Adhikarana १ (१-२) · Śloka २
अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Hide commentary
अथात इत्यादि| उपद्रवन्तीत्युपद्रवा रोगाः, आतुरस्योपद्रवा आतुरोपद्रवाः; ते चात्र प्रायेण पञ्चकर्मनिमित्ता व्यापदः, तेषां चिकित्सितं कारणगुणप्रत्यनीकं विधानम्| ‘आतुरोपक्रमचिकित्सितम्’ इति केचित् पठन्ति| स्नेहादीनां निरूहान्तानामुपक्रमाणामन्तेऽग्निमान्द्यमेवावश्यम्भावि, तत्सन्धुक्षणार्थं पेयादिसंसर्जनोपदेशाय वर्ज्यानां च क्रोधादीनां प्रज्ञापराधात् करणे तज्जव्याधिप्रशमनाय चातुरोपद्रवचिकित्सिताभिधानम्||१-२||
Adhikarana २ (३-५) · Śloka ५
स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः |
निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ||३||
सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति |
अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ||४||
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते |
काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ||५||
Hide commentary
इदानीं स्नेहपानपूर्वकपश्चकर्मणां सोपपत्तिककर्मकरणाद् व्यापदां निवारणमुपदिशन्नाह- स्नेहपीतस्येत्यादि| निरूढस्य चेति चकारेणानुवासितमनुक्तं समुच्चिनोति| ननु स्नेहपानादयोऽनलप्रबोधोदय हेतव इत्युक्तत्वात् कथं तैर्मन्दोऽग्निर्भवति देहिनः? उच्यते, तत्काल एव मन्दः, क्रमेण तु तेन दीप्तो भवतीति न दोषप्रसङ्गः| तस्य क्रमेण यथा प्राकृतावस्थापन्नत्वं भवति तथा निर्दिशन्नाह- सोऽन्नैरित्यादि||३-५||
Adhikarana ३ (६) · Śloka ६
हृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः |६|
Hide commentary
तत्रोक्तप्रमाणकारणमुद्दिशन्नाह - हृतदोषेत्यादि|६|-
Adhikarana ४ (६) · Śloka ७
त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम् ||६||
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे |७|
Hide commentary
तदेव कतिविधं कियत्प्रमाणमित्याह- त्रीणि चात्रेत्यादि||६||-
Adhikarana ५ (७-११) · Śloka १२
प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ||७||
द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते |
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ||८||
दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम् |
अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ||९||
अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम् |
ततस्तु कृतसञ्ज्ञेन हृद्येनेन्द्रियबोधिना ||१०||
त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु |
ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ||११||
लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः |१२|
Hide commentary
तेषु च त्रिषु दोषनिर्हरणप्रमाणेषु त्रीनेवानुक्रमान् क्रमेणाह- प्रस्थे परिस्रुते इत्यादि| प्रस्थश्चात्र सार्धत्रयोदशपलः| यवागूशब्देन पेया विवक्षिता, स्वल्पतण्डुला अष्टांशतण्डुलकृता; तदुक्तं- “पेयां पिबेदुचितभक्तकृताष्टभागां त्रिर्द्विः सकृत्प्रवरमध्यजघन्यशुद्धः”- इति| यवागूरित्यत्रैकवचननिर्देशादेकवारमिति बोद्धव्यम्| द्वे चैवार्धाढके इत्यत्र द्वे पेये द्वौ वाराविति बोद्धव्यम्| तिस्रश्चाप्याढके गते इत्यत्र तिस्रः पेया इति बोद्धव्यम्| विलेपीत्यादि| उचितादभ्यस्तात्तण्डुलाच्चतुर्थभागेन कृताम्| उक्तेन विधिनेति एकद्वित्रिक्रमेण| क्लिन्नसिक्थाम् अतिपक्वतण्डुलाम्| अपिच्छिलां मण्डरहितां , यवागूं दद्यात् ‘भिषक्’ इत्यध्याहारः| अंशद्वयप्रमाणेनेत्यादि| उचितादर्धभागतण्डुलात् कृतं भक्तमित्यर्थः| त्रीनंशानिति त्रिभागकल्पितं सम्यक्पक्वं घृतमण्डेन समन्वितम्| तत इत्यादि|- ततोऽनन्तरं कृतसञ्ज्ञेन यूषेण सह आतुराय रोगिणे ओदनं भक्तमुचितं तण्डुलांशत्रयकृतं भोक्तुं वितरेद् दद्यादिति सम्बन्धः| अस्य श्लोकस्यादौ “त्रिभागकलितं सम्यगकृतेनाथ सम्मितम्” इति प्रतिपुस्तकेषु पाठो दृश्यते स च न पठनीयः, जेज्जटादिनिबन्धकारैः सर्वैरपि परिहृतत्वात्| ततो यथोचितमित्यादि|- यथोचितमिति अंशचतुष्टयप्रमाणं परिपूर्णमित्यर्थः| हृतदोषप्रमाणेनेत्यादि दद्यात् सुसंस्कृतैरित्यन्तग्रन्थेनैतदुक्तं भवति- हीनशुद्धिशुद्धस्य पुरुषस्य तावत् प्रथमेऽन्नकाले उचितभक्तकृताष्टभागां पेयां दद्यात्, तस्मिन्नेव दिने द्वितीयेऽन्नकाले प्रकृतिस्थात् जरणकालोचिताद्भक्तात् चतुर्थांशेन कृतामतिपक्वतण्डुलावयवां मण्डरहितां विलेपीं दद्यात्; द्वितीयेऽह्नि तृतीयेऽन्नकालेऽस्निग्धालवणस्वच्छेनाकृतमुद्गयूषेणोचितादर्धभागतण्डुलकृतं सुस्विन्नमोदनं दद्यात्, तस्मिन्नेव दिने चतुर्थेऽन्नकाले हृद्येनेन्द्रियबोधिना कृतसञ्ज्ञेन यूषेणोचिततण्डुलांशत्रयकृतमोदनं भोक्तुं दद्यात्; ततस्तृतीयेऽह्नि पञ्चमेऽन्नकाले लावैणहरिणादीनां सुसंस्कृतरसैरंशचतुष्टयप्रमाणं भक्तं भोक्तुं दद्यात्, तृतीयेऽह्नि षष्ठेऽन्नकाले प्रकृतिभोजनमागच्छेत्| मध्यशुद्धिशुद्धस्य च तावदादौ द्वयोरन्नकालयोः पेयां दद्यात्, द्वितीयेऽह्नि द्वयोरप्यन्नकालयोर्विलेपिकां, तृतीयेऽह्नि कालद्वयेऽप्यकृतयूषं, चतुर्थेऽह्नि कालद्वयेऽपि कृतयूषं, पञ्चमेऽह्नि कालद्वयेऽपि मांसरसमित्यतः षष्ठेऽह्नि प्रकृतिभोजनमागच्छेत्| उत्तमशुद्धिशुद्धस्य च तावत् प्रथमेऽह्नि द्वयोरप्यन्नकालयोः पेयां दद्यात्, द्वितीयेऽह्नि प्रथमेऽन्नकाले पेयां, द्वितीये विलेपिकां; तृतीयेऽह्नि द्वयोरप्यन्नकालयोर्विलेपिकां; चतुर्थेऽह्नि द्वयोरप्यन्नकालयोरकृतयूषं; पञ्चमेऽह्नि प्रथमेऽन्नकालेऽकृतयूषं, द्वितीयेऽन्नकाले कृतयूषं; षष्ठेऽह्नि द्वयोरप्यन्नकालयोः कृतयूषं; सप्तमेऽह्नि द्वयोरप्यन्नकालयोर्मांसरसं; अष्टमेऽह्नि प्रथमेऽन्नकाले मांसरसम्, अतोऽष्टमदिवसस्य द्वितीयेऽन्नकाले प्रकृतिभोजनमाहरेत्| गयी तु हीनशुद्धौ प्रथमेऽन्नकाले उचिततण्डुलाष्टभागकृता पेया, द्वितीयेऽन्नकाले तूचिततण्डुलचतुर्थभागकृता विलेपी, तृतीयेऽन्नकाले तूचिततण्डुलार्धभागकृतेन भक्तेन सह दकलावणिको यूषो रसो वा यथादोषं, चतुर्थेऽन्नकाले तूचिततण्डुलभागत्रयकृतेन भक्तेन सह कृतसञ्ज्ञो यूषः पिप्पलीशृङ्गवेरसिद्धः कृतो रसो वा यथादोषं, ततो यथोचितं परिपूर्णभक्तं सुसंस्कृतेन रसेन यूषेण वा देयमिति तृतीये दिने प्रकृतिभोजनम्| एवं मध्यमोत्तमशुद्धौ पेयादीनां द्वित्रिकालदानेन यथाक्रमं पञ्चमे सप्तमे च दिने प्रकृतिभोजनम्| उक्तं च, तन्त्रान्तरे- “पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः” (वा.सू. अ.१८)- इति||७-११||-
Adhikarana ६ (१२) · Śloka १३
हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः ||१२||
एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम् |१३|
Hide commentary
उक्तमेवानुक्रमं नियमयन्नाह- हीनेत्यादि| प्रस्थे परिस्रुते हीनो विरेकः, तस्मिन् पेयादिक्रम एकैकमन्नकालं देयः; अर्धाढके परिस्रुते मध्यो विरेकः, तस्मिन् पेयादिः प्रत्येकं द्वौ द्वावन्नकालौ देयः; आढके परिस्रुते उत्तमो विरेकः, तस्मिन् पेयादिः प्रत्येकं त्रींस्त्रीनन्नकालान् देयः| एषु पूर्वोक्तेषु हीनादिविरेकेषु हृतदोषमानापेक्षया एकद्वित्रिगुणोऽयमाहारक्रमः सम्यक् प्रकीर्तितः; ततो मिथ्याहीनातियोगेनासम्यगित्यर्थः| एतदुक्तं भवति- हीने विरेके चतुर्भिरन्नकालैः सायम्प्रातिकभोजनाभ्यां द्व्यहं, मध्ये तद्द्विगुणेन चतुरहं, उत्तमे तत्त्रिगुणेन षडहमिति||१२||-
Adhikarana ७ (१३) · Śloka १४
कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् ||१३||
पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः |१४|
Hide commentary
इदानीं क्वचिद्विषये पेयादिक्रमनिषेधमाह- कफेत्यादि| ये कफपित्ताधिकास्तथा मद्यनित्यास्तान् हीनविशोधितान् पेयाऽभिष्यन्दयेत् अभिष्यण्णस्रोतस्कान् कुर्यात्, अतस्तेषां हीनशोधितानां तर्पणादिक्रमो हितः| तत्र प्रथमेऽन्नकाले तर्पणं लाजसक्तुभिः कार्यं ततो यूषभक्तादिकमिति| तन्त्रान्तरे चोक्तं- “स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्| पेयां न पाययेत्” (वा.सू.अ.१८)- इत्यादि| ननु तर्पणादिक्रमस्वीकारे हीनविरेके प्राक्प्रतिपादितस्य पेयादिक्रमस्य नैरर्थक्यम्? उच्यते- कफपित्ताधिकमद्यनित्यौ परित्यज्यान्यत्र हीनविरेके पेयादिक्रम इति||१३||-
Adhikarana ८ (१४) · Śloka १५
वेदनालाभनियमशोकवैचित्त्यहेतुभिः ||१४||
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् |१५|
Hide commentary
इदानीमशुद्धेऽपि क्वचिदग्निमान्द्यहेतौ सङ्क्षेपार्थं संशोधनोक्तसंसर्जनानुक्रममतिदेशेन निर्दिशन्नाह- वेदनालाभनियमेत्यादि| वेदनाया लाभो वेदनालाभः, अलाभ इष्टस्येति केचिदाचक्षते, लाभोऽनिष्टस्येत्यन्ये, नियम उपवासादिः, वैचित्त्यम् उन्मादादिः, एतैर्हेतुभिरुपोषितान्नरान् विरिक्तवदुपाचरेत्| तत्रापि लङ्घनमानेन हीनमध्योत्तमाभिहितेन द्व्यहं चतुरहं षडहमेवान्नसंसर्जनम्||१४||-
Adhikarana ९ (१५-१६) · Śloka १६
आढकार्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने ||१५||
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः |
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन ||१६||
Hide commentary
प्राक्प्रतिपादितप्रस्थार्धाढकादिसङ्ख्याया विरेकैकविषयत्वं प्रतिपाद्य कारणमुखेन निराकुर्वन्नाह- आढकार्धाढकेत्यादि| अग्न्यधिष्ठानसम्प्लवादत्यर्थमग्निमान्द्यहेतौ विरेचन एवाढकादिसङ्ख्या, वमनास्थापनयोस्त्वग्न्यधिष्ठानानभिभवेन तादृशाग्निमान्द्याभावान्माननियमो नास्ति; अत एव तदहरेव वमने कुलत्थमुद्गयूषभोजनं, आस्थापने मांसरसभोजनमनुवासनं च| एतन्मतं निरस्यन्नाह- श्लेष्मान्तत्वादित्यादि| अयमभिप्रायः- विरेचनं निःशेषपित्तनिर्हरणाय प्रयुज्यते, निःशेषपित्तनिर्हरणं च तदैवानुमीयते यदा पित्तप्रवर्तनानन्तरं तत् परदेशस्थ आमरूपः कफः प्रवर्तते; तस्मात् कफान्तिकत्वान्द्विरेकस्य तां प्रस्थादिकां सङ्ख्यां विरेचनविदो नेच्छन्ति| एतेन वैगिकोऽपि निराकृतः, लैङ्गिकः पुनरेकान्तेन विशुद्ध एव| यतो लैङ्गिकेऽपि कफान्तिकत्वमस्ति| तथाच- ‘वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छति, एवमेव विरेचने पुरीषपित्तौषधकफा’ इति| अतो वैगिकमानिकौ विरेकौ गौणतया प्रतिपादितौ क्वचिद्बालवृद्धाद्यवस्थावशात् प्रयुक्तौ कर्तव्यौ| मुख्यः पुनरेकः कफान्तिक एवेत्याह- एको विरेक इत्यादि| न द्वितीयोऽस्तीति तृतीयस्य पुनः का कथा, एवं वमनमप्येकमेव| तथाच भोजः,- “तस्मान्मतिमता नित्यमात्मानं परिरक्षता| पित्तान्तं वमनं स्थाप्यं कफान्तं च विरेचनम्”- इति||१५-१६||
Adhikarana १० (१७-१८) · Śloka १८
बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा |
तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् ||१७||
द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा |
केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु ||१८||
Hide commentary
एवं तर्हि तदाश्रयान्नसंसर्जनत्रित्वमपि नास्तीति प्रकारान्तरेणैवान्नसंसर्जनत्रित्वं तदाश्रयं दर्शयन्नाह- बलं यत्त्रिविधमित्यादि| बलमत्रोपचयलक्षणमेव| यस्मात् प्रागेक एव विरेक उपवर्णितः, अतस्त्रिविध आहारक्रमो बलं यत्त्रिविधं प्रोक्तं तत्र ज्ञेयः| तत्र त्रिविधेऽपि बले सर्वत्र त्रिविधमप्यन्नसंसर्जनं प्राप्नोति; क्वचित् कञ्चिन्निर्दिशन्नाह- तत्रानुक्रममित्यादि| तत्रैव मतान्तरं दर्शयन्नाह- केचिदेवमित्यादि||१७-१८||
Adhikarana ११ (१९-२०) · Śloka २०
संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् |
प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः ||१९||
स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम् |
स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः ||२०||
Hide commentary
अतः परं क्रमेणैव कृतसंसर्गस्य रसावचारणक्रममाह- संसर्गेणेत्यादि| अन्नसंसर्जनक्रमविवृद्धेऽग्नौ दोषकोपभयात् स्निग्धान् मधुराम्ललवणान्, रूक्षान् कटुतिक्तकषायान् रसान्, व्यत्यासात् विपर्ययात्, एवमत्रोक्तपरिपाट्या भजेत्| तत्र प्रवृद्धाग्निहेतुवातपित्तस्यावजयार्थमग्नेः समीकरणार्थं च पूर्वं स्वादुतिक्तकौ, ततो वातकफावजयार्थमग्नेः सन्धुक्षणार्थं च व्यत्यासादिति प्रागुक्तरसप्रत्यनीकान् स्निग्धाम्ललवणकटुकान्| ततश्चाम्ललवणकटुकजनितपित्तवातावजयार्थं स्वादुतिक्तौ, ततो भूयः कषायकटुकौ, ततोऽन्योन्यप्रत्यनीकरसानां स्निग्धरूक्षयोर्व्यत्यासादुपयोगेन प्रकृतिगो भवेत्| वृद्धवाग्भटस्त्वाह- “दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ| स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः||अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः| व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्”||१९-२०||
Adhikarana १२ (२१) · Śloka २१
केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् |
स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् ||२१||
Hide commentary
पञ्चकर्माङ्गयोरेव स्नेहवमनयोर्यथोक्तान्नसंसर्जननियमो नान्यत्रेति दर्शयन्नाह- केवलमित्यादि| दोषरोगसंशमननिमित्तं पीतस्नेहः केवलं स्नेहपीतः, तथा वान्तश्च अजीर्णभुक्तादिनिमित्तं कृतवमनः| लघुभोजनं मात्राद्रव्याभ्याम्| ततोऽन्तरोक्तेनैव विधानेन स्वाद्वादीनश्नीयात्||२१||
Adhikarana १३ (२२) · Śloka २२
कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् |
स ना परिहरेन्मासं यावद्वा बलवान् भवेत् ||२२||
Hide commentary
स्नेहपीतस्येत्याद्येकवाक्योक्तानां पञ्चानां स्नेहपीतादीनां मध्ये द्वयोः कृतसिराव्यधविरिक्तयोः परिहारकालं गौरवान्निर्दिशन्नाह- कृतः सिराव्यधो यस्येत्यादि| यस्य सिराव्यधः कृतः, यस्य च शोधनं विरेचनाख्यं कृतं, तस्योभयस्यापि शोधनानन्तरं सप्तरात्रं कृतसंसर्गस्य सप्ताहादूर्ध्वं परिपूर्णाहारत्वेन स्वाद्वादिरसानां क्रमविपर्ययाभ्यामुपसेवया रसस्य शनैः शनैर्धात्वन्तरानुक्रमतो मासेन शुक्रत्वाच्छनैर्बलावाप्तिरुत्पद्यते; अत उक्तं- स ना परिहरेन्मासमिति| ना पुरुषो वक्ष्यमाणं क्रोधादिकं परिहरेत्| तत्र कस्यचिदत्यन्तक्षीणाग्नेर्जलसन्तानवद्रसप्रसरणेन मासानन्तरमपि बललाभः, कस्यचिद्दीप्ताग्नेः शब्दसन्तानवद्रसप्रसरणेन मासादर्वागपि बललाभः स्यादत उक्तं- यावद्वा बलवान् भवेदिति||२२||
Adhikarana १४ (२३) · Śloka २३
त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः |
तृतीये तु परीहारे यथायोगं समाचरेत् ||२३||
Hide commentary
चतुर्षु स्नेहपीतादिषु पूर्वोक्तोऽन्नसंसर्गकालनियमः, बस्तौ तु तादृशो नियमो नास्ति, कथं? दोषव्याधिबलापेक्षया बस्तेः पुनः पुनः शीलनात्; तदुक्तं- अष्टादशाष्टदशकानित्यादि; अत एकैकं बस्तिमुद्दिश्य विशिष्टं नियमं दर्शयन्नाह- त्र्यहं त्र्यहमित्यादि| एकैकं बस्तिं सेवित्वा त्र्यहं त्र्यहं वक्ष्यमाणं परिहार्यं परिहरेत्| तृतीये तु परीहार इत्यादि| विशेषेण परीहारे कृते सत्यनन्तरं चतुर्थपञ्चमदिवसादौ, यथायोगं योगानतिक्रमेण सम्यङ्निरूढानुवासितयोगलक्षणानतिक्रमेण, समाचरेद्यथासात्म्यमुपसेवेतेत्यर्थः| अन्ये तु व्याख्यानयन्ति- एकैकं बस्तिमनुवासनं दत्त्वा त्रीणि त्रीण्यहानि परिहरेत्, तृतीये तु बस्तौ गते तृतीयादनुवासनादूर्ध्वं, यथायोगं यथावस्थमग्न्यादीनवेक्ष्य, चतुःपञ्चदिवसानन्तरीकृत्य, अनुवासनं योजनीयम्||२३||
Adhikarana १५ (२४) · Śloka २४
तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः |
स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये ||२४||
Hide commentary
शुद्धसमानधर्मिणोऽन्यानपि दृष्टान्तेनाह- तैलपूर्णामेत्यादि| यथा तैलपूर्णमपक्वमृद्भाजनमयत्नैन चाल्यमानं विशीर्यते, तद्वदयत्नेनोपचर्यमाणा व्रणातुरादयोऽवस्थान्तरं प्राप्यन्ते; तस्मादेतेऽपि संशुद्धवदुपक्रम्या इति तात्पर्यार्थः||२४||
Adhikarana १६ (२५-३७) · Śloka ३७
क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान् |
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति ||२५||
मैथुनोपगमाद्धोरान् व्याधीनाप्नोति दुर्मतिः |
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च ||२६||
गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ |
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते ||२७||
लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् |
प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् ||२८||
मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् |
तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति ||२९||
उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम् |
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ||३०||
हनुमोक्षमधीमन्थमर्दितं च सुदारुणम् |
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ||३१||
लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान् |
यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ||३२||
तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम् |
चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ||३३||
अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः |
सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ||३४||
शीतसम्भोगतोयानां सेवा मारुतवृद्धये |
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ||३५||
वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात् |
विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ||३६||
असात्म्यभोजनं हन्याद्बलवर्णमसंशयम् |
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः |
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||३७||
Hide commentary
पूर्वोक्तेषु स्नेहपीतादिषु पञ्चसु परिहार्याणामपरिहारेण किं भवतीत्याह- क्रुध्यतः कुपितमित्यादि| तांस्तानुपद्रवान् दाहपिपासाप्रभृतीन्| आयास्यत इत्यादि| विभ्रमं विविधं भ्रमं सम्मोहमदापस्मारोन्मादादिकं मानसं विकारम्| मैथुनोपगमादित्यादि| तानेव घोरान् व्याधीन् विवृण्वन्नाह- आक्षेपकमित्यादि| लभते च दिवास्वप्नात्तानित्यादि| अजिघ्रत्वं गन्धाज्ञता| मूकताम् अवाक्त्वम्| अधिमन्थो दृष्टिरोगः| यानयानेन लभते इत्यादि| यानयानेनाश्वादिगमनेन रथाच्च| चिरासनादित्यादि| असनं स्थितिभवनम्| स्थानम् ऊर्ध्वीभवनम्| अतिचङ्क्रमणादित्यादि चङ्क्रमणं परिभ्रमणम्| ‘शोफं वा’ इत्यत्र ‘स्वापं वा’ इति पाठान्तरम्| शीतसम्भोगतोयानामित्यादि| सम्भोगः स्रक्चन्दनादीनामुपभोगः| गयी तु ‘शीतसम्भोगतोयानां’ इत्यत्र ‘शीतभोजनतोयानां इति पठति| वातातपाभ्यामित्यादि| यथाक्रमं वाताद् वैवर्ण्यं, आतपप्रकुपितात् पित्ताज्ज्वरः| विरुद्धाध्यशनान्मृत्युमित्यादि| पयोमत्स्यादिभोजनं विरुद्धाशनम्, अध्यशनमजीर्णे भोजनं, ताभ्यां मरणं भयावहो रोगो वा| असात्म्यभोजनमित्यादि| ये अनात्मवन्तः पुरुषा अप्रमाणतः पशुवद्भुञ्जते ते अजीर्णं प्राप्नुवन्ति; अजीर्णं त्रिविधम् आमविदग्धविष्टब्धभेदेन वातादिभिः, चतुर्थं रसाजीर्णं परिगृह्यते| किंविशिष्टं? रोगानीकस्य रोगसमूहस्य मूलम्| क्रोधादिषु व्यापत्सु आयासशोकाभ्यामेकैका, चिरासनस्थानाभ्यामप्यन्ये, शीतसम्भोगतोयानां सेवया पुनरेकैका, वातातपाभ्यां द्वे, तथा विरुद्धाध्यशनाभ्यां द्वे, अन्याः सुबोधाः, इत्येवं पञ्चदश||२५-३७||
Adhikarana १७ (३८) · Śloka ३८
व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् |
प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ||३८||
Hide commentary
तासु सर्वासु सङ्क्षेपेण चिकित्सितं निर्दिशन्नाह- व्यापदामित्यादि| व्यापदाम् उपद्रवाणां, कारणं विप्रकृष्टं क्रोधादिकं, सन्निकृष्टं पित्तादिकं, वीक्ष्य उपलभ्य, प्रत्यनीकेन हेतुना विप्रकृष्टकारणप्रत्यनीकेन उपद्रवप्रत्यनीकेन वातादिप्रत्यनीकेन वा| अत एव बुद्धिमद्ग्रहणं, बुद्धिमान् भिषगातुरारोग्यविषये प्रयत्नं कुर्वीत||३८||
Adhikarana १८ (३९) · Śloka ३९
विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरीः |
सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ||३९||
Hide commentary
असात्म्यभोजनं बलवर्णहरं प्रतिपादितं, तत् किमत्र सात्म्यं यदपेक्षयाऽन्यदसात्म्यमिति सात्म्यमेवाह- विरिक्तवान्तैरित्यादि| इह निर्दिष्टादन्यदनुपदिष्टमाह- लघु यच्च कीर्तितमिति| विष्किरजाङ्गलेषु शालिषष्टिकेषु मुद्गादिषु चोक्तादन्यदपि यच्च लघु प्रोक्तं तच्च सेव्यमित्यर्थः| जेज्जटाचार्यस्त्वन्यथा व्याख्यानयति, यथा- विरिक्तवान्तैरित्याद्यारम्भप्रयोजनं विरिक्तकथितविधिनियमार्थं वमनानुक्तविधिप्रापणार्थं च; यतो विरिक्तस्य प्रमाणापेक्षया यवाग्वादिक्रम एकशो द्विशस्त्रिशश्च विहितो न वान्तस्य||३९||
Adhikarana पुष्पिका · Śloka ३९
इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ||३९||
Hide commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकोनचत्वारिंशत्तमोऽध्यायः||३९||