Adhikarana १ (१-२) · Śloka २
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
शकुनीप्रतिषेधानन्तरं रेवत्यामपि मुखपाकवचनात् सव्रणत्वेनैकधर्मत्वाच्च रेवतीप्रतिषेधाध्यायो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana २ (३) · Śloka ३
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा |
सहे तथा विदारी च कषायाः सेचने हिताः ||३||
Show commentary
अश्वगन्धेत्यादि| अजशृङ्गी कर्कटशृङ्गी, उत्तमारणीत्यन्ये| सहे मुद्गमाषपर्ण्यौ| सेचने हिताः प्रत्येकं समुदिताश्च||३||
Adhikarana ३ (४) · Śloka ४
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च |
पलङ्कषायां नलदे तथा गिरिकदम्बके ||४||
Show commentary
तैलमित्यादि| सर्जरसो रालः, पलङ्कषा गुग्गुलुः, नलदं जटामांसी, गिरिः गिरिकर्णिका; अन्ये गिरिकदम्बो महाकदम्बः स्वनामख्यातः; एतैः कुष्ठादिभिः कल्कीकृतैस्तैलं कार्यम्||४||
Adhikarana ४ (५) · Śloka ५
धवाश्वकर्णककुभधातकीतिन्दुकीषु च |
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ||५||
Show commentary
धवेत्यादि| अश्वकर्णो गर्दभाण्डः, ककुभः अर्जुनः| तत्र धवादिकषाये काकोल्यादिकल्के च पानीयं सर्पिः पातव्यं घृतमिष्यते| अन्ये तु काकोल्यादिगणेनैव पानीयं घृतमिच्छन्ति, धवाश्वकर्णादीनि पश्चात्तैले सम्बन्धन्ति||५||
Adhikarana ५ (६-८) · Śloka ९
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः |
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ||६||
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः |
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ||७||
सततं धारयेच्चापि कृतं वा पौत्रजीविकम् |
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ||८||
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना |९|
Show commentary
कुलत्था इत्यादि| शङ्खचूर्णं सुदग्धशङ्खचूर्णम्| सर्वगन्धा एलादिकाः, तैः कृतो लेपः सार्वगन्धिकः| गृध्रेत्यादि| यवाः प्रसिद्धाः, यवफलो वंशः, अन्ये यवफला दुग्धिकेत्याहुः| वरुणारिष्टकमयं वरुणनिम्बकाष्ठघटितं, रुचकं ग्रीवाभरणं मणिकसञ्ज्ञं धारयेत्| ब्रह्मदेवस्त्वरिष्टं फेनिलमाह| सैन्दुकमिति सिन्दुको निर्गुण्डी, तत्काष्ठकृतं रुचकं; तत्फलकृतमित्यन्ये| पुत्रञ्जीवो मध्यवर्तुलतीक्ष्णाग्रफलो जम्बीरपत्रो वृक्षस्तत्काष्ठकृतं रुचकं, तत्फलकृतमित्यन्ये| केचिदत्रारग्वधं पठन्ति| शुक्लेत्यादि शुक्लाः सुमनसः श्वेतकुसुमानि| निवेद्यो दातव्यः| गोतीर्थे सलिलगोपथे| प्रयतात्मना उपवासादिपवित्रेण| तदुक्तं,- “सोपवासः शुचिर्नक्तं सशस्त्रो निर्हरेद्बलिम्” इति||६-८||-
Adhikarana ६ (९-११) · Śloka ११
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ||९||
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना |
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ||१०||
उपासते यां सततं देव्यो विविधभूषणाः |
लम्बा कराला विनता तथैव बहुपुत्रिका |
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ||११||
Show commentary
सङ्गम इत्यादि| सङ्गमे नदीद्वयमेलके| रक्षामन्त्रमाह- नानेत्यादि| अपरा देव्यो विविधभूषणा यां रेवतीमुपासते सेवन्ते सा देवी भो बालक ते तव प्रसादं करोतु लोके प्रसादकरा भवतु| रेवती शुष्कनामा शुष्करेवतीत्यर्थः||९-११||
Adhikarana पुष्पिका · Śloka ३१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) एकत्रिंशोऽध्यायः ||३१||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे रेवतीप्रतिषेधो नामैकत्रिंशत्तमोऽध्यायः||३१||