसिकतादिभिः||६१|| सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्| दर्भफूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः||६२|| वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः| यवागूः शालिभिस्तद्वत्कोद्रवैश्च चिरन्तनैः||६३|| शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्| हिमाम्बुपरिषिक्तस्य पयसा ससितामधु||६४|| रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः| मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः||६५|| नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः| निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः||६६|| दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः| महासरिद्ध्रदादीनां दर्शनरुमरणानि च||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृष्णासु सर्वासु वातपित्तहरः सर्वोऽपि विधिरिष्यते| तथा, बाह्यतोऽभ्यन्तरे च शीतो विधिः| तथा, शमनं शोधनं च शस्यते| दिव्याम्बु-आन्तरिक्षं जलं, शीतं माक्षिकेण सह शस्यते| भौमं च जलं तद्गुणं-दिव्याम्बुसमानगुणं "शुचिपृथ्वसितश्चेते देशे" (हृ.सू.अ.५|५) इत्यादिलक्षणलक्षितम्, तच्च शस्यते| तस्य-दिव्यजलस्येव गुणा यस्य तत्तद्गुणम्| तप्तलोष्टककपालसिकतादिभिस्तप्तं तन्निर्वापितं-शीतीकृतं शस्यते| अथवा, तदेव समशर्करं शस्यते| अथवा, दर्भपूर्वेण-तृणाख्येन, पञ्चमूलेन क्वथितं निर्वापितं शस्यते| तथा, लाजसक्तुभिः कृतो मन्थः प्रशस्तः| तथा, आमैः-अभृष्टैः, यवैर्वाट्यः प्रशस्तः शीतीभूतः शर्करामाक्षिकयुक्तः| यवागूः शालिभिस्तथैव शर्करामाक्षिकान्विता शस्ता| तथा, चिरन्तनैः कोद्रवैः शर्करामधुयुक्ता यवागूः शस्ता| तथा, शीतेन-शीतीकृतेन द्रव्येण, शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनं हितम्| अथवा, शीतजलैः परिषिक्तस्य पुंसः पयसा सशर्करामार्द्वीकं भोजनं हितम्| अथवा न केवलं पयसा सात्म्यादिवशान्मांसरसैर्जाङ्लैः किञ्चिदम्ललवणैरृतभर्जितैर्भोजनं हितम्| तथा, मुद्गमसूरादिकानां यूषैर्जीवनीयरसयुक्तैर्भोजनं हितम्| तथा, शीतैः-शीतवीर्यैश्चन्दनादिभिः, तथेक्षुरसे सिद्धं क्षीरघृतं नस्यं हितम्| क्षीरोद्भवं घृतं क्षीरघृतम्| तथा, सूत्रस्थानोदिताः (अ.२२) निर्वापणाः-रोपणाः, गण्डूषा हिताः| तथा, दाहज्वरे य उक्ता लेपाद्याः-"दूर्वादिभिर्वा पित्तघ्नैः" (हृ.चि.अ.१/१३१) इत्यादिग्रन्थनिर्दिष्टाः, ते च हिताः| तथा, निरीहत्वं-निर्व्यापारत्वं हितम्| तथा, मनसोरतिः-निर्वृतत्वम्| तथा, महासरितां महाह्रदानां-महातडागानां, च दर्शनस्मरणानि हितानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ तृष्णाचिकित्सितम्|[तत्र सामान्यतृष्णौषधमाह]-तृष्णास्विति| तद्गुणं-दिव्यगुणम्| दर्भपूर्वेण-पञ्चसूक्तेन तृणाख्येन| आमयवैः-कोमलयवैः, कृतो वाठ्यः| शीतद्रव्यसिद्धेन शीतेन पयसा भोजनम्, पयोरसयूषाणां सात्म्यादिवशाद्व्यवस्था| क्षीरघृतं-क्षीरमन्थनोत्थं घृतम्| इक्षुरसो नस्यम्| निर्वापणाः-मधुगण्डूषादयः| निरीहत्वंनिर्व्यापारत्वम्| मनोरतिः-मनः सुखम्| सङ्ग्रहे तु (चि. अ. ८) नात्य[व]पीडनं(?)-"नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितम्|" इति| वङ्गसेने (तृषाधिकारे श्लो. २४)- "लाजोदकं मधुयुतं शीतं गुडविमर्दितम्| काश्मरीशर्करायुक्तं पिबेत्तृष्णार्दितो नरः|| भु(च)विकापिप्पलीमूलयवानीधान्यनागरैः| शृतं शीतं हितं तोयं [मुर्च्छातृट्छर्दि] दोषजित्|| शर्कराकेसरक्षौद्रकृष्णाजीरकदाडिमैः| लेहो वा तृड्जयी कृष्णाधुक्षीरिद्रुमाङ्कुरैः|| अम्लं दाडिमबीजं पीतं धात्रीफलं च धान्याम्लैः| आर्द्रपटास्तरणकृतप्रावृ गात्रस्तृषं हन्ति|| गोस्तनीक्षुरसक्षीरयष्टीमधूत्पलैः| नियतं नस्यतः पीतैस्तृष्णा शाम्यति दारुणा|| कर्णशिरोमुखलेपाच्छुक्तिकया वाऽम्लदाडिमरसेन| तर्पयति शीघ्रमेतज्जलौघवत्सैकत राशिम्|| कोलदाडीमवृक्षाम्लचुक्रीकाचुक्रिकारसः| पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति|| क्षीरेक्षुरस मार्द्वीकक्षौद्रसीधुगुडोदकैः| वृक्षाम्लाम्लैश्च गण्डूषा मुखशोषप्रणाशनाः|| दाडिमं बदरं रोध्रं कपित्थं बीजपुरकम्| पिष्ट्वा मूर्ध्नि प्रलेपस्तु पिपासादाहनाशनः|| वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्| पायद्वामयेच्चापि तेन तृष्णा प्रशाम्यति|| वटप्ररोहं मधुकुष्ठमुत्पलं सलाजचुर्णं गुटिकां प्रकल्पयेत्| सुसंहिता सा वदने विधारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम्||" इति| योगरत्ने-"मधुरैः सजीवनीयैः शीतैश्च सतिशूकैः श्रितं क्षीरं पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम्| लोहितकशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः मधुपक्वे लोष्ठमेव च जले स्थितं शीतलं पेयम्|| जम्बाम्रातकबदरीदलवेतसपञ्चवल्कपञ्चाम्लैः| हृन्मुखशिरःप्रदेहाः सघृता मूर्च्छाभ्रमातितृष्णाध्नाः|| द्राक्षेक्षूत्पलयष्ट्याद्यैः शर्करामधुयोजितैः| कषायं संपिबेच्छीतं तृष्णानाशकरं परम्|| लोष्टप्रतत्पतोयं तु शर्करामधुयोजितम्| लाक्षाचूर्णसमायुक्तं पीतं तृड्दाहनाशनम्|| जम्ब्वाम्रपल्लवोशीरैः सितावरुणकाजितैः| सपयस्कः कृतः क्वाथः सम्पीतस्तृड्विनाशनः|| रकवृक्षाम्लदाडिमाम्लोष्णवेतसैः| सशर्करैर्निहन्त्याशु लेहस्तृष्णां सुदुर्जयाम्|| सारिवालाजपिप्पलीमधुनागरैः| पयस्तृषाध्नो गण्डूषः काञ्जिकैर्मुख|| ...ंअदनमधुकं शीतमम्बु विवर्धितम्|अर्धशर्करायुक्तं पिबेत्तृष्णार्दितै|| इति|
Adhikarana वातजायां तृष्णायामौषधम् (६८) · Śloka ६८
इति तृष्णासु सामान्येन चिकित्सितमुक्तम्| विशेषेणाह तृष्णायां पवनोत्थायां सगुडं दधि शस्यते| रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पवनोत्थायां तृष्णायां दधि गुडेन सह शस्यते| मांसरसाश्च बृंहणाः शस्ताः| तथा विदार्यादिगणाम्बु "विदारिपञ्चाङ्गुल" (हृ.सू.अ.१५/९)इत्यादिभिः शृतं तोयं-पानीयं, शस्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वाततृष्णौषधमाह-तृष्णायामिति| योगरत्ने-"पञ्चाङ्गिकाः पञ्च गणा य उक्तास्तेष्वम्बु[सिद्धं प्रथमे ग] णे वा| पिबेत्सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः|| [तृष्णातिवृद्धौ] उदरे च पूर्णे संच्छर्दयेन्मागधिकोदकेन| विलेखनं चात्र हितं विधेयं स्याद्दा[डिमाम्रा] तकबीजपूरैः||" [इति|] वङ्गसेने (तृषा. श्लो. २२)-" वातघ्नमन्नपानं मृदु लघु शीतं रसो गुडूच्याश्च|" [इति|]
Adhikarana पित्तजायां औषधम् (६९-७२) · Śloka ७२
पित्ताजायां सितायुक्तः पक्वोदुम्बरजो रसः| तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा||६९|| तद्विधैश्च गणैः शीतकषायान् ससितामधून्| मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्||७०|| बीजपूरकमृद्वीकावटवेतसपल्लवान्| मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्||७१|| ज्वरोदितं वा द्राक्षादि पञ्चसाराम्बु वा पिबेत्| |७२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तोत्थायां शर्करान्वितः पक्वोदुम्बरफलजो रसः, तेषां-उदुम्बराणां वा क्वाथो हिमः, तद्वत्-सितायुक्तः, शस्यते| तथैव सारिवादिगणाम्बु-"सारिवोशीर" (हृ.सू.अ.१५|११) इत्यादि प्रशस्यते| तद्विधैः-शीतवीर्यैश्च, गणैः कृतान् शीतकषायान् ससितामाक्षिकान् पिबेत्| तथैव मधुरैः-द्राक्षादिभिर्द्रव्यैः, कल्पितान्| क्षीरिवृक्षैश्च-अश्वत्थन्यग्रोधादिभिः, कल्पितान् शीतकषायान् सशर्करामधून् पिबेत्| बीजपूरकादिपल्लवान् कुशकाशानां मूलानि मधुकं चैतज्जले शृतं पिबेत्| शीतमिति प्रकृतत्वाद्योग्यत्वाच्चात्र योज्यम्| अथवा, ज्वरचिकित्सितोक्तं [द्राक्षादि-] "द्राक्षामधूक" (हृ.चि.अ.१|५५) इत्यादिकं फाण्टं शीतकषायं [वा] पिबेत्| पञ्चसाराम्बु वा-"मधुख़र्जूरमृद्वीका" (हृ.चि.अ.२/१४) इत्यादि रक्तपित्तचिकित्सिते पठितं, पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्ततृष्णौषधमाह-पित्तजायामिति| तद्विधैः-पित्तघ्नैः| तद्वत्-ससितामधून्| क्षीरिवृक्षैश्च तद्वत्| बीजपूरपल्लवादिसप्तकं जले शृतम्| वङ्गसेने (तृषा. श्लो. १८)- "काश्मर्यं शर्करायुक्तं चन्दनोशीरधान्यकम्| द्राक्षामधूकसंयुक्तं पित्ततर्षे जलं पिबेत्|| स्याज्जीवनीयसिद्धक्षीरघृतं वातपित्तजे तर्षे| तद्वद्द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्|| जीर्णभुक्तः पिबेद्वाऽपि मधुना तण्डुलोदकम्|" [इति|]
Adhikarana कफजायां औषधम् (७२-७४) · Śloka ७४
| कफोद्भवायां वमनं निम्बप्रसववारिणा||७२|| बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्| जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्||७३|| मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्| यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्||७४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मजायां तृष्णायां निम्बपत्रपानीयेन वमनं शस्तम्| बिल्वादिभिर्जलं साधितं कफतृष्णायां पिबेत्| रजन्या-हरिद्रया, जलं सिद्धं पिबेत्| सक्षौद्रशर्करं कफतृष्णायां मुद्गयूषं च त्रिकटुपटोलनिम्बपल्लवान्वितं पिबेत्| यवान्नं तीक्ष्णकवलं तीक्ष्णनस्यं तीक्ष्णलेहं च शीलयेत्| शिम्बीधान्यम्| कच्छकः-तुमु(तूणी)कः| वङ्गसेने (तृषा-श्लो.२२)-"बिल्वाढकीधातकीपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति| "इति| योगरत्ने-"बिल्वाढकी[कन्यक] पञ्चमूलदर्भेषु सिद्धं कफजां निहन्ति|" इति| कच्छक(धातकि)-पञ्चकोलयोः स्थाने लघु [पञ्चमूलम्]| वङ्गसेने(तृषा. श्लो.२३)-"सजीरकाण्यार्द्रकशृङ्गबेरसौवर्चलान्यर्धजलप्लुतानि| मद्यानि हृद्यानि च गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफतृष्णौषधमाह-कफोद्भवायामिति| आढकी|
Adhikarana सन्निपातजायां औषधम्,आम्रजायां औषधम् (७५) · Śloka ७५
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा| त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः||७५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वैरामाच्च तृष्णायां सत्यां तद्धन्त्री सन्निपातघ्न्यामघ्नी च क्रियेष्टा| तथा च वमनमिष्टम्| त्र्यूषणारुष्करवचादियुक्तेन फलाम्लेनोष्णजलेन वा मस्तुना वा इष्टम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सन्निपातजौषधमाह-सर्वैरिति| तद्धन्त्री-सर्वदोषहन्त्री आमहन्त्री च| त्र्यूषणादिभिर्वमनम्| फलाम्लंमातुलुङ्गाद्यम्लम्| मदनफलं वमनत्वालुब्जम् (?)|
Adhikarana उपवासजायां औषधम् (७६) · Śloka ७६
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्| |७६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नात्ययात्-अन्नविरहात्, तृष्णायां सत्यां मण्डमुष्णं शीतं मन्थं च कालप्रकृतिसात्म्यादिवित् पिबेत्| वातकफप्रकृतिना उष्णो मण्डः पेयः| पित्तश्लेष्मप्रकृतिना वातपित्तप्रकृतिना च हिमो मन्थः पेयः| एवं कालसात्म्यादिषु निरुप्यम्| "सक्तवः सर्पिषाऽभ्यक्ताः शीतोदकपरिप्लुताः| नातिद्रवा नाति सान्द्रा मन्थ इत्यभिधीयते||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उपवासजौषधमाह-अन्नात्ययादिति| उष्णं मण्डं शीतकाले| शीतं मन्थमुष्णकाले| अत एव कालविदित्युक्तम्|
Adhikarana श्रमजायां औषधम् (७६) · Śloka ७६
| तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्||७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्रमात्तृषि जातायां मांसरसं मद्यं वा सशर्करं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- श्रमजौषधमाह-तृषि श्रमादिति|
Adhikarana आतपजायां तृष्णायामौ (७७) · Śloka ७७
आतपात्ससितं मन्थं यवकोलजसक्तुभिः| सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः||७७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आतपात्तृषि यवकोलोद्भवैः सक्तुभिः सशर्करं मन्थं पिबेत्| सर्वाणि चाङ्गानि तिलपिण्याककाञ्जिकैर्लिम्पेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- आतपजौषधमाह=आतपादिति| कोलजाः-शुष्कबदरत्वगुद्भवाः| तिलग्रहणं पिण्याकेन विकल्पार्थम्|
Adhikarana शीतस्नानजायां तृष्णायामौ (७८) · Śloka ७८
शीतस्नानाच्च मद्याम्बु पिबेत्तृण्मान् गुडाम्बु वा| |७८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीतस्नानाच्च तृण्मान् मद्याम्बु पिबेत्| तृण्मानिति मतुपि मय इति णत्वे रूपम्| गुडजलं वा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उष्णाक्लान्तस्ये (नि. अ. ५/५५)त्युक्ततृष्णौषधमाह-शीतस्नानात्त्विति|
Adhikarana मद्यजायां तृष्णायामौ (७८) · Śloka ७८
| मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्||७८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मद्यात्तृण्मानर्धजलं मद्यं स्नातश्चाम्ललवणाभ्यां युतं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मद्यजौषधमाह-मद्यादिति| आयुतं-युक्तम्|
Adhikarana स्नेहतीक्ष्णाग्निजायां तृष्णायामौ (७९) · Śloka ७९
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्| |७९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नेहेन तीक्ष्णतरोऽग्निर्यस्य स नरस्तृण्मान्निसर्गशीतलं जलं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तीक्ष्णाग्नेः स्नेहजे (नि. अ. ५/५६) त्युक्ततृष्णौषधमाह-स्नेहतीक्ष्णतराग्निस्त्विति|
Adhikarana अजीर्णस्नेहजायां तृष्णायामौ (७९) · Śloka ७९
| स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः||७९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नेहात् पुनरजीर्णात् पिपासित उष्णाम्बु वा पिबेत्| जीर्णात्तु स्नेहत्तृषि मण्डं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अजीर्णस्नेहजौषधमाह-स्नेहादिति| जीर्णस्नेहजौषधमाह-जीर्णादिति| अतीक्ष्णग्निविषयमिदं भेदद्वयम्|
Adhikarana स्निग्धान्नजायां तृष्णायामौ (८०) · Śloka ८०
पिबेत्स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्| |८०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्निग्धान्नेन भुक्तेन तृषितो हिमस्पर्धि-तुहिनशीतलं, गुडोदकं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- स्निग्धान्नजौषधमाह-पिबेदिति| हिमस्पर्धि-_|
Adhikarana गुर्वाद्यन्नजायां तृष्णायामौ (८०) · Śloka ८०
| गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिख़ेत्||८०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुर्वाद्यन्नेन भुक्तेन तृषितः पीत्वोष्णाम्बु तत्-गुर्वाद्यन्नं, उद्वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गुर्वादिभोजनजौषधमाह-गुर्वाद्यन्नेनेति|
Adhikarana रसक्षयजायां तृष्णायामौ (८१) · Śloka ८१
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्| |८१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षयजायां तृषि क्षये हितं यद् बृंहणमौषधं तत्सर्वं हितं-शस्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रसक्षयजौषधमाह-क्षयजायामिति| क्षयहितं-राजयक्ष्महितम्|
Adhikarana कृशादिजायां तृष्णायामौषधम् (८१) · Śloka ८१
| कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा||८१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृशादीनां तृषि जातायं क्षीरं हितम्| अथवा छागो रसो हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कृशादीनां विशेषमाह-कृशदुर्बलरूक्षाणामिति|
Adhikarana सोर्ध्ववातायां तृष्णायामौषधम् (८२) · Śloka ८२
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्| |८२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सोर्ध्ववातायां तृषि क्षयकासहरैः शृतं क्षीरं हितम्| चशब्दान्मांसरसश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सोर्ध्ववातायां विशेषमाह-क्षीरं चेति|
Adhikarana रोगोपसर्गजायां तृष्णायामौषधम् (८२-८३) · Śloka ८३
| रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु||८२|| पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया| |८३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोगोपसर्गाज्जातायां तृषि धान्याम्बु ससितामाक्षिकं पाने प्रशस्तम्| सर्वा च क्रिया रोगाद्यपेक्षया शस्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रोगापसर्गजौषधमाह-रोगोपसर्गजातायामिति| धान्यं-कुस्तुम्बरी| वङ्गसेने (तृषा. श्लो. ३७)- " क्षतोद्भवां रूग्विनिवारणेन जयेद्रसानामसृजश्च पानैः| क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुकोदकं वा||" इति|
Adhikarana पूर्वामयक्षीणजायां त्वरितं औषधम् (६) · Śloka ६
| तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि||८३|| मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः| सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा||८४|| तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्| ८४ १/२| इति तृष्णारोगचिकित्सितम्| इति श्रिवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्वामयेन क्षीणः सन् तृष्णक्-पिपासितो, यदि जलं न लभेत तदा मरणं दीर्घरोगं वा प्राप्नुयात्| ततश्च हेतोस्त्वरितं-शीघ्रतरं, तस्य-नरस्य, पूर्वमन्येभ्यो रोगेभ्यः सात्म्यान्न पानभेषजैस्तृषं जयेत्, ततोऽपरं रोगम्| किमेवं क्रियते ? इत्याह-तस्यां तृषि जितायां सत्यामन्योऽपि रोग उपक्रमितुं शक्यः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः समाप्तः|| ६||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रोगाद्यापेक्षयेत्यस्यामाह-तृष्यन्निति| रोगविरोधेऽपि जलं देयमित्यर्थः| उपद्रवरूपाया अप्युपसर्गजायाः (?) प्राधान्यमाहत्वरितमिति| सात्म्यग्रहणं यद्युपशेते तत्तद्युक्तिनिरपेक्षमपि देयमित्येवमर्थः| वङ्गसेने (तृषा. श्लो. ४१)- "मूर्च्छाच्छर्दितृषादाहस्त्रीमद्यभृशकर्शिताः| पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये|| तृषितो मोहमायाति मोहात्प्राणान् विमुञ्जति| तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते|| अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम्| तोयाभावात्पिपासार्तः क्षणात्प्राणैर्विमुच्यते||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| तृष्णारोगप्रशमनं सामस्त्येन निरूपितम्||