Skip to content

५२. विसर्पनिदानम्

Adhikarana विसर्पनिदानं, सङ्ख्या, निरुक्तिश्च (१-३) · Śloka

अथ विसर्पनिदानम् | लवणाम्लकटूष्णादिसंसेवादोषकोपतः | विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ||१|| पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः | वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ||२|| चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः | आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ||३|| यस्तु कर्दमको घोरः स पित्तकफसम्भवः |४| (च. चि. अ. २१) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अम्लपित्तसम्भवच्छर्देर्वेगविधारणाद्रक्तदुष्टौ सत्यां विसर्पोत्पत्तेर्हेतुसाम्यात् तदनन्तरं विसर्पनिदानम्| छर्दिवेगविघातस्य रक्तदूषकत्वे चरकवचनं यथा– “ छर्दिवेगप्रतीघातात् काले चानवसेवनात्| शरत्कालप्रभावाच्च शोणितं सम्प्रदुष्यति||” (च. सू. अ. २४) इति| तस्य निदानपूर्विकां सङ्ख्यां निरुक्तिं चाह– लवणाम्लेत्यादि| “विसर्पो न ह्यसंसृष्टो रक्तपित्तेन लक्ष्यते|” इति वचनात् लवणाम्लादिकं विशेषेण रक्तपित्तनिदानमुक्तम्| संसेवया सततसेवया दोषकोपः संसेवाद्दोषकोपस्ततः| अत्र, आदिग्रहणात् चरकोक्तानां हरितशाकशिण्डाकीप्रभृतीनां ग्रहणम्| सप्तधेति उल्बणैकैकदोषजास्त्रयः, सन्निपातज एकः, त्रयो द्वन्द्वजाः, इति सप्तप्रकारत्वमुक्तम्| सर्वतः परिसर्पणादिति सर्वतः परिसर्पणात् परिसर्पः, विविधं सर्पाणाद्विसर्पः| यदुक्तं चरके– “विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्||” (च. चि. अ. २१) इति||१-३||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अम्लपित्तसम्भवच्छर्देर्वेगविघाताद्रक्तदुष्टौ सत्यां विसर्पोत्पत्तेर्हेतुसामान्याच्चानन्तरं विसर्पनिदानमाह– छर्दिवेगविघातस्य च रक्तदूषकत्वे चरकवचनं यथा– “छर्दिवेगविघातात्तु काले चानवसेवनात्| शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||” इति| तस्य निदानपूर्विकां सङ्ख्यां निरुक्तिं चाह– लवणेत्यादि| लवणादिभिर्विसर्पो रोगो भवति, स सप्तधा ज्ञेयः| “विसर्पो न ह्यसंसृष्टो रक्तपित्तेन” इति वचनाल्लवणादिकं विशेषेण रक्तपित्तनिदानमुक्तम्| एषां सन्ततसेवया दोषकोपः| आदिग्रहणाच्चरकक्तहरितशाकशिण्डाकीप्रभृतीनां ग्रहणम्| सर्वतः परिसर्पणात् परिसर्पः, विविधं सर्पतीति विसर्पः| यदुक्तं चरके– “विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथ वा नाम्ना सर्वतः परिसर्पणात्||” इति| सङ्ख्यासम्प्राप्तिमाह– पृथक्त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रय इत्यादि सुगमम्| आग्नेय इत्यादिसुगमम्||१-३||

Adhikarana विसर्पदोषदूष्यसङ्ग्रहः (४-७) · Śloka

रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ||४|| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः | (च. चि. अ. २१) तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ||५|| शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् | पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ||६|| कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् | (वा. नि. अ. १३) | सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सर्वेषामेव रक्तादिदूष्यचतुष्टयदोषत्रयजन्यत्वमाह– रक्तमित्यादि| विसर्पस्य समानसामग्रीकत्वेऽपि कुष्ठाद्भेदः कुष्ठाध्याये एव निरूपितः| दोषशब्देनैव वातादिग्रहणे सिद्धे मला इति यत् कृतं, तदत्यर्थदुष्ट्या शरीरमलिनीकरणत्वं दोषाणां प्रतिपादयितुम्| सन्निपातजेऽसाध्यत्वमपि “सर्वात्मकः क्षतकृतश्च न सिद्धिमेति|” (सु. नि. अ. १०) इति वचनात्| तेन विकृतिविषमसमवेतत्वमस्य| चरके त्वन्तर्जबहिर्जभेदेन विसर्पः पठितः| यदाह– “मर्मोपघातात् सम्मोहादयनानां विघट्टनात्| तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्|| विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्| अतो विपर्ययाद्बाह्यमन्यं विद्यात् स्वलक्षणैः||” (च. चि. अ. २१) इति||४-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सर्वेषामेव रक्तादिदूष्यचतुष्टयजन्यत्वमाह– रक्तमित्यादि| विसर्पस्य समानसामग्रीकत्वेऽपि कुष्ठाद्भेदः कुष्ठाध्याय एव निरूपितः, दोषग्रहणेनैव वातादिग्रहणे सिद्धे मला इति यत् कृतं तदत्यर्थदुष्ट्या शरीरमलिनीकरणत्वं दोषाणां प्रतिपादयितुम्| लसीकाजलं, त्वक्शब्देनात्र रसस्य सप्तधातुषु क्लृप्तत्वात्| वातजं विसर्पमाह– तत्रेत्यादि| वातज्वरसमव्यथ इति ‘वेपथुर्विषमो वेगः’ इत्यादिकः| निस्तोदः शूलेन तुद्यत इव, भेदो विदीर्यत इव, अर्तिः पीडा, आयामो विस्तारवान्, हर्षो रोमहर्षः| पैत्तिकमाह– पित्तादित्यादि| द्रुतगतिः शीघ्रगतिः| पित्तज्वरलिङ्ग इति “वेगस्तीक्ष्णोऽतिसारः” इत्यादिकः| अतिलोहितोऽतिरिक्तः| कफजमाह– कफादित्यादि| कफज्वरसमान इति “स्तैमित्यं स्तिमितो वेगः” इत्यादिकः| सान्निपातिकमाह– सन्निपातेत्यादि| सर्वदोषलक्षणैर्युक्त इत्यर्थः| सन्निपातजेऽसाध्यत्वमुक्तं “सर्वात्मकः क्षतकृतश्च न सिद्धिमेति” इति वचनात्| तेन विकृतिविषमसमवेतत्वमस्य| चरके त्वन्तर्जबहिर्जभेदेन विसर्पः पठितः| यदाह– “मर्मोपतापात्सम्मोहादयनानां च घट्टनात्| तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्| विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्| अतो विपर्ययाद्बाह्यमन्यद्विद्यात्स्वलक्षणैः||” इति||४-७||

Adhikarana आग्नेयविसर्पलक्षणम् (८-१३) · Śloka १३

वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः | ग्रन्थिभेदाग्निसदनतमकारोचकैर्युतः ||८|| करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् | यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ||९|| शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते | अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ||१०|| मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः | व्यथतेऽङ्गं हरेत् सञ्ज्ञां निद्रां च श्वासमीरयेत् ||११|| हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना | क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ||१२|| चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् | दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ||१३|| (वा. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आग्नेयविसर्पमाह– वातपित्तादित्यादिना| दीप्ताङ्गारावकीर्णवदिति ज्वलदङ्गारेणैव व्याप्तमङ्गं मन्यते| शान्ताङ्गारासित इति निर्वाणाङ्गारवत् कृष्णवर्णः स देशो भवति| नीलो रक्तो वेति स देशः स्निग्धनीलो रक्तो वा भवति| अग्निदग्ध इवेति अग्निदग्धदेश इव| शीघ्रगत्वादिति शीघ्रकारित्वात्| मर्मानुसारी हृदयाद्यनुसारी| व्यथतेऽङ्गमित्यत्रान्तर्भावितो ण्यर्थः, तेन व्यथयतीत्यर्थः| निद्रां चेत्यत्र हरेदिति सम्बध्यते| शर्म सुखम्| दुष्प्रबोधोऽश्नुते निद्रामिति निद्रां मरणरूपां प्राप्नोति||८-१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातपित्तजमाग्नेयाख्यं विसर्पमाह– वातपित्तादिति| वातपित्तजोऽयं सञ्ज्ञेयः| ज्वरादिभिरुपद्रवैर्युतः| दीप्ताङ्गारावकीर्णवदिति ज्वलदङ्गारेणेव व्याप्तमङ्गं मन्यते| शान्ताङ्गारासित इति निर्वाणाङ्गारवत्कृष्णवर्णः, नीलः चाषपक्षिवद्वा रक्तो वा स देशो भवति| अग्निदग्ध इवेति आशु शीघ्रमग्निदग्ध इव स्फोटैरुपचीयते वृद्धिं नीयते, शीघ्रगत्वात् शीघ्रकारित्वात्, द्रुतं शीघ्रं, स विसर्पः, मर्मानुसारी हृदयानुसारी, अतीव बलवान् वातः| व्यथतेऽङ्गमिति अत्रान्तर्भावितो ण्यर्थः, तेन व्यथयतीत्यर्थः| निद्रां सञ्ज्ञां च हरेन्नाशयेत्| श्वासं हिक्कां च ईरयेत् प्रकोपयेत्| ईदृशीमवस्थां गतो ना पुरुषः, क्वचिच्छर्म सुखं न प्राप्नोति, केषु भूमिशय्यासनादिषु, स्वतः आत्मनैव, क्लिष्टः पीडितः, चेष्टमानो विद्धतां चेष्टां कुर्यात्, दुःखप्रबोधः मनोदेहश्रमोद्भवां निद्रां मरणरूपाम्, अश्नुते प्राप्नोति||८-१३||

Adhikarana ग्रन्थिविसर्पलक्षणम् (१४-१६) · Śloka १७

कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् | रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ||१४|| दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम् | ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् ||१५|| श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः | मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम् ||१६|| इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः |१७| (वा. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

ग्रन्थिविसर्पमाह– कफेन रुद्ध इत्यादि| कफेनेति स्वहेतुकुपितेन, पवनः स्वहेतुकुपितः, तेन कफमारुतजत्वमस्योपपन्नं भवति| भित्त्वा तं बहुधा कफमिति कफं विस्तार्य| रक्तं वेति दूषयित्वेत्यनेन वक्ष्यमाणेन सम्बध्यते| दीर्घाणुवृत्तस्थूलखरात्मनामिति वृत्तं वर्तुलं, स्थूलमुच्छूनं, खरं कठिनम्, एवंरूपाणां ग्रन्थीनां मालां करोति, अयं च ग्रन्थिविसर्पः सुश्रुतेऽपचीसञ्ज्ञया पठ्यते||१४-१६||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कफमारुतजं ग्रन्थिविसर्पमाह– कफेनेत्यादि| कफेन स्वहेतुकुपितेन, स्वहेतुकुपितः पवनः, कफं भित्त्वा विदार्य, रक्तं च दूषयित्वेत्यनेन वक्ष्यमाणेन सम्बध्यते, वृद्धरक्तस्य मनुष्यस्य| त्वक्सिरास्नायुमांसगमिति रक्तविशेषणम्| दीर्घाणुवृत्तस्थूलखरात्मनामिति अणु सूक्ष्मं, वृत्तं वर्तुलं, स्थूलमसूक्ष्मं, खरं कठिनम्, एवंरूपाणां ग्रन्थीनां मालां करोति||१४-१६||–

Adhikarana कर्दमविसर्पलक्षणम् (१७-२१) · Śloka २२

कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ||१७|| अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः | मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ||१८|| आमोपवेशनं लेपः स्रोतसां स च सर्पति | प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ||१९|| पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः | स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः ||२०|| गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते | पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः ||२१|| शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् |२२| (वा. नि. अ. १३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कर्दमविसर्पमाह– कफपित्तादित्यादि| स्तम्भ इति गात्रस्य स्तब्धता, आमोपवेशनमामस्य वर्चसस्त्यजनम्| स च सर्पति प्रायेणामाशयं गृह्णन्नेकदेशमिति कफपित्तयोरामाशयस्थत्वात् प्रायेणामाशये भवन्नेकदेशव्यापी भवतीत्यर्थः| पिडकैरिति पिडकाभिः| मलिन इति मलदिग्धः| गम्भीरपाक इत्यन्तःपाकः, प्राज्योष्मा प्रचुरोष्मा| स्पष्टस्नायुसिरागण इति पूतिमांसगलनेन स्नाय्वादीनां स्पष्टता| कर्दमाख्यमुशन्ति तमिति तं कर्दमसारूप्यात् कर्दमाख्यमिच्छन्ति||१७-२१||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कफपित्तात्मकं कर्दमविसर्पमाह– कफपित्तादयं ज्ञेयः| स्तम्भो गात्रस्य स्तब्धता, अङ्गावसादः अङ्गखेदः, विक्षेपः अङ्गानामितश्चेतश्च प्रेरणम्| इन्द्रियगौरवमिति चक्षुरादीनां गौरवम्| आमोपवेशनमित्यादि| आमस्य वर्चसस्त्यजनम्| लेपः स्रोतसां शुषिराणां लिप्तता श्लेष्मादिना| प्रायेणामाशयं गृह्णन्निति कफपित्तयोरामाशयस्थानत्वात्; प्रायेणामाशये भिन्नैकदेशव्यापी भवतीत्यर्थः| न चातिपीडाकरः| पिडकैः पिडकाभिरवकीर्णो व्याप्तः, किम्भूतैः अतिपीतलोहितपाण्डुरैः| असितः कृष्णः, मेचकाभः अञ्जनाभः, मलिनो मलदिग्धः| गम्भीरपाक इति अन्तःपाकः, प्राज्योष्मा प्रचुरोष्मा| स्फुटस्नायुसिरागण इति पूतिमांसापगमेन स्नाय्वादीनां स्फुटता| कर्दमाख्यमुशन्ति तं कर्दमसारूप्यात् कर्दमाख्यं कथयन्ति||१७-२१||

Adhikarana क्षतविसर्पलक्षणम् (२२-२४) · Śloka २४

बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ||२२|| वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् | स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ||२३|| (वा. नि. अ. १३) | ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः | अरोचकाविपाकौ च विसर्पाणामुपद्रवाः ||२४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्षतविसर्पमाह– बाह्यहेतोरित्यादि| अयं च पित्तजे विसर्पेऽन्तर्भावनीयः, तेन न सङ्ख्याधिक्यम्| तथा च भोजः– “शस्त्रप्रहारैस्तैस्तैस्तु व्याडदन्तनखैरपि| क्षते वाऽप्यथवा भग्ने बहुदोषस्य देहिनः|| रक्तं पित्तं च कुपितं व्रणमाशु प्रपद्यते| कुरुतस्ते समेते तु व्रणोत्सेधं सुदारुणम्|| आचितं तनुविस्फोटैः कृष्णैः पीतकसन्निभैः| पित्तवीसर्पवल्लिङ्गं तस्य शेषं विनिर्दिशेत्||” इति||२२-२४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

क्षतजमाह– बाह्यहेतोरित्यादि| श्यावलोहितं वर्णेन| अयं क्षतजो विसर्पः पित्तजेऽन्तर्भावनीयः, तेन न सङ्ख्याधिक्यम्| तथा च भोजः– “शस्त्रप्रहारैस्तैस्तैस्तु व्यालदन्तनखैरपि| क्षते वाऽप्यथ वा भग्ने बहुदोषस्य देहिनः|| रक्तं पित्तं च कुपितं व्रणमाशु प्रपद्यते| कुरुतस्ते समेते तु व्रणोत्सेधं सुदारुणम्|| आचितं व्रणविस्फोटैः कृष्णपीतसमन्वितैः| पित्तवीसर्पवल्लिङ्गं तस्य शेषं विनिर्देशेत्||” इति| विसर्पोपद्रवानाह– ज्वरेत्यादि| मांसदरणं मांसविदरणम्| शेषं सुगमम्||२२-२४||

Adhikarana विसर्पस्य साध्यासाध्यविचारः (२५) · Śloka २५

सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति | पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव ||२५|| (सु. नि. अ. १०) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

साध्यत्वादिकमाह– सिध्यन्तीत्यादि| पित्तात्मकोऽञ्जनवपुरिति अत्यन्तमुद्रिक्तपित्तोऽञ्जनसमवर्णतनुः, अग्निविसर्पाख्यो न साध्य इति व्याख्यानयन्ति| कृच्छ्राश्च मर्मस्विति असाध्यत्वेन कृच्छ्रत्वं बोद्धव्यम्| यदाह भोजः– “वर्ज्यस्तु क्षतजस्तेषां सन्निपातात्तु यो भवेत्| भिषजा जानता त्याज्याः सर्व एव तु मर्मजाः||” इति||२५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

साध्यासाध्यानाह– सिद्ध्यन्तीत्यादि| एकैकदोषजनितास्त्रयः साध्याः, त्रिदोषजः क्षतजश्चासाध्यः| पित्तात्मकोऽञ्जनवपुरिति पैत्तिको योऽत्यन्तमुद्रिक्तपित्तत्वादञ्जनसवर्णः सोऽसाध्यः, अग्निवीसर्पो न साध्यः; कृच्छ्राश्च मर्मस्विति असाध्यत्वं कृच्छ्रत्वेन बोद्धव्यम्| तथा च भोजः– “त्याज्यस्तु क्षतजस्तेषां सन्निपाताच्च यो भवेत्| भिषजा जानता त्याज्याः सर्व एव तु मर्मजाः||” इति||२५||

Adhikarana पुष्पिका · Śloka ५२

इति श्रीमाधवकरविरचिते माधवनिदाने विसर्पनिदानं समाप्तम् ||५२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विसर्पनिदानं समाप्तम्||५२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां विसर्पनिदानम्||५२||