Adhikarana १ (१-३) · Śloka ३
अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते |
तत्र वमनस्याधो गतिरूर्ध्वं विरेचनस्येति पृथक्; सामान्यमुभयोः- सावशेषौषधत्वं, जीर्णौषधत्वं, हीनदोषापहृतत्वं, वातशूलम्, अयोगो, अतियोगो, जीवादानम्, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणं, विबन्ध, अङ्गप्रग्रह इति ||३||
Show commentary
वैद्यातुरग्रहणेनैव भेषजपरिचारकयोर्ग्रहणम्, अतस्तयोरपि व्यापन्निमित्तता स्यात्| तत्रेत्यादि| तत्र वमनस्याधोगतिः ‘व्यापत्’ इति शेषः| ऊर्ध्वगतिर्विरेचनस्येत्यत्रापि ‘व्यापत्’ इति शेषः| उभयोस्तु वमनविरेचनयोः सावशेषौषधादिकं त्रयोदशसङ्ख्योपेतं व्यापत्त्वेन सामान्यं तुल्यम्| सङ्ख्येयनिर्देशेऽपि पञ्चदशधेति सङ्ख्याकरणं तन्त्रान्तरोक्तसङ्ख्यानिषेधार्थम्||१-३||
Adhikarana २ (४) · Śloka ४
तत्र बुभुक्षापीडितस्यातितीक्षणाग्नेर्मृदुकोष्ठस्य चावतिष्ठमानं दुर्वमस्य वा गुणसामान्यभावाद्वमनमधो गच्छति, तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च ; तमाशु स्नेहयित्वा भूयस्तीक्ष्णतरैर्वामयेत् ||४||
Show commentary
वमनस्याधोगमनाख्यां व्यापदं दर्शयन्नाह- तत्रेत्यादि| प्रथमं क्षुत्पीडितस्य पीतमात्रमेवाधो याति, तीक्ष्णाग्नेरग्निबलात् पाकं याति, मृदुकोष्ठस्यापि कोष्ठमार्दवादधो याति, दुर्वमस्य चावतिष्ठमानं पाकं गच्छत् सरत्वादिगुणसाम्यादधो याति| दोषोत्क्लेशश्चेति दोषस्य सामान्यवाचित्वेऽपि कफो गृह्यते, तस्य वमनार्हत्वात्| स्नेहयित्वेत्यत्र स्नेहेनैव स्वेद आक्षिप्तो बोद्धव्यः||४||
Adhikarana ३ (५) · Śloka ५
अपरिशुद्धामाशयस्योत्क्लिष्टश्लेष्मणः सशेषान्नस्य वाऽहृद्यमतिप्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति, तत्रेप्सितानवाप्तिर्दोषोक्लेशश्च ; तत्राशुद्धामाशयमुल्बणश्लेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत्, आमान्वये त्वामवत् संविधानम्, अहृद्येऽतिप्रभूते च हृद्यं प्रमाणयुक्तं च; अत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत्, ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्विरेचयेत् ||५||
Show commentary
विरेचनस्योर्ध्वगतिव्यापदं दर्शयन्नाह- अपरिशुद्धेत्यादि| दोषोऽत्र पित्तम्| आमवत् संविधानं लङ्घनपाचनादि| न तृतीयं पाययेत् ‘विरेचनमौषधम्’ इति शेषः| अथ केन विरेचयेत्? तदाह- ततस्त्वेनमित्यादि||५||
Adhikarana ४ (६) · Śloka ६
दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिक्रमधोभागिकं वा न स्रंसयति दोषान्, तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्वभेदो हृल्लासोऽरतिरुद्गाराविशुद्धिश्च भवति; तमुष्णाभिरद्भिराशु वामयेदूर्ध्वभागिके, अधोभागिकेऽपि च सावशेषौषधमतिप्रधावितदोषमतिबलमसम्यग्विरिक्तलक्षणमप्येवं वामयेत् ||६||
Show commentary
सावशेषौषधव्यापदं सामान्येनोभयोर्दर्शयन्नाह- दोषेत्यादि| दोषविग्रथितं दोषमिश्रितम्| न स्रंसयति न च्यावयति| पर्वभेदः ग्रन्थिस्फुटनम्| हृल्लासः थूत्करणं, ‘थुकथुकी’ इति लोके| अरतिर्न कुत्रचिदवस्थितिश्चित्तस्य| तमवस्थिताल्पौषधं तृष्णाद्यन्वितमूर्ध्वभागिके वमनद्रव्यविषये वामयेत्| अधोभागिकेऽप्यवस्थाविशेषे वमनमुद्दिशन्नाह- अधोभागिकेऽपि चेत्यादि| अधोभागिके विरेचनद्रव्यविषये यः सावशेषौषधोऽतिप्रधावितदोषस्तमसम्यग्विरिक्तमप्यतिप्रधावितदोषत्वहेतुना वामयेत् परमतिबलं पुरुषम्||६||
Adhikarana ५ (७) · Śloka ७
क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाकमुपैति, तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रीयमाणा व्याधिविभ्रमं बलविभ्रंशं चापादयन्ति, तमनल्पममन्दमौषधं च पाययेत् ||७||
Show commentary
जीर्णौषधव्यापदं दर्शयन्नाह- क्रूरेत्यादि| समुदीर्णाः प्रकुपिताः, व्याधिविभ्रमं कोष्ठादिक्षोभलक्षणम्| बलविभ्रंशं सन्धिविश्लेषादिलक्षणं दोषादिविज्ञानीयोक्तम्| तमनल्पमित्यादि प्रभूतं तीक्ष्णं च पातुं प्रयच्छेत्||७||
Adhikarana ६ (८) · Śloka ८
अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोषान् हन्ति; तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधिवृद्धिं च करोति, तत्र तं यथायोगं पाययित्वा वामयेद्दृढतरं; विरेचने तु गुदपरिकर्तनमाध्मानं शिरोगौरवमनिःसरणं वा वायोर्व्याधिवृद्धिं च करोति; तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरेचयेद्दृढतरं, दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति ||८||
Show commentary
अल्पदोषहृतिव्यापदं दर्शयन्नाह- अस्निग्धस्विन्नेनेत्यादि| अल्पोऽतिसूक्ष्मो गुणो यस्य तत्तथा तम्| तं दोषशेषम्| यथायोगं योगानतिक्रमेण स्नेहादिपूर्वमित्यर्थः| पाययित्वा ‘आतुरं वमनद्रव्यम्’ इति शेषः| दृढतरमिति दृढतरं यथा भवति तथा| विरेचने त्विति अत्रापि दोषशेष इति सम्बध्यते| गुदपरिकर्तनं गुदस्य सर्वतः कर्तनमिव वेदनाविशेषः| दृढदेहं बहुदोषं प्रचलितदोषं च पूर्वं स्निग्धस्विन्नं तृतीयेऽह्नि; अन्ये तु वमनदिवसाद्विरेचनदिवसाद्वा तृतीयदिवसे वामयेद्विरेचयेद्वेति||८||
Adhikarana ७ (९) · Śloka ९
अस्निग्धस्विन्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोपयति, तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्यामर्मशूलं मूर्च्छां भ्रमं मदं सञ्ज्ञानाशं च करोति, तं वातशूलमित्याचक्षते; तमभ्यज्य धान्यस्वेदेन स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत् ||९||
Show commentary
वातशूलव्यापदं दर्शयन्नाह- अस्निग्धेत्यादि| श्रोणिः कटिः, मर्मात्र हृदयम्| भ्रमः चक्रारूढस्येव भ्रमणम्| मदः पूगफलादनेनेव मत्तता| धान्यस्वेदेन माषादिशमीधान्यस्वेदेन| मूर्च्छाभ्रमयोरनुवासनप्रतिषेधव्यवस्थापेक्षया शीतलेन यष्टीमधुकतैलेनानुवासनं वेदितव्यमिति ||९||
Adhikarana ८ (१०) · Śloka १०
स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीतमूर्ध्वमधो वा नाभ्येति दोषांश्चोत्क्लेश्य तैः सह बलक्षयमापादयति, तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति, तमयोगमित्याचक्षते; तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च |
दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति, ततस्तानशेषान्महौषधेनापहरेत् |
अस्निग्धस्विन्नस्य दुर्विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गः कण्डूमण्डलप्रादुर्भावो वा भवति, तमास्थाप्य पुनः संस्नेह्य विरेचयेत्तीक्ष्णेन |
नातिप्रवर्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत्, पाणितापैश्च पार्श्वोदरमुपस्वेदयेत्, ततः प्रवर्तन्ते दोषाः |
अनुप्रवृत्ते चाल्पदोषे जीर्णौषधं बहुदोषमहःशेषं बलं चावेक्ष्य भूयो मात्रां विदध्यात् |
अप्रवृत्तदोषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नेहस्वेदाभ्यां भूयः शोधयेत् |
दुर्विरेच्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् |
ह्रीभयलोभैर्वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति, तस्मादेते दुर्विरेच्याः, बहुवातत्वात्; अत एव तानतिस्निग्धान् स्वेदोपपन्नाञ् शोधयेत् ||१०||
Show commentary
अयोगव्यापदं दर्शयन्नाह- स्नेहेत्यादि| बहुव्यापत्त्वादेतान् सुस्निग्धस्विन्नान् स्वैरं रेचयेत्| स्नेहस्वेदाभ्यामविभावितशरीरेण सर्वथैवास्निग्धस्विन्नेनेत्यर्थः| नाभ्येति न गच्छति| दोषांश्चोत्क्लिश्य तैर्दोषैः सह बलक्षयमापादयति, तथाऽऽध्मानादिकं करोति| तमयोगमित्याचक्षते इति अनेन पारिभाषिकत्वमयोगस्य दर्शयति| इति हेतोरल्पदोषहृतत्वमयोगो न भवति| मदनादिभिर्वामयेद्वमनायोगे; तीक्ष्णतरकषायैर्विरेचयेद्विरेचनायोगे| तत्र बलक्षयाध्मानादिकं सर्वथाऽप्रवृत्तयोर्वमनविरेचनयोः सामान्यकार्यलिङ्गम्| पृथक् चिकित्सितमभिधाय तेन चिकित्सितेनोत्पन्नैर्हृल्लासप्रसेकाल्पविट्प्रवृत्तिनाभ्यधोगौरवादिभिरनुमितयोर्वमनविरेचनायोगयोः पृथक् लिङ्गं चिकित्सितं चाह- दुर्वान्तस्येत्यादि| कण्ड्वादिदुर्वान्तलिङ्गिनं वातपूर्णोदरादिदुर्विरिक्तलिङ्गिनं चास्थाप्य निरूह्य, संस्नेह्य स्नेहबस्तिना, ततस्तीक्ष्णेन निरूहणेन विरेचनेन च विरेचयेत्| अत्रायोगप्रसङ्गेनाल्पदोषहृतत्वेन च प्रवर्तनोपायं दर्शयन्नाह- नेत्यादि| तथाऽल्पप्रवृत्तौ द्वितीयं करणीयं दर्शयन्नाह- अनुप्रवृत्तेत्यादि| जीर्णौषधं प्रभूतदोषं पुरुषं वीक्ष्य तथा देहस्य बलं च द्वितीयौषधं विदध्यात्| अल्पदोषप्रवृत्तौ तदहरेव भेषजमभिधाय सर्वथा दोषाप्रवृत्तौ विधिमाह- अप्रवृत्तदोषमित्यादि| पथ्याहारस्नेहादिनोपस्कारेण दशरात्रमतिवाह्य तत ऊर्ध्वं वमनविरेचनाभ्यां शोधयेत्| सुखविरेच्यस्य क्रियामभिधाय दुर्विरेच्यस्याह- दुर्विरेच्यमित्यादि| स्वभावाद्दुर्विरेच्यान्निर्दिश्य हेतुविशेषं दुर्विरेचने निर्दिशन्नाह- ह्रीभयेत्यादि| तत्र ह्रिया लज्जया वेगाघातशीलाः स्त्रियो, भयेन राजसमीपस्था, लोभेन वणिजः श्रोत्रियाश्च, तस्मात्तानतिस्निग्धाञ्छोधयेत्||१०||
Adhikarana ९ (११) · Śloka ११
स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वाऽतितीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्यात् |
तत्र वमनातियोगे पित्तातिप्रवृत्तिर्बलविस्रंसो वातकोपश्च बलवान् भवति, तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमिश्रैर्लेहैरुपचरेद्यथास्वं; विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य, तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति, तमतिशीताम्बुभिः परिषिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्मधुमिश्रैश्छर्दयेत्, पिच्छाबस्तिं चास्मै दद्यात्, क्षीरसर्पिषा चैनमनुवासयेत्, प्रियङ्ग्वादिं चास्मै तण्डुलाम्बुना पातुं प्रयच्छेत्, क्षीररसयोश्चान्यतरेण भोजयेत् ||११||
Show commentary
इदानीमतियोगव्यापदं दर्शयन्नाह- स्निग्धेत्यादि| बलविस्रंसः शक्तिविस्रंसः | यथास्वमिति यस्य यदात्मीयं तद्यथास्वं; तेन लाजशक्तूपकल्पितैः क्वचिच्छर्करामिश्रैः क्वचिन्मधुमिश्रैरित्यर्थः| पिच्छाबस्तिर्वक्ष्यमाणः| क्षीरसर्पिषा क्षीरोत्थेन घृतेन| तण्डुलाम्बुमधुच्छर्दनमधःप्रवृत्तस्य श्लेष्मणः प्रतिबन्धार्थं, पिच्छाबस्तिप्रयोगो रक्तपित्तातिप्रवृत्तिपरिहाराय, क्षीरसर्पिषाऽनुवासनं वातप्रतिबन्धाय, तण्डुलाम्बुना सह प्रियङ्ग्वादिप्रयोगः कर्षप्रमाणः सङ्ग्रहणाय, क्षीररसैश्च भोजनं बलप्रतिलम्भाय| गयी तु पिच्छाबस्तिं चास्मै दद्यादित्यनन्तरं पिच्छाबस्त्यङ्गत्वेन क्षीररसाभ्यां चैनमिति पाठं पठति||११||
Adhikarana १० (१२-१४) · Śloka १४
तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणितं ष्ठीवति र्छ्दयति वा, तत्र जिह्वानिःसरणमपसरणमक्ष्णोर्व्यावृत्तिर्हनुसंहननं तृष्णा हिक्का ज्वरो वैसञ्ज्ञ्यमित्युपद्रवा भवन्ति; तमजासृक्चन्दनोशीराञ्जनलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत्, फलरसैर्वा सघृतक्षौद्रशर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्चोग्राहिभिर्वा, पयसा जाङ्गलरसेन वा भोजयेत्, अतिस्रुतशोणितविधानेनोपचरेत्; जिह्वामतिसर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वाऽन्तः पीडयेत्, अन्तःप्रविष्टायामम्लमन्ये तस्य पुरस्तात् खादयेयुः; व्यावृत्ते चाक्षिणी घृताभ्यक्ते पीडयेत्, हनुसंहनने वातश्लेष्महरं नस्यं स्वेदांश्च विदध्यात्, तृष्णादिषु च यथास्वं प्रतिकुर्वीत, विसञ्ज्ञे वेणुवीणागीतस्वनं श्रावयेत् ||१२||
विरेचनातियोगे च सचन्द्रकं सलिलमधः स्रवति ततो मांसधावनप्रकाशमुत्तरकालं जीवशोणितं च, ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्रवाश्चास्य भवन्ति; तमपि निःस्रुतशोणितविधानेनोपचरेत्, निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तः पीडयेत् क्षुद्ररोगचिकित्सितं वा वीक्षेत, वेपथौ वातव्याधिविधानं कुर्वीत, जिह्वानिःसरणादिषूक्तः प्रतीकारः, अतिप्रवृत्ते वा जीवशोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जनयुक्तेन सुशीतेनास्थापयेत्, न्यग्रोधादिकषायेक्षुरसघृतशोणितसंसृष्टैश्चैनं बस्तिभिरुपाचरेत्, शोणितष्ठीवने रक्तपित्तरक्तातीसारक्रियाश्चास्य विदध्यात्, न्यग्रोधादिं चास्य विदध्यात् पानभोजनेषु ||१३||
जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् पिचुं प्लोतं वा क्षिपेत्, यद्युष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणितमवगन्तव्यं; सभक्तं च शुने दद्याच्छक्तुसम्मिश्रं वा, स यद्युपभुञ्जीत तज्जीवशोणितमवगन्तव्यम्; अन्यथा रक्तपित्तमिति ||१४||
Show commentary
इदानीं तयोर्वमनविरेकातियोगयोरुत्तमावस्थाजीवादानव्यापदं कष्टचिकित्सितार्थमाह- तस्मिन्नेवेत्यादि| जिह्वाया निःसरणमपसर्पणं जिह्वानिःसर्पणम्, अथवा जिह्वाया बहिर्निर्गमनं बहिर्गतिरन्तरप्रवेश इत्यर्थः| अक्ष्णोर्व्यावृत्तिः चक्षुषोरुद्वृत्तिः| हनुसंहननं हनुसंहतिः सरणाभाव इत्यर्थः| तमित्यादि तं वमनातियोगप्रवृत्तशोणितं छागरुधिरादिभिः प्लुतं मन्थं पाययेत्| फलरसैर्वेति दाडिमीफलरसैः| जाङ्गलरसेनेति ‘वातप्रकृतिम्’ इति शेषः| अन्तःप्रविष्टायां जिह्वायामम्लफलमन्ये तस्य पुरस्तात् खादयेयुरिति एतद्दर्शनात् मुखप्रसेकेन मृदुभूता जिह्वा यथास्थानमागच्छति| विरेचनातियोगे चेत्यादि| सचन्द्रकं मयूरपिच्छचन्द्रकाकारम्| जीवशोणितं शरीरेन्द्रियसत्त्वात्मसंयोगाश्रयं विशुद्धं शोणितमित्यर्थः| वमनातिप्रवृत्तौ तावच्छोणितनिष्ठीवनप्रच्छर्दने उक्ते, अत्र तु मांसप्रक्षालनोदकजीवशोणितनिर्गमाभ्यां प्रवृत्तिरुक्तेति शोणितप्रवृत्तिर्वमनविरेचनातियोगे सामान्यं; भेदस्तु जिह्वानिस्सरणस्थानेऽत्र गुदनिस्सरणं, तथाऽक्ष्णोर्व्यावृत्तिर्मनागपि नास्ति किन्त्वन्तःप्रवेश एव भवति, नास्ति चाप्रत्यासत्त्या हनुसंहननं हिक्कोद्गारौ चेति गयदासाचार्यः; जेज्जटाचार्यस्तु जिह्वानिःसर्पणं परित्यज्य अन्ये प्रवृद्धवमनातियोगोक्ता उपद्रवा भवन्तीति व्याख्याति| वेपथुः कम्पः| वमनातियोगोपद्रवा इत्यादि| सर्वाङ्गप्रवृत्तरसधातुक्षयेण वातकृता वमनातियोगोपद्रवा पित्तातिप्रवृत्तिबलविभ्रंशवातकोपतृष्णामोहादयः| जिह्वापसरणादिष्विति जिह्वापसर्पणमत्रोपलक्षणं, तेन जिह्वापसर्पणादिविरेचनातियोगोत्पन्नेषु वमनातियोगोक्तः प्रतीकार इति जेज्जटः| गयी तु जिह्वानिस्सर्पणादयो वमनातियोगे एव भवन्तीति प्रतिपादयितुकामस्तेषु चिकित्सितमभिहितमेवेति प्रतिपादयति- जिह्वानिस्सर्पणादिष्वित्यादिना| उक्तः प्रतीकार इति वमनातियोगे इत्यर्थः| फलं मदनफलं, घृतमण्डः घृतस्य स्त्यानस्योपर्यच्छो भागः| अञ्जनं स्रोतोऽञ्जनम्| बस्तिकल्पना चात्र सामान्यनिरूहकल्पेन| विरेचनातियोगे जीवशोणितातिप्रवृत्तौ चिकित्सितमुपदिश्य वमनातियोगेऽपि शोणितनिष्ठीवनादौ रक्तातिसाररक्तपित्तक्रियामाह- शोणितेत्यादि| पानभोजनसंस्कारे चास्य न्यग्रोधादिं षडङ्गोदककल्पेन| तस्मिन्निति वान्तेऽधःप्रवृत्ते धातुद्रवे, पिचुं कर्पासतूलकं , प्लोतं वस्त्रं शुक्लं क्षिपेत्, तद्यदि शुक्लमुष्णोदकप्रक्षालितं रागरहितं भवेत्तदा जीवशोणितं, विवर्णे च रक्तपित्तमिति| वमनविरेचनजीवादानयोः पुनः क्रियां निर्दिशन्नाह- तयोश्च पित्तक्रियां कुर्वीतेत्यादि| वमनजीवादाने तु अतिस्रुतशोणितविधानातिदेशेन एणादिशोणितपानमुपदिष्टं तथेदानीं रक्तातिसारक्रियाविधानं चेति| अयं पाठोऽभावान्न लिखितः||१२-१४||
Adhikarana ११ (१५) · Śloka १५
सशेषान्नेन बहुदोषेण रूक्षेणानिलप्रायकोष्ठेनानुष्णमस्निग्धं वा पीतमौषधमाध्मापयति, तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्गो गुदबस्तिनिस्तोदनं भक्तारुचिश्च भवति, तं चाध्मानमित्याचक्षते; तमुपस्वेद्यानाहवर्तिदीपनबस्तिक्रियाभिरुपचरेत् ||१५||
Show commentary
जीवादानव्यापदमभिधाय द्वयोरपि शुद्ध्योराध्मानाख्यां व्यापदमुपदिशन्नाह- सशेषान्नेनेत्यादि| समुन्नद्धोदरतेति वमनकृतं समुन्नद्धोदरत्वमामाशये, विरेचनकृतं पक्वाशये| तत्र स्वेदनमूत्राद्यनुलोमनलङ्घनदीपनक्रियाश्चेति चिकित्सितम्||१५||
Adhikarana १२ (१६) · Śloka १६
क्षामेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतितीक्ष्णोष्णातिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्तिकामापादयति, तत्र गुदनाभिमेढ्रबस्तिशिरःसु सदाहं परिकर्तनमनिलसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति; तत्र पिच्छाबस्तिर्यष्टीमधुककृष्णतिलकल्कमधुघृतयुक्तः, शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वाऽनुवासयेत् ||१६||
Show commentary
परिकर्तिकाव्यापदं दर्शयन्नाह- क्षामेणेत्यादि| क्षामः क्षीणबलकायः| परि सर्वतो भावेन कृन्ततीव छिनत्तीव बस्त्यादीनीति परिकर्तिका| तत्र पित्तोल्बणपरिकर्तिकायां घृतमण्डेनानुवासनं, वातोल्बणायां तु तैलेनेति| वमने पुनः कण्ठोरसि सदाहपरिकर्तनं; तत्र घृतमधुमधुरैः सशीतैर्लेपैरुपचारः पयःसिताभोजनं च||१६||
Adhikarana १३ (१७) · Śloka १७
क्रूरकोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशेषानपहरति, ततस्ते दोषाः परिस्रावमापादयन्ति, तत्र दौर्बल्योदरविष्टम्भारुचिगात्रसदनानि भवन्ति, सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः, तं परिस्रावमित्याचक्षते; तमजकर्णधवतिनिशपलाशबलाकषायैर्मधुसंयुक्तैरास्थापयेत्, उपशान्तदोषं स्निग्धं च भूयः संशोधयेत् ||१७||
Show commentary
परिस्रावाख्यां व्यापदं दर्शयन्नाह- क्रूरेत्यादि| अजकर्णोऽश्वकर्णः प्रसिद्ध एव पूर्वदेशे, धव इन्द्रवृक्षः, तिनिशः स्यन्दनः| उपशान्तदोषमिति उपशान्तपरिस्रावम्| भूयः पुनरपि स्निग्धं तीक्ष्णैः संशोधनैः संशोधयेत्| वमने पुनरूर्ध्वं कफप्रसेकः; तत्राध्याहारेणोपशान्तदोषं सुस्निग्धस्विन्नं मृदुनाऽल्पेन वमनेन यथायोगं वामयेत्| गयी तु उपशान्तदोषमिति रूक्षस्निग्धकोष्ठं संशमनपाचनाभ्यां शमितोत्क्लिष्टदोषमास्थापयेच्छोधयेद्वेति व्याख्याति||१७||
Adhikarana १४ (१८) · Śloka १८
अतिरूक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं वातवर्च उदीरयति वेगाघातेन वा, तदा प्रवाहिका भवति; तत्र सवातं सदाहं सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमाणः कफमुपविशति; तां परिस्रावविधानेनोपचरेत् ||१८||
Show commentary
प्रवाहिकाख्यां त्रयोदशीं व्यापदं दर्शयन्नाह- अतिरूक्ष इत्यादि| अतिरूक्षे पुरुषे भेषजमवचारितमप्राप्तवेगमेव वातवर्च उदीरयति प्रवर्तयति यदा तदा प्रवाहिका; अतिस्निग्धे पुरुषे भेषजमवचारितं यदा तदा वेगाघातेन प्रवाहिका भवतीत्यर्थः| उपविशति अतिसारयति| तां परिस्रावविधानेनेत्यादि| तत्रातिरूक्षजां क्रूरकोष्ठविधानेन, अतिस्निग्धजां मृदुकोष्ठप्रचुरदोषपरिस्रावोक्तपाचनादिविधानेन||१८||
Adhikarana १५ (१९) · Śloka १९
यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः, तत्र प्रधानमर्मसन्तापाद्वेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटायते उद्गताक्षो जिह्वां खादति प्रताम्यत्यचेताश्च भवति, तं परिवर्जयन्ति मूर्खाः; तमभ्यज्य धान्यस्वेदेन स्वेदयेत्, यष्टिमधुकसिद्धेन च तैलेनानुवासयेत्, शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात्, ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत्, यथादोषोच्छ्रायेण चैनं बस्तिभिरुपाचरेत् ||१९||
Show commentary
हृदयोपसरणाख्यां चतुर्दशीं व्यापदं दर्शयन्नाह- य इत्यादि| प्रधानमर्मसन्तापात् हृदयसन्तापात्| प्रताम्यति मुह्यति| अचेता नष्टसञ्ज्ञः| तं परिवर्जयन्ति मूर्खाः कुवैद्याः मुमूर्षतीति हेतोः| यष्टिमधुकमिश्रेण तण्डुलाम्बुना पित्तमूर्च्छार्तं र्छ्दयेत्; कफमूर्च्छायां तु कटुकद्रव्याणां क्वाथेन वामयेत्| बस्तिभिरिति नैरूहिकैः स्नेहिकैश्च||१९||
Adhikarana १६ (२०) · Śloka २०
यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत, तस्य दोषाः स्रोतःस्ववलीयमाना घनीभावमापन्ना वातमूत्रशकृद्ग्रहमापाद्य विबध्यन्ते , तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा भवन्ति; तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत; अधोभागे त्वधोभागदोषहरद्रव्यं सैन्धवाम्लमूत्रसंसृष्टं विरेचनाय पाययेत्, आस्थापनमनुवासनं च यथादोषं विदध्यात्, यथादोषमाहारक्रमं च; उभयतोभागे तूपद्रवविशेषान् यथास्वं प्रतिकुर्वीत ||२०||
Show commentary
विबन्धाख्यां पञ्चदशीं व्यापदं दर्शयन्नाह- य इत्यादि| विबध्यन्ते वमनविरेचनयोः प्रवृत्तिं निवारयन्तीत्यर्थः| प्राप्तकालां प्राप्तावस्थां क्रियां कुर्वीत| अधोभागे इत्यादि| विरेचने तु विबन्धे अधोभागहरद्रव्यं त्रिवृदादि सैन्धवादिसंसृष्टं विरेकार्थं पाययेत्| यथादोषमेव यूषक्षीररसाद्याहारक्रमश्च| किं बहुना उभयतोभागे तु उपद्रवविशेषान् यथास्वं प्रतिकुर्वीत| गयी तु अप्रवृत्तदोषोऽप्रच्युतदोष इति कृत्वा व्याख्याति||२०||
Adhikarana १७ (२१) · Śloka २१
या तु विरेचने गुदपरिकर्तिका तद्वमने कण्ठक्षणनं, यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः, या त्वधः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति ||२१||
Show commentary
तास्वपि कासुचिदेवान्तरमिति तदुपदर्शयन्नाह- या त्वित्यादि||२१||
Adhikarana १८ (२२) · Śloka २२
भवति चात्र- यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः |
एता विरेकातियोगदुर्योगायोगजाः स्मृताः ||२२||
Show commentary
इदानीं श्लोकसङ्ग्रहमाह- भवति चात्रेत्यादि| तत्त्वतः परमार्थतः| विरेकोऽत्र दोषमलरेचनाद्विरेचनं वमनं च| जेज्जटाचार्यस्तु विपाकातियोगेत्यादि पठित्वा व्याख्यानयतिविषमः पाकोऽनिष्टं फलं येषां ते विपाकाः, विपाकाश्च तेऽतियोगदुर्योगायोगाश्च तेभ्यो जायन्ते ते तथा| तत्रातियोजनमतियोग अतिप्रयोग इति यावत्; तज्जाते द्वे व्यापदौ- जीवादानमतियोगश्चेति| दुर्योजनं दुर्योगः दुष्प्रयोगो मिथ्याप्रयोग इति यावत्; तत्र वैद्यदुर्योगनिमित्ताश्चतस्रः- वमनमिथ्याप्रयोगो, विरेचनमिथ्याप्रयोग, आध्मानं, परिकर्तिका चेति; आतुरदुर्योगनिमित्ते द्वे- हृदयोपसरणविबन्धाविति; उभयदुर्योगजे अपि द्वे- प्रवाहिका, वातशूलं चेति| अयोजनम् अयोगः हीनप्रयोगः , नञ ईषदर्थत्वात्| तत्रायोगजाः पञ्च- सावशेषौषधत्वं, जीर्णौषधता, हीनदोषहृतत्वम् अयोगः, परिस्रावश्चेति| ता एता वैद्यातुरनिमित्ता, आतुरनिमित्ता, वैद्यनिमित्ताश्चेति त्रिविधाः| अन्ये तु तन्त्रान्तरदर्शनादयोगातियोगजाः सर्वा अपि व्यापदो यथासङ्ख्यं मन्यन्ते; तत्रायोगजा दश, तद्यथा- सावशेषौषधत्वं, जीर्णौषधत्वम्, अल्पदोषहृतत्वं, विबन्धो, वातशूलम्, आध्मानं, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अयोगश्चेति; अतियोगजाश्च तिस्रः- जीवादानं, परिकर्तिका, अतियोगश्चेति; अयोगातियोगौ च हेतुत्वेनोक्तावित्येवं पञ्चदश||२२||
Adhikarana पुष्पिका · Śloka ३४
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनव्यापच्चिकित्सितं नाम चतुस्त्रिंशोऽध्यायः ||३४||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने चतुस्त्रिंशत्तमोऽध्यायः||३४||