Adhikarana १ (१-२) · Śloka २
अथातो द्विव्रणीयं चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Hide commentary
शारीरानन्तरं चिकित्सास्थानमारभ्यते| द्वौ व्रणावधिकृत्य कृतं द्विव्रणीयम्| चिकित्सितं विकारप्रतीकारः||१-२||
Adhikarana २ (३) · Śloka ३
द्वौ व्रणौ भवतः- शारीर, आगन्तुश्च |
तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः; आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्रहाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्ग- चक्रेषुपरशुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः |
तत्र तुल्ये व्रणसामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद् ‘द्विव्रणीय’ इत्युच्यते ||३||
Hide commentary
कथं द्वौ व्रणौ भवत इत्याह- शारीर आगन्तुश्च; अत्र केचित् ‘शरीरसमुत्थश्च, आगन्तुश्च’ इति पठन्ति, व्याख्यानयन्ति च- उभयत्र चकारकरणमुभयोश्च व्याकरणमुभयोः परस्परानुबन्धसूचनार्थम्| अभिघातशब्दः पुरुषादिभिः प्रत्येकं सम्बन्धनीयः| पशवो गोमहिषादयः, मृगा एणादयः, पक्षिणः काककङ्कगृध्रादयः, व्याला व्याघ्रादयो दुष्टजीवाः, सरीसृपाः कृष्णसर्पादयो मीनमकरौ च, प्रपतनं प्रकर्षेण पतनं, प्रहारो लगुडादिकुट्टनं, तीक्ष्णौषधानि चिरबिल्वचित्रकादीनि, शकलं काष्ठादीनां खण्डं, कपालं घटादीनां कर्परं, चक्रमायुधविशेषः स्वनामख्यातः, इषुर्बाणः, परशुरायुधविशेषः कुठाराकारः, शक्तिरायुधविशेषस्त्रिमुखी, कुन्तः प्रसिद्धः; आदिशब्दात् खङ्गादयः| व्रणसामान्यं व्रणजातिर्व्रणत्वमित्यर्थः; तस्मिंस्तुल्ये सत्यपि द्विकारणोत्थानप्रयोजनसामर्थ्याद् ‘द्विव्रणीय’ इत्युच्यते; द्विकारणं द्विहेतुकं यदुत्थानमुत्पत्तिः, तस्य प्रयोजनं शीतक्रियादि, तस्य सामर्थ्यं शक्तिः, तस्माद् ‘द्विव्रणीय’ इत्युच्यते||३||
Adhikarana ३ (४) · Śloka ४
सर्वस्मिन्नेवागन्तुव्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावचारणविधिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतद्द्विकारणोत्थानप्रयोजनम्, उत्तरकालं तु दोषोपप्लवविशेषाच्छारीरवत् प्रतीकारः ||४||
Hide commentary
अथागन्तुव्रणस्य कर्मविशेषयोजनं दर्शयन्नाह- सर्वस्मिन्नित्यादि| तत्कालमेवेति यत्कालमेवाभिघातात् क्षतमुत्पद्यते तस्मिन्नेव काले| क्षतोष्मण इति ऊष्मा प्रहारसङ्घट्टजनितं तेजः| प्रसृतस्य विस्तृतस्य| विधिविशेषो विधानभेदः| हेतुप्रत्यनीकं कर्माभिधाय व्याधिप्रत्यनीकं दर्शयन्नाह- सन्धानार्थं चेत्यादि| चकारः क्षतोष्मणो निर्वापणार्थं तथा मार्गावरोधक्रुद्धवातरक्तशमनार्थं च| वक्ष्यमाणशारीरव्रणोत्थानप्रयोजनं मनसि सम्प्रधार्याह- एतद्विकारणोत्थानप्रयोजनमिति| उत्तरकालमिति सप्ताहादूर्ध्वमित्यर्थः; यतः सद्योव्रणत्वं सप्ताहमेव| दोषोपप्लवविशेषादिति दोषैरनिलादिभिरुपप्लवो दूषणं तद्भेदात्||४||
Adhikarana ४ (५) · Śloka ५
दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः, प्रसरणसामर्थ्यात्, यथोक्तो व्रणप्रश्नाधिकारे; शुद्धत्वात् षोडशप्रकार इत्येके ||५||
Hide commentary
दोषोपप्लवविशेषं दर्शयन्नाह- दोषेत्यादि| समासतः सङ्क्षेपतः; वातादीनां शोणितचतुर्थानां पृथगन्योन्यसंसर्गेण पञ्चदशभेदाः; विस्तरः पुनरेषां धातुमलसंसर्गजोऽपरिसङ्ख्येयः| शुद्धत्वादिति पञ्चदशप्रकारदोषोपप्लवयुक्तत्वात् पञ्चदशप्रकारो व्रणः, षोडशश्च शुद्धः सकलदोषोपप्लवरहितो व्रण इत्यर्थः||५||
Adhikarana ५ (६) · Śloka ६
तस्य लक्षणं द्विविधं- सामान्यं, वैशेषिकं च |
तत्र सामान्यं रुक् |
‘व्रण’ गात्रविचूर्णने, व्रणयतीति व्रणः |
विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः ||६||
Hide commentary
इदानीं व्रणस्य शुद्धाशुद्धभेदेन लक्षणद्वैविध्यमाह- तस्य लक्षणमित्यादि| तस्य व्रणस्येत्यर्थः| सामान्यलक्षणं व्रणस्य किमित्याह- तत्र सामान्यं रुगिति; रुक् पीडामात्रमित्यर्थः| व्रणस्य व्युत्पत्तिमाह- ‘व्रण’ गात्रविचूर्णने इत्येवं धातुः, गात्रविवर्णनमित्यस्यार्थः| व्रणयतीति गात्रवैवर्ण्यं करोतीत्यर्थः| एतेनादोषलिङ्गाधिष्ठितो रोपणचिकित्साविषयः शुद्ध एव व्रण उक्तः| विशेषलक्षणमाह- विशेषलक्षणमित्यादि| अयमशुद्धो व्रण उक्तः||६||
Adhikarana ६ (७) · Śloka ७
तत्र श्यावारुणाभस्तनुः शीतः पिच्छिलोऽल्पस्रावी रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलो निर्मांसश्चेति वातात्, क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारकारी पीतपिडकाजुष्टश्चेति पित्तात्, प्रततचण्डकण्डूबहुलः स्थूलौष्ठः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात्, प्रवालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचितस्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात्, तोददाहधूमायनप्रायः पीतारुणाभस्तद्वर्णस्रावी चेति वातपित्ताभ्यां, कण्डूयनशीलः सनिस्तोदो रूक्षो गुरुर्दारुणो मुहुर्मुहुः शीतपिच्छिलाल्पस्रावी चेति वातश्लेष्मभ्यां, गुरुः सदाह उष्णः पीतपाण्डुस्रावी चेति पित्तश्लेष्मभ्यां, रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणिताभ्यां, घृतमण्डाभो मीनधावनतोयगन्धिर्मृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां, रक्तो गुरुः स्निग्धः पिच्छिलः कण्डूप्रायः स्थिरो सरक्तपाण्डुस्रावी चेति श्लेष्मशोणिताभ्यां, स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः, कण्डूस्फुरणचुमचुमायमानप्रायः पाण्डुघनरक्तास्रावी चेति वातश्लेष्मशोणितेभ्यः, दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति पित्तश्लेष्मशोणितेभ्यः, त्रिविधवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः, निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः, जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ||७||
Hide commentary
इदानीं वातादिव्रणलक्षणमाह- तत्रेत्यादि| चटचटायनशीलः चटचटायनस्वभावः| चटचटायनादयो वेदनाविशेषाः| स्फुरणं पुनः पुनश्चलनम्, आयामः सङ्कुचिताङ्गदेशस्य दीर्घीकरणमिव, तोदः सूचीभिरिव, भेदनं त्वग्विदारणमिव| क्षिप्रजः शीघ्रजन्मा| किंशुकोदकाभोष्णस्रावी किंशुकसुमनःप्रक्षालनसलिलसदृशोष्णस्रवणशील इत्यर्थः| प्रततचण्डकण्डूबहुलः विशालकण्डूयनप्रायः| स्थूलौष्ठः विशालोन्नतव्रणवर्त्मेत्यर्थः| स्तब्धसिरास्नायुजालावततः अमृदुसिरास्नायुसमूहेन बद्ध इत्यर्थः| प्रवालदलनिचयप्रकाशः प्रवालखण्डसमूहसदृशः; प्रवालो विद्रुमः, स च समुद्रजातोऽत्यन्तरक्तो वल्लीविशेषः| कृष्णस्फोटपिडिकाजालोपचित इति कृष्णस्फोटपिडकासमूहव्याप्तः| तुरङ्गस्थानगन्धिः तीक्ष्णक्षारगन्धिः| धूमायनशीलः प्रकर्षेण धूमोद्वमनमिव कर्तुं शीलः| तोदेत्यादि| तद्वर्णस्रावी अत्रानुक्तपरिशिष्टेन वातपित्तयोर्वर्णेन स्रावेण च युक्त इत्यर्थः| कण्डूयनेत्यादि| सनिस्तोदो व्यथायुक्तः| दारुणः कठिनः| रूक्षेत्यादि| सुप्त इवेति अज्ञायमानस्पर्श इव| तद्वर्णास्रावीति अत्रानुक्तपरिशिष्टेन तयोर्वातशोणितयोर्वर्णेन स्रावेण च युक्त इत्यर्थः| घृतमण्डो घृतस्योपरिस्थोऽच्छो भागो मण्डः| मीनधावनतोयगन्धिः मत्स्यप्रक्षालनोदकगन्धिः, विस्रगन्धिरित्यर्थः| कण्ड्वित्यादि| चुमचुमायमानं राजिकासर्षपलिप्त इव वेदना| निर्दहनेत्यादि|- निर्दहनं भस्मसात्करणमिव, निर्मथनं मन्थानविलोडनमिव| इदानीं शुद्धव्रणमाह- जिह्वेत्यादि| अत्र जिह्वातलाभशब्दो मृदुस्निग्धश्लक्ष्णशब्दैः प्रत्येकं सम्बध्यते; अत्राभाशब्देन वर्णः कथ्यते| मृदुः कोमलः| श्लक्ष्णो मसृणः| सुव्यवस्थितः शोभनाकृतिः; एतेन नात्युन्नतो नातिनीचः किन्तु सम इति बोधयति| इतिशब्दः सूत्रनिर्दिष्टसमाप्तौ||७||
Adhikarana ७ (८) · Śloka ८
तस्य व्रणस्य षष्टिरुपक्रमा भवन्ति |
तद्यथा- अपतर्पणमालेपः परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रावणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्कारिका कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनं व्रणधूपनमुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णकर्म पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्तिकर्म बन्धः पत्रदानं कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधु सर्पिर्यन्त्रमाहारो रक्षाविधानमिति ||८||
Hide commentary
तस्येत्यादि| एषां मध्ये प्रतिसारणं न गणनीयं, शुक्लकृष्णकर्मणोरवशेषत्वात् ; अतो न सङ्ख्यातिरेकः| केचिदत्र रोमसञ्जननलोमापहरणादीन् सप्तोपक्रमान् विहाय कषायादीन् सप्त शोधनरूपान् सप्त रोपणरूपानिति द्विरूपान् गणयित्वा षष्टिमुपक्रमान् पूरयन्ति| तन्न, कषायादयोऽवान्तरभेदविवक्षया चतुर्दशापि सामान्याकारेण सप्तैव, अतः सप्तैव गणनीयाः, रोमसञ्जननादयश्चावश्यं पठनीयाः| अपरं च गयदासः पाचनं न पठति, जेज्जटस्तु लोमापहरणं न पठति अपि च, ताभ्यां परमत्यन्तं विवादः कृतः, स च विस्तरभयान्न लिखितः; तौ च यया युक्त्या षष्टिं पूरयतः साऽपि विस्तरभयान्न लिखिता||८||
Adhikarana ८ (९) · Śloka ९
तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणानि, तेष्वष्टौ शस्त्रकृत्याः, शोणितास्थापनं क्षारोऽग्निर्यन्त्रमाहारो रक्षाविधानं बन्धविधानं चोक्तानि, स्नेहस्वेदनवमनविरेचनबस्त्युत्तरबस्तिशिरोविरेचननस्यधूमकवलधारणान्यन्यत्र वक्ष्यामः , यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ||९||
Hide commentary
इदानीमुपक्रमेषु मध्ये कषायादीनामुभयार्थकारित्वमाह- तेष्वित्यादि| तेषु अपतर्पणादिषु मध्ये, कषायादयः सप्त| अष्टौ छेदनादयो दारणवर्ज्याः सीवनान्ताः शस्त्रकृत्याः शस्त्रेण कर्तुं शक्या उपक्रमा अष्टविधशस्त्रकर्मीये (सू. २५) उक्ताः| शोणितेत्यादि| शोणितास्थापनं चतुर्विधं कषायशीतक्रियापचनदहनभेदेन, तदुक्तं शोणितवर्णनीये (सू. १४)| क्षारः पानीयप्रतिसारणीयभेदेन द्विविधोऽप्युक्तः| “जीर्णशाल्योदनं” (सू. १९) इत्यादिना व्रणितोपासनीयोक्तेराहारोऽप्युक्तः| रक्षाविधानं द्विविधं तन्त्रेण रक्षोघ्नगुग्गुल्वादिना धूपनेन लक्ष्मीगुहाद्योषधिधारणेन चेत्येतदुक्तमग्रोपहरणीये व्रणितोपासनीये (सू. १९) च; मन्त्रेण च “कृत्यानां प्रतिषेधार्थं” (सू. ५) इत्यादिनाऽग्रोपहरणीये| बन्धविधानं व्रणालेपनाध्याये (सू. १८)| शोणितास्थापनादयः सप्त| स्नेहेत्यादि अन्यत्रेति पञ्चकर्मनिर्देशे इत्यर्थः| स्नेहादयो दश| यदित्यादि अवशिष्टमुपक्रमजातमुर्वरित उपक्रमसमूहोऽष्टाविंशतिसङ्ख्यः, एवं सर्वमीलने षष्टिरुपक्रमा भवन्ति||९||
Adhikarana ९ (१०) · Śloka १०
षड्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा भवन्त्यपतर्पणादयो विरेचनान्ताः; ते च विशेषेण शोथप्रतीकारे वर्तन्ते, व्रणभावमापन्नस्य च न विरुध्यन्ते; शेषास्तु प्रायेण व्रणप्रतीकारहेतव एव ||१०||
Hide commentary
इदानीमपतर्पणादीन्येकादश व्रणकारणशोफविषयत्वेन विषयभेदेनापि निर्दिशन्नाह- षड्विध इत्यादि| अपतर्पणादय इत्यत्र बहुव्रीहेरतद्गुणसंविज्ञानत्वाच्छेषा एकादश ग्राह्याः| अपतर्पणमुपक्रममध्ये प्राधान्याद्गृह्यते| ननु, अपतर्पणादीनां शोफविषयत्वाच्छोफस्य च व्रणाद्भिन्नत्वेन कथं षष्टिरुपक्रमा भवन्तीत्याह- व्रणभावमित्यादि| आपन्नस्य प्राप्तस्य, ‘शोफस्य’ इति शेषः| शेषा इत्यादि एकादशभ्य उपक्रमेभ्योऽन्ये शेषाः, ते व्रणप्रतीकारभूता एव||१०||
Adhikarana १० (११) · Śloka ११
अपतर्पणमाद्य उपक्रमः; एष सर्वशोफानां सामान्यः प्रधानतमश्च ||११||
Hide commentary
प्रथममपतर्पणं निर्दिशन्नाह- अपतर्पणमित्यादि| अपतर्पणम् अभोजनं; नतु यत्किञ्चिदेवापतर्पणं वमनादि, वमनादीनां पृथगेवोपादानात्| सर्वशोफानामिति पञ्चदशानां, नागन्तोः; दोषोच्छ्रायोपशान्त्यर्थमिति वचनात्| अत्र वातजेऽपि शोफेऽपतर्पणं विकारप्रत्यनीकत्वात्, अथवा वातेऽपि प्रागामताभावात्| तदुक्तं- “वाते सामेऽपि लङ्घनम्”- इति| सामान्यः सर्वशोफहितः| प्रधानतम आशुरोगहरत्वात्||११||
Adhikarana ११ (१२) · Śloka १२
भवन्ति चात्र - दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः |
अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम् ||१२||
Hide commentary
अपतर्पणस्यैव फलं विषयं कालावधिं च दर्शयन्नाह- दोषेत्यादि| दोषोच्छ्रायोपशान्तिः फलं, दोषानद्धत्वं विषयः, अवेक्ष्य दोषं प्राणं चेति कालावधिः| दोषोच्छ्रायो दोषौत्कट्यम्| दोषानद्धस्य दोषैरामैरानद्धाशेषस्रोतसः| दोषाः कफादयः, तद्दुष्टा धातवो मलाश्च | देहिन उपचितशरीरस्येत्यर्थः| दोषं प्राणं चेति युगपदेव लङ्घनावधिः; प्राणं चेत्यत्र चकाराद्वयःप्रकृत्यादीनि चाष्टौ, अवेक्ष्य विविच्य||१२||
Adhikarana १२ (१३) · Śloka १३
ऊर्ध्वमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः |
न कार्यं गर्भिणीवृद्धबालदुर्बलभीरुभिः ||१३||
Hide commentary
अपतर्पणस्य निषेधविषयं निर्दिशन्नाह- ऊर्ध्वमारुतेत्यादि| ऊर्ध्वमारुताः श्वासकासादिरोगिणः, अन्ये तूर्ध्वमारुतं रोगान्तरमाहुः| तद्यथा- “भुक्तेऽभुक्ते तथा सुप्ते यस्योद्गारो भृशं भवेत्| ऊर्ध्ववातं तु तं विद्यादुदानव्यानसम्भवम्”- इति| अपरे तु ‘तद्धि मारुत’ इत्यादि पठन्ति| मारुतोऽत्र मारुतकृताक्षेपकादिरामयः| क्षुद् बुभुक्षा| मुखशोषो निरामवातपित्तकृतः| ‘श्रमान्वितैः’ इत्यत्र केचित् ‘भ्रमान्वितैः’ इति पठन्ति; भ्रमो निरामवातपित्तकृतः; सामवातपित्तकृतमार्गावरणजौ तु तावपि लङ्घ्यावेव| गर्भिण्यादिष्वनात्ययिके व्याधौ लङ्घनप्रतिषेधः||१३||
Adhikarana १३ (१४) · Śloka १४
शोफेषूत्थितमात्रेषु व्रणेषूग्ररुजेषु च |
यथास्वैरौषधैर्लेपं प्रत्येकश्येन कारयेत् ||१४||
Hide commentary
आलेपनविषयं दर्शयन्नाह- शोफेष्वित्यादि| उत्थितमात्रेषु जातमात्रेषु| यथास्वैरिति वातादिशोफे मातुलुङ्गादिदूर्वाद्यजगन्धादिभिरात्मीयैरित्यर्थः| यथोक्तैरिति केचित् पठन्ति; तत्रापि स एवार्थः| प्रत्येकश्येन एकैकेन||१४||
Adhikarana १४ (१५-१६) · Śloka १६
यथा प्रवज्वलिते वेश्मन्यम्भसा परिषेचनम् |
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः ||१५||
प्रह्लादने शोधने च शोफस्य हरणे तथा |
उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् ||१६||
Hide commentary
दृष्टान्तदर्शनेनालेपस्य फलमाह- यथेत्यादि| एवमालेपनं रुज इति आलेपनं शोफस्य रुजो वेदनाः शमयतीत्यर्थः| न केवलमालेपः शोफस्य रुजापहः; किन्तु प्रह्लादनादीन्यपि करोतीत्याह- प्रह्लादन इत्यादि| प्रह्लादने सुखकरणे, रुजापनयनात्| शोधने व्रणस्य दोषप्रकोपस्फोटनाय| उत्सादने निम्नव्रणस्योन्नतिकरणे| रोपणे चेति चकारादवसादनसवर्णकरणादीनि समुच्चीयन्ते| तदर्थकृत् प्रह्लादनादिप्रयोजनकारी| अस्य प्रयोगः पुनरालेपाध्याये (सू. १८); द्रव्याणि तु मिश्रकादिषु||१५-१६||
Adhikarana १५ (१७-१८) · Śloka १८
वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातहरौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत, पित्तरक्ताभिघातविषनिमित्तेषु क्षीरघृतमधुशर्करोदकेक्षुरसमधुरौषधक्षीरवृक्षनिष्क्वाथैरनुष्णैः परिषेकान् कुर्वीत, श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत ||१७||
यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति |
दोषाग्निरेवं सहसा परिषेकेण शाम्यति ||१८||
Hide commentary
परिषेकस्य फलं प्रयोगं च दर्शयन्नाह- वातेत्यादि| वातशोफादिर्विषयः, वेदनोपशमः फलं, सर्पिरित्यादिः प्रयोगः| धान्याम्लं काञ्जिकम्| वातहरौषधानि भद्रदार्वादीनि| शर्करामिश्रमुदकं शर्करोदकम्| मधुरौषधानि काकोल्यादीनि| क्षीरवृक्षा वटादयः| क्षारोदकमिति क्षारं गालयित्वा यदुदकं गृह्यते तत् क्षारोदकम्| कफघ्नानि कालेयकागुरुप्रभृतीनि||१७-१८||
Adhikarana १६ (१९-२०) · Śloka २०
अभ्यङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति ||१९||
स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते |
पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु ||२०||
Hide commentary
अभ्यङ्गस्य फलं प्रयोगं च दर्शयन्नाह- अभ्यङ्ग इत्यादि| वाते कफे च तैलेन, पित्ते रक्ते विषादिषु च शतधौतादिघृतेन| तस्य कालावधारणं निर्दिशन्नाह- स्वेदेत्यादि| स्वेदविम्लापनादीनां विरेचनान्तानां स्नेहवर्जितानां सप्तानामुपक्रमाणां प्राग्भवति; विस्रावणादिषु सेचनान्तेषु स्नेहवमनविरेचनव्यतिरिक्तेषु कर्मसु सोऽभ्यङ्गः पश्चादादिष्टः||१९-२०||
Adhikarana १७ (२१) · Śloka २१
रुजावतां दारुणानां कठिनानां तथैव च |
शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ||२१||
Hide commentary
स्वेदविषयं दर्शयन्नाह- रुजावतामित्यादि| रुजावतां वातकफवेदनायुक्तानां, दारुणादिविशेषणस्य तद्विषयत्वात्| दारुणानामिति दारुणत्वं वायुना रूक्षजरठीभावः, अचलत्वमित्यपरे | प्रयोगः पञ्चकर्मनिर्देशे वक्ष्यमाणः||२१||
Adhikarana १८ (२२) · Śloka २३
स्थिराणां रुजतां मन्दं कार्यं विम्लापनं भवेत् |
अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः ||२२||
विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा |२३|
Hide commentary
विम्लापनविषयं प्रयोगं च दर्शयन्नाह- स्थिराणामित्यादि| स्थिराणां कठिनानाम्| मन्दं रुजतां कफाधिकानामित्यर्थः; वातकफाधिकानामित्यन्ये| तलेन पाणिपादतलेन| विम्लापनम् अङ्गुल्यादिमर्दनेन शोफविलयनम्||२२||-
Adhikarana १९ (२३) · Śloka २४
शोफयोरुपनाहं तु कुर्यादामविदग्धयोः ||२३||
अविदग्धः शमं याति विदग्धः पाकमेति च |२४|
Hide commentary
उपनाहमाह- शोफयोरित्यादि| उपनाहो वातकफशोफविषय एव| अविदग्ध आमः| विदग्धः किञ्चित्पक्वः||२३||-
Adhikarana २० (२४-२६) · Śloka २७
निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः ||२४||
तस्य सम्पाचनं कुर्यात् समाहृत्यौषधानि तु |
दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु ||२५||
स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम् |
सैरण्डपत्रया शोफं नाहयेदुष्णया तया ||२६||
हितं सम्भोजनं चापि पाकायाभिमुखो यदि |२७|
Hide commentary
पाचनविषयमाह- निर्वतत इत्यादि| विरेकान्तैरिति अपतर्पणाद्यैर्विरेकान्तैरित्यर्थः| समाहृत्यौषधानीति औषधानि मिश्रकोक्तानि शणमूलकबीजादीनि समभागप्रमाणानि, तथा चतुर्गुणदध्यादिद्रवाणि च समाहृत्य एकीकृत्य, लवणीकृत्य स्पष्टलवणीकृत्य, नातिद्रवां नातिशुष्कामुपनाहयोग्यामुत्कारिकां पाचयेत्; उत्कारिका लप्सिकाकृतिः, अन्ये पूपलिकाकृतिमाहुः| नाहयेद् बध्नीयात्| तया उत्कारिकया| हितं सम्भोजनमिति सम्भोजनं यथेष्टभोजनम्| तच्च कीदृशं? हितं हितकारि; कोऽर्थः? नात्यर्थकफकारि न चोपद्रवकारीत्यर्थः| एतेनाहारविधानोक्तैरुष्णस्निग्धादिभिरेव सम्भोजनं कार्यमित्युक्तम्| सुधीरस्तु ‘पथ्यापथ्यमिहैकत्र भुक्तं सम्भोजनं मतम्’- इत्याह; तच्च श्रीजेज्जटगयदासौ नेच्छतः| उपनाहनिष्पाद्यं कर्म पाचनमिति मत्वा पाचनं पृथगुपक्रमं गयदासो न पठति||२४-२६||-
Adhikarana २१ (२७-२९) · Śloka ३०
वेदनोपशमार्थाय तथा पाकशमाय च ||२७||
अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम् |
सशोफे कठिने ध्यामे सरक्ते वेदनावति ||२८||
संरब्धे विषमे चापि व्रणे विस्रावणं हितम् |
सविषे च विशेषेण जलौकोभिः पदैस्तथा ||२९||
वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा |३०|
Hide commentary
विस्रावणविषयमाह- वेदनेत्यादि| अचिरोत्पतिते तत्कालोत्पन्ने| जलौकोभिः प्रच्छानैर्वा शोणितमोक्षणं कुर्यात्| व्रणेऽपि यादृशे शोणितं स्रावणीयं तादृशमाह- सशोफ इत्यादि| ध्यामे कृष्णारुणे| सरक्ते रक्तवर्णे| वेदनावति वेदनायुक्ते| संरब्धे विशालमूले| विषमे निम्नोन्नते| विशेषेण अतिशयेन, सविषे च विशेषेण रक्तमोक्षणम्||२७-२९||-
Adhikarana २२ (३०) · Śloka ३१
सोपद्रवाणां रूक्षाणां कृशानां व्रणशोषिणाम् ||३०||
यथास्वमौषधैः सिद्धं स्नेहपानं विधीयते |३१|
Hide commentary
स्नेहपानविषयं दर्शयन्नाह- सोपद्रवाणामित्यादि| सोपद्रवाणामिति नात्र व्रणोपद्रवा गन्धवर्णस्राववेदनाकृतयः पञ्च; किं तर्हि व्रणितस्योपद्रवा वेपथुपक्षवधादयः| व्रणशोषिणां व्रणनिमित्तक्षयिणाम्| यथास्वमौषधैरिति यस्य यदात्मीयमौषधं वातादेस्तेन सिद्धस्य स्नेहस्य पानं; विचारणाभिन्नाच्छपानमित्याचार्याः||३०||-
Adhikarana २३ (३१) · Śloka ३२
उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ||३१||
सङ्क्लिष्टश्या(ध्या)मरुधिरे व्रणे प्रच्छर्दनं हितम् |३२|
Hide commentary
वमनविषयं दर्शयन्नाह- उत्सन्नेत्यादि| उत्सन्नमांसशोफे इति उच्छ्रितमांसशोफे| कफजुष्टे कफाक्रान्ते| सङ्क्लिष्टं दुष्टं, श्या(ध्या)ममीषत्कृष्णं, रुधिरं यस्मिन्नेवम्भूते व्रणे प्रच्छर्दनं वमनं हितम्||३१||-
Adhikarana २४ (३२) · Śloka ३३
वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ||३२||
विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः |३३|
Hide commentary
विरेचनविषयमाह- वातेत्यादि| वातेन सहितं पित्तं वातपित्तं पित्तप्रधानसंसर्गः; न तु वातश्च पित्तं चेति, केवलवातजे बस्तिविधानात्| अनेनैव न्यायेन वातोपसर्जने कफसंसर्गे वमनमूह्यम्| एषु स्नेहादिषु त्रिषु शोफस्यानुक्तावपि शोफाधिकारत्वादेव स्नेहादयस्त्रयो विशिष्टावस्थायां शोफस्याप्युपक्रमा बोद्धव्याः| व्रणकोविदा व्रणपण्डिताः||३२||-
Adhikarana २५ (३३) · Śloka ३४
अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ||३३||
स्नायुकोथादिषु तथा च्छेदनं प्राप्तमुच्यते |३४|
Hide commentary
छेदनमाह- अपाकेष्वित्यादि| अपाकेषु अविद्यमानपाकेषु मेदःकफग्रन्थिमांसकन्द्यादिषु; अथवा अपाकेषु ईषत्पाकेषु वल्मीकादिष्वित्यर्थः; नञ्शब्दस्योभयार्थत्वात्| गयी तु ‘अपाकवत्सु’ इति पठति, तत्रापि स एवार्थः; परं तं पाठं न साधुं मन्यते जेज्जटः| कठिनेषु दृढेषु| स्थिरेषु अचलेषु| स्नायुकोथादिष्वित्यत्रादिशब्दात् सिराधमन्यादिपरिग्रहः| प्राप्तं युक्तमित्यर्थः||३३||-
Adhikarana २६ (३४) · Śloka ३५
अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ||३४||
गतिमत्सु च रोगेषु भेदनं प्राप्तमुच्यते |३५|
Hide commentary
भेदनमाह- अन्तःपूयेष्वित्यादि| अवक्त्रेषु अविद्यमानमुखेषु| उत्सङ्गवत्सु चिरस्थितपूयावदारणगम्भीरशुषिरव्रणवस्तुप्रदेश उत्सङ्गतुल्यत्वादुत्सङ्ग इत्युच्यते, तद्वत्सु| रोगेषु व्रणेषु| गतिमत्सु गतियुक्तेषु| प्राप्तं युक्तम्||३४||-
Adhikarana २७ (३५-३७) · Śloka ३७
बालवृद्धासहक्षीणभीरूणां योषितामपि ||३५||
मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम् |
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ||३६||
पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता |
सुपिष्टैर्दारणद्रव्यैर्युक्तैः क्षारेण वा पुनः ||३७||
Hide commentary
दारणमाह- बालेत्यादि| पीडनैरिति पीडनद्रव्यैरित्यर्थः| पाकोद्वृत्तेषु उत्तानेषु त्वग्गतेष्वित्यर्थः| दारणद्रव्यैर्मिश्रकोक्तैश्चिरबिल्वादिभिः| क्षारेण प्रतिसारणीयेन, यवक्षारेणेत्यन्ये||३५-३७||
Adhikarana २८ (३८-३९) · Śloka ३९
कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान् पुनः पुनः |
कठिनोत्सन्नमांसांश्च लेखनेनाचरेद्भिषक् ||३८||
समं लिखेत् सुलिखितं लिखेन्निरवशेषतः |
वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ||३९||
Hide commentary
लेखनमाह- कठिनानित्यादि| कठिनान् मांसहीनान्, समम् अहीनाधिकं लिखेत्; स्थूलवृत्तौष्ठान् सुलिखितम् अतिशयलिखितं लिखेत्; पुनः पुनर्दीर्यमाणान् निरवशेषतो लिखेत्; कठिनोत्सन्नमांसान् वर्त्मनां प्रमाणेन समं लिखेत्| अन्येऽत्र पुनरन्यथा व्याख्यानयन्ति- समलेखनम् अवगाढलेखनं, सुलेखनं मृदुलेखनं, निरवशेषलेखनं निर्लेखनं निश्शेषलेखनमिति| श्रीसुवीरजेज्जटब्रह्मदेवाश्चतुरो विषयानाहुः, तथाहि- कठिनानित्येको विषयः, स्थूलवृत्तौष्ठानिति द्वितीयः, दीर्यमाणान् पुनः पुनरिति तृतीयः, कठिनोत्सन्नमांसांश्चेति चतुर्थः| अपरे तु समं लिखेदित्याद्यन्यथा व्याख्यानयन्ति- कठिनान् स्थूलवृत्तौष्ठान् यथा सुलिखितं भवत्येवं लिखेदिति सम्बन्धः, कथं सुलिखितं भवतीत्याह- समं लिखेत्, निरवशेषं लिखेत्, वर्त्मनां तु प्रमाणेन समं निर्लिखेदिति| समं सुलिखितलक्षणम्| निर्लिखेत् पुनः पुनर्लिखेदिति भणनं बहुशो लेखने शस्त्रावचारणं सूचयति| अत्र व्रणवर्त्मशब्देन व्रणगताश्चत्वारः पार्श्वा वाच्याः| शस्त्रेण निर्लिखेत्, न तु गोजीशेफालिकादिपत्रेण||३८-३९||
Adhikarana २९ (४०) · Śloka ४०
क्षौमं प्लोतं पिचुं फेनं यावशूकं ससैन्धवम् |
कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ||४०||
Hide commentary
शस्त्राभावे तु क्षौमादिभिर्लिखेदित्याह- क्षौममित्यादि| क्षौमम् अतसीवस्त्रम्| प्लोतं कर्पटम्| पिचुं कार्पासतूलाम् | फेनं समुद्रफेनम्| यावशूको यवक्षारः||४०||
Adhikarana ३० (४१-४२) · Śloka ४२
नाडीव्रणाञ् शल्यगर्भानुन्मार्ग्युत्सङ्गिनः शनैः |
करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ||४१||
नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः |
चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः ||४२||
Hide commentary
एषणमाह- नाडीत्यादि| नाड्यश्च व्रणाश्चेति नाडीव्रणास्तान्| शल्यगर्भान् अभ्यन्तरशल्यानित्यर्थः| उन्मार्गी भगन्दरः, उत्सङ्गी शम्बूकावर्ताभिध इत्येके; तन्न, तयोरसाध्यत्वेनैषणानर्हत्वात्| तत्र, उत्सृष्टो मार्गो विद्यते येषां ते उन्मार्गिणो व्रणाः ऋजुं मार्गं परित्यज्य कुटिलया गत्या ये यान्तीत्यर्थः; उत्सङ्गिन ऊर्ध्वसङ्गिनः| करीराः चुच्चूपोदकादीनां कोमला नालाः| बालाः करिशूकरादीनाम्| विवृतास्यान् कोष्ठाश्रितानङ्गुल्या वा एषयेदित्यर्थः| एषणी शलाकाशस्त्र(यन्त्र)म्| एषयेत् करीरादिनिक्षेपणेन व्रणमार्गनिश्चयं कुर्यादित्यर्थः| करीराणां विषयं निर्दिशन्नाह- नेत्रवर्त्मेत्यादि| गुदाभ्यासो गुदसमीपम्| अवक्त्रा अल्पवक्त्राः| चुच्चूः चीचुरिति लोके| उपोदकः ‘पोइ’ इति लोके||४१-४२||
Adhikarana ३१ (४३) · Śloka ४३
संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक् |
यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ||४३||
Hide commentary
आहरणविषयमाह- संवृतेत्यादि| प्राप्तोद्धरणलक्षणमिति सद्यःप्राणहरविशल्यघ्नादिरहितमन्यदित्यर्थः||४३||
Adhikarana ३२ (४४) · Śloka ४४
रोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः |
शस्त्रं निदध्याद्दोषं च स्रावयेत् कीर्तितं यथा ||४४||
Hide commentary
व्यधनविस्रावणविषयमाह- रोग इत्यादि| व्यधनसाध्यो रोगो दकोदरमूत्रवृद्ध्यादिः| यथोद्देशं प्रमाणत इति उद्देशानतिक्रान्तप्रमाणमित्यर्थः| तत्र दकोदरोद्दिष्टं प्रमाणमङ्गुष्ठोदरप्रमाणमवगाढमिति ज्ञेयं; विद्रध्यादिषु पुनः “महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रनिपातनम्” (सू. ५) इति| शस्त्रं निदध्यादित्यन्तेन व्यधनमुक्तं, दोषं च स्रावयेत् कीर्तितं यथेति स्रावणमुक्तम्, एवमनेन श्लोकेनोपक्रमद्वयमुक्तम्||४४||
Adhikarana ३३ (४५) · Śloka ४५
अपाकोपद्रुता ये च मांसस्था विवृताश्च ये |
यथोक्तं सीवनं तेषु कार्यं सन्धानमेव च ||४५||
Hide commentary
सीवनसन्धानविषयमाह- अपाकेत्यादि| अपाकोपद्रुताः पाकोपद्रवरहिताः| विवृता व्यात्तमुखाः| यथोक्तमष्टविधशस्त्रकर्मीये (सू. २५)| सन्धानमेव चेति न केवलं सीवनं सन्धानमपि ; सन्धानं व्रणौष्ठादिसंयोजनम्| अनेन श्लोकेनोपक्रमद्वयमुक्तम्||४५||
Adhikarana ३४ (४६-४७) · Śloka ४७
पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि |
यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ||४६||
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति |
न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ||४७||
Hide commentary
पीडनमाह- पूयेत्यादि| यथोक्तैर्मिश्रकपरिपठितैः पिच्छिलद्रव्यत्वङ्मूलादिभिः| समन्तात् सर्वतः| प्रदेहं प्रलेपनमित्यर्थः| दोषः पूयः| प्रसिच्यते स्वयं प्रक्षरति| पीडनम् औषधैश्चम्पनम्||४६-४७||
Adhikarana ३५ (४८) · Śloka ४८
तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रुते भृशम् |
कार्यं यथोक्तं वैद्येन शोणितास्थापनं भवेत् ||४८||
Hide commentary
शोणितास्थापनमाह- तैस्तैरित्यादि| तैस्तैः सिराव्यधादिभिः| यथोक्तं शोणितास्थापनं शोणितातिप्रवृत्तिस्तम्भनम्| तच्चतुर्विधम्- “सन्धानं स्कन्दनं चैव पाचनं दहनं तथा” (सू. १४) इति||४८||
Adhikarana ३६ (४९-५०) · Śloka ५०
दाहपाकज्वरवतां व्रणानां पित्तकोपतः |
रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ||४९||
यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टैर्घृताप्लुतैः |
दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ||५०||
Hide commentary
निर्वापणमाह- दाहेत्यादि| निर्वापणं नाम पित्तरक्तव्रणस्य पच्यमानस्य ज्वलत इव औषधादिभिर्वेदनोपशमः| यथोक्तैर्मिश्रकोक्तैर्दूर्वादिभिः| क्षीरपिष्टैरिति क्षीरेण आपिष्टैः, श्लक्ष्णस्य दाहपाककारित्वात्| दिह्यात् लिम्पेत्| अबहलान् यतः श्लक्ष्णघनो लेपश्चन्दनस्यापि दाहकृद्भवति| सेकान् परिषेकान्| अनेन श्लोकेन सेकलेपौ द्वौ निर्वापणावुक्तौ||४९-५०||
Adhikarana ३७ (५१-५२) · Śloka ५३
व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु |
तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ||५१||
वातघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा |
स्नैहिकेषु च बीजेषु पचेदुत्कारिकां शुभाम् ||५२||
तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम् |५३|
Hide commentary
उत्कारिकाविषयमाह- व्रणेष्वित्यादि| क्षीणमांसत्वादिकं वातकार्यम्| वातघ्नवर्गे भद्रदार्वादौ, अम्लगणे सौवीरकतुषोदकादौ, स्नैहिकेषु च बीजेषु तिलातसीसर्षपैरण्डादिबीजेषु| वातघ्नवर्गकाकोल्यादिगणस्नैहिकबीजानि समभागानि तच्चतुर्गुणमम्लानां गृहीत्वा नातिघनां नातिसान्द्रां पेयानुकारिणीमुत्कारिकां पचेत्||५१-५२||-
Adhikarana ३८ (५३) · Śloka ५४
दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ||५३||
कषायैः शोधनं कार्यं शोधनैः प्रागुदीरितैः |५४|
Hide commentary
इदानीं कषायादींश्चूर्णान्तान् सप्त शोधनरोपणान् विषयभेदेन दर्शयन्नाह- दुर्गन्धानामित्यादि| शोधनैः कषायैः प्रागुदीरितैर्मिश्रकोक्तैः शङ्खिन्यङ्कोटसुमनादिभिः कृतैः क्वाथैः शोधनं कार्यम्||५३||-
Adhikarana ३९ (५४-५५) · Śloka ५६
अन्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान् शोधनद्रव्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम् ||५४||
पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ||५५||
कल्कीकृतैर्यथालाभं वर्तिद्रव्यैः पुरोदितैः |५६|
Hide commentary
शोधनद्रव्ययुक्ताभिरिति शोधनद्रव्याणि अजगन्धाजशृङ्ग्यादीनि मिश्रकोक्तानि| तान् व्रणान्; ‘शोधयेत्’ इति शेषः| यथाक्रममिति प्रथमं सूक्ष्माभिस्ततः स्थूलस्थूलतराभिरित्यर्थः| पूतिमांसप्रतिच्छन्नानिति अवगाढान्, न पुनरभ्यन्तरान्| महादोषांश्चेति अतिदुष्टानित्यर्थः| दोषौ चात्र वातकफौ गृह्येते न पुनः पित्तं, पित्तदुष्टस्तु सर्पिर्विषयः||५४-५५||-
Adhikarana ४० (५६) · Śloka ५७
पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ||५६||
कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा |५७|
Hide commentary
शोधनद्रव्याणि कासीसाजगन्धादीनि, तैः सिद्धेन सर्पिषा घृतेन| कल्पना चेयं- यावन्ति कासीसाजगन्धादीनि शोधनद्रव्याणि तावन्मात्रं कार्पासफलम्, एतान्येकीकृत्य कल्कचतुर्गुणं घृतं, घृतचतुर्गुणं जलं च गृहीत्वा घृतं साधनीयम्||५६||-
Adhikarana ४१ (५७) · Śloka ५८
उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा ||५७||
सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत् |५८|
Hide commentary
व्रणानिति कफवाताधिकानित्यर्थः, उत्सेधस्य कफकृतत्वात्, अस्नेहाल्पस्रावयोर्वातकृतत्वाच्च| सर्षपस्नेहयुक्तेनेति सर्षपस्नेहाधिकेन तिलतैलेन; ‘मिश्रकोक्तेन मयूरादिशोधनद्रव्यसिद्धेन’ इति शेषः||५७||-
Adhikarana ४२ (५८-६१) · Śloka ६१
तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम् ||५८||
व्रणानां स्थिरमांसानां कुर्याद्द्रव्यैरुदीरितैः |
कषाये विधिवत्तेषां कृते चाधिश्रयेत् पुनः ||५९||
सुराष्ट्रजां सकासीसां दद्याच्चापि मनःशिलाम् |
हरितालं च मतिमांस्ततस्तामवचारयेत् ||६०||
मातुलुङ्गरसोपेतां सक्षौद्रामतिमर्दिताम् |
व्रणेषु दत्त्वा तां तिष्ठेत्त्रींस्त्रींश्च दिवसान् परम् ||६१||
Hide commentary
द्रव्यैरुदीरितैरिति मिश्रकोक्तैः शालसारादिभिर्द्रव्यैः| कल्पनामाह- कषाये विधिवत्तेषामिति|- तेषां शालसारादीनां विधिवत्कृते कषाये द्रव्यापेक्षया षोडशगुणोदकेऽष्टभागावशिष्टे, अष्टगुणोदके चतुर्भागावशिष्टे वा| अधिश्रयेत् पुनरिति पूतं कषायं पुनरधिश्रयेत् पचेदित्यर्थः| सुराष्ट्रजादीनि चूर्णितानि मात्रया शेषकषायपादे कषायस्य पुनःपाकात् फाणितीभावे सत्यावपेत्| सुराष्ट्रजां तुवरमृत्तिकाम्| ततस्तामवचारयेदिति ततोऽनन्तरं रसक्रियां समवचारयेत् प्रयोजयेत्| अतिमर्दितामौषधानामेकीभावार्थम्| मातुलुङ्गमधुमात्रा तु संस्कारमात्रैव| त्रींस्त्रींश्च दिवसान् परमिति परमित्यवधारणे, त्रींस्त्रीनेव दिवसान् तिष्ठेन्नाधिकं, व्रणवस्त्ववदारणभयात्||५८-६१||-
Adhikarana ४३ (६२) · Śloka ६२
मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः |
उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ||६२||
Hide commentary
अगम्भीरान् उत्तानान्; ‘गम्भीरान् मेदसा जुष्टान्’ इत्येके पठन्ति, तन्नेच्छति गयी| चूर्णशोधनैः कासीसादिभिः| शोधनवर्तिजैः अजगन्धादिभिः||६२||
Adhikarana ४४ (६३) · Śloka ६३
शुद्धलक्षणयुक्तानां कषायं रोपणं हितम् |
तत्र कार्यं यथोद्दिष्टैर्द्रव्यैर्वैद्येन जानता ||६३||
Hide commentary
अशुद्धव्रणस्य शोधनानि सप्तकषायादीनि सविषयप्रयोगाणि निर्दिश्य शुद्धस्य तान्येव रोपणानि निर्दिशन्नाह- शुद्धलक्षणयुक्तानामित्यादि| शुद्धव्रणलक्षणानि “त्रिभिर्दोषैरनाक्रान्त” (सू. २३) इत्यादीनि, “जिह्वातलाभ” इत्यादीनि वा चोक्तानि| यथोद्दिष्टैर्वटादिभिः||६३||
Adhikarana ४५ (६४) · Śloka ६४
अवेदनानां शुद्धानां गम्भीराणां तथैव च |
हिता रोपणवर्त्यङ्गकृता रोपणवर्तयः ||६४||
Hide commentary
अवेदनानां सर्वथा वेदनाहीनानामित्यर्थः; अन्ये अवेदनानामल्पवेदनानामित्याहुः| रोपणवर्त्यङ्गकृता इति रोपणवर्त्यङ्गानि सोमामृताश्वगन्धाकाकोल्यादीनि; तैः कृता रोपणवर्तयो हिताः||६४||
Adhikarana ४६ (६५-६९) · Śloka ७०
अपेतपूतिमांसानां मांसस्थानामरोहताम् |
कल्कः संरोहणः कार्यस्तिलजो मधुसंयुतः ||६५||
स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः |
कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ||६६||
औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः |
शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः ||६७||
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः |
पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ||६८||
तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः |
शमयेदविदग्धं च विदग्धमपि पाचयेत् ||६९||
पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा |७०|
Hide commentary
अपेतपूतिमांसानामिति निर्गतशटितमांसानाम्| मांसस्थानां मांसमात्रस्थितानामित्यर्थः| कल्को मिश्रकाध्याये कथितः, स तु “समङ्गा सोमसरला” (सू. ३७) इत्यादिः| विशेषार्थमत्रापि कल्कं निर्दिशन्नाह- तिलजो मधुसंयुत इति| तिलकल्कस्य त्रिदोषहरत्वमाह- स इत्यादि|- स इति तिलकल्कः| तिलकल्कस्य तिक्तकषायत्वे उष्णत्वे स्निग्धत्वे मधुरत्वे च सत्यपि कथं न वातादिप्रकोपकत्वम्? उच्यते- स्व(प्र)भावादामलकवत्| अस्यैव तिलकल्कस्य योगवाहित्वं सविशेषं दर्शयन्नाह- शोधयेदित्यादि| अशुद्धान् शोधयेत्, रोपयेच्चेत्ययमर्थश्चकारेण ज्ञेयः| केन शोधनेन युक्तः शोधयेदित्याह- निम्बपत्रमधुभ्यामित्यादि| मधुसंयुत इत्यनेनैव लब्धे पुनरिह मधुग्रहणं केवलस्यैव तिलकल्कस्य प्रागुक्ता माधुर्यादयोऽवगन्तव्याः, न मधुयुक्तस्येति ज्ञापयति| केन रोपणेन शोधनेन युक्तो व्रणाञ् शोधयेद्रोपयेच्चेत्याह- पूर्वाभ्यामित्यादि|- पूर्वाभ्यां निम्बपत्रमधुभ्यामित्यर्थः| युक्तश्चाप्युपरोपण इत्यपिशब्दो भिन्नक्रमे; तेन निम्बपत्रमधुघृतयुक्तः शुद्ध्यतो व्रणस्य शोधनो रोपणोऽपि, तिलकल्कस्य योगवाहित्वादित्यर्थः| अन्ये तु ‘युक्तः संरोपणो भवेत्’ इति पठन्ति; ते तु पूर्वोक्तं चकारार्थं न मन्यन्ते, किञ्च निम्बपत्रमधुघृतयुक्तस्य तिलकल्कस्य रोपणत्वमेवाङ्गीकुर्वन्ति न शोधनत्वम्| इदानीमन्यमपि कल्कं सर्वावस्थासु सर्वव्रणयोगित्वेन सविशेषमेकीयमतेन निर्दिशन्नाह- तिलवदित्यादि|- तिलवत्तिलसदृशो यवकल्कोऽपि त्रिदोषघ्न इत्यनेन प्रकारेण केचिदेकीयवचनं व्याख्यानयन्ति; जेज्जटगयदासौ त्वन्यथा, यथा- तिला विद्यन्तेऽस्मिन्निति तिलवान्, तिलवांश्चासौ यवकल्कश्च तिलवद्यवकल्कः, तं तिलवद्यवकल्कं केचिदाहुरिति| सर्वावस्थासु सर्वशारीरव्रणयोग्यत्वमाह- शमयेदविदग्धं चेत्यादि| एतेन तिलयुक्तः कल्कः पञ्चानामुपक्रमाणां विम्लापनपाचनपाटनशोधनरोपणानामर्थं करोतीत्युक्तं; तिलकल्कस्तु रोपणशोधनकरणेनोपक्रमद्वयार्थकरः, तदुभयकरणेनोपक्रमत्रयार्थकरो वा, अत एवानयोः कल्कयोर्भेदः| रोपयेच्चेति चकारेण तिलकल्कतिलवद्यवकल्कयोरपि व्रणवैकृत्यापहत्वं भवतीति समुच्चीयते||६५-६९||-
Adhikarana ४७ (७०) · Śloka ७१
पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ||७०||
रोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा |७१|
Hide commentary
शस्त्राद्यभिघातनिमित्ता व्रणाः सप्ताहादर्वागेव अदोषोपप्लुता आगन्तवः| रोपणीयेनेति मिश्रकोदितेन “पृथक्पर्ण्यात्मगुप्ता च” (सू. ३७) इत्यादिना||७०||-
Adhikarana ४८ (७१) · Śloka ७२
कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ||७१||
कारयेद्रोपणं तैलं भेषजैस्तद्यथोदितैः |७२|
Hide commentary
यथोदितैरिति मिश्रकोक्तैः कालानुसार्यागुरुप्रभृतिभिः||७१||-
Adhikarana ४९ (७२) · Śloka ७३
अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ||७२||
द्विहरिद्रायुतां कुर्याद्रोपणार्थां रसक्रियाम् |७३|
Hide commentary
अबन्ध्याः पित्तरक्तविषाभिघातजादयः| चलस्थानामिति चलाश्चेष्टावन्तः सन्धयः, तत्रस्थाश्चलस्थाः, शुद्धानां च प्रदुष्यतां पुनरित्यर्थः| ‘शुद्धानां चाऽप्ररोहताम्’ इति सुधीराभिप्रायेण केचित् पठन्ति| तत्र चलस्थानत्वादिना हेतुनाऽप्ररोहतामिति द्रष्टव्यम्| अस्याः कल्पना- न्यग्रोधादिवर्गस्य त्रिफलायाश्च द्रव्यापेक्षयाऽष्टगुणे चतुर्गुणे वाऽम्भस्यष्टभागावशिष्टे चतुर्भागावशिष्टे वा कषायं पुनरधिसृत्य फाणितीभावेऽवशिष्टकषायपादमात्रया हरिद्राद्वयचूर्णं प्रक्षिप्य सुमर्दितां मधुयुतां रसक्रियामवचारयेत्| अत्र शोधनरसक्रियावत् कालावधिर्नास्त्येव, यावद्व्रणरोपणमेव कार्येति||७२||-
Adhikarana ५० (७३) · Śloka ७४
समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ||७३||
चूर्णं विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा |७४|
Hide commentary
समानामित्यादि| स्थिरमांसानाम् अमृदुमांसानाम्| प्राक्स्थानोक्तो विधिर्यथेति प्राक्स्थाने सूत्रस्थाने उक्तो विधिर्येन प्रकारेण, स च प्रकारः “किंशुकस्त्रिफला रोध्रं” (सू. ३७) इत्यादिना निर्दिष्ट इत्यर्थः||७३||-
Adhikarana ५१ (७४) · Śloka ७५
शोधनो रोपणश्चैव विधिर्योऽयं प्रकीर्तितः ||७४||
सर्वव्रणानां सामान्येनोक्तो दोषाविशेषतः |७५|
Hide commentary
इदानीं कषायादिभेदेन प्रत्येकं सप्तविधस्य शोधनस्य रोपणस्य च सर्वव्रणविषयत्वं दर्शयन्नाह- शोधन इत्यादि| अत्र सुधीरः- एष सर्वव्रणानां शारीरागन्तूनां सामान्येनोक्तो विधिः| कस्मात्? दोषाविशेषतः; अविशिष्टा हि वातपित्तश्लेष्माणो दूषकाः शारीराणामागन्तूनां च व्रणानाम्; उक्तं च- “कालान्तरेण दोषोपप्लवविशेषाच्छारीरवत् प्रतिकार” इति; ‘दोषविशेषत’ इति पाठे दोषविशेषतो दोषभेदात्; शेषं समम्| केचित्तु- सामान्येनोक्तो विधिस्तिलनिम्बकल्कादिः, तथा दोषविशेषतश्चोक्त आद्ये द्वे पञ्चमूल्यावित्यादि, इति लुप्तनिर्दिष्टं चकारं वर्णयन्ति| गयी तु- सर्वव्रणानां विद्रध्याद्यशेषव्रणानामयमेव विधिरुक्तः; कुतः? यतो व्रणसामान्योक्तः, स च विधिर्दोषविशेषत इति दोषविशेषमपेक्ष्य कार्य इति व्याख्यानयति||७४||-
Adhikarana ५२ (७५) · Śloka ७६
एष आगमसिद्धत्वात्तथैव फलदर्शनात् ||७५||
मन्त्रवत् सम्प्रयोक्तव्यो न मीमांस्यः कथञ्चन |७६|
Hide commentary
एषः शोधनरोपणविधिः| आगमसिद्धत्वादिति आगमः शास्त्रं, तेन सिद्धत्वात् प्रसिद्धत्वादित्यर्थः| फलदर्शनात् आरोग्यदर्शनात्| न मीमांस्यो न विचार्य इत्यर्थः||७५||-
Adhikarana ५३ (७६) · Śloka ७७
स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ||७६||
भेषजानि यथायोगं यान्युक्तानि पुरा मया |७७|
Hide commentary
आगमोक्तयोगविषयिणीममीमांसां निर्दिश्य, अनिर्दिष्टयोगविषयिणीं मीमांसामेव कथयन्नाह- स्वबुद्ध्येत्यादि| कषायादिषु सप्तसु कषायवर्तिकल्कसर्पिस्तैलरसक्रियाचूर्णेषु||७६||-
Adhikarana ५४ (७७-७९) · Śloka ८०
आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ||७७||
स वातदुष्टे दातव्यः कषायादिषु सप्तसु |
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ||७८||
तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु |
आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः ||७९||
तौ देयौ कफदुष्टे तु, संसृष्टे संयुता गणाः |८०|
Hide commentary
उष्ण उष्णवीर्यो मुष्ककादिः सुरसादिर्वा श्लेष्मघ्नः| संसृष्टे संयुता गणाः| अयं ग्रन्थः सर्वोऽपि शोधनरोपणविषयः||७७-७९||-
Adhikarana ५५ (८०) · Śloka ८१
वातात्मकानुग्ररुजान् सास्रावानपि च व्रणान् ||८०||
सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत् |८१|
Hide commentary
धूपनविषयमाह- वातात्मकानित्यादि| उग्ररुजान् सास्रावानिति पदद्वयेन वातकफात्मकत्वमुक्तम्| सक्षौमेत्यादि क्षौममतसीवस्त्रम्| धूपनाङ्गानि “श्रीवेष्टके सर्जरसे” (सू. ३७) इत्यादीनि||८०||-
Adhikarana ५६ (८१-८२) · Śloka ८३
परिशुष्काल्पमांसानां गम्भीराणां तथैव च ||८१||
कुर्यादुत्सादनीयानि सर्पींष्यालेपनानि च |
मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ||८२||
विशुद्धमनसस्तस्य मांसं मांसेन वर्धते |८३|
Hide commentary
उत्सादनविषयमाह- परिशुष्केत्यादि| परिशुष्काल्पमांसानां वातात्मकानाम्| गम्भीराणां रक्तपित्तात्मकानाम्| प्रयोगे उत्सादनीयानीति अपामार्गाश्वगन्धादीनि उत्सादनद्रव्याणीत्यर्थः| एतैः सर्पिःसंस्कार आलेपनं च कर्तव्यम्| उत्सादनं निम्नव्रणस्योन्नतिकरणम्| आभ्यन्तरमुत्सादनमाह- मांसाशिनामित्यादि|- व्याघ्रादीनामित्यर्थः| विशुद्धमनसः शोकक्रोधाद्यनभिभूतमनस इत्यर्थः; जेज्जटस्तु व्याघ्रादीनां मांसानि छद्मोपहितानि , एवं विशुद्धमनस इति व्याख्यानयति||८१-८२||-
Adhikarana ५७ (८३) · Śloka ८४
उत्सन्नमृदुमांसानां व्रणानामवसादनम् ||८३||
कुर्याद्द्रव्यैर्यथोद्दिष्टैश्चूर्णितैर्मधुना सह |८४|
Hide commentary
अवसादनविषयमाह- उत्सन्नेत्यादि| उत्सन्नमृदुमांसानामिति उत्सन्नमुद्धृतं मृदु मांसं येषां ते तथा| अवसादनम् उन्नतव्रणस्य निम्नत्वकरणम्| यथोद्दिष्टैर्द्रव्यैः कासीसादिभिः||८३||-
Adhikarana ५८ (८४-८५) · Śloka ८६
कठिनानाममांसानां दुष्टानां मातरिश्वना ||८४||
मृद्वी क्रिया विधातव्या शोणितं चापि मोक्षयेत् |
वातघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ||८५||
मृदुत्वमाशुरोहं च गाढो बन्धः करोति हि |८६|
Hide commentary
मृदुकर्मविषयमाह- कठिनानामित्यादि| अमांसानाम् अल्पमांसानाम्| मातरिश्वना वायुना| मृद्वी क्रिया मधुरस्निग्धकोष्णलवणैरन्तर्बहिश्च क्रियमाणैर्लेपादिभिः | शोणितमित्यादि तत्र रक्तानुगते मातरिश्वनि रक्तमोक्षणं, कफानुगते स्नेहान् सेकांश्चेति | मृदुत्वमित्यादि| गाढो बन्धः किं करोतीत्याह- मृदुत्वमाशुरोहं च||८४-८५||-
Adhikarana ५९ (८६-८७) · Śloka ८७
व्रणेषु मृदुमांसेषु दारुणीकरणं हितम् |
धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ||८६||
त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान् |
कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ||८७||
Hide commentary
दारुणकर्मविषयमाह- व्रणेष्वित्यादि| दारुणीकरणं कठिनीकरणम्| रोहिण्याः कट्फलस्य ||८६-८७||
Adhikarana ६० (८८) · Śloka ८८
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् |
तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ||८८||
Hide commentary
क्षारविषयमाह- उत्सन्नमांसानित्यादि||८८||
Adhikarana ६१ (८९) · Śloka ८९
स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः |
निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ||८९||
Hide commentary
अग्निकर्मविषयमाह- स्रवत इत्यादि| अश्मभवान् अश्मरीनिर्हरणच्छेदसम्भवान् व्रणानग्निकर्मणा साधयेदिति सम्बन्धः| किंविशिष्टान् व्रणान्? मूत्रं स्रवतः; यद्यपि ते व्रणा मूत्रस्राविणस्तथाऽपि सद्योव्रणे मूत्रं यावत्तावत्तेऽदहनीयाः, सप्ताहादूर्ध्वं पुनर्यदा व्रणानामसन्धानेन मूत्रं स्वमार्गं न प्रतिपद्यते तदैवाग्निना दहेत्||८९||
Adhikarana ६२ (८९-९३) · Śloka ९४
दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत् |
भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान् |
ततो द्विधाच्छेदयित्वा लौहे कुम्भे निधापयेत् ||९०||
कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत् |
मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ||९१||
यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक् |
ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ||९२||
तैलेनानेन संसृष्टं शुक्लमालेपयेद्व्रणम् |
भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ||९३||
ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत् |९४|
Hide commentary
इदानीं रूढस्यैव व्रणस्य विकृतस्य प्रकृतिभावार्थं पश्चात्कर्मारम्भः , तत्र पूर्वं शुक्लस्यैव कृष्णीकरणमाह- दुरूढत्वादित्यादि| प्राक् पूर्वं सप्ताहं गव्यमूत्रभावितान् भल्लातकान् गव्यक्षीरे वासयेत् स्थापयेत्, अत्र कालस्यानुक्तत्वाद्वक्ष्यमाणरोहिणीफलक्षीरवासनवत् सप्तरात्रमेव वासनं कार्यम्| कुम्भेऽन्यस्मिन्नित्यादि| अन्यस्मिन् कुम्भे निखाते तं कुम्भं योजयेद् यत्र कुम्भे भल्लातकानि निक्षिप्यन्ते; कथं योजयेदित्याह- मुखं मुखेनेत्यादि| तमपि कुम्भं निरन्तरच्छिद्रितापिधानं कृत्वा योजयेत्; अन्यथाऽनावृतमुखादुपरिगतकुम्भाद्भल्लातकानि भ्रश्यन्ते| ग्राम्यानूपशफानिति ग्राम्या अश्वादयः, आनूपा महिषादयः, शफान् खुरान्| कृष्णीकरणे स्नेहानपरानपि निर्दिशन्नाह- भल्लातकेत्यादि| ये च केचित् पिण्डितकबिभीतकादिस्नेहास्तेषामप्येतदेव भल्लातकस्नेहनिष्पादनवद्विधानं, तेषु मध्ये ये कृष्णीकरणार्थास्तेषां ग्राम्यादिशफदाहभस्मचूर्णमिश्राणामवचारणमिति भावः||८९-९३||
Adhikarana ६३ (९४-९८) · Śloka ९९
दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ||९४||
सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् |
तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ||९५||
नवं कपालिकाचूर्णं वैदुलं सर्जनाम च |
कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत् ||९६||
कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत् |
कासीसं रोचनां तुत्थं हरितालं मनःशिलाम् ||९७||
वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम् |
अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत् ||९८||
मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम् |९९|
Hide commentary
इदानीं कृष्णानां पाण्डुकर्मणा सवर्णीकरणमाह- दुरूढत्वादित्यादि| गयी तु ‘छागले’ इत्यत्र ‘बार्करे’ इति पठति, तत्र बर्करी तरुणच्छागी, तस्या इदं बार्करम्; अन्ये तु वृद्धवत्सायाः क्षीरं बष्कयणीक्षीरं वा बार्करमाहुः; तत्र न शास्त्रलोकप्रसिद्धिरिति गयी| रोहिणीफलमिति रोहिणी हरीतकीभेदस्तत्फलम्; अन्ये तु कटुतुम्बीफलमाहुः; कटुकाफलमिति पाठान्तरम् | तेनैव क्षीरेणेत्यर्थः| योगान्तरमाह- नवमित्यादि| कपालिका शरावकर्परिका तच्चूर्णं नवं, सा पुनरापाकोद्धृतैव नवा कपालिका भवति; अन्ये तु नवं प्रलेपनमाहुः, तत्र नवमपर्युषितमित्यर्थः| विदुलो वेतसस्तद्भवं वैदुलं, ‘मूलं’ इति शेषः| सर्जनाम च सर्जवृक्षमूलम्| योगान्तरमाह- कपित्थमुद्धृते मांस इत्यादि| मांसमत्र आभ्यन्तरो गिरः, तमुद्धृत्य आजमूत्रेण कासीसादिभिश्च कपित्थं पूरयेत्| वेणुनिर्लेखनं वंशतक्षणं वंशत्वगित्यर्थः| अर्जुनः ककुभः, तस्याधस्तले निधापयेत् स्थापयेत् ||९४-९८||-
Adhikarana ६४ (९९-१००) · Śloka १००
कुक्कुटाण्डकपालानि कतकं मधुकं समम् ||९९||
तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत् |
गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् ||१००||
Hide commentary
तयोरेव शुक्लकृष्णव्रणयोः स्वप्रयोगैरवशिष्टशुक्लत्वकार्ष्ण्ययोः सवर्णकरणं निर्दिशन्नाह- कुक्कुटाण्डेत्यादि| समुद्रमण्डूकी जलशुक्तिः, मणिचूर्णानि स्फटिकादिचूर्णानि; श्रीब्रह्मदेवस्तु समुद्रमण्डूकीं मुक्ताशुक्तिमाह, जेज्जटाचार्येण छेद्यरोगप्रतिषेधे व्याख्यातत्वान्मणिचूर्णं मौक्तिकचूर्णमिति| प्रतिसारणं घर्षणम्| अस्य तु सावर्ण्यमेव कर्मेति कृष्णपाण्डुकर्मभ्यामस्य भेदः; नेदमुपक्रमान्तरं, शुक्लकृष्णकर्मणोरेव शेषत्वात्, अतो न सङ्ख्यातिरेकः||९९-१००||
Adhikarana ६५ (१०१-१०३) · Śloka १०३
हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम् |
रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि ||१०१||
चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना |
तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ||१०२||
कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत् |
कपित्थरसपिष्टानि रोमसञ्जननं परम् ||१०३||
Hide commentary
रोमसञ्जननमाह- हस्तिदन्तेत्यादि| मुख्यं श्रेष्ठमित्यर्थः| एतेन हस्तिदन्तमसीरसाञ्जनेन, ‘अजाक्षीरसहितेन’ इति वाक्यशेषः| पाणितलं हस्ततलम्| अयं योगः केशशाते सति बहुशो दृष्टप्रत्ययः| चतुष्पदानामित्यादि चतुष्पदा अश्वगोमहिषादयः| तैलाक्ता चूर्णिता पूर्वं तैलाभ्यक्ता पश्चाच्चूर्णिता त्वग्रोमादिभस्मचूर्णसंयुक्ता रोमवती भवेदित्यर्थः| कासीसमित्यादि| नक्तमालस्य पल्लवाः करञ्जस्य कोमलपत्राणीत्यर्थः ||१०१-१०३||
Adhikarana ६६ (१०४-१०८) · Śloka १०८
रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति |
क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् ||१०४||
(शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् |
शुक्तेन सह पिष्टानि लोमशातनमुत्तमम्) ||१०५||
तैलं भल्लातकस्याथ स्नुहीक्षीरं तथैव च |
प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् ||१०६||
कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमीबीजं शीतोदपिष्टं वा रोमशातनमाचरेत् ||१०७||
आगारगोधिकापुच्छं रम्भाऽऽलं बीजमैङ्गुदम् |
दग्ध्वा तद्भस्मतैलाम्बु सूर्यपक्वं कचान्तकृत् ||१०८||
Hide commentary
रोमशातनमाह- रोमाकीर्ण इत्यादि| कर्तरी श्मश्रुकर्तनाद्युपयुक्तं शस्त्रम्| सन्दंशो नासालोमापहो यन्त्रभेदः, नासावो(छो)टिकेति लोके| औषधकृतं लोमशातनमाह- तैलमित्यादि| दीर्घवृन्तः श्योनाकः| आलं हरितालम्| श्लोकार्धगतमपि शमीबीजमिति समस्तपदम्| तत्र रक्तफला शमी प्रलेपे भक्षणे च केशघ्नीति वृद्धवैद्या वदन्ति| शीतोदपिष्टमिति एतत् सर्वं शीतजलपिष्टमित्यर्थः| आगारगोधिका गृहगोधिका ‘ब्राह्मणी’ इति लोके| रम्भा कदली| आलं हरितालम् | बीजमैङ्गुदं इङ्गुदीवृक्षबीजम्| कचान्तकृत् केशविनाशकारीत्यर्थः| अत्र गयी तु ‘तैलं भल्लातकस्य’ इत्यादि सर्वं पाठान्तरं कृत्वा ‘कोशातकीभिः’ इत्यादि पठति; तच्चाभावान्न लिखितम्||१०४-१०८||
Adhikarana ६७ (१०९) · Śloka १०९
वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः |
अधःकाये विशेषेण तत्र बस्तिर्विधीयते ||१०९||
Hide commentary
बस्तिविषयमाह- वातदुष्टेत्यादि| बस्तिरत्र निरूहः स्नैहिकश्चः||१०९||
Adhikarana ६८ (११०) · Śloka ११०
मूत्राघाते मूत्रदोषे शुक्रदोषेऽश्मरीव्रणे |
तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ||११०||
Hide commentary
उत्तरबस्तिविषयमाह- मूत्राघाते इत्यादि| मूत्राघातादयो यदा व्रणनिमित्ता भवन्ति तदोत्तरबस्तिविधानम्||११०||
Adhikarana ६९ (१११) · Śloka १११
यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम् |
रोहत्यपि च निःशङ्कस्तस्माद्बन्धो विधीयते ||१११||
Hide commentary
व्रणस्य बन्धकरणे हेतुमाह- यस्मादित्यादि| निःशङ्कः निर्गता शङ्का निर्घातमक्षिकादिपतनानां यत्र सः; ‘निःसङ्गः’ इति केचित् पठन्ति, तत्र निर्गतोऽभिघातहेतोः सङ्गः सम्बन्धो यस्येत्यर्थः| आलेपविधौ बन्ध्याबन्ध्यस्योक्तत्वाद्विषयोऽस्य प्रयोगश्चोक्तः| अत्र केचिद् यस्माच्छुध्यतीत्यतः प्राक् “अदुष्टिः समवर्त्मत्वं वेदनोपशमः सुखम्| आलेपनाद्यैः शोफस्य साधुबन्धाद्विधीयते”- इति पठन्ति; स तु पाठो निबन्धकारैर्न धृतः, इत्यस्माभिर्न लिखितो न व्याख्यातश्च||१११||
Adhikarana ७० (११२-११८) · Śloka ११८
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम् |
पत्रदानं भवेत् कार्यं यथादोषं यथर्तु च ||११२||
एरण्डभूर्जपूतीकहरिद्राणां तु वातजे |
पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च ||११३||
पत्राणि क्षीरवृक्षाणामौदकानि तथैव च |
दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ||११४||
पाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः |
पत्रं च शुकनासाया योजयेत् कफजे व्रणे ||११५||
अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम् |
अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ||११६||
स्नेहमौषधसारं च पट्टः पत्रान्तरीकृतः |
नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ||११७||
शैत्यौष्ण्यजननार्थाय स्नेहसङ्ग्रहणाय च |
दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ||११८||
Hide commentary
पत्रदानविषयमाह- स्थिराणामित्यादि| दोषविशेषेण पत्रविशेषमाह- एरण्डेत्यादि| सुगमम्| पत्रमाश्वबलमिति अश्वबला उपोदकी तस्या इदमाश्वबलं, ब्रह्मदेवस्तु अश्वबला यवनभूमौ मेथिकाकारबीजा भवतीत्याह| क्षीरवृक्षावटादयः| औदकानि पद्मकुमुदादीनि| कफजे पत्रदानमाह- पाठा मूर्वेत्यादि| मूर्वा धनुर्गुणोपयुक्तो लताभेदः| शुकनासा चर्मकारवटः ‘कुप्यक’ इति कान्यकुब्जे, ‘चर्मकारजम्बूपलासिका’ इति मालवीया वदन्ति| अजीर्णं नवम्| सुकुमारकं तनु| अजन्तुजग्धं न कृमिभक्षितम्| मृदु कोमलम्| पत्रदानस्य प्रयोजनमाह- स्नेहमित्यादि| ततस्तस्माल्लेपस्योपरि पत्रं दापयेदिति सम्बन्धः| यत् यस्मात् कारणात् पट्टो व्रणबन्धनद्रव्यं; नादत्ते नैव गृह्णाति; किंविशिष्टः पट्टः? पत्रान्तरीकृतः पत्रेणान्तरीकृतो व्यवधापितः | किं नादत्ते? स्नेहं शतधौतघृतादिकम्| न केवलं स्नेहम्, औषधसारं च; औषधस्य सारं वीर्यम्| अन्ये तु “स्नेहमौषधसारं च पट्टवस्त्रान्तरीकृतम्| न दूषयति यत् पत्रं तल्लेपोपरि दापयेत्”- इति पठन्ति| अपरमपि पत्रदानप्रयोजनमाह- शैत्यौष्ण्येत्यादि| पित्तरक्तव्रणे शैत्यं करणीयं, वातकफव्रणे औष्ण्यं, तदर्थं पत्रम्| दत्तौषधेषु ‘व्रणेषु’ इति शेषः||११२-११८||
Adhikarana ७१ (११९-१२२) · Śloka १२२
मक्षिका व्रणमागत्य निःक्षिपन्ति यदा कृमीन् |
श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ||११९||
तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते |
सुरसादिर्हितस्तत्र धावने पूरणे तथा ||१२०||
सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः |
हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा ||१२१||
प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात् |
विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः ||१२२||
Hide commentary
कृमिघ्नविषयमाह- मक्षिकेत्यादि| भक्षिते ‘व्रणे’ इति शेषः| तैः कृमिभिः| भृशदारुणः अत्यर्थं कष्टकारी| विचित्राः तोददाहकण्ड्वादिनानारूपा रुज इत्यर्थः| धावने प्रक्षालने| सप्तपर्णकरञ्जेत्यादयो ‘हिता’ इति शेषः| सेकः परिषेकः| प्रच्छाद्य ‘व्रणम्’ इति शेषः| मांसपेश्या मांसखण्डेन| वक्ष्याम्युपरीति उपर्युत्तरतन्त्रे कृमिप्रतिषेधीये (उ. ५४) इत्यर्थः||११९-१२२||
Adhikarana ७२ (१२३) · Śloka १२३
दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम् |
बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता ||१२३||
Hide commentary
बृंहणविषयमाह- दीर्घेत्यादि| बृंहणीयो देहोपचयकरो विधिः कार्यः| ‘कार्योऽग्निं परिरक्षता’ इति कर्तव्ये यत् कायग्रहणं तद्देहगतकार्श्यदोषसात्म्याद्यनुक्तग्रहणार्थम्| ‘कार्योऽग्निं परिरक्षता’ इति केचित् पठन्ति||१२३||
Adhikarana ७३ (१२४) · Śloka १२४
विषजुष्टस्य विज्ञानं विषनिश्चयमेव च |
चिकित्सितं च वक्ष्यामि कल्पेषु प्रतिभागशः ||१२४||
Hide commentary
विषघ्नं निर्दिशन्नाह- विषजुष्टस्येत्यादि| विषजुष्टस्य ‘अन्नपानादेः’ इति शेषः| विज्ञानं लक्षणमित्यर्थः| विषनिश्चयं स्थावरजङ्गमादिविषस्य सम्यग्ज्ञानम्| प्रतिभागशः प्रत्येकमित्यर्थः||१२४||
Adhikarana ७४ (१२५) · Śloka १२५
कण्डूमन्तः सशोफाश्च ये च जत्रूपरि व्रणाः |
शिरोविरेचनं तेषु विदध्यात्कुशलो भिषक् ||१२५||
Hide commentary
शिरोविरेचनविषयमाह- कण्डूमन्त इत्यादि|- जत्रु वक्षोंऽसयोः सन्धिः| शिरोविरेचनं नस्यभेदः||१२५||
Adhikarana ७५ (१२६) · Śloka १२६
रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः |
व्रणेषु तेषु कर्तव्यं नस्यं वैद्येन जानता ||१२६||
Hide commentary
नस्यविषयमाह- रुजावन्त इत्यादि| नस्यं स्नैहिकमेव||१२६||
Adhikarana ७६ (१२७-१२८) · Śloka १२८
दोषप्रच्यावनार्थाय रुजादाहक्षयाय च |
जिह्वादन्तसमुत्थस्य हरणार्थं मलस्य च ||१२७||
शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै |
उष्णो वा यदि वा शीतः कवलग्रह इष्यते ||१२८||
Hide commentary
कवलग्रहविषयमाह- दोषेत्यादि| दोषप्रच्यावनार्थायेति दोषप्रच्यावनं त्रिफलाद्राक्षादिकषायादिभिः| शोधनः शोधनद्रव्यकृतः| रोपणो रोपणद्रव्यकृतः| उष्णो वातकफजे व्रणे, रक्तपित्तजे शीतः||१२७-१२८||
Adhikarana ७७ (१२९) · Śloka १२९
ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान् |
शोफस्रावरुजायुक्तान् धूमपानैरुपाचरेत् ||१२९||
Hide commentary
धूमविषयमाह- ऊर्ध्वेत्यादि| धूमपानैरिति शोफस्रावरुजापहद्रव्याणामित्यर्थः||१२९||
Adhikarana ७८ (१३०) · Śloka १३०
क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च |
सद्योव्रणेष्वायतेषु क्षौद्रसर्पिर्विधीयते ||१३०||
Hide commentary
मधुसर्पिर्विषयमाह- क्षतोष्मण इत्यादि| सन्धानं घातविशेषाद्द्विधाभूतस्यावयवस्यैकभावः||१३०||
Adhikarana ७९ (१३१) · Śloka १३१
अवगाढास्त्वणुमुखा ये व्रणाः शल्यपीडिताः |
निवृत्तहस्तोद्धरणा यन्त्रं तेषु विधीयते ||१३१||
Hide commentary
यन्त्रविषयमाह- अवगाढा इत्यादि| अवगाढा गम्भीराः| निवृत्तहस्तोद्धरणा हस्तेनाक्रष्टुमशक्याः||१३१||
Adhikarana ८० (१३२) · Śloka १३२
लघुमात्रो लघुश्चैव स्निग्ध उष्णोऽग्निदीपनः |
सर्वव्रणिभ्यो देयस्तु सदाऽऽहारो विजानता ||१३२||
Hide commentary
आहारविषयमाह- लघुमात्र इत्यादि| लघुमात्रो मात्रया लघुरित्यर्थः| लघुरिति रक्तशालिजाङ्गलमांसादिर्द्रव्यलघुः, अग्निदीपन इति यावद् देयः| गव्यघृतादिरयमाहारो व्रणितोपासनीयोक्तोऽपि पुनरुपक्रमप्रसङ्गेनेहोक्त इति न पौनरुक्त्यम्||१३२||
Adhikarana ८१ (१३३) · Śloka १३३
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः |
रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा ||१३३||
Hide commentary
रक्षाविधानमाह- निशाचरेभ्य इत्यादि| नित्यमेवेति दिवारात्रमपीत्यर्थः| रक्षाविधानैरुद्दिष्टैरिति गुग्गुल्वादिधूपादिभिः, मन्त्रैश्चायुर्वेदविहितैः| यमैः सनियमैरिति पञ्च यमा नियमाश्च पञ्च| उक्तं च- “अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तथैव च| व्यवहारनिवृत्तिश्च यमाः पञ्च प्रकीर्तिताः|| अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्| अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः”- इति| एवं यथाविषयं यथाक्रमं षष्टिरुपक्रमा उक्ताः||१३३||
Adhikarana ८२ (१३४) · Śloka १३४
षण्मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः |
षष्ट्या विधानैर्निर्दिष्टैश्चतुर्भिः साध्यते व्रणः ||१३४||
Hide commentary
अथ व्रणः कतिमूलः, कत्यधिष्ठानः, कतिलक्षणलक्षितः, कतिभिरौषधैः, कियद्भिश्च पदार्थैः साध्यत इत्याह- षण्मूल इत्यादि| षण्मूल इति वातपित्तकफशोणितसन्निपातागन्तवः षडेव मूलं कारणानि यस्य स षण्मूलः; संसर्गः पृथगर्थवशादत्र सन्निपातेनावरुद्धः, यस्मात् समेत्य सम्भूय द्वयोर्बहूनां वा निपातः सन्निपातः; सङ्घातः, संयोगः, संहितीभावः, संश्लेषः, समवायः, सम्बन्धः, सन्निपात इत्यनर्थान्तरम्| त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि परिगृह्णातीत्यष्टपरिग्राही; परिग्रहोऽधिष्ठानम्, आश्रय इत्यर्थः| पञ्चलक्षणलक्षित इति पञ्चानां वातपित्तकफसन्निपातागन्तूनां लक्षणानि तैर्लक्षितः; रक्तजस्य न पृथग्लक्षणमस्ति ‘पित्तवद्रक्तजः’ (इति वचनात्); एवं तर्ह्यागन्तोरपि पृथग्लक्षणं नास्ति, यदाह- ‘पित्तरक्तलक्षण आगन्तुः’ इति; तर्ह्यन्यथैव पञ्चलक्षणलक्षितत्वं व्याख्यायते- गन्धवर्णास्राववेदनाकृतिभिर्लक्षणैर्लक्षित इति| षष्ट्या विधानैर्निर्दिष्टैरिति षष्टिसङ्ख्यैर्विधानैः पूर्वमुद्दिष्टैः कृत्वा| चतुर्भिः साध्यते चतुर्भिर्वैद्यातुरपरिचारकौषधैरित्यर्थः| ब्रह्मदेवस्तु ‘षष्ट्युपक्रमनिर्दिष्ट’ इति पठति; षष्टिरुपक्रमा निर्दिष्टा यस्येति च व्याख्यानयति||१३४||
Adhikarana ८३ (१३५) · Śloka १३५
योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया |
द्रव्याणां तत्समानानां तत्रावापो न दुष्यति ||१३५||
Hide commentary
इदानीमल्पौषधेषु शोधनरोपणादियोगेष्वावापविषयमूहबीजं निर्दिशन्नाह- य इत्यादि| तत्समानानामिति तेषां शोधनरोपणद्रव्याणां रसगुणवीर्यविपाकैः समानानि तुल्यानि द्रव्याणि तत्समानानि, तेषामावापो निक्षेपः| तत्र तस्मिन्नल्पौषधे योगे न दुष्यति| ‘अल्पग्रन्थं मृगयता योगो योऽल्पौषधैः कृत’ इति केचित् पठन्ति; तत्र मृगयता अन्वेषयता ग्रन्थकारेणेत्यर्थः||१३५||
Adhikarana ८४ (१३६) · Śloka १३६
प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः |
यथोपपत्ति तत्रापि कार्यमेव चिकित्सितम् ||१३६||
Hide commentary
इदानीं यथालाभमौषधप्रयोगमाह- प्रसङ्गेत्यादि| प्रसङ्गाभिहितो यो बहुभेषजो दुर्लभभेषजो वा, तत्र यथोपपत्ति यथालाभं चिकित्सितं भेषजं कार्यम्| प्रसङ्गाभिहितो यथा- “पिण्डीतकत्रयं रोध्रं पूर्वं ये च प्रकीर्तिताः| वर्गास्त्रयः प्रलेपे ते शोफे सर्वकृते हिताः”- इति; अत्र हि वातपित्तकफशोथोक्तौषधगणत्रयं प्रकरणसमानत्वात् सन्निपातोक्तमौषधं प्रसङ्गाभिहितं; तत्र यथालाभं भेषजानां चिकित्सितं कार्यम्| बहुभेषजो यथा- “आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः- ” इति; अत्र भद्रदार्वादिगणस्य बहुभेषजत्वाद्यथालाभमेव चिकित्सितं कार्यम्| दुर्लभभेषजो यथा- किञ्चिदेव भेषजं क्वचिद्देशकालादौ दुर्लभं; तत्र यथालाभं चिकित्सितं कार्यमिति||१३६||
Adhikarana ८५ (१३७) · Śloka १३७
गणोक्तमपि यद्द्रव्यं भवेद्व्याधावयौगिकम् |
तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम् ||१३७||
Hide commentary
एकत्रैव व्याधौ यौगिकस्यानुक्तस्यापि ग्रहणमयौगिकस्य परित्यागं चोपदर्शयन्नाह- गणोक्तमित्यादि||१३७||
Adhikarana ८६ (१३८-१३९) · Śloka १३९
उपद्रवास्तु विविधा व्रणस्य व्रणितस्य च |
तत्र गन्धादयः पञ्च व्रणस्योपद्रवाः स्मृताः ||१३८||
ज्वरातिसारौ मूर्च्छा च हिक्का च्छर्दिररोचकः |
श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु ||१३९||
Hide commentary
इदानीमुपद्रवानाह- उपद्रवा इत्यादि| मूर्च्छा चेति चकारेणानुक्तानामपि विसर्पादीनां समुच्चयः||१३८-१३९||
Adhikarana ८७ (१४०) · Śloka १४०
व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम् |
भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते ||१४०||
Hide commentary
इदानीमनागतावेक्षणं निर्दिशन्नाह- व्रणेत्यादि| एवमनेन प्रकारेण पूर्वोक्तेन, आसु इमासु व्रणक्रियासु, व्यासेन विस्तरेणोक्तास्वपि, भूयोऽपि पुनरपि, उपरि सद्योव्रणचिकित्सिते, क्रियां वक्ष्यामि| गयी तु “व्रणक्रियास्विमास्वेव सङ्क्षेपोक्तास्विह क्रियाम्”- इति पठति; तत्र व्रणक्रियास्विमासु इह सङ्क्षेपेणोक्तासु, उपरि विस्तरतः क्रियां वक्ष्यामीत्यर्थः||१४०||
Adhikarana पुष्पिका · Śloka १
इति सुश्रुतसंहितायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम प्रथमोऽध्यायः ||१||
Hide commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने प्रथमोऽध्यायः||१||