Skip to content

५१. अम्लपित्तनिदानम्

Adhikarana अम्लपित्तस्य निदानपूर्वकं स्वरूपम् (१) · Śloka

अथाम्लपित्तनिदानम् | विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम् | पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कोठहेतौ पित्तश्लेष्मोल्लेखात् पित्तश्लेष्ममिलनरूपस्याम्लपित्तस्य निदानम्| निदानपूर्वकमम्लपित्तस्य स्वरूपमाह– विरुद्धेत्यादि| विरुद्धं क्षीरमत्स्यादि, दुष्टं व्यापन्नमन्नं; विदाहिस्थाने विदग्धेति पाठान्तरे विदग्धं भर्जितं; पित्तप्रकोपिपानान्नभुज इति पित्तप्रकोपि पानं तक्रसुरादि, अन्नमाशुधान्यमाषादि; पित्तप्रकोपिपानान्नग्रहणेनैवाम्लविदाहिनो ग्रहणे सिद्धे तदभिधानं विशेषार्थं; ‘पित्तप्रकोपणाद्यन्नभुज’ इति पाठान्तरे आदिशब्दात् कफादिप्रकोपणमन्नं गृह्यते| एवंविधपानान्नमुपभुञ्जानस्य विदग्धं कुपितं, स्वहेतूपचितं पुरा यदिति वर्षासु जलौषधिगतविदाहादिभिः स्वहेतुभिरुपचितं सञ्चयमापन्नम्| यदुक्तम्– “वर्षास्वम्लविपाकित्वादद्भिरौषधिभिस्तथा|” (च. चि. अ. ३) इति| विदाहाद्यम्लगुणोद्रिक्तं पित्तमम्लपित्तम्||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कोठहेतौ पित्तकफोल्लेखात् पित्तकफमिलितरूपस्याम्लपित्तस्यातोऽनन्तरं निदानम्| तत्र निदानपूर्वकमम्लपित्तस्य स्वरूपमाह– विरुद्धेत्यादि| विरुद्धं क्षीरमत्स्यादि, दुष्टं व्यापन्नमन्नम्| विदाहिस्थाने ‘विदग्ध’ इति पाठान्तरं, तत्र विदग्धं भर्जितम्| पित्तप्रकोपिपानान्नभुज इति पित्तप्रकोपि पानं तक्रसुरादि, अन्नमाशुधान्यमाषादि, ‘पित्तप्रकोपणाद्यन्नभुजः’ इति पाठान्तरे आदिशब्दात् कफादिप्रकोपणमन्नं गृह्यते, एवंविधपानान्नं भुञ्जानस्य विदग्धं कुपितं, स्वहेतूपचितं पुरा यदिति वर्षासु जलौषधिगतविदाहादिभिर्हेतुभिः उपचितं सञ्चयमापन्नं, यदुक्तम्– “वर्षास्वम्लविपाकित्वादद्भिरोषधिभिस्तथा” इति| पित्तप्रकोपिपानान्नग्रहणेनैवाम्लविदाहिनो ग्रहणे सिद्धे तदभिधानं विशेषार्थम्||१||

Adhikarana अम्लपित्तलक्षणम् (२) · Śloka

अविपाकक्लमोत्क्लेशतिक्ताम्लोद्गारगौरवैः | हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक् ||२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य लिङ्गमाह– अविपाकेत्यादि| अविपाक इत्याहारापाकः, क्लमोऽनायासजः श्रमः| अम्लपित्ते पित्तं प्रधानं, वातकफावप्यत्रानुगौ गौरवोद्गारकम्पादिना ज्ञेयौ||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य लिङ्गमाह– अविपाकेत्यादि| अविपाकः आहारापाकः, क्लमोऽनायासजः श्रमः, अम्लपित्ते पित्तं प्रधानं, वातकफावप्यत्रानुगौ गौरवोद्गारकम्पादिना ज्ञेयौ||२||

Adhikarana अधोगतस्याम्लपित्तस्य लक्षणम् (३) · Śloka

तृड्दाहमूर्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम् | हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ||३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य कदाचिदध-ऊर्ध्वगमनभेदाद्द्विविधस्याधोगतिं तावदाह– तृड्दाहेत्यादि| मूर्छा सर्वथा ज्ञानशून्यत्वं, मोहो विपरीतज्ञानम्| प्रयात्यधो वेत्यत्र वाशब्दो भाव्यूर्ध्वगमनापेक्षया| विविधप्रकारमिति हरित्पीतकृष्णरक्तादिबहुवर्णत्वदुर्गन्धित्वयोगान्नानाविधम्| कदाचिदिति न सर्वकालम्||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य कदाचित् कायोर्ध्वाधोगमनभेदाद्विविधस्याधोगतिं तावदाह– तृडित्यादि| अधो विविधप्रकारं कदाचित्प्रयाति, तथा तृड्दाहादिकारि, तथा हृल्लासादिकरं, मूर्छा सर्वथा ज्ञानशून्यत्वं, मोहोऽत्र विपरीतं ज्ञानम्| प्रयात्यधो वेत्यत्र वाशब्दो भाव्यूर्ध्वगमनापेक्षया; विविधप्रकारमिति हरितपीतकृष्णरक्तादिबहुवर्णत्वदुर्गन्धित्वयोगान्नानाविधम्| कदाचिदिति न सर्वकालम्||३||

Adhikarana ऊर्ध्वगस्याम्लपित्तस्य लक्षणम् (४-६) · Śloka

वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम् | मांसोदकाभं त्वतिपिच्छिलाच्छं श्लेष्मानुजातं विविधं रसेन ||४|| भुक्ते विदग्धे त्वथवाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित् | उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजं च ||५|| करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम् | जनयति कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयम् ||६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

ऊर्ध्वगतिमाह– वान्तमित्यादि| नीलं स्निग्धकृष्णं, कृष्णं मर्दनाञ्जनवद्रूक्षकृष्णम्, आरक्तमीषल्लोहितं, रक्तमन्तर्लोहितम्| मांसोदकाभमिति मांसधावनतोयाभं कृष्णलोहितमित्यर्थः| विविधं रसेनेति रसेन लवणकटुतिक्ताख्येन नानारूपम्| करोति तिक्ताम्लवमिमिति तिक्तस्य अम्लस्य वा वमिं वान्तिं करोति| उद्गारमेवंविधमेवेति अत्र करोतीति सम्बध्यते, एवंविधमिति अम्लतिक्तम्| कण्ठहृत्कुक्षिदाहं शिरसो रुजं चेति अत्रापि करोतीति सम्बध्यते| करचरणेत्यादि– कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयमिति कण्ड्वादिनिचितगात्रं च रोगचयं चेति द्वन्द्वः, तेन कण्ड्वादिनिचितगात्रं रोगचयं करोतीत्यर्थः; रोगचयोऽविपाकोत्क्लेशादिः||४-६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

ऊर्ध्वगतिमाह– वान्तमित्यादि| हरित् शाकपत्राभम्, नीलं चाषपक्षप्रभं स्निग्धकृष्णं, कृष्णम् अञ्जनाभम्, आरक्तम् ईषल्लोहितं, रक्तम् अत्यन्तलोहितं, मांसोदकाभं मांसधावनतोयाभम्, अच्छं निर्मलम्| विविधं रसेन लवणकटुतिक्ताख्येनानुरूपं करोति| आहारस्यावस्थामाह– भुक्त इत्यादि| भुक्ते आहारे विदग्धे अथवा कदाचिदभुक्तेऽपि सति तिक्ताम्लवमिं करोतीति सम्बध्यते| अम्लपित्ते कफपित्तवत्सामान्यमाह– करेत्यादि| कफपित्तं करचरणदाहादिकं जनयति, तथा कण्डूमण्डलपिडकाचितगात्ररोगनिचयमिति कण्ड्वादिनिचितगात्रं च रोगनिचयश्चेति द्वन्द्वः| तेन कण्ड्वादिनिचितगात्रं रोगचयं करोतीत्यर्थः| रोगचयः अविपाकोत्क्लेशादिः||४-६||

Adhikarana अम्लपित्तस्य साध्यत्वादिविचारः (७) · Śloka

रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः | चिरोत्थितो भवेद्याप्यः, कृच्छ्रसाध्यः स कस्यचित् ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

साध्यत्वादिकमाह– रोग इत्यादि| कृच्छ्रसाध्यः स कस्यचिदिति अहिताहाराचारशीलिनः कस्यचिच्चिरोत्थितोऽपि कृच्छ्रसाध्यः||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

साध्यत्वादिकमाह– रोग इत्यादि| अयमम्लपित्ताख्यो रोगो नवः सन् यत्नात्संसाध्यते, चिरोत्थितो याप्यो भवेत्| कस्यचिदित्यादि| अहिताहाराचारशीलिनः कस्यचिच्चिरोत्थितोऽपि कृच्छ्रसाध्य इत्यर्थः||७||

Adhikarana अम्लपित्ते दोषान्तरसंसर्गः, दोषभेदेनाम्लपित्तलक्षणानि च (८-१२) · Śloka १२

सानिलं सानिलकफं सकफं तच्च लक्षयेत् | दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ||८|| कम्पप्रलापमूर्छाचिमिचिमिगात्रावसादशूलानि | तमसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपात् ||९|| कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपाः | दहनबलसादकण्डूनिद्राश्चिह्नं कफानुगते ||१०|| उभयमिदमेव चिह्नं मारुतकफसम्भवे भवत्यम्ले | तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ||११|| भ्रमो मूर्छारुचिश्छर्दिरालस्यं च शिरोरुजा | प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ||१२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तत्रैव केवलानिलकफानिलकफमात्राणां संसर्गमाह– सानिलमित्यादि| भिषङ्मोहकरमिति तस्योर्ध्वाधःप्रवर्तमानत्वेन छर्द्यतीसाराभ्यां सकाशाद्भेदस्य दुर्ज्ञेयत्वात् वैद्यमोहकरत्वम्| कफेत्यादि– सादवमिलेपा इत्यत्र सादोऽङ्गसादः, लेपः श्लेष्मलिप्तास्यता| दहनबलसादेति सादशब्दो दहनबलाभ्यां सम्बध्यते||८-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्मिन्ननिलकफसंसर्गमाह– सानिलमित्यादि| तच्चाम्लपित्तं सानिलं सवातं, सानिलकफं सवातकफं लक्षयेत्| दोषलिङ्गेन वातपित्तकफलिङ्गेनेत्यर्थः| यतस्तद्भिषङ्मोहकरं वैद्यभ्रान्तिजनकं, तस्योर्ध्वाधःप्रवर्तमानत्वेन छर्द्यतीसाराभ्यां भेदस्य दुर्ज्ञेयत्वात्| सानिलस्याम्लपित्तस्य लक्षणमाह– कम्पेत्यादि| वातयुतेऽम्ले कम्पादयस्तथा तमोदर्शनादयो भवन्ति| कफानुगतस्य लक्षणमाह– कफेत्यादि| कफानुगतेऽम्ले कफनिष्ठीवनादिलिङ्गं स्यात्| सादवमिलेपा इति सादः अङ्गसादः, लेपः कफलिप्तास्यता| दहनबलसादेति सादशब्दो दहनबलाभ्यां सम्बन्ध्यते, अन्यत्सुगमम्||८-१२||

Adhikarana पुष्पिका · Śloka ५१

इति श्रीमाधवकरविरचिते माधवनिदानेऽम्लपित्तनिदानं समाप्तम् ||५१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायाम्लपित्तनिदानं समाप्तम्||५१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामम्लपित्तनिदानम्||५१||