Skip to content

. शुक्रशोणितशुद्धिशारीरम्

Adhikarana १ (१-२) · Śloka

अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Hide commentary

सर्वभूतचिन्ताशारीरे ‘शुक्रशोणितयोः सन्निपातेष्वभिव्यज्यन्ते’ (शा.१) इति यदुक्तं तत्र शुक्रशोणितयोः शुद्धयोरेव सन्निपातेषु क्षेत्रज्ञा अभिव्यज्यन्तेऽतस्तयोः शुद्धिं प्रतिपादयितुकामः प्राह- अथात इत्यादि| शोणितशब्दोऽत्रार्तवशोणिते वर्तते, शुद्धिर्दुष्टदोषासम्पर्कता||१-२||

Adhikarana २ (३) · Śloka

वात-पित्त-श्लेष्म-कुणप -ग्रन्थि-पूतिपूय-क्षीण-मूत्रपुरीषरेतसः प्रजोत्पादने न समर्था भवन्ति ||३||

🔊 Audio coming soon

Hide commentary

सा च शुद्धिर्वातादिदुष्टशुक्रस्येति वातादिभिः पृथक्समुदितैर्दुष्टशुक्रतामाह- वातेत्यादि| एवम्भूतरेतसः पुरुषा गर्भोत्पत्तौ न क्षमा भवन्तीति पिण्डार्थः||३||

Adhikarana ३ (४) · Śloka

तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पित्तेन, श्लेष्मवर्णवेदनं श्लेष्मणा, कुणपगन्ध्यनल्पं च रक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां, पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां, मूत्रपुरीषगन्धि सन्निपातेनेति | तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः, मूत्रपुरीषरेतसस्त्वसाध्या इति ||४||

🔊 Audio coming soon

Hide commentary

तेष्वित्यादि| तेषु वातादिषु दुष्टेषु मध्ये वातेन यच्छुक्रं दूषितं तद्वातवर्णवेदनं भवति| तत्र वातवर्णा अरुणकृष्णादयः; यद्यप्यव्यक्तस्य वायोर्वर्णासम्भवः, तथाऽपि वातदुष्टे दूष्येऽरुणकृष्णौ वातेन वर्णौ भवत इत्यदोषः| वातवेदनास्तोदभेदादयः ; ननु, कथमेकस्माद्वायोरनेकवेदनाविशेषास्तोदादयः? सत्यं, बहुकारणप्रकोपात्तस्येति| गन्धस्तु वायोर्नास्त्येव| पित्तेन यच्छुक्रं दूषितं तत् पित्तवर्णवेदनं भवति; पित्तवर्णाः पीतनीलादयः, पित्तवेदना ओषचोषादयः; पित्तदुष्टे शुक्रेऽनुक्तोऽपि गन्धः कुणपे पूतिपूयाभे च वक्ष्यमाणो द्रष्टव्यः| श्लेष्मणा यच्छुक्रं दूषितं तत् श्लेष्मवर्णवेदनं भवति; श्लेष्मवर्णः शुक्लः , श्लेष्मवेदनाः कण्ड्वादयः, गन्धस्त्वनुक्तोऽपि विस्रो द्रष्टव्यः| रक्तेन यच्छुक्रं दूषितं तत् कुणपगन्ध्यनल्पं च भवति, चकाराच्छोणितवर्णं पित्तवेदनं च; कुणपं शवस्तस्येव गन्धोऽस्येति कुणपगन्धि; अनल्पं बहुलम्; अत्र रक्तेनेति व्यपदेशो घृततैलदग्धवत्, (अग्निदग्धघृततैलाभ्यां दग्धं द्रव्यं घृततैलदग्धमित्युच्यते न त्वग्निना दग्धमिति, तथाऽत्रापि वातादिदूषितरक्तेन दुष्टं रक्तदूषितमिति व्यपदेशः ,) यतो रक्तस्यापि दोषा एव दूषयितारः| श्लेष्मवाताभ्यां यच्छुक्रं दूषितं तद्ग्रन्थिभूतं ग्रन्थिसदृशं ग्रन्थिलं भवतीत्यर्थः| पित्तश्लेष्मभ्यां यद्दूषितं तत् शटितपूयसदृशं भवति| क्षीणं पित्तमारूताभ्यां भवति, तस्य लक्षणं प्राग्दोषधातुमलक्षयवृद्धिविज्ञानीये (सू.१५) उक्तम्| ग्रन्थ्यादयस्तु ये द्विदोषजास्ते द्विदोषवर्णवेदना बोद्धव्याः| सन्निपातेन यच्छुक्रं दूषितं तन्मूत्रपुरीषगन्धि भवति| तेषां कृच्छ्रसाध्यासाध्यभेदं दर्शयन्नाह- तेष्वित्यादि| तेषु मध्ये कुणपादयश्चत्वारः कृच्छ्रसाध्याः, मूत्रपुरीषगन्धिरन्तिमोऽसाध्यः, शेषा अर्थत एव साध्याः||४||

Adhikarana ४ (५) · Śloka

आर्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति; तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् | तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं , साध्यमन्यच्चेति ||५||

🔊 Audio coming soon

Hide commentary

इदानीं शुक्रविषयं प्रतिपाद्य, आर्तवशोणितविषयमपि प्रतिपादयितुमाह- आर्तवमित्यादि| आर्तवमपि यदा पृथग्दोषैः शोणितचतुर्थैर्द्वन्द्वैः समस्तैश्चोपसंसृष्टं तदाऽबीजं भवतीत्यर्थपिण्डः| तस्य विज्ञानोपायं दर्शयन्नाह- तदपीत्यादि| तदपीति आर्तवमपि| दोषवर्णवेदनाभिः शुक्रदोषे व्याख्याताभिः| तेषां साध्यासाध्यमेदं दर्शयन्नाह- तेष्वित्यादि| मूत्रपुरीषप्रकाशमिति गन्धवर्णादिभिर्मूत्रपुरीषतुल्यम्| साध्यमन्यच्चेति एकैकदोषजनितत्रयम्| शुक्रार्तवदोषा याप्या न भवन्ति, व्याधिस्वभावात्||५||

Adhikarana ५ (६-१०) · Śloka ११

भवन्ति चात्र- तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत् | क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः ||६|| पाययेत नरं सर्पिर्भिषक् कुणपरेतसि | धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ||७|| पाययेदथवा सर्पिः शालसारादिसाधितम् | ग्रन्थिभूते शटीसिद्धं पालाशे वाऽपि भस्मनि ||८|| परूषकवटादिभ्यां पूयप्रख्ये च साधितम् | प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि ||९|| विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः | स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् ||१०|| योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना |११|

🔊 Audio coming soon

Hide commentary

इदानीं शुक्रदोषाणां चिकित्सामाह- भवन्तीत्यादि| तेषु शुक्रदोषेषु मध्ये, आद्यांस्त्रीञ् शुक्रदोषान् स्नेहस्वेदादिभिः क्रियाविशेषैर्जयेदिति सम्बन्धः| आदिग्रहणाद्वमनविरेचननिरूहानुवासनोत्तरबस्तयो यथादोषं शमनानि चावगन्तव्यानि| पुनरुत्तरबस्तिकथनं क्रियासु प्राधान्यसूचनार्थम्| पाययेतेत्यादि| धातक्यादेः कल्ककषायाभ्यां साधितम्| सालसारादिसाधितमित्यत्रापि कल्ककषायाभ्यामेव| ग्रन्थीत्यादि| शटीसिद्धमिति शट्याः कल्ककषायाभ्यां सिद्धम्| पालाशे वेत्यादि पलाशभस्माढकं षड्भिः सलिलाढकैः क्वथितं पादशेषं सप्तकृत्वः परिस्रुतमाढकशेषं प्रस्थघृतपाकाय प्रयोज्यम्| परूषकवटादिभ्यामित्यादि| परूषकवटादिभ्यामिति परूषकादिन्यग्रोधादिगणाभ्यामित्यर्थः| प्रागुक्तमित्यादि|- प्रागुक्तं स्वयोनिवर्धनं द्रव्यम्| वक्ष्यते यच्चेति यच्च क्षीणबलीयेऽध्याये वाजीकरणे (चि.२६) वक्ष्यते| विडित्यादि| विट्प्रभे मूत्रपुरीषप्रकाशे रेतसि| विड्ग्रहणेनात्र पुरीषं मूत्रं च गृह्यते, मलमूत्रमात्रवाचकत्वाद्विट्शब्दस्य| सर्पिरित्यत्राप्यनुवर्तनीयम्| विण्मूत्राभेऽसाध्येऽपि दुःखकारिविट्गन्धापनयनार्थं चित्रकादिभिः कल्कीकृतैर्घृतं पेयं न तु सर्वथा सिद्ध्यर्थं, “असाध्यो नैति साध्यत्वं” इति वचनात्| सर्वेषां कुणपादीनां सामान्यं चिकित्सितमाह- स्निग्धमित्यादि||६-१०||-

Adhikarana ६ (११) · Śloka १२

स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ||११|| शुक्रमिच्छन्ति, केचित्तु तैलक्षौद्रनिभं तथा |१२|

🔊 Audio coming soon

Hide commentary

इदानीमदुष्टशुक्रस्य लक्षणमाह- स्फटिकेत्यादि| इदानीमेकीयमतमाह- केचिदित्यादि||११||-

Adhikarana ७ (१२-१६) · Śloka १६

विधिमुत्तरबस्त्यन्तं कुर्यादार्तवशुद्धये ||१२|| स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु | कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च ||१३|| ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च | दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाऽऽर्तवे ||१४|| पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथमेव च | शुक्रदोषहराणां च यथास्वमवचारणम् ||१५|| योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु | अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् ||१६||

🔊 Audio coming soon

Hide commentary

उत्तरबस्त्यन्तम् उत्तरबस्त्यवसानं; तत्र यथादोषं वमनादि, उत्तरबस्तिः पुनः सर्वेष्वेव, वातादिहरक्वाथस्नेहाभ्यां नैरूहिकः स्नैहिकश्च| आर्तवग्रहणादेव स्त्रीग्रहणे लब्धे पुनः स्त्रीग्रहणं समत्वागतयौवनप्रापणार्थम्| चतसृष्विति वातपित्तश्लेष्मशोणितकृतासु| गयी तु, चतसृष्वित्यत्र चतुर्थीं शोणितप्रकृतिभूतविस्रगन्धिशोणितार्तवार्तिं मन्यते, तस्या एव साध्यत्वात्; न तु कुणपगन्ध्यार्तवार्तिं, तस्यासाध्यत्वात्| कल्कादयस्तु योनिव्यापत्सु कथिता वातादिदोषहरद्रव्यकृताः| आचमनं योनिप्रक्षालनोदकं , तदपि वातादिदोषहरद्रव्यकृतम्| ग्रन्थीत्यादि| दुर्गन्धिपूयसङ्काशे पूतिगन्धिपूयोपमे कफपित्तदुष्टे इत्यर्थः| मज्जतुल्ये त्रिदोषमलिने| तथाशब्दाद्दुर्गन्धे इत्यत्रापि योजनीयं, तेन मूत्रपुरीषगन्धिनीति गम्यते| गयी त्वत्र “दुर्गन्धे कुणपगन्धिनि, पूयसङ्काशे पूतिपूयोपमे , मज्जतुल्ये त्रिदोषमलिने” इति व्याख्याति| क्षीणं च प्रागुक्तमित्यग्रे सूचयिष्यति| अत्र कुणपादीनां पञ्चानामसाध्यानामपि दुर्गन्धापनयनार्थं चिकित्सितप्रतिपादनं न तु सर्वथा सिद्ध्यर्थं, तेषामसाध्यत्वात्| भद्रश्रियं श्रीचन्दनं, चन्दनं रक्तचन्दनं; गयी तु भद्रश्रियं श्वेतचन्दनं, चन्दनं गोशीर्षाख्यं चन्दनवरं नतु रक्तचन्दनं, तस्य हि गन्धापहरणशक्तेरभावात्| वातादिदुष्टार्तवार्तिष्वन्यामपि चिकित्सामतिदेशेन निर्दिशन्नाह- शुक्रदोषहराणामित्यादि| शुक्रदोषहराणां स्नेहस्वेदादिपूर्वाणां, यथास्वं यथादोषम्| योगानां रसायनवाजीकरणमूत्रदोषप्रतिषेधोक्तानाम्| शेषासु वाताद्येकैकदोषजनितास्वार्तवार्तिषु| शुद्धिकरणमवचारणं कार्यमिति सम्बन्धः| अशेषार्तवदुष्टीनां पथ्यमाह- अन्नमित्यादि| अन्नं भोजनार्थम्||१२-१६||

Adhikarana ८ (१७) · Śloka १७

शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम् | तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ||१७||

🔊 Audio coming soon

Hide commentary

अदुष्टार्तवस्य लक्षणमाह- शशासृगित्यादि| यदार्तवं वासः- स्थितं शुष्कमुदकप्रक्षालितं वासो न विरञ्जयेत् रागोपेतं वस्त्रं न कुर्यात् तत् प्रशंसन्ति, ‘गर्भजननाय’ इति शेषः||१७||-

Adhikarana ९ (१८-२०) · Śloka २१

तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि | असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात् ||१८|| असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः | तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा ||१९|| दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः | तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक् ||२०|| रक्तपित्तविधानेन यथावत् समुपाचरेत् |२१|

🔊 Audio coming soon

Hide commentary

तस्यैवातिप्रवृत्तस्यासृग्दरत्वं, तत्र च दोषदुष्टिलक्षणमाह- तदेवातिप्रसङ्गेनेत्यादि| तदेव आर्तवमेव, न तु रक्तपित्तम्| ऋतावतिप्रसङ्गेनेति अतिप्राचुर्येण दीर्घकालानुबन्धेन वा (च), प्रवृत्तं स्रुतम्| न परमृतावेवेत्याह- अनृतावपीति|- अनृतावल्पमप्यदीर्घकालमपि प्रवृत्तमसृग्दरं विजानीयात्| किंस्वरूपं तदित्याह- अत इत्यादि| अत एतस्मात् शशासृक्प्रतिममित्यादिवाक्यप्रतिपादिताद्रक्तलक्षणात्, अन्यत् अन्यादृक्लक्षणं ‘फेनिलं शीघ्रमच्छम्’ (सू.१४) इत्यादिवाक्येन शोणितवर्णनीये यादृशमभिहितं तादृशमित्यर्थः| दोषानुबन्धकृतं लक्षणमतिदेशेन निर्दिश्य व्याधिस्वभावकृतं सामान्यं लक्षणमाह- असृगित्यादि| अङ्गमर्दो वेदनाविशेषः| सवेदनः सशूलः| तस्यातिस्रुतस्य लक्षणमाह- तस्येत्यादि| अतिवृत्तौ अतिप्रवृत्तावित्यर्थः| तमोऽन्धकारदर्शनं, श्वासो वा| प्रलापोऽसम्बद्धभाषणम्| तन्द्रा निद्राभेदः| वातजा रोगा आक्षेपकादयः| यस्या यद्रूपं यादृशेन प्रकारेणोपचरणीयं तदाह- तरुण्या इत्यादि| तरुण्याः षोडशवर्षप्राप्तायाः, हितसेविन्याः पथ्याशिन्याः||१८-२०||-

Adhikarana १० (२१-२३) · Śloka २३

दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः ||२१|| तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः | पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने ||२२|| क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् | तथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् ||२३||

🔊 Audio coming soon

Hide commentary

अतिप्रवृत्तिलक्षणामार्तवस्य विकृतिं निर्दिश्याप्रवृत्तिलक्षणां सचिकित्सितां निर्दिशन्नाह- दोषैरित्यादि| अत्र दोषाः कफो वायुर्वातकफौ च; न तु पित्तं, पित्तवृद्धौ तस्यातिप्रवृत्तिवृद्ध्योरुक्तत्वात्, कुलत्थादिवातकफहरद्रव्यावचारणाच्च| नश्यतीति प्रवर्तमानं न दृश्यते, न तु सर्वथा क्षयं याति| अम्लं काञ्जिकं, मूत्रं गोमूत्रम्| उदश्वित् अर्धोदकं तक्रम्| शुक्तं चुक्रम्| पुनरुक्तिशङ्कां निरस्यन्नाह- क्षीणमित्यादि| यद्यपि प्राग्दोषधातुमलक्षयवृद्धिविज्ञानीये क्षीणलक्षणं सचिकित्सितमभिहितं, तथाऽप्यत्रोपादानान्नष्टरक्तवन्नष्टार्तवविधानं कर्तव्यम्| रक्तमार्तवरक्तम्||२१-२३||

Adhikarana ११ (२४) · Śloka २४

एवमदुष्टशुक्रः शुद्धार्तवा च ||२४||

🔊 Audio coming soon

Hide commentary

प्रकरणप्रयोजनमुपसंहरन्नाह- एवमित्यादि| एवं पूर्वोक्तेन प्रकारेण, अदुष्टशुक्रः पुरुषः, शुद्धार्तवा च स्त्री, ‘भवति’ इत्यत्राध्याहारः||२४||

Adhikarana १२ (२५-३०) · Śloka ३०

ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् | किं कारणं? दिवा स्वपन्त्याः स्वापशीलः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद्दुःखशीलः , तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाच्चञ्चलः, हसनाच्छ्यावदन्तौष्ठतालुजिह्वः, प्रलापी चातिकथनात् , अतिशब्दश्रवणाद्बधिरः, अवलेखनात् खलतिः, मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् | दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हविष्यं, त्र्यहं च भर्तुः संरक्षेत् | ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत् | तत् कस्य हेतोः? ||२५|| पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना | तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः ||२६|| ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् | कर्मान्ते च क्रमं ह्येतमारभेत विचक्षणः ||२७|| ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामभिरभिविश्वास्य ; विकल्प्यैवं चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः ||२८|| एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च | प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै ||२९|| अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः; त्रयोदशीप्रभृतयो निन्द्याः ||३०||

🔊 Audio coming soon

Hide commentary

ऋतौ पुत्रीयमाचारं निर्दिशन्नाह - ऋतावित्यादि| ऋतुकाले प्रथमदिवसं मर्यादीकृत्य नारी ब्रह्मचारिणी स्यात्| ऋतुदर्शनात् पूर्वं मासं ब्रह्मचर्यस्य वक्ष्यमाणस्य विशिष्टप्रजोत्पादनं प्रयोजनम्| अस्मिंश्च ऋतुदर्शने दिनत्रयं ब्रह्मचर्यस्य स्वयमेवाचार्योऽग्रे प्रयोजनं कथयिष्यति| दिवास्वप्नादींश्च परिहरेत्| अतिकथनं बहुभाषणम्| अवलेखनं कङ्कतिकादिना केशसम्मार्जनम्| आयासः कष्टम्| किं कारणमित्यादि| उन्मत्तो वातलः| परिहार्यमुक्त्वा भर्तारं प्रति नार्याः करणीयं निर्दिशन्नाह- दर्भेत्यादि| हविष्यं सघृतशाल्योदनादि क्षीरसंस्कृतं, यवान्नमित्येके| भर्तुः संरक्षेत् ‘वैद्य’ इति शेषः, तस्मै दर्शनमपि न दापयेदित्यर्थः| तत इत्यादि| शुद्धा जीर्णशोणितापगमेन, अनन्तरं स्नाता; तदुक्तं- “नवे ऋतौ च सञ्जाते विगते जीर्णशोणिते| नारी भवति संशुद्धा पुंसा संसृज्यते तदा”- इति| दर्शयेदित्यत्र ‘वैद्य’ इति शेषः| तत् कस्य हेतोरित्यत्र तच्छब्दः सम्बोधने, तेनाहो कस्य हेतोः| अन्ये तु ‘अत्रापि’ इति प्रश्नार्थं पठन्ति| तत्रापि प्रश्ने| पूर्वमित्यादि| पुत्रेभ्यो हितं पुत्रीयमिति| गयी तु “तत्राचार्यो ब्राह्मणप्रयुक्तोऽनुपहताश्वेतवस्त्रेण संवीतश्चार्षभे चर्मण्युपविष्टो, राजन्यप्रयुक्तो वैयाघ्रे आनडुहे वा, वैश्यप्रयुक्तो रौरवे, शूद्रप्रयुक्तो बास्ते वा, चतुर्हस्तं स्थण्डिलमुपलिप्योल्लिख्य दर्भैरास्तीर्य वेणुयूपं दक्षिणेन ब्रह्माणं व्यवस्थाप्य शुक्लकुसुमगन्धबलिभिरभ्यर्च्याग्निं प्रणीय संस्कृत्य पालाशीभिः समिद्भिरग्निमुपसमाधाय मन्त्रोदकपूर्णपात्रमग्नेरग्रेस्थापयित्वा पुत्रजन्माशास्याज्यं जुहुयान्महाव्याहृतिभिः, योषिच्च पुत्रार्थिनी सह भर्त्रा पश्चिमतोऽग्नेः ऋत्विजो दक्षिणतः समुपविशेत्, ततोऽस्या ब्राह्मणः प्रजापतिमुद्दिश्य यथाभिलषितसम्पादनाय मनसा योनौ काम्यामिष्टिं निर्वपेत्, अनयोर्विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि निविशत्विति; ततः स्थालीपाकमभिधार्य त्रिर्जुहुयात्, यथाम्नायं चोपमन्त्रितमुदकपात्रमस्मै दद्यात्, सर्वानुदकार्थान् कुरुष्वेति; ततः समाप्ते कर्मणि पूर्वं दक्षिणं पादमभिहनन्ती प्रदक्षिणमग्निमुपक्रमेत्, ततः परिक्रम्य ब्राह्मणान् स्वस्ति वाचयित्वा सह भर्त्रा आज्यशेषं प्राश्नीयात्, पूर्वं पुमान्, जघन्यं स्त्री, न चोच्छिष्टमवशेषयेदिति पुत्रीयविधानम्”- इति| कर्मान्ते पुत्रीयविधानान्ते, एतं क्रमं वक्ष्यमाणम्| तमेव क्रमं वक्तुमाह- ततोऽपराह्णे इत्यादि| पुंसो मासब्रह्मचारित्वेन स्त्रिया अपि ब्रह्मचारित्वे लब्धे मासं ब्रह्मचारिणीमिति यदुक्तं तन्मनःसङ्कल्पमात्रस्यापि निरासार्थम्| तैलमाषोत्तराहारां तैलमाषप्रधानाहाराम्| उपेयात् गच्छेत्| सामान्यापत्यजननकालमृतुसञ्ज्ञं निर्दिश्यापत्यविशेषजननसमर्थकालमुद्दिशन्नाह- विकल्प्यैवमित्यादि| एषु दिवसेषूत्तरोत्तरमायुरित्यादिकं विद्यादित्येवं विकल्प्य विचार्य चतुर्थ्यादिषु रात्रिषु नारीमुपेयात्| अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः, उपेयादित्यत्रापि सम्बध्यते||२५-३०||

Adhikarana १३ (३१) · Śloka ३१

तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति, यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते ; द्वितीयेऽप्येवं सूतिकागृहे वा; तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति; चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति | न च प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेतद्द्रष्टव्यम् | तस्मान्नियमवतीं त्रिरात्रं परिहरेत् | अतः परं मासादुपेयात् ||३१||

🔊 Audio coming soon

Hide commentary

तत्रेत्यादि| तत्रेति प्रथमदिवसे| विमुच्यते ‘प्राणैः’ इति शेषः| द्वितीये इत्यादि| एवमिति पूर्वोक्तं भवतीत्यर्थः| सूतिकागृहे वा दशदिवसाभ्यन्तरं वा गर्भः प्राणैर्विमुच्यत इत्यर्थः| न च प्रवर्तमाने इत्यादि| प्रतिस्रोतः धारासम्मुखमित्यर्थः| प्लाविद्रव्यं प्रतरणशीलं वस्तु| प्रतिनिवर्तते व्याघुटति| गयी तु ‘तत्र प्रथमदिवसे’ इत्यादि ‘तस्मान्नियमवतीं त्रिरात्रं परिहरेत्’ इति यावद्ग्रन्थमग्रेतनेऽध्याये ‘ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः’ इत्यस्याग्रे पठति| अतः परमित्यादि| मासादिति ‘ऊर्ध्वम्’ इति शेषः| अर्वाग्गमनं तु गर्भद्वारविघट्टनेन स्थितमपि गर्भं च्यावयति| केचित्तु ‘अतः परं मासादुपेयात्’ इत्यत्र ‘परतस्तु पुष्पदर्शनेनागर्भलाभनिश्चय एव, लब्धगर्भां तु नैव’ इति पठन्ति, ‘उपेयात्’ इत्यध्याहृत्य च व्याख्यानयन्ति||३१||

Adhikarana १४ (३२) · Śloka ३२

लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गसहदेवाविश्वदेवानामन्यतमां क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै , न च तान्निष्ठीवेत् ||३२||

🔊 Audio coming soon

Hide commentary

लब्धगर्भाया इत्यादि| लक्ष्मणालक्षणं तु- “पुत्रकाकारक्ताल्पबिन्दुभिर्लाञ्छितच्छदा| लक्ष्मणा पुत्रजननी बस्तगन्धाकृतिर्भवेत्- ” इति| तां च शरत्काले पुष्पफलोपेतां दृष्ट्वाशनिदिने सन्ध्यायां तस्याश्चतुर्भागेषु खदिरकीलकान्निखायापरेद्युर्हस्तमूलपुष्यैर्योगं गते दिवाकरे मन्त्रवद्गृहीत्वा समानवर्णवत्साया गोः क्षीरेण यथाविधि नस्यं दद्यात्| वटशुङ्गो वटप्ररोहः| सहदेवा बलाभेदः पीतपुष्पा ‘काङ्कही’ इति लोके| विश्वदेवा गाङ्गेरुकी ‘गुडशर्करा’ इति लोके, अन्ये सितकुसुमां बलामाहुः| अभिषुत्य पेषयित्वा| न च तान् निष्ठीवेत् न थुत्कुर्यात्| चकारादलब्धगर्भायाः पूर्वमेव लक्ष्मणादीनां नस्यदानं सहस्राभिहुतं गर्भग्रहणाय पश्चाद्ग्राम्यधर्मसेवनमिति| तदुक्तं तन्त्रान्तरं- “पूर्वमौषधं सहस्राभिहुतं कृत्वा मङ्गल्यदेशे गोः क्षीरेण पेषयित्वा तस्मात् त्रीन् बिन्दून् दक्षिणे नासापुटे दद्यात्, न निष्ठीवेत्तान् कण्ठप्राप्तान्, सा पञ्चदिनानि पयसोदनमश्नीयात्, तदूर्ध्वं ग्राम्यधर्मसेवनम्”- इति| लब्धगर्भायाश्च लक्ष्मणादिनस्यदानं गर्भस्थापनार्थं, स्थितगर्भायाश्च मासत्रयाल्पान्तरे पुत्रापत्यजननार्थं नस्यदानमिति||३२||

Adhikarana १५ (३३) · Śloka ३३

ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकम् | ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ||३३||

🔊 Audio coming soon

Hide commentary

नात्रैकमेव शुक्रशोणितं गर्भजननं किं तर्हि सामग्र्येवेति दर्शयन्नाह- ध्रुवमित्यादि| यथा- ऋतुक्षेत्राम्बुबीजानां सामग्र्यादनुपघातादङ्कुरो जायते, एवं ध्रुवं निश्चितं चतुर्णामृत्वादीनां नैकद्वित्रिसङ्ख्यानां विधिपूर्वकं सान्निध्याद्यथोक्तसंयोगाद्गर्भो जायते| ऋतुरङ्गनाया रजःसमयः, क्षेत्रं गर्भाशयः, अम्बु पुनराहारपाकजो व्यापी रसधातुः, बीजं स्त्रीपुंसयोरार्तवशुक्रे||३३||

Adhikarana १६ (३४) · Śloka ३४

एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः | भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ||३४||

🔊 Audio coming soon

Hide commentary

विधिपूर्वकस्य गर्भस्य फलं दर्शयन्नाह- एवमित्यादि| रूपमत्रावयवसन्निवेशो लोचनसुखप्रदः| सत्त्ववन्तो रजस्तमोभ्यामनभिभूताः| ऋणस्य मोक्तार इति पितॄणामृणत्रयमोक्षणशीलाः| सत्पुत्रा इति साधवः पुत्राः||३४||

Adhikarana १७ (३५) · Śloka ३५

तत्र तेजोधातुर्वर्णानां प्रभवः, स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम् | ‘यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भवति’ इत्येके भाषन्ते | तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति ||३५||

🔊 Audio coming soon

Hide commentary

एवंविधपूर्वजन्मानां रूपवत्त्वमुक्त्वा, रूपं च तैजसवर्णादिप्रभास्वरत्वमतो वर्णसम्भवहेतुं दर्शयन्नाह- तत्रेत्यादि| तेजोधातुः तेजोभूतम्| वर्णानां प्रभवः कारणम्| स तेजोधातुः| गर्भोत्पत्तौ गर्भाधानकाले, यदा अब्धातुप्रायो भवति आप्यधातुबहुलो भवतीत्यर्थः| एकीयमतमाह- यादृगित्यादि| तेजोधातुरूपवर्णप्रसङ्गेनैतन्मयाद्यधिष्ठानविकृत्या जात्यन्धरक्तपिङ्गशुक्लविकृताक्षाणां सम्भवं दर्शयन्नाह- तत्र दृष्टीत्यादि| चतुर्थे मासि कस्यचित् पूर्वकर्मवशाद्दृष्टिभागं चक्षुरिन्द्रियाधिष्ठानम्, अप्रतिपन्नमप्राप्तं तेजो, जात्यन्धं जन्मान्धं करोति||३५||

Adhikarana १८ (३६) · Śloka ३६

भवन्ति चात्र- घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते | विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ||३६||

🔊 Audio coming soon

Hide commentary

ननु, पुराणमार्तवमुपचयाद्दिनत्रयं स्रुत्वा स्वयमेव विनिवृत्तं, नूतनं त्वल्पं स्त्यानीभूतमिव प्रवर्तितुमक्षमं, तत् कथमार्तवसञ्चारो येन तत्संसृष्टं शुक्रं गर्भजननसमर्थं भवतीत्याशङ्क्याह- घृतेत्यादि| पुंसां समागमे इन्द्रियद्वयसङ्घर्षजेनोष्मणा विलीनमार्तवं विसर्पति| तच्च विसर्पितं शुक्रोपगतं गर्भाशयमनुप्राप्तं जीवोपगतं गर्भसम्भवहेतुर्भवति| आर्तवमृतुकालजं शोणितं, शुक्रमप्यासां पुंसां समागमे क्षरति, न तु तद्गर्भोपयोगीति तत्क्षरणप्रतिपादनं न युक्तम्| तथाच वृद्धवाग्भटः- “योषितोऽपि स्रवन्त्येव शुक्रं पुंसां समागमे| तन्न गर्भस्य किञ्चित्तु करोतीति न चिन्त्यते”- (अ. सं. शा. १)| इति||३६||

Adhikarana १९ (३७) · Śloka ३७

बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ | यमावित्यभिधीयेते धर्मेतरपुरःसरौ ||३७||

🔊 Audio coming soon

Hide commentary

गर्भद्वयोत्पत्तिहेतुमाह- बीजे इत्यादि| धर्मेतरपुरःसरौ धर्माधर्मपुरोगामिनौ| गयी तु, धर्मेतरोऽधर्मः, तत्पुरःसरौ अधर्मपुरोगामिनौ; न तु धर्माधर्मपुरःसरौ; यतः श्रुतिस्मृतिष्वधर्मादेव यमोत्पत्तिरिष्टा; अत एव तदुत्पत्तौ प्रायश्चित्तमप्युपदिष्टमिति व्याख्याति||३७||

Adhikarana २० (३८) · Śloka ३८

पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् | स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ||३८||

🔊 Audio coming soon

Hide commentary

पित्रोरित्यादि| पित्रोः पितृमात्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् आसेक्यो नाम पुरुषो जायते| स शुक्रं प्राश्येति स पुरुषोऽन्यपुरुषान्निजमुखेन व्यवायं कारयित्वा ततः सिक्तं शुक्रं प्राश्य आस्वाद्य ध्वजोच्छ्रायं लिङ्गोत्थानं लभते; आसेक्यनामाऽयं षण्ढो मुखयोन्यपरपर्यायः||३८||

Adhikarana २१ (३९) · Śloka ३९

यः पूतियोनौ जायेत स सौगन्धिकसञ्ज्ञितः | स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ||३९||

🔊 Audio coming soon

Hide commentary

यः पूतियोनावित्यादि| योनिशेफसोर्गन्धमाघ्राय सिङ्घित्वा; अयं सौगन्धिकनामा षण्ढो नासायोन्यपरपर्यायः||३९||

Adhikarana २२ (४०) · Śloka ४०

स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते | कुम्भीकः स तु विज्ञेयः... |४०|

🔊 Audio coming soon

Hide commentary

स्वे गुदे इत्यादि| यः पुरुषः स्वे गुदे स्वकीयपायौ, अब्रह्मचर्यात् अन्यपुरुषपार्श्वाद्व्यवायं कारयित्वा पश्चात् स्त्रीषु विषये पुमानिव प्रवर्तते पुरुषवद्व्यवायं करोति स कुम्भीकनामा षण्ढो ज्ञेयः| अन्ये तु “प्रथमं स्त्रीषु विषये तासामेव स्वकीयगुदविवरे पशुवत् पृष्ठभागे शिथिलेनैव मेहनेन प्रवर्तते| किन्निमित्तमेतदित्याह- ब्रह्मचर्यात् क्लैब्यवशसञ्जाताप्रवृत्तित्वात्| ततश्चानया विप्रकृत्या ध्वजोच्छ्राये सञ्जाते स एव स्त्रीषु पुरुषवत् प्रवर्तते स कुम्भीकनामा नपुंसकभेदः”| गुदयोनिरयम्| अस्योत्पत्तिहेतुस्तन्त्रान्तरे वर्णितो यथा- “मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च” (च.शा.१) इति| गयी तु कुम्भीकोत्पत्तिहेतौ काश्यपोक्तं श्लोकमाह| यथा- “अरजस्कां यदा नारीं श्लेष्मरेता व्रजेदृतौ| अन्यसक्ता भवेत् प्रीतिर्जायते कुम्भिलस्तदा” इति||४०||-

Adhikarana २३ (४०-४१) · Śloka ४१

...ईर्ष्यकं शृणु चापरम् ||४०|| दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते | ईर्ष्यकः स तु विज्ञेयः,... |४१|

🔊 Audio coming soon

Hide commentary

ईर्ष्यकमित्यादि| दृग्योनिरयमीर्ष्यकापरपर्यायः| अत्रापि तन्त्रान्तरपठितो हेतुर्यथा- “ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्याह्वयस्यापि वदन्ति हेतुम्”- (च.शा.२) इति||४०-४१||-

Adhikarana २४ (४१-४२) · Śloka ४२

...षण्ढकं शृणु पञ्चमम् ||४१|| यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते | ततः स्त्रीचेष्टिताकारो जायते षण्ढसञ्ज्ञितः ||४२||

🔊 Audio coming soon

Hide commentary

षण्ढकमित्यादि| यः पुमान् मोहवशादृतौ भार्याविषयेऽङ्गनावदुत्तानो भूत्वा व्यापिपर्ति| ततः स्त्रीचेष्टिताकारः षण्ढो जायते| स पुमान् स्त्र्याकृतिः स्त्रीचेष्टितश्च स्त्रीवदधोभूतः स्वमेढ्रस्योर्ध्वप्रदेशेऽपरपुरुषाद् वीर्यच्युतिं कारयति||४१-४२||

Adhikarana २५ (४३) · Śloka ४३

ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि | तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ||४३||

🔊 Audio coming soon

Hide commentary

नरषण्ढं प्रदिश्य नारीषण्ढं निर्दिशन्नाह- ऋतावित्यादि| यत्र पुनरबला ऋतौ पुरुषमधः कृत्वा व्यापारं कुरुते यदि तत्र कन्या भवति, सा नरचेष्टिता स्त्रीरूपाऽपि पुंवत् स्त्रियमारुह्य तद्योनौ स्वयोनिघर्षणं करोति||४३||

Adhikarana २६ (४४) · Śloka ४४

आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा | सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसञ्ज्ञितः ||४४||

🔊 Audio coming soon

Hide commentary

उक्तमेव सुखस्मरणाय सङ्ग्रहश्लोकेनाह- आसेक्य इत्यादि||४४||

Adhikarana २७ (४५) · Śloka ४५

अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः | हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ||४५||

🔊 Audio coming soon

Hide commentary

यदि तेषां शुक्रमस्ति तत् किं षण्ढत्वमुच्यते? इत्याशङ्क्याह- अनयेत्यादि| विप्रकृत्येति विरुद्धया विशिष्टया वा प्रकृत्या| एते पुरुषदोषाः, योषितामप्येत एव द्रष्टव्याः, चरकेण “नरनारीषण्ढौ” (च.शा.२) इत्युक्तेः||४५||

Adhikarana २८ (४६) · Śloka ४६

आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ | स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ||४६||

🔊 Audio coming soon

Hide commentary

अनुक्तं कायवाङ्मनसां भेदस्य हेतुं दर्शयन्नाह- आहारेत्यादि| समुपेयातां संयोगं गच्छेताम्||४६||

Adhikarana २९ (४७) · Śloka ४७

यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन | मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते ||४७||

🔊 Audio coming soon

Hide commentary

अतिशयेनैव पापेन षण्ढादपि निकृष्टानां विकृतापत्यानामुत्पत्तिहेतुं निर्दिशन्नाह- यदेत्यादि| उपेयातां संयोगं कुर्याताम्| वृषस्यन्त्यौ रतार्थिन्यौ| अनस्थिरिति ईषदर्थे नञ्, तेनाल्पकोमलास्थिः||४७||

Adhikarana ३० (४८-४९) · Śloka ४९

ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् | आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ||४८|| मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् | कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ||४९||

🔊 Audio coming soon

Hide commentary

ऋतुस्नातेत्यादि| आर्तवमृतुकालजं शुद्धशोणितम्| कललं सिङ्घाणप्रख्यम्| पैतृकैर्गुणैरिति केशश्मश्रुलोमनखदन्तसिरास्नायुधमनीरेतःप्रभृतिभिः| इमौ द्वावपि श्लोकौ जेज्झटाचार्येण न पठितौ||४८-४९||

Adhikarana ३१ (५०) · Śloka ५०

सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये | गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृतो भृशम् ||५०||

🔊 Audio coming soon

Hide commentary

सर्पेत्यादि| सर्पादिरूपा ये गर्भास्तत्प्रसवित्र्याः स्त्रियाः पापकृतः पापोत्पादिता ज्ञेयाः| ननु, मानुषशरीरात् कथं सर्पादीनामुत्पत्तिरित्याह- पापकृतो भृशमिति; कर्मजमेवैतद्वैचित्र्यमित्यर्थः||५०||

Adhikarana ३२ (५१) · Śloka ५१

गर्भो वातप्रकोपेण दौहृदे वाऽवमानिते | भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिण एव वा ||५१||

🔊 Audio coming soon

Hide commentary

इदानीं गर्भस्थकुब्जादीनां दृष्टामेव वातादिदोषदुष्टिं हेतुं च निर्दिशन्नाह- गर्भ इत्यादि| दौहृदे वाऽवमानित इति गर्भिण्याः श्रद्धायां खण्डितायाम्| कुणिः विकलपाणिः ||५१||

Adhikarana ३३ (५२) · Śloka ५२

मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः | वातादीनां प्रकोपेण गर्भो वैकृतमाप्नुयात् ||५२||

🔊 Audio coming soon

Hide commentary

किमात्मीयेनैवाशुभेन कर्मणा गर्भ एवंविधो भवति, उतान्यापराधादपीत्याशङ्क्याह- मातापित्रोरित्यादि| नास्तिक्यादिति नास्ति परलोको नास्ति दत्तमित्यादि मतिर्येषां ते नास्तिकाः, तेषां भावो नास्तिक्यं, तस्मात्||५२||

Adhikarana ३४ (५३) · Śloka ५३

मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च | वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ||५३||

🔊 Audio coming soon

Hide commentary

अथ कस्माद्गर्भाशयस्थो वातादिकं न करोतीत्याह- मलाल्पत्वादित्यादि| वायोरयोगादिति नञयमिषदर्थे, तेनेषद्योगात्||५३||

Adhikarana ३५ (५४) · Śloka ५४

जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते | वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ||५४||

🔊 Audio coming soon

Hide commentary

जरायुणेत्यादि| वायोर्मार्गनिरोधादिति घोषजनकस्य वायोर्मार्गनिरोधादित्यर्थः| निश्वासादिरूपस्य तु वायोर्निःसरणमग्रे वक्ष्यति, यतस्तदभावे जीविताभाव एव भवति गर्भस्य||५४||

Adhikarana ३६ (५५) · Śloka ५५

निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति | मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ||५५||

🔊 Audio coming soon

Hide commentary

निःश्वासेत्यादि| सङ्क्षोभः सञ्चलनम्| माता याश्चेष्टा निःश्वासादिकाः कुरुते ता गर्भोऽपि करोतीत्यर्थः||५५||

Adhikarana ३७ (५६) · Śloka ५६

सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ | तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः ||५६||

🔊 Audio coming soon

Hide commentary

शरीरावयवानां चरणादीनां सन्निवेशादौ हेतुं निर्दिशन्नाह- सन्निवेश इत्यादि| सन्निवेशो रचनाविशेषः| शरीराणां शरीरावयवानां चरणादीनाम्| तलेष्विति हस्तपादतलेषु||५६||

Adhikarana ३८ (५७) · Śloka ५७

भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः | भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ||५७||

🔊 Audio coming soon

Hide commentary

इत्थं काये विशेषं निर्दिश्यात्मनो गुणभूताया बुद्धेरपि भावनाबलविशेषेण विशेषं निर्दिशन्नाह- भाविता इत्यादि| पूर्वदेहेष्वतिक्रान्तशरीरेषु, सततमनवरतं, ये भाविताः शास्त्रभावनया भावितान्तःकरणाः, ते शास्त्रबुद्धयो भवन्ति| तथाभाविता एव ये सत्त्वबहुलास्ते रजस्तमसोरावरकयोरभावात् पूर्वामतिक्रान्तामपि जातिं स्मरन्ति||५७||

Adhikarana ३९ (५८) · Śloka ५८

कर्मणा चोदितो येन तदाप्नोति पुनर्भवे | अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ||५८||

🔊 Audio coming soon

Hide commentary

काये योऽसौ शरीरसन्निवेशादिस्तथा दोषकोपेन कुब्जखञ्जादि, तथा वाचि मूकमिन्मिणत्वादि, मनसि च शास्त्रज्ञानपूर्वजातिस्मरणं, सर्वमेव स्वभावादिसिद्धमपि कर्मणैवेत्याह- कर्मणेत्यादि| कुतस्तदाप्नोतीत्याह- अभ्यस्ता इत्यादि||५८||

Adhikarana पुष्पिका · Śloka

इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम द्वितीयोऽध्यायः ||२||

🔊 Audio coming soon

Hide commentary

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने द्वितीयोऽध्यायः||२||